न्यायबिन्दुप्रकरण (टीका सहित) · अध्याय 9
अनुमानं च सम्यग्ज्ञानमित्युक्तम्, कथमनुमानं वचनमिति चेत्? तत्राह- कारण इति ।
स्वार्थ- परार्थानुमानयोः स्वार्थ व्याख्याय, परार्थ व्याख्यातुकाम आहत्रिरूपलिङ्गाख्यानमिति । त्रीणि रूपाणि- अन्वय व्यतिरेक पक्षधर्मत्वसंज्ञकानि यस्य तत् त्रिरूपम् । त्रिरूपं च तल्लिङ्गं च तस्याख्यानम् । आख्यायते= प्रकाश्यते ऽनेनेति त्रिरूपं लिङ्गमिति आख्यानम् । किं पुनस्तत्? वचनम् । वचनेन हि त्रिरूपं लिङ्गमाख्यायते । परस्मायिदं परार्थम्
ननु च सम्यग्ज्ञानात्मकमनुमानमुक्तम्, तत् किमर्थ सम्प्रति वचनात्मकमनुमानमुच्यते? इत्याह-कारणे कार्योपचारादिति । त्रिरूपलिङ्गाभिधानात् त्रिरूपलिङ्गस्मृतिरुत्पदयते, स्मृतेश्वानुमानम् । तस्मादनुमानस्य परंपरया त्रिरूपलिङ्गाभिधानं कारणम् । तस्मिन् कारणे वचने कार्यस्यानुमानस्य उपचारः समारोपः क्रियते । ततः समारोपात् कारणं वचनमनुमानशब्दे नोच्यते । औपचारिकं वचनमनुमानम्, न मुख्यमित्यर्थआः । न यावत् किञ्चित् उपचारादनुमानशब्देन वक्तुं शक्यं तावत् सर्व व्याख्येयम्, किन्त्वनुमानं व्याख्यातुकामेन अनुमानस्वरूपस्य व्याख्येयत्वान्निमितं व्याख्येयम् । निमित्तं च त्रिरूपं लिङ्गम् । तच्च स्वयं वा प्रतीतमनुमानस्य निमित्तं भवति, परेण वा प्रतिपादितं भवति । तस्माल्लिङ्गस्य स्वरूपं च व्याख्येयम्, तत्प्रतिपादकश्च शब्दः । तत्र स्वरूपं स्वार्थानुमाने व्याख्यातम् । प्रतिपादकश्च शब्द
3 तद् द्विविधम् ।
4 प्रयोगभेदात् ॥
5 साधर्म्यवद् वैधर्म्यवच्च ॥
कारणं हि वचनम्, कार्य चानुमानमिति वचने तस्मिन्ननुमानारोपात् तद्वचनमेवानुमानमित्यभिधीयते । अनुमानकारणत्वात् अनुमानम् इत्युच्यते इति शेषः
तद्द्विविधमिति । अत्र तदिति परार्थानुमानम् । त्रिरूपलिङ्गाख्यानं तत्
कथं द्विविधमिति चेत्? आह- प्रयोगभेदादिति । प्रयोगस्तु शब्दत उपस्थानम् । तस्य भेदेन द्वैविध्यमिति
किं तत् प्रकारहेयमिति आह? आह- साधर्म्यवदिति ।
समानो धर्मो यस्य स सधर्मा, सधर्मणो भावः साधर्म्यम्, तदयस्यास्ति तत् साधर्म्यवत् । विसदृशो धर्मो यस्य स विधर्मा, विधर्मणो भावो वैधर्म्यम्, तदयस्यास्ति तद् वैधर्म्यवत् । अन्वयवत् व्यतिरेकवच्चेति शेषः
मूल पाठ: Nyāyabinduprakaraṇa with Vinītadeva's Nyāyabinduvistaraṭīkā (Śiṣyahita) and Dharmottara's Nyāyabinduṭīkā · Edition: Swami Dwarikadas Shastri: Nyāyabindu Prakaraṇa of Ācārya Dharmakīrti, with Commentary of Ārya Vinītadeva and Dharmottara. Varanasi 1994 (Bauddha Bhārati Series, 18). · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0