न्यायसुधा · अध्याय 1.2
न्यायसुधा:
सकलवेदगतसमस्तनामवाच्यत्वादित्यर्थः ।
कथं तन्मात्रेण महागुणत्वम् ।
नाम्नां यौगिकत्वादपुनरुक्तितश्चेति ।
॥ इति श्रीमत्पूर्णप्रमतिभगवत्पादसुकृतेरनुव्याख्यानस्य प्रगुणजयतीर्थाख्ययतिना ।
कृतायां टीकायां विषमपदवाक्यार्थविवृतावयं पूर्वे ऽर्(वा)ध्याये प्रथमचरणः पर्यवसितः ॥
अध्यय 1, पद 2
*3,590*
॥ अथ प्रथमाध्यायस्य द्वितीयः पादः ॥
[======= ज्न्य्स्_1,2.इ: सर्वगतत्वाधिकरणम् =======]
द्वितीयपादस्य पूर्वोत्तरपादभेदस्य स्वस्मिन्नेकवाक्यतायाश्च सिद्धये प्रतिपाद्यमर्थं दर्शयति- लिङ्गात्मकानामिति ॥
लिङ्गात्मकानां शब्दानां वृत्तिर्नारायणे परे ।
चिन्त्यते ... ॥ मनुव्_1,2.1अ-च् ॥
न्यायसुधा:
लिङ्गं धर्मः स आत्मेवात्मा प्रवृत्तिनिमित्तं येषां ते लिङ्गात्मकाः ।
स्वरूपार्थो वाऽत्मशब्दः ।
निमित्तनिमित्तिनोरभेदोपचारात् ।
सकलवेदगतानामन्यत्रप्रसिद्धानामिति शेषः ।
*3,592*
नन्वतीतपादे समन्विता अपि लिङ्गात्मका एव ।
यौगिकत्वात् ।
अन्यथा गुणपूर्त्यलाभेन समन्वयसमर्थनवैयर्थ्यात् ।
नच प्रकरणगतगुणलाभेन सार्थक्यात् ।
वचनवृत्त्यङ्गीकारवैफल्यात् ।
उक्तं च यच्छब्दा योगवृत्तय इति ।
तत्कथमयं विभागः ।
सत्यम् ।
तथाप्यन्यत्रप्रसिद्धत्वादिवदापातप्रतीत्यनुरोधेनेयमुक्तिरित्यदोषः ।
वृत्तिर्लक्षणादिरपि भवतीत्यतः परे मुख्यार्थ इत्युक्तम् ।
तथाच मुख्यवृत्तिरिति लभ्यते ।
चिन्त्यते समर्थ्यते ऽस्मिन्पाद इति शेषः ।
*3,594*
॥ ओं सर्वत्रप्रसिद्धोपदेशात् ओं ॥
केचिन्मनोमयः प्राणशरीरो भारूप इत्युक्तं मनोमयत्वादिनोपास्यत्वं परमात्मनः प्रतिपादयितुमिदमधिकरणमिति व्याचक्षते ।
तदसदित्याशयवानाह- सर्वगत्वमिति ॥
सर्वत्र प्रसिद्धोपदेशात्
... सर्वगत्वं तु प्रथमं प्रविचार्यते
न्यायसुधा:
तुशब्दो ऽवधारणे ।
एतमस्यामेतं दिवीत्यादिवाक्योक्तं सवर्गतत्वमेवात्र पादे प्रथमं परमेश्वरस्य समर्थ्यते ।
नतु मनोमयत्वादिनोपास्यत्वमित्यर्थः ।
सत्यकामत्वादिपरमेश्वरधर्माणां स्फुटप्रतिभासत्वेन सन्देहाद्यनुपपत्तेरिति भावः ।
ननु मनोमयत्वादयः शारीरधर्मा अपि प्रतीयन्त इति चेन्न ।
तेषामानन्दमयाधिकरणन्यायेन सावकाशत्वात् ।
चरमप्रतीतेनापि निरवकाशेन प्रथमप्रतीतस्य सावकाशस्यान्यथात्वोपपत्तेः ।
*3,596*
ननु कथं तर्ह्यस्माकमपि चक्षुर्मयत्वादीनि पूर्वपक्षप्रापकाणि ।
उच्यते ।
हेत्वन्तरेण पूर्वपक्षे सत्यभ्युच्चयमात्रत्वेन तेषामुपन्यासः ।
यथा परस्येक्षत्यधिकरणे प्रायपाठे निरस्ते ऽप्यभ्युच्चयमात्रत्वेन प्राणाधिकरणे तदुपन्यासः ।
*3,598*
सर्वगतत्वप्रतिपादनस्य प्रकृतोपयोगं दशर्यति- तत्रेति ॥
तत्र तत्र स्थितो विष्णुस्तत्तच्छक्तिप्रबोधकः
*3,599*
न्यायसुधा:
प्रबोधनं कार्याभिमुखीकरणम् ।
तत्किं दूरे स्थितः शक्तिप्रबोधने न शक्तो येन तत्रतत्र तिष्ठतीत्यत उक्तम्- दूरतो ऽपीति ॥
दूरतो ऽप्यतिरिक्तः स लीलया केवलं प्रभुः
इति ज्ञापयितुं ...
न्यायसुधा:
यद्यपि स प्रभुर्विष्णुर्दूरतो ऽपि तत्तच्छक्तिप्रबोधने ऽतिशक्तस्तथापि केवलं लीलया तत्रतत्र स्थितस्तत्तत्तच्छक्तीनां प्रबोधको भवतीति ज्ञापयितुं सर्वगतत्वमिह प्रविचार्यत इति सम्बन्धः ।
एतदुक्तं भवति ।
स्वनिर्गमप्रवेशाभ्यां देहपातनोत्थापनमित्याद्या मुख्यप्राणादिशक्तयस्तदन्तर्गतभगवदायत्ता इति प्रागुक्तम् ।
तदनुपपन्नम् ।
भगवतः सर्वगतत्वाभावात् ।
शास्त्रैकसमधिगम्यं खलु (हि) तत् ।
शास्त्रं चैतमस्यामित्यादिकमन्यपरमित्याशङ्कयोक्तार्थसमर्थनाय सर्वगतत्वमत्र हरेरुपपद्यत इति ।
अथवा न सर्वगतत्वं हरेरुपपादनीयम् ।
तस्यानन्दादिवत्स्रष्टृत्वादिवद्वा गुणत्वाभावादित्याशङ्कय न सवर्गतत्वं नाम सर्वसंयोगित्वमात्रमिह विवक्षितम् ।
किं नाम तत्तच्छक्तिप्रेरकत्वेन ।
अतस्तदुपपादनमुपपद्यत इत्यनेनोच्यते ।
अथवा न सर्वगतत्वमत्र प्रतिपादनीयम् ।
अदृश्यत्वाद्यधिकरणे तस्य प्रतिपादयिष्यमाणत्वादित्याशङ्कय तत्र सवर्गतत्वमात्रमत्र तु तत्तच्छक्तिप्रबोधकत्वमिति तात्पर्यभेदो ऽनेनोच्यते ।
अथवा अन्तर्याम्यधिकरणे पृथिव्यादिषु स्थितेवर्क्ष्यमाणत्वान्नेदमारम्भणीयमित्याशङ्कयात्र शक्तिप्रेरकत्वेन तत्र तु सत्तादिप्रदत्वेन तत्तदन्तर्गतत्वमुच्यत इत्यनेनाचष्टे ।
अथवा अन्तःस्थत्वाधिकरणेनेदं गतार्थमित्याशङ्कय तत्र चन्द्रादिकतिपयपदार्थान्तरस्थितत्वम् अत्र तु सर्वपदार्थान्तर्गतत्वमभिधीयत इति प्रतिपाद्यभेदमेतेनाह ।
अथवा ।
सर्वगतत्वं नाम सर्वमूर्त(द्रव्यसंयोगित्वं वा) परममहत्परिमाणयोगित्वं वा (सु)प्रसिद्धम् ।
तदत्र यदि साध्यं स्यात्तदा ऽर्भकौकस्त्वादित्याक्षेपानुपपत्तिरदृश्यत्वाद्यधिकरणेन गतार्थता ए(?)चेत्याशङ्कय सर्वगतत्वमन्यथानेन व्याचष्टे ।
*3,601*
तत्तच्छक्तिप्रबोधक इति कथम् ।
कर्तरि चेति समासप्रतिषेधात् ।
न ।
याजकादिभिश्चेति प्रतिप्रसवात् ।
यद्वा ।
प्रकृष्टो बोधो यस्मादिति वा पचाद्यजन्तत्वेन वा प्रबोधः ।
शक्तीनां प्रबोधः शक्तिप्रबोधः ।
ततश्च"अज्ञातःऽ; इति कप्रत्यय इति ।
*3,604*
अत्र सूत्रम्- कर्मकर्तृव्यपदेशाच्चेति ॥
अस्यार्थः ।
आत्मानं परस्मै शंसतीति शंसनक्रियायामात्मनः सर्वगतस्य कर्मत्वेन शरीरस्य कर्तृत्वेन व्यपदेशाच्च न शारीरो ऽयं सर्वगतः ।
एकस्यां क्रियायां कर्मकर्त्रोरेकत्वायोगात् ।
नहि देवदत्तः छिदायां कर्ता कर्मापि भवतीति ।
तत्र किं कर्मकर्तृभावो भेदव्याप्त उत नेति ।
नाद्यः ।
नियामकाभावेन व्याप्तेरनिश्चयात् ।
स्यादेतत् ।
क्रियाश्रयः कर्तेति तावत्प्रसिद्धम् ।
परसमवेतक्रियाजन्यफलशालिकमरेत्युच्यते ।
यथा देवदत्तसमवेतगतिक्रियाफलसंयोगशाली ग्रामः ।
क्रियाफलशालित्वेनैव कर्मत्वे संयोगशालिनो देवदत्तस्यापि तत्प्रसङ्गः ।
तथात्वे च देवदत्तं ग्रामं गच्छतीति द्वितीया स्यात् ।
अतो लक्षणविरोधात्कर्मकर्त्रोर्भेदो नियत इति ।
*3,606f.*
मैवम् ।
यतो देवदत्तो ग्रामं गच्छति तस्यापि देवदत्तसमवेतगतिक्रियाफलविभागशालित्वेन कर्मत्वप्रसङ्गात् ।
तथाच देवदत्तः कौशाम्बीं पाटलीपुत्रं गच्छतीति प्रयोगः स्यात् ।
किं चानागतादिविषयेच्छादिक्रियाफलशालित्वमनागतादेर्नास्तीति तत्कर्मत्वं न स्यात् ।
नहि तदभावे तत्र फलोत्पादः सम्भवति ।
मा भूदिति चेन्न ।
इच्छादीनां सकर्मकत्वव्याघातात् ।
तद्वाचिनो द्वितीयानुपपत्तिप्रसङ्ग(गश्च)गाच्च ।
वर्तमाने ऽपि घटादौ न ज्ञानादिजन्यं फलमुपलभ्यते ।
तथाहि ।
न तावज्ज्ञातता ।
निराकरिष्यमाणत्वात् ।
इच्छादीनां तदजनकत्वाच्च ।
नापि संस्कारादिकम् ।
तस्यात्मन्येवोत्पादात् ।
नापि व्यवहारः ।
व्यवहारादिरूपस्य तस्य कर्तृनिष्ठत्वात् ।
उपादानादिरूपस्योपेक्षणीयाव्याप्तेः ।
तस्मात्क्रियास्वातन्तृयं कर्तृत्वम् ।
तद्विषयत्वं च कर्मत्वमिति वाच्यम् ।
नच तयोः कमपि विरोधं पश्यामः ।
अन्यथा कर्मकर्तापि दुर्लभः स्यात् ।
किं चास्ति तावत्कारकान्तरसमावेशः ।
कांस्यपातृयाभुङ्क्ते कांस्यपातृयां भुङ्क्त इत्यादिप्रयोगदर्शनात् ।
तथा कर्मकर्त्रोरपि समावेशे को विरोधः ।
*3,610f.*
ननु च दृश्यते तावत्कर्मकर्त्रोर्भेदः ।
नच व्यभिचारो दृश्यते ।
तेन व्याप्तिनिश्चय इति ।
मैवम् ।
दर्शनादर्शनमात्रस्य व्याप्त्यनिश्चायकताया वक्ष्यमाणत्वात् ।
नच व्यभिचारादर्शनमपि ।
मामहं जानामीति तद्दर्शनात् ।
अन्यथा(ऽऽत्म)साक्षात्कारानुपपत्तिप्रसङ्गात् ।
नच नित्यानुमेय एवात्मा ।
साक्षात्कारस्यापन्होतुमशक्यत्वात् ।
कश्चिदाह मानसप्रत्यक्षावसेयो ऽयमात्मा ।
तथापि कर्तृतैवास्य, न कर्मता ।
आत्मकर्तृके ऽहंप्रत्यये प्रतिभासमात्रेण तदापरोक्ष्यसिद्धेरिति ।
तत् कर्मतातिरिक्तानिरुक्तेः ।
रिक्तमेव वचनम् ।
किं चाहमितिप्रत्ययः सकर्मको न वा ।
नेति पक्षो ऽनुभवविरुद्धः ।
जानातेः सदा सकर्मकत्वावचभासाच्च ।
आद्ये किमस्य कर्मेति वक्तव्यम् ।
न तावदात्मातिरिक्तम् ।
घटादावहंप्रत्ययादर्शनात् ।
आत्मसम्बन्धि सुखादिकमिति चेन्न ।
तन्मात्र(स्य) कर्मतायामात्मासिद्धिप्रसङ्गात् ।
अहं सुखमित्यादिव्यवहारप्रसङ्गाच्च ।
अथ ज्ञानाश्रयः कर्ता सुखादिविशिष्टः कर्मेति चेत्, (न) ।
आगतं तर्ह्यंशतः कर्मकत्रोरैक्यम् ।
किं च युञ्जानस्य निरुपाधिकमात्मानं पश्यतो ऽहंप्रत्ययो नान्यकर्मक इत्यकर्मको वाऽत्मकर्मको वाभ्युपगन्तव्यः ।
गत्यन्तराभावात् ।
*3,614*
अपरस्तु घटादिसन्निकृष्टेन चक्षुरादिनोपजनितं विज्ञानं त्रितयप्रकाशरूपं कर्मतया विषयम् ।
स्वप्रकाशतया स्वरूपम् ।
आश्रयतयाऽत्मानं व्यवस्थापयतीति नात्मनः कर्मता, नापि तत्साक्षात्कारासिद्धिरित्याह ।
स प्रष्टव्यः ।
किमिदं ज्ञानस्य स्वप्रकाशत्वं नामेति ।
स्वकर्मकप्रकाशत्वमिति चेत् ।
तर्हि वृश्चिकभिया पलायमानस्याशीविषमुखे निपातः ।
यत्स्वलक्षरमात्राधीनविरोधं कर्मकर्तृभावं परिहर्तुं सर्वलोकावसितविरोधं क्रियाकमर्भावमभ्युपैति ।
क्रिया हि कर्मकारकजन्येष्यते ।
नच जन्यजनकयोरेकतोचिता ।
अन्तर्भावितपूर्वापरभावित्वात्तस्याः ।
नच तदेव स्वात्मानं प्रति पूर्वमपरं चेति युज्यते ।
प्रकाशान्तरानपेक्षसिद्ध(द्धि)त्वं स्वप्रकाशत्वमिति चेन्न ।
घटादेरपि स्वप्रकाशतापातात् ।
नहि घटादयः स्वसिद्धौ प्रकाशान्तरमपेक्षन्ते, किं नाम प्रकाशमेव ।
स्वातिरिक्तप्रकाशानपेक्षसिद्ध(द्धि)त्वमिति चेन्न ।
स्वापेक्षाभावेन स्वातिरिक्तविशेषणवैयर्थ्यात् ।
प्रकाशानपेक्षसिद्धत्वमिति चेन्न ।
व्व्याघातात् ।
शशविषाणादेरपि (एवं) सिद्धिप्रसङ्गाच्च ।
स्वव्यवहारहेतुप्रकाशत्वमिति चेन्न ।
स्वविषय एव व्यवहारहेतुत्वदर्शनेनास्वविषयस्य
स्वव्यवहारहेतुतानुपपत्तेः ।
तद्गुणसंविज्ञानबहुव्रीह्यादिकं तु नोदाहरण(णीय)म् ।
गुणस्यापि समासविषयताङ्गीकारात् ।
*3,616f.*
किञ्चात्मा न चाक्षुषज्ञाने ऽवभासते ।
अरूपिद्रव्यत्वादाकाशवत् ।
अन्यथा रूपित्वप्रसङ्गः ।
कमर्तया प्रकाशे रूपोपयोग इति चेन्न ।
प्रकाशमानं कर्मतयैव प्रकाशत इति वदन्तं प्रति विशेषणवैयर्थ्यात् ।
एतेनानुमाने ऽपि प्रयोजकान्तराशङ्का निरस्ता ।
किं चात्मा यदि तदविषयो ऽपि तत्र प्रकाशते ।
हन्त तर्हि रूपज्ञाने रसो ऽपि कस्मान्न प्रकाशते ।
अनाश्रयत्वादिति चेत् ।
तत् किं यावज्ज्ञानसम्बन्धि ज्ञाने प्रकाशते, किंवाऽश्रय एव ।
आद्ये चक्षुरादावतिप्रसङ्गः ।
द्वितीये ऽपि नियामकं वाच्यम् ।
नहि घटो ऽयमित्यात्मावभासते ।
घटमहं जानामीतिप्रत्ययस्तु घटज्ञानविशिष्टात्मकर्मको ऽन्य एव ।
आत्मसिद्धिस्तु कर्मतयापि भविष्यतीति ।
एतेन स्वप्रकाशतयाऽत्मसिद्धिरपि परास्ता ।
स्वकमर्कप्रकाशवत्त्वतद्रूपत्वातिरिक्तयास्तस्या निरूपयितुमशक्यत्वात् ।
तदेवं कर्तृकर्मभावो न भेदव्याप्त इति सिद्धम् ।
*3,620*
कर्मकर्तृव्यपदेशाच् च
तथाच कथं हेतुत्वेनोपादानमित्यत आह- कर्मेति ॥
... कर्मकर्त्रोरुत्सर्गतो भिदा
न्यायसुधा:
यावेकस्यां क्रियायां कर्मकर्तारौ तयोर्भेद इत्यस्त्येव व्याप्तिः ।
किं त्वौत्सर्गिकी ।
नतु धूमस्येवाग्निना सङ्कोचानर्हेत्यर्थः ।
ततः किं लब्धमिति चेद्दोषद्वयं परिहृतमिति क्रमेणाह- अभेदो ऽपीति ॥
अभेदो ऽपि विशेषे स्याद् बली सो ऽप्यनपोदितः
*3,620f.*
न्यायसुधा:
यस्मात्कर्मकर्त्रोरुत्सर्गत एव भिदा, तस्माद्विशिनष्टि स्वविषयमुत्सर्गविषयाद्वयवच्छिनत्तीति विशेषो ऽपवादस्तस्मिन्सत्यभेदो ऽपि स्यात् ।
तथाच मामहं जानामी(त्याद्यु)त्युपपन्नं भवति ।
यतश्चोत्सर्गो ऽप्यपवादाभावे बली स्वसाध्यसाधने समर्थः ।
न चास्ति प्रकृते ऽपवादः ।
तस्मादत्र हेतुत्वेनोपदानमपि युज्यते ।
यथा हि न हिंस्यात्सर्वा भूतानीत्यौत्सर्गिको भूतहिंसानिषेधो ऽग्नीषोमीयपशुहिंसाविधिनापोद्यते ।
भवति चानपोदिते ब्रह्महिंसाद्यकरणीयत्वे प्रमाणम् ।
नन्वेवं तर्हि प्रमेयत्वानित्यत्वयोरप्येवं वक्तुं शक्यत एव ।
प्रमेयत्वस्यानित्यत्वेनौत्सर्गिकी व्याप्तिः ।
अपवादेन त्वाकाशादौ नित्यत्वम् ।
अपवादाभावाच्छब्दादावनित्यत्वसाधकतेति ।
ततश्चानैकान्तिकतोच्छेदः स्यात् ।
मैवम् ।
सामान्यविषयेण हि प्रमाणेनार्थे प्रतीते सति विशेषविषयेणापवादो भवति ।
ततश्च सर्वतः प्रसक्ता बुद्धिस्तद्विषयं परित्यज्यान्यत्र विश्राम्यति ।
नच सर्वभूतहिंसानिषेधस्येव प्रमेयत्वानित्यत्वव्याप्तेः केनापि प्रमाणेन प्राप्तिरस्ति ।
किं नाम प्रमेयत्वं, नित्यत्वानित्यत्वाभ्यां सहव्यवस्थितमेवोपलभ्यत सति न तत्र(अपि) उत्सर्गापवादन्यायस्यावकाशः ।
एवं तर्हि कर्मर्कतृभावो ऽपि भेदाभेदाभ्यां सह व्यवस्थित एवोपलब्ध इति कथमत्राप्युत्सर्गापवादन्यायस्यावकाशः ।
मैवम् ।
प्रत्यक्तवपराक्तवरूपो हि कर्तृकर्मभावः ।
स तावदापाततो विरोधाद्भेदेन घटनीयो वा विशेषेण वा ।
तत्र भेदो मुख्यः, विशेषस्तु प्रतिनिधिरित्युक्तम् ।
नच मुख्यप्रतिनिध्योः समकक्ष्यतया प्रतिभासो भवति ।
अतो भेदः सामान्यतः प्राप्नोति विशेषस्त्वपवादेनेति युक्तमुक्तम् ।
यथा चानुगतसामान्याभावे ऽप्युत्सर्गापवादन्यायसम्भवस्तथा वक्ष्यामः ।
सोपाधिकसम्बन्धस्य साधनाङ्गताभाववत् सोपाधिकव्यभिचारस्यापि न दूषणाङ्गत्वमिति किमत्रालौकिकम् ।
वक्ष्यते चैतदिति ।
*3,624*
सर्वगतत्वमत्राधिकरणे प्रतिपाद्यत इत्युक्तम् ।
तत्किं तन्मात्रमुतान्योपलक्षणम् ।
आद्ये सूत्राणां विश्वतोमुखत्वहानिः ।
शास्त्रापर्यवसानं चापद्येत ।
द्वितीये तूपाधिर्वक्तव्यः ।
अन्यथाधिकरणान्तराभावप्रसङ्गादित्यतः प्रथमाधिकरणोपाधिं वदन्प्रसङ्गात्सर्वाधिकरणोपाधीनाह- एतदिति ॥
एतद् भावाभिधं लिङ्गं क्रियालिङ्गे ततः परम् ।
अन्तर्याम्यन्तरश्चेति क्रियाभावाख्यमुच्यते
अदृश्यत्वाद्यभावाख्यं श्रुतिर्लिङ्गाधिका परा
न्यायसुधा:
एतत्सर्वगतत्वं भावाभिधं सत्ताभिधम् ।
यावन्तः शब्दाः क्वचित्प्रतीके स्थितिवाचिनस्ते सर्वे ऽप्यनेनोपलक्ष्यन्त इत्यर्थः ।
एवमुत्तरत्रापि ज्ञातव्यम् ।
क्रिये च ते लिङ्गे च ।
ततः प्रथमाधिकरणात्परं द्वाभ्याम्"अत्ता चराचरग्रहणात्ऽ,"गुहां प्रविष्यावात्मानौ हि तद्दर्शनात्ऽ; इत्येताभ्यामधिकरणाभ्यां चिन्त्येते ।
नन्वेकमधिकरणं व्यर्थम् ।
न व्यर्थम् ।
अ(भ्य)धिकाशङ्कया प्रत्यवस्थानात् ।
"अन्तर उपपत्तेःऽ; इत्यन्तर्याम्यधिदैवादिषु तद्धर्मव्यपदेशात्ऽ; इति चाधिकरणद्वयेन क्रियाप्रधानकभावाख्यं लिङ्गमुच्यते प्रतिपाद्यते ।
अत्रापि पूर्ववन्नान्यतराधिकरणवैयर्थ्यम् ।
अत एव क्रिया क्रियया भावो भावेन व्याख्यायत इति परास्तम् ।
"अदृश्यत्वादिगुणको धर्मोक्तेःऽ; इत्यत्रोक्तमदृश्यत्वादिलिङ्गमभावाख्यम् ।
परा परस्मिन्"वैश्वानरः साधारणशब्दविशेषात्ऽ; इत्यधिकरणे प्रतिपाद्या श्रुतिर्नाम न तु लिङ्गम् ।
तर्हि पादान्तर्भावो न सम्भवतीत्यत उक्तम्- लिङ्गाधिकेति ॥
लिङान्यधिकानि समानाधिकरणानि यया सा लिङ्गाधिकेति ।
यथा प्रथमपादे ऽन्तस्तद्धर्मोपदेशादिति लिङ्गनिर्णयो बहुनामसमन्वयलाभार्थः तथा बहुलिङ्गसमन्वयलाभार्थो नामविचारो ऽत्र न विरुद्धयत इति ।
साक्षात्प्रकर(ण)णिनिष्ठत्वात् श्रुतेरुपादानं चोपपद्यते ।
सा च सूक्तादिव्यावर्तकाग्न्यादिशब्दोपलक्षणमिति ज्ञातव्यम् ।
॥ इति सर्वगतत्वाधिकरणम् ॥
[======= ज्न्य्स्_1,2.इइ: अत्तृत्वाधिकरणम् =======]
*3,628*
॥ अथ अत्तृत्वाधिकरणम् ॥
॥ ओं अत्ता चराचरग्रहणात् ओं ॥
अत्ता चराचरग्रहणात्
अत्र"यस्य ब्रह्म च क्षत्रं चोभे भवत ओदनः ।
मृत्युर्यस्योपसेचनं क इत्था वेद यत्र सःऽ; इति वाक्यमुदाहृत्य, अत्तारं केचिद्वृत्तिकारा विचारितवन्तः ।
तद्विहाय"स यद्यदेवासृजत तत्तदत्तुमध्रियतेऽ; इति वाक्यमुदाहृत्य अत्तारं व्यचीचरद्भगवान् भाष्यकारः ।
कश्चात्र विशेषः ।
उच्यते ।
अत्र"अत्तुमध्रियतेऽ,"अत्तिऽ; इति च अत्ता साक्षात्प्रतीयते ।
तत्र तु ओदनोपसेचनपदाभ्यामुपलक्षणीयः ।
अद(दि)धात्वनुगतिश्चात्र ।
न चोपलक्षिते नियमो ऽस्ति ।
किञ्च चराचरग्रहणादिति हेतुरत्र सर्वं वात्तीति कण्ठोक्तः ।
तत्र तु ब्रह्मक्षत्रमृत्युपदैश्चराचरस्योपलक्षणमित्यस्ति महान्विशेषः ।
नन्वेवं तर्हि श्रुत्यनुगमाय सर्वग्रहणादिति कुतो न कृतम् ।
अस्ति प्रयोजनं चराचरग्रहणस्य ।
सर्वग्रहणादित्युक्ते शक्नोति पूर्ववादी वदितुम् ।
अदितिरपि सर्वस्य स्वभोज्यस्यान्नपानादेर्भोक्त्रीति ।
तत्र नायं सर्वशब्दः सङ्कुचितवृत्तिः ।
किं नाम"स तया वाचाऽ; इत्यादिपूर्ववाक्यपर्यालोचनया चराचरवाचीति वक्तव्यम् ।
तदेतदनेन द्योतयतीति ।
*3,630*
यदस्मिन्नध्याये समन्वीयते तत्सर्वं लक्षणत्वेन प्रकृतमित्यानन्दमयाधिकरणान्ते ऽभिहितम्, लक्षणं च लक्ष्येण ब्रह्मणाभिन्नमिति लक्षणसूत्रे प्रतिपादितम् ।
अत्र च क्रियालिङ्गसमन्वय इत्युक्तम् ।
तथाचादनादिक्रियाणां परमेश्वरस्वरूपत्वमुक्तमिति तदाक्षिपति- अनित्यत्वादिति ॥
अनित्यत्वात् क्रियाणां तु कथमेव स्वरूपता
न्यायसुधा:
तुशब्दः सर्वगतत्वादिव्यवच्छेदार्थः ।
सो ऽपि चोद्यस्यात्रावकाशसम्भावनार्थः ।
कथमित्याक्षेपे ।
कथमेव न कथञ्चिदपीत्यर्थः ।
स्वरूपता परमेश्वरस्वरूपता ।
परमेश्वरस्य हि नित्यत्वं जन्मादिसूत्रलब्धम् ।
स्वयमनित्यस्य सकलकारणत्वानुपपत्तेः ।
यत्खलु यस्य जनकं न तस्यासौ जनको, यच्च तस्य विनाशकं न तस्यासौ विनाशक इति ।
क्रियाणां त्वनित्यत्वं सुप्रसिद्धम् ।
तथा च नित्यानित्ययोः कथमभेदः स्यात् ।
विरुद्धधर्माध्यासस्य भावभेदाव्यभिचारात् ।
अन्यथा जगति भेदाभावप्रसङ्गात् ।
ततो यदि नाम सर्वगतत्वादीनां यावद्द्रव्यभाविनामभेदः तथापि न क्रियाणामसौ युज्यत इति ।
*3,632*
परिहरति- इति चेदिति ॥
इति चेत् स विशेषो ऽपि क्रियाशक्तयात्मना स्थिरः
*3,632f.*
न्यायसुधा:
नेत्यध्याहारः ।
कुतः ।
न केवलमीश्वरः स्थिरो ऽपि तु स तदीयो विशेषो धर्मो ऽपि क्रियारूपः स्थितरो यत इति शेषः ।
अत्र(तु) क्रियास्थिरेत्येतावदेव वक्तव्यं विशेष इति तु क्रियायाः परमेश्वरैक्ये ऽप्युक्तवक्ष्यमाणन्यायेन तद्धर्मतयाप्यङ्गीकरणीयेति ज्ञापयितुम् ।
न केवलं स विशेषः सर्वगतत्वादिः स्थिरः, किन्तु क्रियापि पारमेश्वरी स्थिरा यत इति वा योज्यम् ।
अनेन क्रियाया अपि नित्यत्वप्रतिज्ञानेन विरुद्धधर्माध्यासस्यासिद्धिरुक्ता ।
तथाहि ।
ईश्वरस्य संहरणादिक्रियाणामनित्यत्वं किं प्रमाणबलादङ्गीक्रियते, उत नित्यत्वे बाधकसद्भावात्, अथवा तत्साधकप्रमाणाभावात् ।
नाद्यः ।
ईश्वरस्य तत्क्रियायाश्च अप्रत्यक्षत्वेन तदनित्यत्वस्य प्रत्यक्षेण प्रत्येतुमशक्यत्वात् ।
लिङ्गाभावेनानुमानानुपपत्तेः ।
क्रियात्वं लिङ्गमिति चेत्, तत्किं धात्वर्थत्वम् परिस्पन्दत्वं वा ।
नाद्यः ।
ज्ञानेच्छाप्रयत्नैः सत्तया च व्यभिचारात् ।
न द्वितीयः ।
सर्वक्रियाणामपरिस्पन्दत्वेन भागासिद्धत्वात् ।
ईश्वरपरिस्पन्दपक्षीकारेत्वाश्रयासिद्धेः ।
परेण तस्यानङ्गीकृतत्वात् ।
अङ्गीकारे ऽप्यनैकान्त्यम् ।
क्वचिदनीश्वरपरिस्पन्दानामपि नित्यत्वस्य वक्ष्यमाणत्वात् ।
क्रियात्वस्य नित्यत्वेन विना वृत्तौ बाधकाभावादप्रयोजकता च ।
कार्यत्वेन सोपाधिकत्वं च ।
तस्यापि साधने बाधः ।
प्रमाणस्य वक्ष्यमाणत्वात् ।
असत्यावरणादौ प्रागूर्ध्वं चानुपलम्भो लिङ्गमिति चेत् ।
अनुपलम्भः किं प्रत्यक्षेणोत प्रमाणमात्रेण ।
नाद्यः ।
योग्यतया विशेषणे ऽसिद्धेः ।
अन्यथा गगनादिना व्यभिचारात् ।
द्वितीये त्वसिद्धिः ।
आगमादिनोपलब्धेः ।
एतेनावरणाद्यभावे सति कदाचिदेवोलब्धिरपि प्रत्युक्ता ।
वर्णनित्यत्ववादे ऽनैकान्त्याच्च ।
किञ्च नित्यो ऽपि ईश्वरपरिस्पन्दः कदाचिदभिव्यक्तेः कदाचिदेवोपलभ्यत इत्यङ्गीकारे न बाधकं पश्यामः ।
व्यक्तिरप्यादिग्रहणेन गृह्यत इति चेन्न ।
सन्दिग्धविशेषणासिद्धेः ।
अस्तु तर्हि फलानुपलम्भो लिङ्गमिति चेन्न ।
सर्वथानुपम्भस्यासिद्धत्वात् ।
न हीश्वरपरिस्पन्दक्रिया कदापि न संयोगविभागलक्षणं फलं जनयतीति युज्यते ।
तथा सति परिस्पन्दत्वानुपपत्तेः ।
नित्यसंयोगविभागजन्मानुपलब्धेरिति चेन्न ।
नित्यगुणादिना व्यभिचारात् ।
कदाचिदेव संयोगादिजन्म विवक्षितमिति चेत् ।
तथापि गगनादिना व्यभिचारः ।
कदाचिदेव संयोगाद्यसमवायिकारणत्वमस्त्विति चेन्न ।
कदाचिदिति विशेषणवैयर्थ्यात् ।
तत्परित्यागे ऽप्यसमवायिकारणत्वस्य दुर्निरूपत्वेनासिद्धेः ।
*3,638*
किञ्च द्वितन्तुकारम्भके(वयवे)तन्तौ कर्मोत्पन्नं तन्त्वन्तराद्विभागं करोति ।
ततो द्वितन्तुकारम्भकसंयोगविनाशः ।
तन्नाशे द्वितन्तुकविनाशः ।
अथेदानीं तन्तोः कार्यसंयुक्तप्रदेशविभागः ।
ततश्चोत्तरदेशसंयोगः ।
तस्मात्कर्मणो विनाश इति परेषां प्रक्रिया ।
एवं च यथानेककालवर्तिन्यपि क्रिया कदाचित्संयोगाद्यारभते न यावत्सत्त्वम् ।
तथा नित्यापि कदाचित्संयोगाद्यारभतां को विरोधः ।
सामान्यवत्त्वे सत्यस्मदादिबाह्येन्द्रियग्राह्यत्वं हेतुरस्त्विति चेन्न ।
विशेष्यासिद्धेः ।
बाह्येन्द्रियग्राह्यसजातीयत्वस्य परमाण्वादौ व्यभिचारात् ।
किञ्च वर्णनित्यत्वे स्फुटो ऽस्य व्यभिचारः ।
नाप्यागमादीश्वरक्रियानित्यतावगतिः ।
स हीश्वरक्रियानित्येत्येवमात्मको वा, स इमान्लोकानसृजतेत्येवमात्मको वा ।
आद्यस्तु नोपलभ्यते ।
द्वितीयस्तु स ऐक्षत सो ऽकामयतेत्यादिना तुल्यः ।
तत्र यदि क्रियाया अनित्यत्वं, ज्ञानादेरपि कुतो न भवेदिति ।
अस्तु तर्हि नित्यत्वे बाधकसद्भावादिति द्वितीयः पक्षः ।
तथा हि ।
यदि सृष्टिसमये ऽपि संहारक्रिया विद्येत तदा तथैव श्रुत्यादावुपलभ्येत ।
जननविनाशौ च घटस्य युगपत्प्रसज्येयाताम् ।
किञ्च यदीश्वरक्रिया नित्या स्यात्तर्हि क्रियायाः संयोगविभागौ प्रति अनपेक्षकारणत्वात्तदुत्पत्तिसातत्यप्रसङ्गः ।
अपि चेश्वरक्रिया संयोगविभागौ करोति न वा ।
नेति पक्षे क्रियात्वं व्याहन्येत ।
आद्ये ऽपि किं स्वसत्तोत्तरक्षणे उत विरम्य ।
नाद्यः ।
स्वसत्ताया इदं प्रथमताभावेन संयोगादिविशेषस्य विवक्षितक्षणादपि पूर्वमुत्पत्तिप्रसङ्गात् ।
न द्वितीयः ।
पूर्वोत्तरावस्थयोरविशिष्टस्य विरम्यव्यापारायोगात् ।
उत्तरसंयोगस्य कर्मविनाशकत्वेन कृतसंयोगस्य कर्मणो ऽवस्थानानुपपत्तेश्चेत्यत उक्तं शक्तयात्मनेति ।
अयमर्थः ।
तत्तत्कार्यजननशक्तिरेव क्रियेत्युच्यते ।
अतः तेन रूपेण स्थिरा सा यदा व्यज्यते तदा व्यवहारालम्बनं तत्तत्कार्यजननी च भवतीति न कश्चिद्दोष इति ।
क्रिया शक्तयात्मना व्यक्तिशक्तिरूपेण कारणेनेति वा ।
*3,641*
ननु केयं शक्तेर्व्यक्तिर्नाम ।
न तावत्प्रतीतिः ।
ईश्वरापेक्षया नित्यसिद्धत्वेनोक्तदोषानुशक्तेः ।
परापेक्षया कदाप्यभावात् ।
भावे ऽपि कार्योत्पादस्य तदनपेक्षत्वात् ।
अत एव नावरणनिवृत्तिर्व्यक्तिरिति ।
मैवम् ।
व्यक्तिशब्देन शक्तेरेवावस्थाविशेषस्य विवक्षितत्वात् ।
तत्र यत्तावदुक्तम् ।
यदि सृष्टिसमये ऽपि संहारक्रिया स्यात्तदा तथा व्यवह्रियेतेति ।
तदसत् ।
व्यक्तिरूपेणैव व्यवहारालम्बनत्वात् ।
यदपि जननविनाशौ युगपत्स्यातामिति तदपि व्यक्तयवस्थायामेव शक्तेर्जनकत्वादनुपपन्नम् ।
यच्च क्रियाया नित्यत्वे संयोगविभागोत्पत्तिसातत्यप्रसञ्जनं तदप्येवमेव परिहृतम् ।
किंचैवं पटसामग्षाः पटोत्पत्तावनपेक्ष(कारण)त्वात्पटोत्पत्तिसातत्यं स्यात् ।
ननु किं सामग्री तमेव पटं पुनर्जनयतु(येत्), उत पटान्तरम् ।
नाद्यः ।
पटप्रागभावस्यापि सामग्रीनिविष्टत्वात्तस्य च पटोत्पत्त्या विनष्टत्वेन सामग्षा विकलत्वात् ।
न द्वितीयः ।
पूर्वपटेन प्रतिबद्धत्वात् ।
तत्कथं पटोत्पत्तिसातत्यम् ।
सत्यम् ।
सममेतत्प्रकृते ऽपीति ।
यदपीश्वरक्रिया संयोगविभागौ करोति न वेति पृष्ठम् ।
तत्र करोतीति ब्रूमः ।
कुवर्न्ती च विरम्यैव ।
नच तदनुपपत्तिः ।
व्यक्तया विशिष्टत्वात् ।
अन्यथावयवक्रियाप्युत्तरदेशसंयोगं स्वोत्पत्त्युत्तरक्षण एव कुर्यात् ।
नच कृतसंयोगस्य कर्मणो ऽवस्थानानुपपत्तिः ।
अनित्यक्रियासु तद्वयवस्थोपपत्तेः ।
*3,643*
ननु संहारकाले क्रिया व्यक्ता (अथ) न वा ।
न चेत्कथं तत्र व्यवहारो ऽर्थक्रिया वा ।
आद्ये कथं सृष्टिव्यवहाराद्यभावः ।
मैवम् ।
व्यक्तेरप्यवान्तरानन्तविशेषवत्ताङ्गीकारात् ।
तदिदमुक्तम्- सविशेषो ऽपीति ॥
एवमनङ्गीकारे परेषामपि समानः प्रसङ्गः ।
पारमेश्वरस्य ज्ञानेच्छाप्रयत्नलक्षणस्य संहारव्यापारस्य नित्यत्वात् ।
नित्यमपि परमेश्वरेच्छादिकं सहकारिसद्भाव एव कार्यकारीति चेन्न ।
सहकारिणमपि नित्यत्वात्, परमेश्वरेच्छाद्यायत्तत्वाच्च ।
नेच्छादिमात्रं संहारादिकारणं किन्तु सञ्जिहीर्षादिकम् उत संहारादिविशेषविशिष्टं तदेव ।
नाद्यः ।
अनभ्युपगमात् ।
तत एव संहारादिसिद्धाविच्छादिकल्पनावैयर्थ्याच्च ।
सञ्जिहीर्षादेश्च नित्यानित्यविकल्पानुपपत्तेः ।
न द्वितीयः ।
सति संहारादौ सञ्जिहीर्षादिकं ततः संहारादिरिति परस्पराश्रयप्रसङ्गात् ।
नच स्वरूपसता संहारादिनेच्छादिकमुपधीयते ।
किन्तु विषयभूतेनेति चेत् ।
संहारादिविषयता किमागन्तुकी, अथवा नित्येति वक्तव्यम् ।
नाद्यः ।
गुणेष्वागन्तुकधर्मोत्पत्तेरनभ्युपगमात् ।
द्वितीये तु सर्वदा संहारादिप्रसङ्गः ।
तस्माच्छक्तिव्यक्तिरूपता सर्वथानुसरणीया ।
सा च समा क्रियायामपीति ।
*3,646*
ननु पारमेश्वरी ज्ञानादिलक्षणा संहारादिक्रिया परेणापि नित्येत्यङ्गीकृतम् ।
परिस्पन्दलक्षणा तु नास्त्येव ।
तस्माद्वयर्थो ऽयं प्रयत्नः ।
मैवम् ।
परिस्पन्दाभावे प्रमाणाभावात् ।
परममहत्परिमाणमस्तीति चेत्, न, अणु मध्यमपरिमाणाभ्यां सत्प्रतिपक्षत्वात् ।
नच, ते न स्तः ।
परममहत्त्वे ऽपि तथा वक्तुं शक्यत्वात् ।
"अणोरणीयान्महतो महीयान् इति द्वयोरपि श्रौतत्वात् ।
अणोरणीयस्त्वमप्रत्यक्षत्वोपलक्षणमिति चेत् ।
महतो महत्त्वमपि परमपूज्यत्वमिति किं न स्यात् ।
विरोधादुभयाङ्गीकारो नोचित इति चेत् तर्हि प्रथमप्राप्तत्वादणुत्वमेव ग्राह्यम् ।
परिहरिष्यते चायं विरोध इति ।
*3,648*
शक्तिता व्यक्तिता चेति विशेषो ऽपि ...
न्यायसुधा:
ननु (च)क्रियायाः शक्तिव्यक्तिरूपे परस्परं भिन्ने ऽभिन्ने वा ।
आद्ये शक्तिरेव नित्या क्रियात्वनित्येत्यापन्नम् ।
द्वितीये त्वनिवृत्तः सदा व्यवहारादिप्रसङ्ग इत्यत आह- शक्तितेति ।
अभिन्ने एव शक्तिव्यक्ती ।
न चोक्तदोषः ।
यतस्तत्र शक्तितेति व्यक्तितेति च विशेषो ऽप्यस्ति ।
सच भेदकार्यनिर्वाहक इति च प्रागेवोक्तमिति ।
स च विशेषः परस्परं विशेषिणा च यदि भिन्नः, तदा शक्तिव्यक्तयोरपि किं भेदो न स्यात् ।
अथाभिन्नः पुनर्व्यवहारादिसाङ्कर्यमित्यत आह- विशेषवानिति ॥
... विशेषवान्
अभिन्नो ऽपि ...
न्यायसुधा:
विशेष इत्यनुवर्तते ।
अभिन्न एवायं विशेष इति ब्रूमः ।
न चोक्तानुपपत्तिः ।
यतो ऽभिन्नो ऽपि विशेषवानङ्गीक्रियते ।
स्वनिवर्हक(?) इत्यर्थः ।
नन्वेवमन्यत्रापि क्रियाया नित्यत्वमङ्गीकतर्व्यम् ।
शक्तिव्यक्तिस्वीकारेण सकलदोषपरिहारादिति चेत् ।
अङ्गीक्रियतां यदि तन्नित्यतायां प्रमाणमस्ति ।
सति निर्बाधे प्रमाणे, तद्विपरीतव्यवहारेषु च तदन्यथानुपपत्त्या कल्पनैषा भवति ।
नच घटादिक्रियाया नित्यत्वे निर्बाधं प्रमाणमस्ति ।
अस्ति तु परमेश्वरादिक्रियाया नित्यत्वे तदित्याह- क्रियादिश्चेति ॥
... क्रियादिश्च स्वभाव इति हि श्रुतिः
न्यायसुधा:
एतेन तृतीयो ऽपि निर(परा)स्तः ।
"परास्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया चऽ; इति श्रुतिमनेनोपलक्षयति ।
स्वाभाविकीउयावद्द्रव्यभाविनी ।
अत्र स्पष्टां च श्रुतिमाह- ज्ञानमिति ॥
ज्ञानं नित्यं क्रिया नित्या बलं शक्तिः परात्मनः
*3,649*
इति पैङ्गिश्रुतिश्चाह ...
न्यायसुधा:
अथवा पूर्वा श्रुतिः शक्तिरेव क्रियेत्यत्र पठिता उत्तरा तु क्रियाया नित्यत्वे ।
यद्वा, पूर्वा स्वरूपत्वे ।
तस्य विवादास्पदत्वात्(त्वे) ।
द्वितीया तु तद्धेतौ नित्यत्व इति ।
अस्त्वेवमीश्वरक्रिया नित्या ।
अन्यक्रिया किमनित्यैवेत्यतो विवेकं प्रमाणान्तरेण दर्शयति- शक्तीति ॥
... शक्तिसद्भाव एव तु ।
क्रियादिनित्यता ज्ञेया तदन्यत्र त्वनित्यता ॥ मनुव्_1,2.8ब्-द् ॥
इति सत्तत्त्ववचनं ...
न्यायसुधा:
सद्भावे=नित्यत्वे ।
आदिपदेन ज्ञानादिग्रहणम् ।
अथवा नित्यतेति स्थायित्वमुच्यते ।
ततश्च ज्ञानक्रियादिशक्तिः यावत्कालभाविनी तावत्कालभावि ज्ञानादिकमपीत्युक्तं भवति ।
*3,351f.*
स्वरूपसहकारिसमवधानातिरिक्ता शक्तिरेव नास्तीति केचित् ।
तेषामुदाहृतश्रुत्यादिविरोधः ।
नच तत्स्वरूपमात्रम् ।
सम्बन्धितया प्रतीतेः ।
नापि सहकारिपरम् ।
स्वाभाविकत्वादिश्रवणात् ।
किं चास्ति तावदित्थं व्यवहारः ।
स्फोटादिकार्यं प्रति शक्तिमानपि दहनो देहसंयोगादिसहकारिविरहात् न तदजीजनदिति ।
तत्र न तावच्छक्तिशब्देन वह्निस्वरूपमात्रमुच्यते ।
मतुपो वैयर्थ्यप्रसङ्गात् ।
नापि सहकारिसमवधानं तदभावस्योक्तत्वात् ।
दहनत्वसामान्यमेव शक्तिरिति चेत् ।
कथं तर्हि स्वरूपसहकारिसमवधानातिरिक्ता नास्ति ।
सामान्यमपि सहकारिवर्गान्तर्गतमिति चेत् ।
तत्किं प्रत्यक्षमप्रत्यक्षं वा ।
आद्ये दहनदर्शने स्फोटजननशक्तिजिज्ञासा न स्यात् ।
न द्वितीयः ।
अपसिद्धान्तापातात् ।
तथाभ्युपगमे वा सैव शक्तिरस्माकम् ।
किञ्च मृत्तन्त्वादिस्वरूपं प्रत्यक्षादिसिद्धम् ।
तस्य घटादिकारणत्वं तु अन्ववव्यतिरेकसमधिगम्यम् ।
अन्वयव्यतिरेकग्रहणोपायश्च सामान्यम् ।
तच्च प्रत्यक्षादिसिद्धमिति परेणापि स्वीकृतम् ।
नच कारणत्वं स्वरूपं, सहकारिसमवधानं वा ।
स्वरूपस्यान्वयव्यतिरेकानपेक्षाधिगतत्वात् ।
कारणस्यैव सहकारिसमवधानान्वेषणात् ।
ततो ऽतीन्द्रियमेव किञ्चिन्मृदादीनां घटादिकारणत्वमभ्युपगमनीयम् ।
तदेव शक्तिरिति शक्तिवादिभिरभ्युपेयत इत्यास्तां प्रपञ्चः ।
*3,656*
ननु च क्रियायां किं प्रमाणम् ।
प्रत्यक्षद्रव्यवर्तिन्यां प्रत्यक्षमेवेति ब्रूमः ।
चलतीत्यपरोक्षावभासदर्शनात् ।
इन्द्रियव्यापारान्वयव्यतिरेकानुसारित्वात् चलतिप्रत्ययस्य ।
अन्यथा रूपादेरप्यप्रत्यक्षत्वापातात् ।
अथ मतम् ।
न कर्म प्रत्यक्षम्, प्रत्यक्षेण गच्छति द्रव्ये विभागसंयोगातिरिक्तविशेषानुपलब्धेः ।
यस्त्वयं गच्छतीति प्रत्ययः, स संयोगविभागानुमितक्रियालम्बनः ।
अनुमापकसंयोगविभागावगर्माथर्श्चेन्द्रियव्यापार इति ।
तदयुक्तम् ।
क्रियाप्रतीतेरनुमितित्वं इन्द्रियव्यापारस्य चान्यत्रोपक्षीणत्वं अप्रत्यक्षतायां प्रमाणतः सिद्धायां कल्प्यते अन्यथा वा ।
नाद्यः ।
प्रमाणाभावात् ।
यदुक्तमनुपलब्धेरिति ।
तदसिद्धम् ।
वाद्यसिद्धेः ।
न ह्यपरोक्षावभासमङ्गीकुर्वाणो ऽनुपलब्धेरित्येतावता शक्यो बोधयितुम् ।
घटादावपि तथा प्रसङ्गात् ।
विवादपदं कर्म, अप्रत्यक्षं कर्मत्वात्परमाणुकर्मवदिति चेन्न ।
परमाणुकर्मणो ऽप्यस्माभिर्योगिप्रत्यक्षताङ्गीकारात् ।
तदर्थमस्मदादीति विशेषणोपादाने परस्य वैयर्थ्यम् ।
किञ्च विवादपदं रूपम् अप्रत्यक्षं, रूपत्वात्, परमाणुरूपवदिति किं न स्यात् ।
प्रतीतिविरोधान्नेति चेत् ।
समं प्रकृते ऽपि ।
अनुमानविरुद्धा कमर्प्रत्यक्षताप्रतीतिः अप्रमेति चेत् ।
रूपप्रत्यक्षताप्रतीतिरपि तथास्तु ।
प्रतीतिविरुद्धे ऽर्थे ऽनुमानमेव नोदेतेतीति चेत् ।
एतदपि तुल्यम् ।
*3,658*
अथ ब्रूषे ।
परमाणुरूपस्याप्रत्यक्षतायामाश्रयामहत्त्वं प्रयोजकमिति ।
तन्न ।
परमाणोरपि महत्त्वस्य वक्ष्यमाणत्वात् ।
किं च परमाणुकर्माप्रत्यक्षतायामपि तदेव प्रयोजकं किं न कल्प्यम् ।
यदि तर्हि कर्म प्रत्यक्षम्, एकस्यामपि कर्मव्यक्तावुत्पन्नायां चलतीतिप्रत्ययः स्यात्, इति चेत् ।
न, संयोगविभागयोरपि तुल्यत्वात् ।
तथाच न कर्मानुमानमपि स्यात् ।
अथ मन्यसे सेनावनादिवत् संयोगविभागयोः प्रत्यक्षतोपपत्तिरिति ।
तर्हि कर्मणो ऽपि तथा किं न स्यात् ।
न द्वितीयः ।
तन्तवो न प्रत्यक्षाः किन्तु पटकार्यानुमेयाः ।
पटग्रहण एव च इन्द्रियव्यापारोपयोग इत्यपि कल्पनाप्रसङ्गात् ।
*3,660f.*
अपि(?) च संयोगविभागौ द्वयाश्रयाविति परस्य मतम् ।
अस्माकमपि संयोगविभागद्वयं द्वयाश्रयमिति ।
ताभ्यां चानुमीयमानं कर्मोभयत्रानुमातव्यम् ।
तथाच श्येन इव स्थाणावपि चलतीतिप्रत्ययप्रसङ्गः ।
अथोच्येत, न क्रिया स्थाणावनुमीयते, किं नाम श्येन एव ।
निपततः श्येनस्य पूर्वदेशविभागोत्पत्तौ उत्पततश्चोत्तरदेशसंयोगजनने स्थाणुकर्मणः कारणतायोगात् ।
श्येने तु कर्मण्यनुमिते, तस्योपपद्येते देशान्तरसंयोगविभागाविति ।
तदनुपपन्नम् ।
स्थाणुकर्मणा हि श्येनस्य देशान्तरसंयोगविभागोत्पत्त्यनुपपत्तौ कर्मान्तरमेव तदनुगुणं श्येने कल्पनीयं स्यात् ।
स्थाणुकर्मानुमानस्य तु कुतो निवृत्तिः ।
यद्गतं हि कार्यमुपलभ्यते तद्गतं कारणमपीत्यौत्सर्गिको न्यायः ।
श्येनकर्मणैव कल्पितेन सर्वस्योपपत्तौ न स्थाणुकर्मोपयोग इति चेन्न ।
विकल्पानुपपत्तेः ।
तथाहि, किं व्याप्तिपक्षधर्मतावदप्युपयोगे सत्येव लिङ्गमनुमापकं इत्येतावत्यनुमानसामग्री, उत व्याप्तिपक्षधर्मतावत्त्वमात्रम् ।
नाद्यः, अकार्यकारणानुमानोच्छेदप्रसङ्गात् ।
किञ्च यो येननाविनाभूतः स क्वचिदुपलभ्यमानो ऽनुपयोगात्तं न गमयतीत्यलौकिकम् ।
द्वितीये तु कथं न स्थाणौ कर्मानुमानम् ।
अनुमितमपि कल्पनागौरवभयादपनीयत इति चेत्(न) प्रमाणसिद्धे ऽर्थे तद्भयाभावात् ।
*3,663f.*
नन्वीश्वरानुमाने ऽपि अनेकेश्वरकल्पना एवं सति स्यात् ।
न स्यात् ।
वैषम्यात् ।
कार्यत्वं हि क्षित्यादीनां कर्तृत्वमात्रमवगमयत्तदेकत्वानेकत्वयोरुदासीनमेव ।
ततस्तदनेकत्वशङ्कायां कल्पनागौरवपराहतायामेकत्वे पर्यवस्यति ।
इह तु संयोगविभागलक्षणेन कार्येण स्थाणावेव कर्मण्यनुमिते कथं कल्पनागौरवेण तदपनयनम् ।
अथोच्येत ।
अन्यथाप्युपपत्तेर्न स्थाणौ कर्मानुमानं, न चायमर्थापत्तिदोषो नानुमानस्येति वाच्यम् ।
अन्यथाप्युपपत्तिशङ्कायामनुमाने ऽपि व्याप्तिसन्देहापत्तेरिति, तदनुपपन्नम् ।
अत्र हि स्थाणौ प्रतीतौ संयोगविभागावकारणकावेव स्यातामिति वा शङ्कनीयम् ।
श्येनगतेनैव कर्मणा भवेतामिति वा ।
नाद्यः, व्याहतायाः शङ्काया अनुत्थानात् ।
न द्वितीयः, तत्तदवयवगतपरित्यागेनान्यगतस्य कारणतायाः क्वाप्यनुपलब्धत्वेन निर्मूलायाः शङ्काया अनुदयात् ।
कर्मैव तथा विधमुपलब्धमिति चेन्न ।
तस्येदानीं कल्पयमानत्वात् ।
प्रत्यक्षकर्मवादे तु नायं दोषः ।
प्रतिपन्नतत्स्वभावानुसरणसम्भवात् ।
किञ्च संयोगादिना क्रियानुमाने यावत्सत्त्वं चलति प्रत्ययप्रसङ्गः ।
संयोगेन क्रियाविनाशान्नेति चेन्न ।
क्रियानाशस्याप्यप्रत्यक्षतावादे दुरवबोधत्वात् ।
नहि कार्यजन्म कारणविनाशेन व्याप्तम् ।
येन संयोगोत्पत्त्या कर्मविनाशो ऽनुमीयेत ।
पटोत्पत्तावपि तन्तुसंयोगादेरविनाशात् ।
नापि संयोगजननं क्वापि कर्मविनाशाविनाभूतमनुभूतम् ।
कर्मावस्थाने सदा संयोगाद्युदयसमासत्तिरिति चेत् ।
तत्किं यावत् कारणं तावत् कार्यान्तरजननम् ।
मा हि भूत् यावत्तन्तुसंयोगसद्भावं पटपरम्परोत्पादः ।
यावत्कर्मसद्भावं संयोगोत्पादस्तु न निश्चितः ।
अपि चाप्रत्यक्षे व्योम्नि संयोगविभागावपि अप्रत्यक्षाविति पतति पतत्री गगन इति प्रत्ययो न स्यात् ।
वियति विततालोकावयविनि बहुविहगविभागसंयोगनिबन्धनो ऽसौ प्रत्यय इति चेत् ।
तथापि दीपिकाऽलोकगतिप्रतीतेरशक्यत्वापरिहारात् ।
*3,667f.*
किं चान्धकारे नयनादि(परि)स्पन्दप्रतिभासो दुर्घटः स्यात् ।
यदि च मार्तण्डमण्डलस्येव देवदत्तस्यापि गतिरनुमेया स्यात् तदोभयत्रापि चलतिप्रत्ययः स्यात् ।
न वा कुत्रचित् ।
विशेषकारणाभावात् ।
अपि च कार्मकारणादेव संयोगविभागोत्पत्त्युपपत्तौ किं मध्ये कर्मकल्पनयेत्यनवकॢप्तिरेव कर्मणः ।
न संयोगाद्युत्पत्तिः कर्मकारणात्सम्भवति ।
तस्य संयोगविशेषादेः स्वाश्रये तत्समवेते वा कार्यारम्भकत्वस्यान्यत्र निश्चितत्वात् ।
शरीरात्मसंयोगो हि शरीरकर्मकारणम् ।
कथं तस्माच्छरीराकाशदेशसंयोगविभागौ भवतः ।
एवमन्यत्रापि द्रष्टव्यमिति ।
मैवम् ।
तथा सति संयोगविशेषादेः कर्मकारणत्वस्याप्यभावप्रसङ्गात् ।
नहि परस्परं तन्तुसंयोगस्य क्रियाहेतुत्वमस्ति ।
संयोगमात्रस्य तदभावे ऽपि तद्विशेषस्य स्यादिति चेत्, तर्हि तथैव परत्रारम्भकत्वमपि कुतो न स्यात् ।
किं चैवं सति कर्मणो ऽपि कथमाश्रयाश्रयिसमवेतपरित्यागेनान्यत्र संयोगादिजनकत्वम् ।
तस्य तथाविधकार्यगम्यस्य तथैव प्रमितत्वादिति चेत् ।
कर्मकारणस्यैवायमवान्तरभेदमाश्रित्य स्वभावः कल्प्यताम् ।
धर्मकल्पनात्खलु धर्मिकल्पना गरीयसी ।
तस्मात्प्रत्यक्षाश्रितं कर्म प्रत्यक्षमेवेति स्थितम् ।
॥ इति श्रीमन्न्यायसुधायां अत्तृत्वाधिकरणम् ॥
[======= ज्न्य्स्_1,2.इइइ: गुहाधिकरणम् =======]
*3,672*
॥ अथ श्रीमन्न्यायसुधायां गुहाधिकरणम् ॥
॥ ओं गुहां प्रविष्यावात्मानौ हि तद्दर्शनात् ओं ॥
गुहां प्रविष्टाव् आत्मानौ हि तद्दर्शनात्
ऋतं पिबन्ताविति वाक्यं किं जीवेश्वरौ प्रतिपादयति किंवा परमेश्वरमेवेति संशये जीवेश्वराविति तावत्प्राप्तम् ।
कुतः ।
द्विवचनात् ।
न चानन्दमयाधिकरणन्यायेण परिहारः ।
बाधकाभावात् ।
कर्मफलभोगानुपपत्तेश्च ।
जीवेश्वरपक्षे तु छत्रिन्यायेनोपचारो भविष्यतीत्येवं प्राप्ते परमात्मानमेकमेव प्रतिपादयतीदं वाक्यं, गुहानिहितालिङ्गत्वात् ब्रह्मशब्देन विशेषणाच्चेति सिद्धान्तितम् ।
तत्र कर्मफलभोगो भगवता भाष्ये प्रतिपादितः ।
द्विवचनस्य तु न स्पष्टं परिहारो ऽभिहितः, अतः तत्परिहारार्थमाह- द्वित्वं चेति ॥
... द्वित्वं चैकस्य युज्यते
न्यायसुधा:
एतदुक्तं भवति ।
परमेश्वरमात्रग्रहणे द्विवचनानुपपत्तिं वदन्पृष्टव्यः ।
कथमनुपपत्तिरिति ।
द्विवचनं भेदाभिधायि ।
नच परमात्मनि स्वगतभेदो युज्यत इति चेन्न, द्विवचनस्य भेदाभिधायित्वे ऽनुशासनाभावात् ।
अथ द्वित्वसङ्खया द्विवचनाभिधेया, सा च परमात्मन्यभेदेन एकत्वसङ्खयया च विरुद्धयत इति चेत्, न ।
अभेदेनैकत्ववत्येव घटे द्रव्यान्तरसहिते द्वित्वदर्शनात् ।
अथ द्वित्वं द्रव्यान्तरविधुरस्य न युज्यते विरोधादिति मतम् ।
तत्रेदमुपतिष्ठते ।
न केवलं संसारधर्महीनस्यर् कमफलभोगो युज्यते ।
किन्तु द्वित्वं चैकस्य निर्भेदस्य एकत्वाधारमात्रस्य च युज्यते ।
*3,674*
कथमित्यपेक्षायां तत्प्रदशर्नाय विशेषणाच्चेति सूत्रं प्रकारान्तरेण व्याचष्टे- यः सेतुरिति ॥
विशेषणाच् च
यः सेतुरिति चैकत्ववचनेन विशेषणात्
न्यायसुधा:
द्वित्वस्याभेदैकत्वाभ्यां न तावद्भावाभावलक्षणो विरोधः ।
तद्भावाभावात् ।
नापि वध्यधातुकभावः ।
सहावस्थानप्रसङ्गात् ।
तादात्म्याभावस्तु प्रकृते नोपयुज्यते ।
अतः सहानवस्थानमेव वक्तव्यम् ।
तस्य च नियमेन परस्परपरिहारेणापलम्भो बीजम् ।
न चासावस्ति ।
"ऋतं पिबन्तौऽ; इति द्विवचनविषयतया प्रकृतयोर्द्वित्वाधारयोः"यः सेतुःऽ; इत्येकवचनेन च विशेषणात् ।
अभेदैकत्वाधारतावगमादिति यावत् ।
न चात्रेकस्यैव ग्रहणम् ।
व्यावर्तकाभावादिति ।
एतेनैदपि प्रत्युक्तम् ।
"यत्परेण बुद्धिजीवाविति पूर्वपक्षयित्वा जीवेश्वराविति सिद्धान्तितम्ऽ; ।
तथा हि,"तत्तु समन्वयात्ऽ; इति परमात्मन्येव समन्वयं प्रतिज्ञातवता सूत्रकारेण स एव विवरणवाक्यैः प्रपञ्चनीयः ।
जीवेश्वरयोरस्य वाक्यस्य समन्वयं प्रतिपादयन्प्रक्रमं जह्यात् ।
बाधके सति नायं दोष इति चेन्न ।
तदनिरूपणात् ।
द्विवचनमिति चेत् ।
तर्हि जीवेश्वराङ्गीकारो ऽपि न स्यात् ।
तयोरैक्याङ्गीकारात् ।
काल्पनिको ऽस्ति तयोर्भेद इति चेत् ।
तर्हीश्वरस्यैवाद्भुताचिन्त्यैश्वर्यवशाद् द्विरूपत्वेन द्वित्वमुपपद्यताम् ।
तथा च प्रक्रमानुगुणं सूत्रं स्यात् ।
तत्त्वावेदकं च शास्त्रमिति ।
नन्वेकवचनेनेति वक्तव्यम् ।
एकत्ववचनेनेति कथम् ।
एकत्वादिसङ्खयाहि प्रत्ययार्थः ।
यथोक्तम् ।
"द्वयेकयोर्द्विवचनैकवचनेऽ; इति ।
द्वित्वैकत्वयोरित्यर्थः ।
अन्यथा द्वयेकेष्विति स्यात् ।
तस्मादेकत्वस्य वचनमेकत्ववचनमित्येव युक्तम् ।
अन्यत्रापि भावप्रधानो निर्देशः प्रतिपत्तव्य इति ।
॥ इति श्रीमन्न्यायसुधायां गुहाधिकरणम् ॥
[======= ज्न्य्स्_1,2.इव्: अन्तराधिकरणम् =======]
*3,677*
॥ अथ श्रीमन्न्यायसुधायां अन्तराधिकरणम् ॥
॥ ओं अन्तर उपपत्तेः ओं ॥
अन्तर उपपत्तेः
अत्र क्रियाभावरूपलिङ्गसमन्वयश्चिन्त्यत इत्युक्तम् ।
तदयुक्तम् ।
सूत्रे भावस्यैव प्रतिज्ञानात् क्रियया अनुक्तेरित्यतो ऽन्तरशब्दमुभयार्थतया व्याख्याति- अन्तरिति ॥
अन्तः स्थित्वा रमणकृदन्तरः समुदाहृतः ।
रमणं चात्मशब्देनादेयं मातीति चोच्यते
न्यायसुधा:
अन्तःशब्दोपपदाद्रमतेर्ञमन्ताड्ड इति डः ।
उणादयो बहुलमित्युपपदलोपः ।
विवक्षितं चैतत्सूत्रकारस्य ।
अन्यथा"अन्तस्तद्धर्मोपदेशात्ऽ; इतिवत् अन्तरुपपत्तेरित्यवक्ष्यत् ।
लघु चैवं सति सूत्रं स्यात् ।
अन्तर इति कुर्वन्निममेवार्थं प्रतिजानीत इति ।
ननु च"य एषो ऽन्तरि()क्षणि पुरुषो दृश्यते, एष आत्मेति होवाचऽ; इत्येतदत्रोदाहरणवाक्यम् ।
अत्र चाक्षिस्थ एव प्रतीयते ।
न तस्य रमणकर्तृत्वम् ।
श्रुत्युक्तमेव सूत्रैः प्रतिज्ञातव्यम् ।
तत्कथं श्रुतावनुक्तं रमणकर्तृत्वं सूत्रकृता प्रतिज्ञायत इत्यत आह- रमणं चेति ॥
न केवलमक्षिस्थत्वम् ।
किन्तु रमणं रमणकर्तृत्वं चेति आद्यश्चशब्दः ।
न केवलं सूत्रे ऽपि तु श्रुतौ चेति द्वितीयः ।
आत्मशब्देन एष आत्मेत्यनेन ।
आदेयम् उपादेयं सुखं सुखसाधनं च माति अनुभवतीति निर्वचनेनेत्यर्थः ।
आङ्पूर्वकाद्ददातेर्मन्यतेश्च क्विप् ।
*3,680*
सुखविशिष्टाभिधानाद् एव च
चक्षुरन्तरस्य परमेश्वरत्वोपपादकमपरं सूत्रम् ।
सुखविशिष्टाभिधानादेव चेति ।
अत्र विशिष्टपदं व्यर्थं सुखाभिधानादेवचेत्येतावता पूर्णत्वात् ।
सुखसम्बन्धाभिधानार्थं विशिष्टपदमिति चेत् न, सुखित्वाभिधानादेव चेति कर्तुं शक्यत्वात् ।
लघु चैवं सति सूत्रं स्यात् ।
अयुक्तं च सुखसम्बन्धाभिधानम् ।
"प्राणो ब्रह्म कं ब्रह्मऽ; इति श्रुतौ सुखमात्राभिधानादित्यतो ऽन्यथा व्याचष्टे- विशिष्टेति ॥
विशिष्टसुखवत्त्वाच्च ...
न्यायसुधा:
नात्र सुखविशिष्टशब्दः तद्वत्तामाचष्टे ।
येनानुपादेयः स्यात् ।
किन्तु सुखस्य वैशिष्ययं पूर्णतालक्षणम् ।
यदि हि सुखाभिधानादित्येव ब्रूयात् तदा सुखस्यान्यत्रापि सद्भावेन व्यभिचारः स्यात् ।
ततः सार्थकं विशेषणोपादानम् ।
ननु कथमत्र विग्रहः ।
सुखेन विशिष्टः श्रेष्ठ इति ।
कथं तर्हि विशिष्टसुखेत्युक्तम् ।
अर्थकथनमात्रमेतदित्यदोषः ।
सुखेन श्रेष्ठो हि तदा स्यात् यदि तत्सुखं श्रेष्ठं भवेदित्यर्थाद्, वैशिष्ययं सुखधर्मो भवति ।
अथवा"कडाराः कर्मधारयेऽ; इति विशेषणस्य परनिपातं मन्यमानेन विशिष्टसुखेत्युक्तम् ।
कथं तर्हि मतुप्प्रयोगः, श्रुतावनुक्तत्वात् ।
स्वरूपेणापि सुखेन विशेषशक्तया तद्वान् भवतीति ज्ञापयितुमिति ।
नन्वेवं व्याख्याने हेतुससिद्धः स्यात् ।
सुखविशेषणस्य विशिष्टत्वस्य श्रुतावनुक्तत्वादिति चेन्न ।
मुख्यामुख्ययोर्मुख्यस्यैव ग्राह्यत्वात् ।
उक्ता च सुखस्य विशिष्टता श्रुतावित्याह- ब्रह्मत्वं चेति ॥
*3,681*
... ब्रह्मत्वं च विशिष्टता
न्यायसुधा:
सुखविशेषणं विशिष्टता च ब्रह्मत्वं ब्रह्मशब्दार्थः ।
"कं ब्रह्मेतिऽ; ब्रह्मशब्देनोक्तेति यावत् ।
ब्रह्मशब्दो हि पूर्णतामाह ।
तद्विशेष्याकाङ्क्षायां सन्निहितपरित्यागे कारणाभावात्सुखमेव सम्बद्धयत इति ।
*3,682*
अनवस्थितेर् असंभवाच् च नेतरः
चक्षुरन्तरस्येश्वरत्वं प्रतिपाद्य, अक्ष्यादित्ययोरग्निरेव नियामकतयात्रोच्यत इति यत् पूर्वपक्षिणोक्तं तन्निराकर्तुं सूत्रम्- अनवस्थितेरसम्भवाच्च नेतर इति ॥
*3,683*
तस्यार्थः ।
जीवस्याग्नेर्जीवान्तरनियामकत्वे तस्यापि नियामकान्तरेण भाव्यमित्यनवस्थितेः उभयोर्जीवत्वसाम्येन नियम्यनियामकभावासम्भवाच्च नाग्निरक्ष्यादित्यस्थतया अत्रोच्यत इति ।
एतदयुक्तम् ।
स्वव्याघातात् ।
अस्माभिरपि हि ब्रह्मादिजीवानां मानुषादिजीवनियामकत्वमङ्गीक्रियते ।
तत्र यदि परस्यानविस्थित्यसम्भवौ अस्माकमपि कुतो न भवतः ।
यथा च नास्माकं, तथा न परस्यापीत्यतः सूत्रं सम्यग्व्याख्यातुं पीठमारचयति- अन्योन्येति ॥
अन्योन्यनियतिश्चेशनियमे नान्यथा भवेत्
न्यायसुधा:
चशब्दो ऽवधारणे ।
चेतनानामिति वक्ष्यमाणमत्रापि सम्बद्धयते ।
चेतनानां यो ऽन्योन्यनियतिः ब्रह्मादीनां नियामकता, मानुषादीनां तु नियम्यता, सा ईशनियमे प्रेरणे सत्येवोपपन्ना भवेत् ।
अनवस्थित्यसम्भवाभावात् ।
प्रेरकपरम्परा हि परनिरपेक्षे परमेश्वरे विश्राम्यति ।
तन्नियत्या चेतरेषां नियम्यनियामकभावो भविष्यति ।
नियन्तुरीश्वरस्याभावे अन्योन्यनियतिरुपपन्ना न भवेत् ।
अनवस्थित्यसम्भवपरिहारोपायाभावात् ।
ननु ब्रह्मादीनां नियामकत्वं मानुषादीनां नियम्यत्वमित्येष विशेषः तेषां स्वभाव एव ।
यद्वक्ष्यति न चाऽधिकारिकमिति मोक्षे ऽप्यनुवृत्तेश्च ।
आधिकारिमण्डलस्थोक्तेरिति वचनात् ।
स्वमते च का नाम परमेश्वरापेक्षेत्यत आह- चेतनानामिति ॥
चेतनानां विशेषो यः स्वभावो ऽपीश्वरापिर्तः
न्यायसुधा:
चेतनानां ब्रह्मादीनां मानुषादीनां च, यो विशेषो नियम्यनियामकत्वलक्षणः, सः तेषां स्वभाव एव ।
"न तदस्ति विना यत्स्यान्मया भूतं चराचरम्ऽ; इति वचनात् ।
अन्यथेश्वरस्य सर्वैश्वर्यं न स्यात् ।
स्याच्च परेषां स्वातन्तृयम् ।
अङ्गीकृतं च परैराकाशे ऽनादिनो ऽपि द्रव्यत्वस्य गुणवत्त्वाधीनत्वम् ।
अद्वैतिभिश्चाविद्याधीनत्वं जीवब्रह्मविभागस्य ।
यो हीश्वरेण यस्य सर्वदा नियम्यते, स तस्य स्वभाव इत्युच्यते ।
यस्तु कदाचित् सो ऽस्वभाव इति ।
*3,685*
किमतो यद्येवं स्वव्याघातेन विना सूत्रार्थो निष्पन्न इत्याह- अन्योन्येति ॥
अन्योन्यनियमे तस्मादनवस्थित्यसम्भवौ
न्यायसुधा:
यस्मादीश्वराङ्गीकारे ऽन्योन्यनियमो युज्यते ।
नान्यथा तस्मादीश्वरमनङ्गीकृत्य परेणान्योन्यनियमे ऽङ्गीक्रियमाणे ऽनवस्थित्यसम्भवौ सूत्रकृतोक्तौ युक्तावित्यर्थः ।
नन्वनवस्थित्यसम्भवयोः को भेदः ।
उभयत्रापि प्रवृत्त्यनुपपत्तिसाम्यात् ।
उच्यते ।
अनवस्थायां हि प्राक् सिद्धमूलाभावेन प्रवृत्तिनिरोधः ।
असम्भवे तु समानतयाविनि(य)गम्यत्वेनेति भेदः ।
यथा पृथिवीसम्बन्धाद्गन्धोपलब्धिः पयसीति वदन्तं प्रत्युच्यते ।
पयःसम्बन्धात्पृथिव्यां तदुपलब्धिरिति किं न स्यात् ।
विनिगमकाभावादिति ।
तदनेनानीश्वरवादिनं प्रतीदं दोषाभिधानामित्युक्तम् ।
ईश्वरमङ्गीकृत्याक्ष्यादित्यस्थतयात्राग्निरुच्यत इति वदतः को दोष इत्यत आह- ईश्वरश्चेदिति ॥
*3,686*
ईश्वरश्चेन्नियन्ता च स एव प्रथमागतः ।
किमित्यपोद्यते कस्माद् वृथावस्थितिकल्पना ॥ मनुव्_1,2.13अ-द् ॥
न्यायसुधा:
यदीश्वरः सर्वनियन्ताभ्युपगतः स्यात्तदा स एव प्रथमागतः साक्षादक्ष्यादित्यस्थत्वेनामृतत्वादिप्रमाणैः प्रतीतः कस्मात्परित्यजन्ते ।
कस्याच्चेश्वरस्यादित्यादीनां च मध्ये वृथाग्नेनिर्यामकत्वेनावस्थितिकल्पना क्रियते ।
पूर्वपक्षप्रापकाणां भाष्ये निरस्तत्वादिति ।
ईश्वरपरित्यागे मध्ये ऽग्निकल्पने च प्रमाणं नास्तीत्युक्तम् ।
ततः किमित्यत आह- दोषवतीति ॥
दोषवत्येव तस्मात् सा नैव कार्या कथञ्चन
न्यायसुधा:
दोषः श्रुतहानिरश्रुतकल्पना च ।
आद्येन एवशब्देन दोषद्वयस्यापरिहार्यत्वमाह ।
तस्मात् उभयत्र प्रमाणाभावात् ।
सा परमेश्वरपरित्यागेनावस्थितिकल्पना ।
अनेन सूत्रस्यार्थान्तरमुक्तं वेदितव्यम् ।
मध्ये ऽग्नेरवस्थितिकल्पकाभावात् ।
प्रथमावगतेश्वरपरित्यागासम्भवाच्च नेतर इति ।
इदमुक्तं भवति ।
अक्ष्यादित्यस्थतयात्र प्रतिपाद्यमग्निं प्रतिपाद्यमानं प्रति किं स्वतन्त्रमीश्वरमनभ्युपगम्यैतदुच्यते, उताभ्युपगम्येति विकल्प्य, पक्षद्वये सूत्रकारेण दूषणमुक्तमिति ।
अथवा प्रतिवादिनं निरीश्वरं निश्चित्य सूत्रकृतानवस्थित्यसम्भवावुक्ताविति पूर्वग्रन्थार्थः ।
तत्कथं निश्चितमित्यत आह- ईश्वरश्चेदिति ॥
यदि सर्वनियन्तेश्वरः प्रतिवादिनाभ्युपगतः स्यात्, तदा स एव प्रथमागतः किमित्यपोद्येत ।
कस्माच्च वृथावस्थितिकल्पना क्रियते ।
किं तु निर्निमित्तत्वात्सा नैव कार्या स्यात् ।
न हि पूर्वपक्षी सर्वथाप्यप्रेक्षावान् ।
तथा सत्युन्मत्तवदुपेक्षणीयः स्यात् ।
नहि पूर्वपक्षी सर्वथाप्यप्रेक्षावान् ।
तथा सत्युन्मत्तवदुपेक्षणीयः स्यात् कृता च तेनेयं सर्वा कल्पना ।
तेन जानीमो ऽयं निरीश्वर इत्ययमभिप्रायः सूत्रकारस्येति ।
[======= ज्न्य्स्_1,2.व्: अन्तर्याम्यधिकरणम् =======]
*3,689*
॥ ओं अन्तर्याम्यधिदैवादिषु तद्धर्मव्यपदेशात् ओं ॥
अन्तर्याम्यधिदैवाधिलोकादिषु तद्धर्मव्यपदेशात्
नन्वेतदनन्तरातीतेनैव गतार्थम् ।
अन्तर्यामित्वं ह्यन्तःस्थित्वा नियामकत्वम् ।
एतदेवान्तर उपपत्तेरित्युक्तम् ।
नच तत्र नियामकत्वं न विवक्षितम् ।
तथा सत्यनवस्थितेरसम्भवाच्चेति दूषणस्यालग्नकत्वप्रसङ्गादित्यतः प्रमेयभेदं दर्शयितुं एतदधिकरणनिवर्तनीयामाशङ्कामाह- रमणमिति ॥
रमणं नातियत्नस्य विक्षेपादेव युज्यते
न्यायसुधा:
पूर्वाधिकरणे ऽक्ष्यादिषु स्थित्वा रममाणस्तत्प्रेरको हरिरित्युक्तम् ।
तदसत् ।
व्याहतत्वात् ।
आदित्यादिनियमनार्थमतियत्नेन हि भाव्यम् ।
प्रयत्नस्य व्यापारानुगुणत्वदर्शनात् ।
अतियत्नवतश्च चित्तविक्षेपो नियतः ।
नच चित्तविक्षेपवतो रमणमुपपद्यते ।
अतो नियामकश्च रतिमांश्चेति व्याहतम् ।
नच व्याहतं शतेनापि हेतूनां सिद्धयति ।
तदुक्तम्,"बहुव्यापारतायाश्च क्लेशो ऽधिकतरो भवेत्ऽ; इति ।
उक्तव्याप्तिपक्षधर्मतावधारणाय एवशब्दः ।
एतत्परिहारत्वेन गूढाभिसन्धिरधिकरणार्थमाह- इति चेदिति ॥
इति चेत् सर्वनियमो यस्य कस्मान्न शक्यते
न्यायसुधा:
तत्रेदमुत्तरमिति शेषः ।
यस्य परमेश्वरस्य सर्वनियमः सर्वान्तर्यामित्वमस्ति(?) ।
तस्य कस्मान्न शक्यते रमणमिति प्रकृतम् ।
एतामाशङ्कां परिहर्तुं सर्वान्तर्यामित्वमिह हेतुतयोच्यत इति भावः ।
नन्वेतत्पिण्याकयाचनार्थं गतस्य खारीतैलदानमिव ।
यत् आदित्यादिनियामकस्य चित्तविक्षेपसम्भवेन रमणं न युज्यत इत्युक्ते, सर्वनियामकत्वमुक्तम् ।
ततो ह्यतिशयेन चित्तविक्षेपाद्रमणानुपपत्तिः, इत्यतो ऽभिप्रायमुद्घाटयति- स्वात्मनेति ॥
स्वात्मनानियतं वस्तु प्रतीपं ह्यात्मनो भवेत् ।
स्वाधीनसत्ताशक्तयादि कथमात्मप्रतीपकम्
*3,689f.*
न्यायसुधा:
यद्वस्तु स्वात्मना देवदत्तेनानियतं देवदत्तानधीनसत्ताप्रतीतिप्रवृत्तिकं, तदेवात्मनो देवदत्तस्य प्रतीपं चित्तविक्षेपकं भवेदिति हि दृष्टम् ।
इदं तु जगदीश्वराधीनसत्तादिकम् ।
तत्कथं तस्य चित्तविक्षेपकं भवेत् ।
अथवा यदीदं यस्तु विश्वं स्वात्मनेश्वरेणानियतं स्यात् ।
तदधीनसत्तादिकं न स्यात्, तदैव ह्यात्मनः परमेश्वरस्य प्रतीपं भवेत् ।
नचैवमिति योज्यम् ।
न राजादिवन्नियामकत्वमात्रमन्तर्यामित्वम्, अपि तर्हि सत्तादिप्रदत्वमित्युक्तं भवति ।
॥ इति श्रीमन्न्यायसुधायां अन्तर्याम्यधिकरणम् ॥
[======= ज्न्य्स्_1,2.वि: अदृश्यत्वाधिकरणम् =======]
*3,692*
॥ अथ श्रीमन्न्यायसुधायां अदृश्यत्वाधिकरणम् ॥
॥ ओं अदृश्यत्वादिगुणको धर्मोक्तेः ओं ॥
अदृश्यत्वादिगुणको धर्मोक्तेः
अत्र यत्तदद्रेश्यमित्यादिवाक्योक्तानामदृश्यत्वादीनां धर्माणां ब्रह्मणि समन्वयः प्रतिपाद्यते ।
तेषां चोक्तरीत्या ब्रह्मस्वरूपत्वमभ्युपगतं तदभ्यधिकाशङ्कायाऽक्षिपति- गुणेति ॥
गुणक्रियादयो भावा यदिवा स्युरभेदिनः ।
अभेदो ऽभावधर्माणां ब्रह्मणा युज्यते कथम्
न्यायसुधा:
आनन्दादयो गुणाः संहरणादिक्रियाः सर्वगतत्वादिभावाः ।
अन्नमयादिरूपाणि पुच्छाद्यवयवाश्च यद्यभेदिनो ऽङ्गीकृताः तदा तथा स्युर्वा ।
तेषां भावत्वन वक्ष्यमाणानुपपत्तेरभावात् ।
अनुपपत्त्यन्तराणां च परिहृतत्वात् ।
अदृश्यत्वादीनां तु धर्माणां ब्रह्मणाभेदो न युज्यते ।
तेषामभावत्वाद्ब्रह्मणो भावत्वात् ।
भावाभावयोरैक्यस्य विरुद्धत्वादिति ।
परिहरति- नाभाव इति ॥
नाभावो भाव इति च विशेषः प्रायशो भवेत्
न्यायसुधा:
इह हि दृश्यादन्यो ऽदृश्यः तस्य भावो ऽदृश्यत्वमित्यदृश्य(त्व)आदिशब्दैर्दृश्याद्यन्योन्याभावो ऽभिधीयते ।
अश्वादन्यो ऽनश्वः तस्य भावो ऽनश्वत्वमिति यथा ।
न पुनस्तत्प्रागभावादिः ।
असामथ्यरेन(?) समासासम्भवात् ।
दृश्यादिविरोधित्वमर्थो ऽस्त्विति चेन्न ।
सहानवस्थानवध्यघात(तु)कभावभावाभावालक्षणविरोधानामसम्भवात् ।
तादात्म्यविरोधस्य चान्योन्याभावानतिरेकात् ।
तथा चाभावो अन्योन्याभाव इति भाव इति चैतयोर्लोके ऽपि विशेषो भेदो न भवेत् ।
एवं(च) सति ब्रह्मण्येव कानुपपत्तिरिति ।
तदभावो हीति वक्ष्यमाणाभिप्रायेण प्रायश इत्युक्तम् ।
अथवाभाव इति चतुर्विधे ऽप्यभावे प्राप्ते ऽन्योन्याभावपरिग्रहणार्थं प्रायश इत्युक्त(त्यभिहित)म् ।
अन्योन्याभावो हि प्रागभावादिभ्यो(ऽपि) बहुतरः प्रतिवस्तु नियतत्वात् ।
नित्यानादिसम्बन्धिनः प्रागभावादेरभावात् ।
*3,696f.*
ननु प्रागभावप्रध्वंसाभावात्यन्ताभावभिन्नः संसर्गाभावः, किं धर्मिणो भिन्न उताभिन्नः ।
नाद्यः ।
ब्रह्मगतस्यापि भेदप्रसङ्गात् ।
तथा च"एवं धर्मान्ऽ; इत्यादिश्रुतिविरोधात् ।
नच ब्रह्मणि नासौ श्रुत इति वाच्यम् ।
अगोत्रमवर्णमित्यादिना प्रतीतत्वात् ।
न विद्यते गोत्रादिकं यस्य तद्धि तथोच्यते ।
द्वितीये किमन्योन्याभावनिर्धारणेन ।
अभाव इत्येव वक्तव्यम् ।
तथा चाशेषश्रुतिव्याख्यानं भवतीति ।
अत्र ब्रूमः ।
भिन्न एव धर्मिणः प्रागभावादिः ।
धर्मिविनाशे ऽप्यविनाशात् ।
यत्र हि भूतले घटाभावस्तस्य खननादिना विनाशे ऽपि घटाभावो ऽनुवर्तत एव ।
धर्मित्वं च भूतलादेः प्रातीतिकं न वस्तुकृतम् ।
अत एव भाववदभावस्यापि तत्त्वान्तरत्वमभिधाय भावाभावस्वरूपत्वात् इत्यन्योन्याभावस्य धर्मिस्वरूपतामाह ।
ननु तर्हि ब्रह्मण्यपि तथात्वप्रसङ्गः ।
सत्यम् ।
गोत्रादिसंसर्गा(स्या)भावस्य ब्रह्मातिरिक्ताभ्युपगमात् ।
यथा हि दण्डो देवदत्तस्य विशेषणम् ।
तथा गोत्राद्यभावो ऽपि ब्रह्मणो विशेषणम् ।
नच श्रुतिविरोधः ।
दण्डित्ववदभाववत्त्वस्य धर्मत्वेन विवक्षितत्वात् ।
नच आनन्दादावप्येवं कल्पना ।
"आनन्दो ब्रह्मऽ; इत्यादिवचनात् ।
बाधकाभावाच्च ।
तस्मादन्योन्याभाव एवान्यत्र धर्मिस्वरूपमिति ब्रह्मण्यपि तथाभ्युपगन्तव्यः ।
गोत्राद्यभाववत्ता तु भावरूपैव इति न तस्या ब्रह्मस्वरूपत्वे काचिदनुपपत्तिरिति नेह विचार्यते ।
*3,701*
यस्त्वन्योन्याभावस्य धर्मिस्वरूपतां क्वापि न मन्यते ।
स प्रष्टव्यः ।
किंनिमित्तो ऽयमनभ्युपगमः ।
किं विरोधादुत, प्रमाणाभावात्, अथ बाधकसद्भावात् ।
आद्ये कथमन्योन्याभावस्य धर्मिणा विरोध इति वक्तव्यम् ।
विधिनिषेधरूपत्वेनेति चेत्, तदेव कथम् ।
नञः प्रयोगाप्रयोगाभ्यामिति चेत् तत्राह- अतद्भाव इति ॥
अतद्भावो ऽन्यता चेति न विशेषो ऽस्ति कश्चन
न्यायसुधा:
पटस्य ह्यघटत्वं घटादन्यत्वं चैकमेव ।
अघटो घटादन्य इत्यनयोर्विशेषाप्रतीतेः ।
विद्येते च नञः प्रयोगाप्रयोगौ इत्यतो व्यभिचार इत्यर्थः ।
स्थलान्तरे व्यभिचारं दर्शयति- दोषाभाव इति ॥
दोषाभावो गुण इति प्रसिद्धो लौकिकेष्वपि
न्यायसुधा:
आरोग्यं गुणः अक्रौर्यं गुणः, इति नञ्प्रयोगविषयस्य निषेधस्य रोगाद्यभावस्य, नञ्प्रयोगाविषयो विधिरूपत्वं गुणत्वं, लौकिकवैदिकेषु व्यवहारेषु प्रसिद्धम् ।
उपलक्षणं चैतत् ।
अनौदार्यं दोषः, इति गुणाभावस्य दोषत्वमपि प्रसिद्धम् ।
अतो(ऽपि), व्यभिचार इत्यर्थः ।
अन्योन्याभावस्य धर्मिस्वरूपत्वसमर्थनं न औत्प्रेक्षिकम् ।
किन्तु सूत्रकृतो ऽप्यभिमतमिति दर्श(सूच)यितुं सूत्रकृताप्ययं व्यभिचारः सूचित इत्याह- अदृश्यत्वादिकानिति ॥
अदृश्यत्वादिकांस्तस्माद् गुणानाह स्वयं प्रभुः
न्यायसुधा:
यस्मान्नञः प्रयोगाप्रयोगौ नाभेदविरोधिनौ, तस्मात्तदेव सूचयितुमदृश्यत्वादिगुणक इत्यदृश्यत्वादीनां नञ्वाच्यानामतथाभूतानां गुणानां चैक्यमाह सूत्रकारः ।
अन्यथा दृश्यत्वादीत्यवक्ष्यदिति ।
अनेन सप्रतियोगित्वनिष्प्रतियोगिकत्वाभ्यां विरोधो ऽपि परास्तो वेदितव्यः ।
*3,703*
नन्वेवं भावाभावयोरैक्ये भावाभावलक्षणो विरोधः क्वापि न स्यात् ।
असति च तस्मिन्विरोधवार्तैव लुप्येत ।
भावाभावयोर्हि साक्षाद्विरोधस्तद्द्वारान्ययोरिति चेत् ।
किमविशिष्टयोर्भावाभावयोर्विरोधमङ्गीकृत्य तदभाव आपाद्यते, उतावच्छिन्नयोः ।
आद्ये त्विष्यापादनमित्याह- भावेति ॥
भावाभावविरोधो ऽपि न तु सर्वत्र विद्यते
न्यायसुधा:
सर्वत्रेत्यनेनाविशिष्टत्वं द्योतयति ।
घटवति पटाभावदशर्नादिति भावः ।
द्वितीये त्वापादकासिद्धिरिति भावेन तत्स्वरूपमाह- तदभावो हीति ॥
तदभावो हि तद्भावविरोधी न ततो ऽपरः
*3,703f.*
न्यायसुधा:
उभयत्राप्यनुभवप्रसिद्धिं हिशब्देन द्योतयति ।
नन्वेतत्सर्वं तृतीये ऽन्तर्भवति ।
सत्यम् ।
तथाप्युल्बणतया पृथग्दूषितमित्यदोषः ।
अस्तु तर्ह्यन्योन्याभावस्य धर्मिस्वरूपत्वे प्रमाणाभाव इति द्वितीयः पक्षः ।
मैवम्, भेदो हि वस्तुस्वरूपमिति सर्वैरभ्युपगन्तव्यम् ।
अन्यथानवस्थादिदोषप्रसङ्गात् ।
अभावे स्वरूपातिरिक्तस्यासम्भवेन भेदाभावप्रसक्तेश्च ।
अन्योन्याभावश्च भेद एवेति कथं धर्मिस्वरूपत्वं न स्यात् ।
*3,706*
अथ मतम् ।
भेदस्त्रिविधो ऽस्माभिरभ्युपगम्यते ।
पृथक्तवम् अन्योन्याभावः, स्वरूपं चेति ।
तत्र द्रव्ये त्रिविधो ऽपि सम्भवति ।
गुणादिपञ्चके तु द्विविध एव ।
पृथक्तवस्य गुणत्वेन तत्रासम्भवात् ।
अभावे तु स्वरूपभेद एव ।
तत्रान्योन्याभावाभ्युपगमे ऽनवस्थाप्रसङ्गात् ।
अतो ऽन्योन्याभावस्य भेदत्वे ऽपि, भेदस्य (तु) स्वरूपत्वे ऽपि, नान्योन्याभावस्य धर्मिस्वरूपत्वम् ।
स्वरूपभेदातिरिक्तभेदत्वादन्योन्याभावस्येत्यत आह- पृथक्तवेति ॥
पृथक्तवाभावतद्रूपान् भेदांस्त्रीन् कल्पयन्ति चेत् ।
कल्पनागौरवाद्यास्तु दोषास्तत्र विरोधिनः
न्यायसुधा:
अभावो ऽन्योन्याभावः स धर्मी रूपमात्मा यस्यासौ तद्रूपः ।
आद्यग्रहणेन दृष्टहानिरदृष्टकल्पना च गृह्यते ।
तत्र तु तथाकल्पने त्वित्यर्थः ।
कथं पृथक्तवान्योन्याभावस्वरूपभेदानां भेदाङ्गीकारे कल्पनागौरवादिकमित्यत आह- पृथक्तवेति ॥
पृथक्तवान्यत्वभेदास्तु पर्यायेणैव लौकिकैः ।
व्यवह्रियन्ते सततं वैदिकैरपि सर्वशः
न्यायसुधा:
अन्यत्वमन्योन्याभावः ।
भेदः स्वरूपभेदो घटात्पृथक् घटो न भवति पट एवेति ।
पृथक्तवान्योन्याभावस्वरूपभेदाः सर्वैर्लौकिकैर्वैदिकैश्च पर्यायेणैव क्रमेणैव पृथग्वाक्यतया व्यवह्रियन्ते, न जातु एकवाक्यनिवेशेन ।
*3,707*
एतदुक्तं भवति ।
यथा घटकलशकुम्भव्यवहाराणां पर्यायत्वात् एकेनैव निमित्तेनोपपत्तौ घटत्वाद्यनेकनिमित्तकल्पने कल्पनागौरवम् ।
यथा च घटादिव्यवहारान् पर्यायेणैव कुर्वाणैस्तन्निमित्तमेकतयैव दृष्टमिति, तत्त्रित्वाङ्गीकारे दृष्टहानिरदृष्टकल्पना च भवति ।
तथा पृथग(क्तव)आदिव्यवहाराणामपि पर्यायत्वात् एकेनैव स्वरूपभेदेनोपपत्तौ, निमित्तत्रयकल्पने कल्पनागौरवम् ।
नियमेनासहप्रयोक्तृभिः पृथक्तवादीनामैक्यं दृष्टमिति, तत्परित्यागेन त्रित्वकल्पनायां दृष्टहानिरदृष्टकल्पना च स्यादिति ।
अविनाभावित्वान्न सहप्रयोग इति चेत् ।
मा भूद्घटात्पृथगित्युक्तवा घटो न भवतीति प्रयोगः ।
घटो न भवतीत्युक्तवा घटात्पृथगिति कस्मान्न भवेत् ।
पृथक्तवे सति अन्योन्याभावादिकं नियतं न त्वन्योन्याभावे पृथक्तवमिति परेणैव व्युत्पादितत्वात् ।
नचायमस्ति नियमो ऽविनाभूतं सह नोच्यत इति ।
पृथिव्यप्तेजोवायुमनसां क्रियावत्त्वमूर्तत्वपरत्वापरत्ववेगवत्त्वादीनीति तदीयग्रन्थ एव व्यवहारदर्शनात् ।
लौकिकाः प्रयोजनमात्रपराः ।
अन्यतमव्यवहारेणैव तत्प्रयोजनसिद्धेर्न सहव्यवहारन्तीति चेन्न ।
वैदिकैरप्येवमेव व्यवहारात् ।
तदिदमुक्तम् ।
वैदिकैरपीति ।
किञ्च पर्यायप्रयोगस्यान्यथात्वकल्पनं क्वचिदपर्यायप्रयोगे सति स्यात् ।
अन्यथा घटादिव्यवहारे ऽपि तथाप्रसङ्गात् ।
न चैतदस्ति ।
तत्कथमन्यथाकल्पनं निर्मूलमुपपद्येत इति ।
एतदप्युक्तम्- सर्वश इति, सततमिति च ॥
*3,709f.*
अथ मतम् ।
पृथक्तवान्योन्याभावयोस्तावत्स्फुटो विवेकः ।
यत्पृथक्तवमवधिनिरूप्यम् ।
अन्योन्याभावस्तु प्रतियोगिनिरूप्यः ।
किंच,"अन्यारादितरर्तऽ; इति पृथक्तववाचिपदयोगे पञ्चम्यनुशिष्यते ।
अन्य इत्यर्थग्रहणमिति वचनात् ।
अन्यथा भिन्नो घटात्पटो ऽर्थान्तरं घटात्पट इत्यादौ पञ्चमी न स्यात् ।
अनुशासनान्तराभावात् ।
तथाच पृथक्तवमेव चेदन्योन्याभावः तदा घटो न भवति पट इत्यत्रापि पञ्चमी स्यात् ।
नचैवम् ।
तेन जानीमो ऽन्यत्पृथक्तवम्, अन्यश्चान्योन्याभाव इति ।
स्वरूपभेदस्य चाभ्यां उभयाभ्यां विवेकः ।
परनिरूप्यत्वविरहाद्विधिरूपत्वाच्च ।
एवंच व्यवहारपर्यायतान्यथोपपादनीयेति ।
*3,712*
अत्रोच्यते ।
यत्तावदुक्तं निरूपकभेदाद्भेद इति, तदसत् ।
अवधिप्रतियोगिनोरेव भेदस्य निरूपयितुमशक्यत्वात् ।
पृथक्तवनिरूपकत्वमवधित्वम्, अभावनिरूपकत्वं प्रतियोगित्वमिति चेन्न ।
पृथक्तवान्योन्याभावभेदस्याद्याप्यसिद्धत्वेन इतरेतराश्रयत्वात् ।
पञ्चमीप्रयोगाप्रयोगाभ्यां भेदश्चानुपपन्नः ।
अन्यशब्दोपपदे पञ्चमीविधानात् ।
कथं तर्हि भिन्नादियोगे पञ्चमीति चेत् ।
विलक्षणो यज्ञदत्तो देवदत्तादित्यत्र कथम् ।
नहि वैलक्षण्यं पृथक्तवम् ।
गुणादिष्वपि सद्भावात् ।
अथ कथञ्चिदपादानत्वं तत्र व्युत्पादयिष्यत इति चेत् ।
भिन्न इत्यादावपि किं न व्युत्पाद्यते ।
तथा सत्यन्य इत्यत्रापि साम्यात्सूत्रवैयर्थ्यमापद्यत इति चेन्न ।
प्रपञ्चाथर्त्वेनोपपत्तेः ।
*3,715*
विलक्षणयोगे पञ्चमी वक्तव्येति चेत् ।
विशिष्टव्यावृत्तादियोगे ऽपि कथम् ।
न विशिष्टादिकं पृथक्तवमिति च स्वयमेव व्युत्पादितम् ।
सर्वत्रोपसङ्खयाने भिन्नादिष्वपि तथा भविष्यति ।
किमन्येत्यत्रार्थग्रहणव्याख्यानेन ।
*3,716*
"पृथग्विनानानाभिस्तृतीयान्यतरस्याम्ऽ; इति विकल्पविधानसामर्थ्यादिद(त्थ)माश्रीयत इति चेन्न ।
अप्राप्ते ऽपि विकल्पविधानस्य बहुलमुपलम्भात् ।
*3,719*
अस्तु वान्येत्यर्थग्रहणम् ।
तथापि पृथक्तववाचिपदयोगे पञ्चमीविधानस्य व्याख्यानात् ।
घटः पटो न भवतीत्यत्र तु, वाक्यप्रतिपाद्यं पृथक्तवमिति पञ्चमी न भविष्यति ।
प्रतियोगिनिरूप्यत्वानिरूप्यत्वाभ्यां तु विवेकः स्वरूपभेदवादिना वक्तुमशक्य इति वक्ष्यामः ।
विधिरूपत्वं चोक्तन्यायपराहतम् ।
अत एव पृथक्तवान्योन्याभावविवेचकत्वमपि निरस्तम् ।
किं चानश्व इति किमन्योन्याभावो नञर्थः ।
किंवा पृथक्तवम् ।
आद्ये कथमश्वादन्य इति विग्रहवाक्ये पञ्चमी ।
नच तत्र पृथक्तवमन्यशब्दार्थ इति युक्तम् ।
समासविग्रहवाक्ययोः समानार्थत्वात् ।
द्वितीये पृथक्तवस्यापि निषेधतेत्यलं पल्लवेन ।
*3,723*
सन्तु कल्पनागौरवदृष्टहान्यदृष्टकल्पनाः ।
ततः किमिति चेत् ।
तत्किं कल्पनागौरवादिकं दूषणमेव न भवति, किंवा भवति दूषणम् ।
किन्तु दोषोन्नायकत्वेनैवेति ।
आद्यं निराकरोति- दृष्टेति ॥
दृष्टहानिरदृष्टस्य कल्पनेत्येव दूषणम् ।
यदा तदधिको दोषो विद्यते को नु वादिनाम्
न्यायसुधा:
इतिशब्द आद्यर्थे ।
तेन कल्पनागौरवं सङ्गृह्यते ।
दूषणमेवेति योजना ।
कुत इत्यत आह- यदेति ॥
यदाशब्दो यस्मादित्यर्थे ।
तदधिकः तदतिरिक्तः ।
किमाक्षेपे ।
नु वितर्के ।
वादिनामिति ।
वैपरीत्यलक्षणया परिहासः ।
अनिष्यप्रसञ्जनार्थं वा ।
एतदुक्तं भवति ।
यदि दृष्टहान्यादिकं न दूषणं तदासिद्धयादिकमपि कुतो दूषणमिति वक्तव्यम् ।
अङ्गवैकल्यहेतुत्वादिति चेत् ।
अथ विकलाङ्गमपि कुतो न साधनम् ।
तथा सत्याकाशादीनामनित्यतादिकमापद्येत, तच्च प्रमाणविरुद्धमिति चेत् ।
स्वीकृतं तर्हि दृष्टहानादेर्दोषत्वम् ।
*3,723f.*
अङ्गविकलस्याप्यनुमानत्वे ऽप्रामाणिकान्यनेकानि प्रसज्यन्त इति चेत् ।
तदिदमदृष्टकल्पनं कल्पनागौरवं च ।
विकलाङ्गं च साधनं चेति व्याहतमिति चेत् ।
कथं व्याहतम् ।
सकलाङ्गस्यैव साधकत्वदर्शनाद्विकलाङ्गस्य अदर्शनादिति चेत् ।
दृष्टहान्यादिकमेवैतत् ।
अथ मा भूदसिद्धयादिकं दूषणमिति ब्रूयात् ।
तदा वादित्वमेव न स्यात् ।
दूष्यपक्षाभावात् ।
तदभावे साध्यस्याप्यभावादिति ।
द्वितीयस्याप्येतदेवोत्तरम्- दृष्टहानिरिति ॥
*3,724*
अत्रैतदेव दूषणम् ।
नतु दोषान्तरोन्नायकत्वेनेति यथास्थित एव सम्बन्धः ।
तत्र हेतुमाह- यदेति ॥
यदा दृष्टहान्यादिकमुद्भाव्येत तदा ततः किमित्याशङ्कायां तदधिकस्तदुन्नेयो दोषः को नु वक्तव्यो विद्यते न को ऽपि ।
यो ऽप्युच्येत तस्यापि दृष्टहान्याद्यनतिरेकादिति भावः ।
*3,725*
अन्योन्याभावस्य भावस्वभावत्वे, धर्मधर्मिभावस्तच्छब्दानां सहप्रयोगः ।
कदाचिद् दृष्टे ऽपि वस्तुनि तददर्शनमित्यादिकं न स्यादिति, तृतीयस्य प्रागुक्तमेव परिहारं स्मारयति- भावेति ॥
भावाभावस्वरूपास्तु विशेषा एव वस्तुनः ।
अभिन्ना एव सङ्ग्राह्या व्यवहारप्रसिद्धये
न्यायसुधा:
भावग्रहणेन अत्तृत्वादिष्वप्ययं परिहारो ऽनुसन्धेय इति दशर्यति ।
भावभावस्वरूपा अत्तृत्वादयो ऽदृश्यत्वादयश्च यद्यपि परब्रह्मणाभिन्ना एव ।
तथापि धर्मधर्म्यादिव्यवहारप्रसिद्धये वस्तुनो धर्मिणो विशेषा एव सङ्ग्राह्याः ।
न वस्तुतन्मात्रमिति ।
इदमुक्तं भवति ।
अत्तृत्वादीनामदृश्यत्वादीनां च ब्रह्मस्वरूपत्वं तावच्छ्रुत्यादिसिद्धम् ।
अस्ति च धर्मधर्म्यादिव्यवहारो ऽपि प्रमितः ।
नचान्यतरस्यापि बाधोपपन्ना ।
ततस्तदन्यथानुपपत्त्या सविशेषाभेदो ऽङ्गीकरणीयः ।
विशेषस्य चाभिन्ने ऽपि भेदनिमित्तव्यवहारनिर्वाहकत्वं स्वरूपग्राहकप्रमाणेनैव सिद्धमिति ।
अत्रैके, गुणक्रियादीनां द्रव्येणात्यन्तभेदं समवायं चाङ्गीकृत्य व्यवहारानुपपादयन्तः श्रुतीनामुपासनार्थत्वं अनागन्तुकार्थत्वं वा, वदन्तो विशेषं नाभ्युपगच्छन्ति ।
अपरे तु, भेदाभेदाभ्यां व्यवहारनिर्वाहं पश्यन्तः केवरभेदप्रतिषेधं च श्रुतीनामर्थं ब्रुवाणा न विशेषमिच्छन्ति ।
अन्ये तु, अखण्डमेव ब्रह्माभ्युपगम्य धर्मधर्म्यादिव्यवहाराः सर्वे ऽप्यविद्याऽरोपनिमित्ता इति मन्यमाना विशेषमवजानते ।
तत्र भेदवादिना भेदाभेदवादिना च विशेषमङ्गीकारयति- यथेति ॥
*3,726*
यथैकः समवायो ऽपि भेदाभेदौ च वस्तुनि ।
अङ्गीकार्या विशेषेण स्थानेषु व्यवहर्तृभिः
न्यायसुधा:
स्थानेषु स्वशास्त्रप्रदेशेषु एकः समवाय इति वस्तुनि भेदाभेदाविति च व्यवहर्तृभिर्यथा ते समवायभेदाभेदा विशेषेण विशेषवन्तोङ्गीकार्यास्तथा भावाभावस्वरूपाश्चेति योजना ।
एतदुक्तं भवति ।
धर्मधर्मिभेदवादिना तावदेकः समवाय इति व्यवह्रियते ।
तत्त्वं भावेनेति सूत्रितत्वात् ।
तत्र समवायस्यैकत्वं किं ततो भिन्नमुत तत्स्वरूपम् ।
नाद्यः ।
समवाये द्रव्यगुणादेरसम्भवात् ।
द्वितीये तु कथं सहप्रयोगः ।
षष्ठीव्यवहारो वा ।
औपचारिक इति चेन्न ।
समवायैकत्वसाधनप्रयासवैयर्थ्यापत्तेः ।
ततो गत्यन्तराभावात्सविशेषाभेदो ऽङ्गीकार्यः ।
तथाच किं ब्रह्मणि श्रुतीनामन्यपरत्वं प्रकल्प्य भेदसमवायकल्पनया ।
अन्ततो ऽप्यङ्गीकार्येण विशेषेणैव सर्वस्योपपत्तेः ।
समवायप्रतियोगिकभेदाभावः समवायस्यैकत्वमिति चेत् ।
तथापि समवायस्येति षष्ठयर्थस्य पृथगभावेन तत्र विशेषस्याङ्गीकार्यत्वात् ।
यस्तु भेदवादी समवाये ऽप्येकत्वसङ्खयामङ्गीकरोति, तेनापि समवायस्य सम्बन्धो ऽङ्गीक्रियते, न वा ।
आद्ये किं स एव, समवायान्तरं वा ।
न प्रथमः ।
सम्बन्ध्यतिरिक्तसम्बन्धाभावेनैकः समवाय इति व्यवहारानुपपत्तेः ।
अत एव न तृतीयः ।
स्वनिर्वाहकत्वे पुनः सविशेषत्वमेवाङ्गीकरणीयम् ।
न द्वितीयः ।
एकः समवाय इत्यस्यानुपपत्तेः ।
*3,730*
किञ्च वस्तुनि समवाय इति कथम् ।
न ह्यवयवावयव्यादीनां सम्बन्धो ऽस्ति यत एकः समवायः ।
स्वनिर्वाहकत्वे तूक्तम् ।
अपि चैकस्वभाव एव समवायः ।
स कथमवयवादीनाधारत्वेनावयव्यादीनाधेयत्वेन नियच्छेत् ।
अवयवादीनां स्वभावभेदादिति चेत् ।
अलं तर्हि समवायेन ।
अथ समवायस्यैव विचित्रस्वभावत्वं तदा सविशेषत्वमेवेति ।
भेदाभेदवादिना त्ववश्यमङ्गीकरणीयो विशेषः ।
परस्परविरुद्धयोर्भेदाभेदयोरेकत्र तमन्तरेण अनुपपत्तेः ।
किञ्च भेदाभेदयोरपि वस्तुना परस्परं च भेदाभेदान्तराभ्युपगमे ऽनवस्था ।
स्वनिर्वाहकत्वे तु विशेषाङ्गीकारः ।
भेदे, वस्तुनि भेदाभेदाविति व्यवहारानुपपत्तिः ।
वस्तुना तयाः सम्बन्धाभावात् ।
अत्यन्ताभेदे ऽपि वस्तुनि भेदाभेदावित्याधाराधेयभावो द्विवचनं चानुपपन्नं स्यात् ।
वस्तुतन्मात्रत्वात् ।
ततश्च तन्निर्वाहार्थमवश्यमङ्गीकरणीये विशेषे तत एव ब्रह्मणि सर्वस्योपपत्तौ किं भेदाभेदाभ्युपगमेनेति ।
यथा च तन्तुपटादौ भेदाभेदाभ्युपगमस्तद्वक्ष्यामः ।
*3,733*
अखण्डवादिनापि विशेषमङ्गीकारयति- अखण्डेति ॥
अखण्डवादिनोऽ; पि स्याद्विशेषो ...
न्यायसुधा:
अङ्गीकार्य इति वचनविपरिणामेन सम्बद्धयते ।
नन्वखण्डवादिनो ऽपि विशेषो ऽङ्गीकार्य इति व्याहतम् ।
अखण्डत्वं निर्विशेषत्वमित्यनर्थान्तरत्वादित्यत उक्तम्- अनिच्छतो ऽपीति ॥
... ऽनिच्छतो ऽप्यसौ ।
व्यावृत्ते निर्विशेषे तु किं व्यावर्त्यबहुत्वतः ॥ मनुव्_1,2.25ब्-द् ॥
न्यायसुधा:
स्वाभ्युपगममात्रेणाखण्डवादित्वे ऽपि न्यायप्राप्तत्वाद्विशेषाङ्गीकरणमिति ।
असौ पूर्वोपपादितः ।
अनेन पूर्वोक्तार्थस्मरणार्थत्वादस्य न पुनरुक्तिदोष इति सूचितम् ।
यद्वा ।
यस्मिन्ननङ्गीकृते सत्यज्ञानादिपदानां पर्यायव्यर्थते स्याताम् ।
सत्यत्वादीनां ब्रह्मतन्मात्रत्वाङ्गीकारात् ।
अङ्गीकृते च तन्निवृत्तिः ।
तस्यापर्यायशब्दप्रवृत्तावभिन्ने ऽपि निमित्तत्वात् ।
असौ इत्यङ्गीकार्यत्वहेतुसूचनम् ।
ननु ब्रह्मातिरिक्ते सत्यज्ञानानन्दादौ वाचकत्वशक्तिमतां सत्यादिपदानां लक्ष्यमेव ब्रह्माभ्युपगम्यते ।
तत्कथं पर्यायता ।
वाच्यार्थभेदसद्भावात् ।
मैवम् ।
सत्यज्ञानानन्तानन्दादीनां ब्रह्मातिरिक्तानां परेणानङ्गीकृतत्वात् ।
अस्ति कथञ्चित्सत्यादिकमन्यदिति चेन्न ।
कथञ्चित्सत्यादिकं वाच्यम् ।
साक्षात्सत्यादिकं तु लक्ष्यमिति वैपरीत्यस्यानुचितत्वात् ।
अस्तु वा कथञ्चित्पर्यायतापरिहारः ।
तथाप्येकेन पदेन लक्षितस्यैवान्येनापि लक्षणायां व्यथर्ता न परिहर्तुं शक्या ।
ननु च लक्ष्यार्थभेदाभावे ऽपि ब्रह्मण्यारोपितासत्यत्वादिधर्माणां व्यावर्त्यानां बहुलत्वात् तद्वयावर्तकत्वेन सार्थक्यं पदानामित्यत आह- व्यावृत्त इति ॥
व्याख्यातचरमिदम् ।
तदेवं विशेषस्य सर्ववादिभिरङ्गीकायर्त्वात्तद्बलेन धर्मधर्म्यादिव्यवहारोपपत्तेर्युक्तम् अदृश्यत्वादिगुणानां ब्रह्मणैक्यमिति सिद्धम् ।
[======= ज्न्य्स्_1,2.विइ: वैश्वानराधिकरणम् =======]
*3,735*
॥ ओं वैश्वानरः साधारणशब्दविशेषात् ओं ॥
वैश्वानरः साधारणशब्दविशेषात्
अस्याधिकरणस्य नात्रान्तर्भावः सम्भवति ।
नामात्मकशब्दसमन्वयार्थत्वात् ।
नापि पूर्वत्र ।
लिङ्गसमन्वयस्याप्यत्र सिद्धत्वात् ।
न चोभयबहिर्भावः ।
अन्यत्र प्रसिद्धशब्दविषयत्वात् ।
न चावक्तव्यता ।
समन्वयासिद्धिप्रसङ्गात् ।
तत्कथमित्यतो लिङ्गाधिकेत्यत्रान्तर्भावः समर्थितः ।
यद्वा पादद्वयार्थत्वेनैकत्र प्रवेशानुपपत्तेः पादद्वयशेषो ऽयम् ।
अत एव पदद्वयान्ते निबन्धनमिति ज्ञापयितुं पादद्वयार्थं तावदुपसंहरति- बहुलिङ्गेति ॥
बहुलिङ्गसमायुक्तैर्बहुभी रूढनामभिः ।
प्रसिद्धैरन्यगत्वेन वाच्यः साक्षाज्जनार्दनः
वैश्वानरादयः शब्दा अपि तद्वाचिनस्ततः
न्यायसुधा:
रूढेत्यस्यैव विवरणं प्रसिद्धैरन्यगत्वेनेति ।
अन्यथा यौगिकनामपरित्यागः स्यात् ।
एतच्च लिङ्गानामपि विशेषणम् ।
साक्षात् मुख्यया वृत्त्या ।
इदानीं वैश्वानराधिकरणतात्पर्यमाह- वैश्वानरादय इति ॥
आदिशब्दप्रयोगाद्वैश्वानरशब्दस्योपलक्षणत्वमिति दर्शयति ।
तत इति सौत्रात्मशब्दादिकं परामृशति ।
तद्वाचिनः परमेश्वरवाचिनः ।
ननु कथं वैश्वानरस्य विष्णुत्वनिर्धारः ।
पक्षान्तरे ऽप्यग्न्यादिशब्दानां होमाधिकरणत्वादिलिङ्गानां च श्रवणादित्यत आह- तानीति ॥
तानि लिङ्गानि ते शब्दा अपि तद्गा हि सर्वशः
न्यायसुधा:
तद्गाः परमेश्वरविषयाः ।
हीति तथा दृष्टयुपदेशं हेतुमाचष्टे ।
यस्मादेवं तस्मादिति पूर्वेण वा सम्बन्धः ।
अनेन शब्दादिभ्य इति सूत्रस्य तात्पर्यमुक्तं वेदितव्यम् ।
ननु कथमग्न्यादिशब्दानां विष्णुपरत्वम् ।
अन्यत्र रूढत्वात् ।
नच विष्णावपि रूढिरस्तीति वाच्यम् ।
बहुत्वेनान्यत्र रूढेः प्रबलत्वेनाल्पपरमेश्वररूढिबाधकत्वोपपत्तेरित्यत आह- बहुलापीति ॥
बहुलाप्यज्ञरूढिस्तत्प्रज्ञारूढिं न बाधते
मूल पाठ: Nyāyasudhā a subcommentary on Mādhva's Anuvyākhāna, a commentary on Bādarāyaṇa's Brahmasūtra, integrated version · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0