न्यायबिन्दुप्रकरण (टीका सहित) · अध्याय 10
इह व्याख्येयः । ततः प्रतिपादकं शब्दमवश्यं वक्तव्यं दर्शयन् अनुमानशब्देनोक्तवानाचार्य इति परमार्थः
परार्थानुमानस्य प्रकारभेदं दर्शयितुकाम आह- तद् द्विविधमिति । तदिति परार्थनुमानम् । द्वौ विधौ= प्रकारौ यस्य तद् द्विविधम्
कुतो द्विविधम्? इत्याह- प्रयोगस्य शब्दव्यापारस्य भेदात् । प्रयुक्तिः= प्रयोगः, अर्थाभिधानम् । शब्दस्यार्थाभिधानव्यापारभेदाद् द्विविधमनुमानम्
तदेवाभिधानव्यापारनिबन्धनं द्वैविध्यं दर्शयितुमाह- साधर्म्यवत् वैधर्म्यवच्चेति । समानो धर्मो ऽस्य सो ऽयं सधर्मा, तस्य भावः साधर्म्यम् । विसदृशो धर्मो ऽस्य विधर्मा, विधर्माणो भावो वैधर्म्यम् । दृष्टान्तधर्मिणा सह साध्यधर्मिणः सादृश्यं हेतुकृतं साधर्म्यमुच्यते । असादृश्यं च हेतुकृतं वैधर्म्यमुच्यते । तत्र यस्य साधनवाक्यस्य साधर्म्यमभिधेयं तत् साधर्म्यवत् । यथा यत् कृतकं तदनित्यम्, यथा घटः, तथा च कृतकः शब्दः इत्यत्र कृतकत्वकृतं दृष्टान्त साध्यधर्मिणोः सादुश्यभिधेयम् । यस्य तु वैधर्म्यमभिधेयं तद् वैधर्म्यवत् । यथा- यन्नित्यं तदकृतकं दृष्टम्, यथा आकाशम्, शब्दस्तु कृतकः इति कृतकत्वाकृतकत्वकृतं शब्दाकाशयोः साध्य दृष्टान्तधर्मोणोरसादृश्यमिहाभिधेयम्
6 नानयोरर्थतः कश्चिद् भेदः ॥
7 अन्यत्र प्रयोगभेदात् ॥
8 तत्र साधर्म्यवत्प्रयोगः- यदुपलब्धिलक्षणप्राप्तं सन्नोपलभ्यते सो ऽद्वयव हारविषयः सिद्धः, यथान्यो दृष्टः कश्चिद् शशविषाणादिः । नोपलभ्यते च क्वचित् प्रदेशविशषे उपलब्धिलक्षणप्राप्तो घटः- इत्यनुपलब्धिप्रयोगः ॥
यदि साधर्म्यप्रयोगो ऽन्वयवान्, वैधर्म्यप्रयोगश्च व्यतिरेकवान्, तर्हि अर्थतो ऽपि भेदः स्यात्, तत् कस्मात् प्रयोगभेदेन द्विविधमित्युच्यते इति चेत्? तत्राह नानयोरिति ।
साधर्म्यवानपि त्रिरूपापेक्षः, वैधर्म्यवानपि त्रिरूपापेक्षः । तस्मात् सर्वत्र त्रिरूपसत्त्वादर्थतो भेदलेशो ऽपि नास्ति ।6 ॥
अन्यत्र प्रयोगभेदादिति । इह प्रयोगस्यैव भेदः, न तु सर्वथापि । तथा हि- प्रथमे वस्तुतो ऽन्वयाभिधाने ऽपि व्यतिरेकः सामर्थ्यादवगम्यते । द्वितीये च वस्तुतो व्यतिरेका भिधाने ऽपि अन्वयो ऽर्थाज्ज्ञायते
तत्र साधर्म्यवतः प्रथममुपन्यासः । यदुपलब्धिलक्षणप्राप्त सन्नोपलभ्यते सो ऽसद्वयय्द्यनयोः प्रयोगयोरभिधेयं भिन्नम्, कथं तर्हि त्रिरूपं लिङ्गमभिन्नं प्रकाश्यम्? इत्याह- नानयोरर्थत इति । अर्थः प्रयोजनम् । यत् प्रयोजनं प्रकाशयितव्यं वस्तु उद्दिश्यानुमाने प्रयुज्यते, ततः प्रयोजनादनयोर्न भेदः कश्चित् । त्रिरूपं हि लिङ्ग प्रकाशयितव्यम् । तदुद्दिश्य द्वे अप्येते प्रयुज्येते । द्वाभ्यामपि त्रिरूपं लिङ्ग प्रकाश्यत एव । ततः प्रकाशयितव्यं प्रयोजनमनयोरभिन्नम् । तथा च न ततो भेदः कश्चित्
अभिधेयभेदो ऽपि तर्हि न स्यात्? इत्याह- अन्यत्र प्रयोगभेदादिति । प्रयोगः अभिधानम्, वाचकत्वम् । वाचकत्वभेदादन्यो भेदः प्रयोजनकृतो नास्तीत्यर्थः ।
एतदुक्तं भवति- अन्यदभिधेयमन्यत् प्रकाश्यं प्रयोजनम् । तत्राभिधेयापेक्षया वाचकत्वं भेद्यते, प्रकाश्यं त्वभिन्नम् । अन्वये हि कथिते वक्ष्यमाणेन न्यायेन व्यतिरेकगतिर्भवति । व्यतिरेके चान्वयगतिः । ततस्त्रिरूपं लिङ्गं प्रकाश्यमभिन्नम् । न च यत्राभिधेयभेदः, तत्र सामर्थ्यगम्यो ऽप्यर्थो भिद्यते । यस्मात् पीनो देवदत्तो दिवा न भुंक्ते पीनो देवदत्तो रात्रौ भुंक्ते इत्यनयोवक्यियोरभिधेयभेदे ऽपि गम्यमानमेकमेव, तद्वदिहाभिधेयभेदे ऽपि गमय्मानं वस्तु एकमेव
9 तथा स्वभावहेतोः प्रयोगः- यत् सत् तत् सर्वमनित्यम्, यथा घटादिरिति शुद्धस्य स्वभावहेतोः प्रयोगः ॥
वहारविषयः सिद्ध इति । अत्रानुपलब्धेरन्वय उक्तः । यथा दृष्टः कश्चित् शशविषाणादिरिति । असद्वयवहारस्य विषयो दृष्टः । तस्योदाहरणम्- शशविषाणादिः दृष्ट इति सिद्धः । परीक्षित इति शेषः । तेन दृष्टान्तकथनं नोपलभ्यते इति अनेन पक्षधर्म उक्तः
स्वभावहेतोः प्रयोग इति । द्वितीयस्य हेतोः साधर्म्यवान् प्रयोग उपदर्श्यते यत् तत्रेति । तयोः साधर्म्यवैधर्म्यवतोरनुमानयोः साधर्म्यवत् तावदुदाहरन्ननुपलब्धिमाह- यदित्यादिना । यद् दृश्यम् । सन्नोपलभ्यते- इत्यनेन दृश्यानुपलम्भो ऽनुद्यते । सो ऽसद्वयवहारवीषयः सिद्धः । तदसदिति व्यवहर्तव्यमित्यर्थः । अनेनासद्वयवहारयोग्यत्वस्य विधिः कृतः । ततश्चास्द्वयवहारयोग्यत्वे दृश्यानुपलम्भो नियतः कथितः । दृश्यमनुपलब्धमसद्वयवहारयोग्यमेवेत्यर्थः । साधनस्य च साध्ये ऽर्थे नियतत्वकथनं व्याप्तिकथनम् । यथोक्तम्- व्याप्तिर्व्यापकस्य तत्र भाव एव व्याप्यस्य वा तत्रैव भावः इति । व्याप्तिसाधनस्य प्रमाणस्य विषयो दृष्टान्तः । तमेव दर्शयितुमाह- यथान्य इति । साध्यधर्मिणो ऽन्यो दृष्टान्त इत्यर्थः । दृष्ट इति । प्रमाणेन निश्चितः । शशविसाणं हि न चक्षुषा विषयीकृतम् । अपि तु प्रमाणेन दृश्यानुपलम्भेनासद्वयवहारयोग्यं विज्ञातम् । शशविषाणमादिर्यस्य असद्वयवहारविषयस्य स तथोक्तः । शशविषाणादौ हि दृश्यानुपलम्भमात्रनिमित्तो ऽसद्वयवहारः प्रमाणेन सिद्धः । तत एव प्रमाणादनेन वाक्ये नाभिधीयमाना व्याप्तिर्ज्ञातव्या ।
सम्प्रति व्याप्ति कथयित्वा दृश्यानुपलम्भस्य पक्षधर्मत्वं दर्शयितुमाह नोपलभ्यते चेति । प्रदेशः= एकदेशः पृथिव्याः । स एव विशिष्य्ते ऽन्यस्मादिति विशेष एकः । प्रदेशविशष इति । एकस्मिन् प्रदेशे । क्वचिदिति । प्रतिपत्तः प्रत्यक्ष एको ऽपि प्रदेशः । स एवाभावव्यवहाराधिकरणं यः प्रतिपत्तः प्रत्यक्षः, नान्यः । उपलब्धिलक्षणप्राप्त इति । दृश्यः । यथा चासतो ऽपि घटस्य समारोपितमुपलब्धिलक्षणप्राप्तत्वं तथा व्याख्यातम्
स्वभावहेतोः साधर्म्यवन्तं प्रयोगं दर्शयितुमाह- तथेति । यथानुपलब्धेः, तथा स्वभावहेतोः साधर्म्यवान् प्रयोग इत्यर्थः । यत् सदिति सत्त्वमनूद्य तत् सर्वमनित्यमित्यनित्यनित्यत्वं विधीयते । सर्वग्रहणं च नियमार्थम् ।
10 यदुत्पत्तिमत् तदनित्यमिति स्वभावभूतधर्मभेदेन स्वभावस्य प्रयोगः ॥
11 यत् कृतकं तद् अनित्यमित्युपाधिभेदेन ॥
सत् तत् सर्वमनित्यम्, यथा घटादिरिति । यदिति योग्यं वस्तुमात्रं सत्, तत् सर्वमखिलमनित्यम् । अनेन अन्वय एवोक्तः ।
शुद्धस्य स्वभावहेतोः प्रयोग इति । निर्विशेषणस्य स्वभावहेतोः प्रयोग इति शेषः
यदुतप्त्तिमत् तदनित्यमिति वचनं स्वभावहेतोद्वितीयस्यान्वयः ।
स्वभावभूतधर्मभेदेन स्वभावस्य प्रयोग इति । आत्मभूतधर्मस्यैव भेदं कृत्वा स्वभावहेतोः प्रयोगः कृतः । तथा हि- उत्पत्तिर्वस्तुनो हन्मलाभः । अभेद एव उत्पत्तिर्यस्यास्ति तदुत्पत्तिमदिति भेदेनोक्तः
यत् कृतकं तदनित्यमिति । अनेन स्वभावहेतोस्तृतीयस्यान्वय उक्तः । उपाधि भेदेनेति । अत्र उपाधिः= विशेषणम् । अनभिव्यक्तविशेषणः स्वभावहेतुप्रयोग इति शेषः
सर्वमनित्यम् । न किञ्चिन्नानित्यम् । यत् सत् तदनित्यमेव । अनित्यत्वादन्यत्र नित्यत्वे सत्त्वं नास्तीत्येवं सत्त्वमनित्यत्वे साध्ये नियतं ख्यापितं भवति । तथा च सति व्याप्तिप्रदर्शनवाक्यमिदं । यथा घटादिरिति । व्याप्तिसाधकस्य प्रमाणस्य विषयकथनमेतत् । शुद्धस्येति । निर्विशेषणस्य स्वभावस्य प्रयोगः
सविशेषणं दर्शयितुमाह- यदुत्पत्तिमदिति । उत्पत्तिः स्वरूपलाभो यस्यास्ति तद् उत्पत्तिमत् । उत्पत्तिमत्त्वमनुद्य तदनित्यमित्यनित्यत्वविधिः । तथा च सति उत्पत्तिमत्त्वमनित्यत्वे नियतमाख्यातम् ।
स्वभावं भूतः तदात्मको धमः, तस्य भेदेन । भेदं हेतूकृत्य प्रयोगः । अनुत्पन्नेभ्यो हि व्यावृतिमाश्रित्योत्पन्नो भाव इत्युच्यते । सैव व्यावृत्तिर्यदा व्यावृत्त्यन्तरनिरपेक्षा वक्तुमिषय्ते, तदा व्यतिरेकिणीव निर्देश्यते- भावस्य उत्पत्तिरिति । तथा च व्यतिरिक्तमेवोत्पत्त्या विशिष्ट वस्तु उत्पत्तिमदुक्तम् । तेन स्वभावभूतेन धर्मेण कल्पितभेदेन विशिष्टः स्वभावः प्रयुक्तो विदितव्यः
यत् कृतकमिति । कृतकत्वमनूद्यानित्यत्वं विधीयते- इति अनित्यत्वे नियतं कृतकत्वमुक्तम् । अतो व्याप्तिरनित्यत्वेन कृतकत्वस्य दर्शिता । उपाधिभेदेन स्वभावस्य प्रयोग इति सम्बन्धः । उपाधिर्विशेषणम् । तस्य भेदेन भिन्नेनोपाधिना विशिष्टः स्वभावः प्रयुक्त इत्यर्थः ।
12 अपेक्षितपरव्यापारो हि भावः स्वभावनिष्पत्तौ कृतक इति ।
13 एवं प्रयत्नान्तरीयकप्रत्ययभेदभेदित्वादयो ऽपि द्रष्टव्याः ॥
कथमनभिव्यक्तविशेषाणं इति चेत्? तत्राह- अपेक्षितपरव्यापारो हि भावः स्वभावनिष्पतौ कृतक इति । अपेक्षितः परस्य व्यापारो येनेति विग्रहः । यश्च भावः स्वभानिष्पत्तये हेतूनां व्यापारमपेक्षते इति । यथा कृतकमित्युक्तम्, तस्मात् अनभिव्यक्तविशेषणं स्वभावहेत्वन्तरमेतत्
एवमिति । एते ऽपि उपाधिभेदापेक्षिताः स्वभावहेत्व एव द्रष्टव्याः । तथा हि प्रयत्ने= हेतुव्यापारे सति यस्य सिद्धिः स प्रयत्नान्तरीयक इति । तेन अनित्यं प्रयत्नान्तरोयकत्वाद इत्ययनपि अनभिव्यक्तविशेषणः स्वभावहेतुरेव । प्रत्ययस्य भेदः प्रत्ययभेदः । प्रत्ययभेदेन भेत्तुं शील यस्य स प्रत्ययभेदभेदी, तस्य भावः प्रत्ययभेदभेदित्वम् । कारणभेदानुकूलरूपवत्त्वमिति शेषः ।
तथा हि- स्वल्पकर्दमपिण्डाद् घटः क्षुद्रो भवति, महतस्तु महान् भव्वति । निपुणैह कदाचिच्चुद्ध एवार्थ उच्यते, कदाचिदव्यतिरिक्तेन विशेषणेन विशिष्टः, कदाचिद् व्यतिरिक्तेन । देवदत्तः इति शुद्धः, लम्बकर्णः इति अभिन्नकर्णद्वयविशिष्टः, चित्रगुरिति व्यतिरिक्तचित्रगवीविशिष्टः । तद्वत् शुद्धम्, उत्पत्तिमत्वमव्यतिरिक्तविशेषणम्, कृतकत्वं व्यतिरिक्तविशेषणम्
ननु च चित्रगुशब्दे व्यतिरिक्तस्य विशेषणस्य वाचकश्चित्रशब्दो गोशब्दश्वास्ति, कृतकशब्दे तु निर्विशेषणवाचिनः शब्दस्य प्रयोगो ऽस्ति? इत्याशङ्कयाह- अपेक्षितेति । परेषां कारणानां व्यापारः स्वभावस्य निष्पत्तौ निष्पत्यर्थमपेक्षितः परव्यापारो येन स तथोक्तः । हीति यस्मादर्थे । यस्मादपेक्षितपरव्यापारः कृतक उच्यते, तस्माद् व्यतिरिक्तेन विशेषणेन विशिष्टः स्वभाव उच्यते । यद्यपि व्यतिरिक्तं विशेषणपदं न प्रयुक्तम्, तथापि कृतशब्देनैव व्यतिरिक्तं विशेषणपदमन्तर्भावितम् । अतएव संज्ञाप्रकारो ऽयं कृतकशब्दः, यस्मात् संज्ञायामयं कन् प्रत्ययो विहितः । यत्र च विशेषणमन्तर्भाव्यते, तत्र विशेषणाप्दं न प्रयुज्यते ।
क्वचित्तु प्र्तीयमानं विशेषणम्, यथा कृत इत्युक्ते हेतुबिरित्येतत् प्रतीयते । तत्र च हेतुशब्दः प्रयुज्यते, कदाचिन्न वा प्रयुज्यते
प्रयुज्यमानस्वशब्दश्च यथा प्रत्ययभेदभेदिशब्दे प्रत्ययभेदशब्दः, यथा च कृतशब्दो भिन्नविशेसणस्वभवाभिधायो, एवं प्रत्ययभेदभेदित्वमादिर्येषां
14 सन्नुत्पत्तिमान् कृतको वा शब्द इति पक्षधर्मोपदर्शनम् ॥
15 सर्वे एते साधनधर्माः यथास्वं प्रमाणैः सिद्ध साधन धर्ममात्रानुबन्धे एव साध्यधर्मे ऽवगन्तव्याः ॥
कुम्भकारव्यापारे सति शोभनो भवति,अनिपुणकुम्भकारवापारे ऽशोभनो भवति । तस्माद् अनित्यं प्रत्ययभेदभेदित्वादित्ययमपि अनभिव्यक्तविशेषणः स्वभावहेतुरेव
पूर्व त्रयाणां स्वभावहेतूनामन्वयमात्रमुक्तम्, इदानी तेन कारणेन पक्षधर्मा उच्यन्ते । सन् शब्दः, उत्पत्तिमान् शब्दः, कृतकः शब्द इति प्रयोगभेददर्शनाथं वा इति
तन्मात्रानुबन्धिनि साध्यधर्मे स्वभावो हेतुः इति पूर्व स्वभावहेतुलक्षणं यदभिहितम्, तत्प्रयोगार्थमाह- सर्वे एते साधनधर्मा इति । पूर्व येषां त्रिविधानां स्वभावहेतूनां पक्षधर्मा उक्ताः, ते यथास्वं प्रमाणैरिति । यस्य यदात्मीयं प्रमाणं तैः स्वप्रमाणैः ।
प्रयत्नानन्तरीयकत्वादीनां ते ऽपि स्वभावहेतोः प्रयोगाः भिन्नविशेषणस्वभावाभिधायिनो द्रष्टव्याः ।
प्रत्ययानाम्= कारणानाम्, भेदः= विशेषः, तेन प्रत्ययभेदेन भेत्तुं शीलं यस्य स प्रत्ययभेदो शब्दः, तस्य भावः प्रत्ययभेदभेदित्वम् । ततः प्रत्ययभेदभेदित्वाच्चब्दस्य कृतत्वं साध्यते । प्रयत्नानन्तरीयकत्वानित्यत्वम् । तत्र प्रत्ययभेदशब्दो व्यतिरिक्तविशेषणाभिधायी प्रत्ययभेदभेदिशब्दे प्रयुक्तः । प्रयत्नानन्तरीयकशब्दे च प्रयत्नशब्द ।
तदेवं त्रिविधः स्वभवहेतुप्रयोगो दर्शितः- 1 शुद्धः, 2 अव्यतिरिक्तविशेषणः, 3 व्यतिरिक्तविशेषणश्च । एवमर्थ चैतदाख्यातम्- वाचकभेदान्मा भूत् कस्यचित् स्वभावहेतावपि प्रयुक्ते व्यामोह इति
अथ किमेते स्वभावहेतवः सिद्धसम्बन्धे स्वभावे साध्ये प्रयोक्तव्याः? आहोस्वित् असिद्धसम्बन्धे? इत् सर्धयितुमाह- सर्वे एते इति । गमकत्वात् साधनानि, पराश्रितत्वाच्च धर्माः, साधनधर्मा एव साधनधर्ममात्रम् । मत्र शब्देनाधिकस्यापेक्षणीयस्य निरासः । तस्यानुबन्धः= अनुगमनम्, अन्वयः । सिद्धः साधनकर्ममात्रानुबन्धो यस्य स तथोक्तः । केन सिद्धः? इत्याह-
16 तस्यैव तत्स्वभावत्वात् ॥
सिद्धसाधनदह्र्ममात्रानुबन्धे एव साध्यधर्मे ऽवगन्तव्या इति । साधनधर्मस्वरूपमेव साधनधर्ममात्रम् । साधनधर्ममात्रेण अनुबन्धः= साधनधर्ममात्रानुबन्धः । अनुबन्धः= सम्बन्धः । अन्वय इति शेष । सिद्धः साधनधर्मामात्रानुबन्धो यस्य साध्य धर्मस्य तस्मिन् ।
यथास्वं साध्यधर्मे साधनधर्ममात्रानुबन्धे साधिते एव ते पक्षधर्मा हेतुत्वेनाभिधेया इति
कस्माच्च साध्यधर्मे साधनदह्र्ममात्रानुबन्ध इति चेत्? तत्राह- तस्यैवेति । तथाहि- परमार्थतो ऽनित्यस्वभाव एव कृतकः । अन्यश्च कृतकः, अन्यश्च अनित्य इति तु न । कथमिति चेत्? हेतुप्रत्ययैर्यत् क्रियते तद् विनश्यत्स्वभावमेवेति
यथास्वं प्रमाणैरिति । यस्य साध्यधर्मस्य यदात्मीयं प्रमाणं तेनैव प्रमाणेन सिद्ध इत्यर्थः । स्वभावहेतूनां च बहुभेददत्वात् सम्बन्धसाधनान्यपि प्रमाणानि बहूनीति प्रमाणैरिति बहुवचन निर्देशः । गमयितव्यत्वात् साध्यः, पराश्रितत्वाच्च धर्मः साध्यधर्मः ।
तदयं परमार्थः- न हेतुः प्रदीपवत् योग्यतया गमकः, अपितु नान्तरीयकतया विनिश्चितः । साध्याविन्भावित्वनिश्चयनमेव हि हेतोः साध्यप्रतिपादनव्यापारः, नान्यः कश्चित् ।
प्रथमं बाधकेन प्रमाणेन साध्यप्रतिबन्धो निश्चेतव्यो हेतोः । पुनरनुमानकाले साधनं साध्यनान्तरीयकं सामान्येन स्मर्तव्यम् । कृतकत्वं नामानित्यस्वभावमिति सामान्येन स्मृतमर्य पुनर्विशेषे योजयति- इदमपि कृतकत्वं शब्दे वर्तमानमनित्यस्वभावमेवेति ।
तत्र सामान्यस्मरणं लिङ्गज्ञानम् । विशिष्टस्य तु शब्दगतकृतकत्वस्यानित्यत्वस्वभावस्य स्मरणमनुमानज्ञानम् । तथा च सत्यविनाभावित्वज्ञानमेव परोक्षार्थप्रतिपादकतवं नाम । तेन निश्चिततन्मात्रानुबन्धे साध्यधर्मे स्वभाव हेतवः प्रयोक्तव्याः, नान्यत्रेत्युक्तम्
यद्येवं सम्बन्धो निश्चेतव्यः साश्यस्य साधनेन सह, साहनधर्ममात्रानुबन्धस्तु साधयस्य कस्मान्निश्चितो मृग्यते? इत्याह- तस्यैवेति । सिद्ध साधनधर्ममात्रानुबन्धस्य । तत्स्वभावत्वादिति । साधनधर्मस्वभावत्वात् । यो हि साध्यधर्मः साधनधर्ममात्रानुबन्धवान् स एव तस्य साधनधर्मस्य स्वभावः, नान्यः
17 स्वभावस्य च हेतुत्वात् ॥
18 वस्तुतस्तयोस्तादात्म्यम् ॥
19 तन्निष्पत्तावनिष्पन्नस्य तत्स्वभावत्वाभावात् ॥
स्वभावस्येति । अत्र साध्यस्य स्वभव एव हेतुरुक्तः, कथं साध्याननुबन्धी स्यात् तथा हि तन्मात्रानुबन्धो स्वभाव एवेति
तच्च कस्मात् इति चेत्? तत्राह- तन्निष्पत्ताविति ।
यदि साधनधर्मस्य कृतकत्वादेः सिद्धौ साध्यो ऽनित्यत्वादिनं सिद्धयति, तदा कृतकत्वानित्यत्वे परमार्थत एकस्वभावे न स्याताम्
भवतु ईदृश एव स्वभावः, स्वभाव एव तु साध्ये कस्माद् हेतुप्रयोगः? स्वभावस्य च हेतुत्वादिति । स्वभाव एवेह हेतुः प्रक्रान्तः । तस्मात् स एव साध्यः कर्तव्योः यः साधनस्य स्वभावः स्यात् । साधनधर्ममात्रानुबन्धवाश्च स्वभावः, नान्यः
यदि साध्यधर्मः साधनस्य स्वभवः स्यात्, प्रतिज्ञार्थैकदेशस्तर्हि हेतुः स्यात्? इत्याह- वस्तुत इति । वस्तुतः परमार्थतः साध्यसाधनयोस्तादात्म्यम् । समारोपितस्तु साध्यसाधनभेदः । साध्यसाधनभावो हि निश्चयारूढे रूपे । निश्चयारूढं च रूपं समारोपितेन भेदेनेतरेतरव्यावृत्तिकेन भिन्नमिति अन्यत् साधनम्, अन्यत् साध्यम् । दूराद्धि शाखादिमानर्थो वृक्षः इति निश्चीयते न शिशपेति । अथ च स एव वृक्षः, सैव शिशपा । तस्मादभिन्नमपि वस्तु निश्चयो भिन्नमादर्शयति व्यावृतिभेदेन । तस्मात् निश्चयरूढरूपापेक्षया अन्यत् साधनम्, अन्यत् साध्यम् । अतो न प्रतिज्ञार्थैकदेशो हेतुः । वास्तवं च तादात्म्यमिति
कस्मात् पुनः साधनधर्ममात्रानुबन्ध्येव साध्यः स्वभावः, नान्यः? इत्याह- तन्निषप्त्ताविति । यो हि यत्रानुबध्नाति स तन्निष्पत्तावनिष्पन्नः, तस्य तन्निष्पत्तावनिष्पन्नस्य साधनस्वभवत्वमयुक्तम् । यतो निष्पत्त्यनिषप्त्ती भवाभावस्वरूपे । भावाभावौ च अप्रस्परपरिहारेण स्थितौ । यदि च पूर्व निष्पन्नस्य, अनिष्पन्नस्य चैक्यं भवेदू, एकस्यैवार्थस्य भावाभावो स्यातां युगपत् । न च विरुद्धयोर्भावाभावयोरैक्यं युज्यतेः, विरुद्धधर्मसंसर्गात्मक कत्वादेकत्वाभवस्य ।
किञ्च, पश्चादुत्पदयमानं पूर्वनिष्पन्नाद् भिन्नहेतुकम्, हेतुभेदपूर्वकश्च
20 व्यभिचारसम्भवाच्च ॥
21 कार्यहेतोः प्रयोगः- यत्र धूमस्तत्राग्निः, यथा महानसादौ । अस्ति चेह धूम इति ॥
22 इहापि सिद्धे एव कार्यकारणभावे कारणे साध्ये कार्यहेतुर्वक्तव्यः ॥
यदि कृतत्वापरिनिष्पत्तावुत्तरकाले दण्डादिकारणान्तरेणानित्यत्वं क्रियते, तदा व्यभिचारः स्यत्, दण्डादेरपि स्वप्रत्ययसपेक्षतयोत्पन्नत्वात् । तदवश्यमेवानुत्पन्नस्य कस्यापि विनाशस्यापि न सम्भव इति
कार्यहेतोः प्रयोग इति । साध्र्म्यवदनुमानस्य कार्यहेतोः प्रयोग उपदर्श्यते । यत्र धुमस्तत्राग्निरिति । यत्रेति अस्मिन् पर्देशे धूमस्तत्र सर्वत्राग्निरित्यन्वय इति । यथा महानसादाविति । अनेन दृष्टान्तो दर्शितः । अस्ति च इह धूम इति । अभिमतदेशे च धूमो दृश्यत इति पक्षधर्मो दर्शितः
कार्यहेतावपि पूर्व कार्यकारणभावः साधनीयः अनन्तरं च कारणसाधनार्थ कार्यहेतुर्वक्तव्यः । तथा हि- स्वरूपेण निश्चितमेव लिङ्ग ज्ञेयम्, न तु अनिश्चितमेवेति
कार्यभेदः, ततो निष्पन्नानिष्पन्नयोविरुद्धर्मसंसर्गात्मको भेदो भेदहेतुश्च कारणभेद इति कुत एकत्वम् । तस्मात् साधनधर्ममात्रानुबन्ध्येव साध्यः स्वभावः, नान्यः
मा भूत् पश्चान्निष्पन्नः पूर्वजस्य स्वभावः, साध्यस्तु कस्मान्न भवति? इत्याह- व्यभिचरेत्यादि ॥ पूर्वजेन पश्चान्निष्पन्नस्य व्यभिचारः= परित्यागो यस्तस्य सम्भवाच्च न पूर्वनिष्पन्नस्य पश्चान्निष्पन्नः साध्यः । तस्मात् साधन धर्ममात्रानुबन्ध्येव स्वभावः । स एव च साध्यः । तथा च सिद्धसाधनधर्म मात्रनुबन्ध एव स्वभावे स्वभवहेतवः प्रयोक्तव्या इति स्थितम्
कार्यहेतोः प्रयोग इति । साधर्म्यवानिति प्रकरणादपेक्षणीयम् । यत्र धूम इति धूममनूद्य तत्राग्निरिति अग्नेविधिः । तथ च नियमार्थः पूर्ववदवगन्तव्यः । तदनेन कार्यकारणभवनिमित्ता व्याप्तिदर्शिता ।
व्याप्तिसाधनप्रमाणविषयं दर्शयितुमाह- यथामहानसादाविति । महानसादौ हि प्रत्यक्षानुपलम्भाभ्यां कार्यकारणभावात्माविनाभावो निश्चितः । अस्ति चेहेति साध्यधर्मिणि पक्षधर्मोपसंहारः
इहापीति । न केवलं स्वभावहेती, इहापि कार्यहेतौ । सिद्ध एवेति । निश्चिते कार्यकारणत्वे । कार्यकारणभावन्श्चयो ह्यवश्यं कर्तव्यः, यतो न योग्यतया हेतुर्गमको ऽपितु नान्तरीकत्वादित्युक्तम्
23 वैधर्म्यवतः प्रयोगः- यत् सद् उपलब्धिलक्साणप्राप्तं तदुपलभ्यत एव । यथा नीलादिविशेषः । न चैव मिहोपलब्धिलक्षणप्राप्तस्य सत उपलब्धिः र्घटस्येति अनुपलब्धिप्रयोगः ॥
24 असति अनित्यत्वे, नास्ति सत्त्वम् उत्पत्तिमत्त्वं कृतकत्वं वा । सन् च शब्द उत्पत्तिमान् कृतको वेति स्वभावहेतोः प्रयोगः ॥
वैधर्म्यत्यादि । यानि च वैधर्म्यवदनुमानानि, तानि वक्तव्यानि ।
यत् सद् उपलब्धिलक्षणप्राप्तं तदुपलभ्यत एवेति । सच्च वस्तु किमप्युपलब्धिलक्षणप्राप्तं यदि स्यात्, तदा अवश्यमुपलभ्येत । एतेन व्यतिरेक उक्तः । यथा नोलादिविशेष इति । वैधर्मदृष्टान्तः ।
न चैवमिहोपलब्धिलक्षणप्राप्तस्य घटस्योपलब्धिरिति । उपलब्धिरित्युपलब्धिलक्षणप्राप्तो यादृशो नीलादिविशेष उपलभ्यते, तादृशो घट इह नास्ति । इहेति अनेनाभिमतः प्रदेश उक्तः । अनुपलब्धिप्रयोग इति । अयमनुपलब्धेर्वैधर्म्यवान्
असति अनित्यत्वे नास्ति सत्त्वमुत्पत्तिमत्त्वं वेति । अनेन त्रयाणां स्वभावहेतूनां व्यतिरेक उपदिष्टः । सन् च शब्द उत्पत्तिमान्, कृतको वेति पक्षधर्मा उक्ताः । स्वभावहेतोः प्रयोग इति । एते च स्वभावहेतोर्वैधर्म्यवन्तः प्रयोगा इति
साधर्म्यवान् स्वभावकार्यानुपलम्भानां प्रयोगो दर्शितः, वैधर्म्यवन्तं दर्शयितुमाह- वैधर्म्यवत इति । यत् सद् उपलब्धिलक्षणप्राप्तमिति । यत् सद् दृश्यमित्यस्तित्वानुवादः । तदुपलभ्यत इति उपलम्भविधिः । तदनेन दृश्यस्य सत्त्वं दर्शनविषयत्वेन व्याप्तं कथितम्, असत्त्वनिवृतिश्च । सत्त्वम्, अनुपलम्भनिवृतिश्च उपलम्भः । तेन साध्यनिवृत्त्यनुवादेन साधननिवृत्तिविहिता । तथा च साध्यनिवृत्तिः साधननिवृत्ति नियतत्वात् साधननिवृत्त्या व्याप्ता कथिता । यदि च धर्मिणि साधयधर्मो न भवेद्, हेतुरपि न भवेत् । हेत्वभावेन साध्याभावस्य व्याप्तत्वात् । अस्ति च हेतुः । अतो व्यापकस्य साधनाभावस्याभावाद् व्याप्यस्य साध्याभावस्याभाव इति साध्यगतिर्भवति । ततो वैधर्म्यप्रयोगे साध्नाभावे साध्याभावो नियतो दर्शनीयः सर्वत्रेति न्यायः
स्वभावहेतोर्वैधर्म्यप्रयोगमाह- असत्यनित्यत्व इति । इहानित्यत्वस्य साध्यस्याभावो हेतोरभावे नियत उच्यते । तेन हेत्वभावेन साध्याभावो
25 असत्यग्नौ न भवत्येव धूमः । अत्र चास्ति धूम इति कार्यहेतोः प्रयोगः ॥
26 साधर्म्येणापि हि प्रयोगे ऽर्थाद् वैधर्म्यगतिरिति ॥
27 असति तस्मिन् साध्येन हेतोरन्वयाभावात् ॥
असत्यग्नौ न भवत्येव धूम इति । अनेन व्यतिरेक उक्तः अत्र च । अस्तीति अनेन पक्षधर्म उक्तः । कार्यहेतोः प्रयोग इति । कर्यहेतोर्वैधर्म्यवान्, प्रयोग उपदर्शित इति
साधर्म्यवदनुमाने चान्वयः, पक्षधर्मी व्यतिरेकश्चेति त्रीणि रूपाणि नाभिव्यक्तानि, कथं परार्थानुमानं तिरूपलिङ्गाख्यानमिति चेत्? तत्राह- साधर्म्येणेति । यस्मात् सामर्थ्यद्वारेण साधर्म्यवत्प्रयोगे ऽपि वैधर्म्यस्य प्रतीतिः, तस्मात् यथोक्तप्रसङ्गी नास्तीति
सामर्थ्य च कीदृशमीत् चेत्? आह- असतीति ।
यदि व्यतिरेको न स्यात्, तदा साध्येन हेतोरन्वयो ऽप्यसिध एव स्यादिति
व्याप्त उक्तस्त्रिष्वपि स्वभावहेतुषु । सन्नुत्पत्तिमान् कृतको वा शब्द इति । त्रयाणामपि पक्षधर्मत्वकथनम् । इह च साधनाभावस्य व्यापकस्याभाव उक्तः । ततो व्याप्यो ऽपि साध्याभावो निवर्तत इति साध्यगति
कार्यहेतोर्वैधर्म्यवत्प्रयोगमाह- असत्यग्नाविति । इहापि वह्नयभावो धूमाभावेन व्याप्त उक्तः । अस्ति चात्र धूम इति । व्यापकस्य धूमाभावस्य भाव उक्तः । ततो व्याप्यस्य वह्नयभावस्याभावे साध्यगतिः
ननु च साधर्म्यवति व्यतिरेकोनोक्तः, वैधर्म्यवति चान्वयः, तत् कथमेतत् त्रिरूपालिङ्गाख्यानाम्? इत्याह- साधर्म्यैणेति । साधर्म्यैणाप्यभिधेयेन युक्ते प्रयोगे क्रियमाणे अर्थात् सामर्थ्यात् वैधर्म्यस्य व्यतिरेकस्य गतिर्भवतीति । हीति यस्मात् । तस्मात् त्रिरूपलिङ्गाख्यानमेतत् ।
यदि नाम व्यतिरेको ऽन्वयवता नोक्तः, तथापि अन्वयवाचकः सामर्थ्या देवावसीयते
कथम्? असति तस्मिन् व्यतिरेके बुद्धया व्यवसिते साध्येन हेतोरन्वयस्य बुद्धयाश्यवसितस्याभावात् । साध्ये नियतं साधनमन्वयवाक्यादवस्यता साध्याभावे साधनं नाशङ्कनीयम् । इतरथा साध्यनियतमेव न प्रतीतं स्यात् । साध्याभावे च साधनाभावगतिर्व्यतिरेकगतिः । अतः साध्यनियतस्य साधनस्याभिधानसामर्थ्यादन्वयवाक्ये ऽवसितो व्यतिरेकः
28 तथा वैधर्म्येणाप्यन्वयगतिः ॥
29 असति तस्मिन् साध्याभावे हेत्वभावस्यासिद्धेः ॥
30 नहि स्वभावप्रतिबन्धे ऽसत्येकस्य निवृत्तावपरस्य नियमेन निवृत्तिः ॥
31 स च द्विप्रकारः सर्वस्य तादात्म्यलक्षणः, तदुत्पत्तिलक्षणश्चेत्युक्तम ॥
वैधर्म्यवत्प्रयोगे ऽपि सामर्थ्येनान्वयप्रतीतिर्भवतीति
अथ तच्च साधर्म्य कीदृशमिति चेत्? आह- असतीति ।
यदि साध्येन हेतोरन्वयो न स्यात् तदा साध्याभावे ऽपि हेतोरभावः कथम् स्यात्
अन्वयाभावे व्यतिरेको ऽसिद्ध इत्येतत् कस्मादिति चेत्? तत्राह- नहीत्यादि । यदि स्वभावप्रतिबन्ध आत्मा स्वरूपेण प्रतिबन्धो न स्यात् तदा एकनिवृत्तावपि अपरस्य निवृत्तिर्नियमेन न स्यात् । यथा क्वचिदश्वाभावे गवामप्यभावो नेति
सच सर्वस्य द्विप्रकार इति । सर्वस्यैव पदार्थस्य यः को ऽपि प्रतिबन्धो योग्यः समुपलभ्यते स सर्वः प्रकारद्वय एवान्तर्भवति । तादात्म्यलक्षणस्तदुत्पत्तिलक्षणश्चेत्युक्त-
तथेति । यथा अन्वयवाक्ये, तथा अर्थादेव वैधर्म्येण प्रयोगे ऽन्वयस्याभिधीयमानस्यापि गतिः
कथम्? असति तस्मिन् अन्वये बुद्धिगृहीते साध्याभावे हेत्वभावस्यासिद्धे रनवसायात् । हेत्वभावे साध्याभावं नियतं व्यतिरेकवाक्यादवस्यता हेतुः सम्भवे साध्याभावो नाशङ्कनीयः, इतरथा हेत्वभावे नियतो न स्यात् प्रतीतः । हेतुमत्त्वे च साध्यसत्त्वगतिरन्वयगतिः । अतः साधनाभावनियतस्य साध्याभावस्यभिधानसामर्थ्याद् व्यतिरेकवाक्ये ऽन्वयगतिः
यदि नामाकाशादौ साध्याभावे साधनाभावः,तथापि किमीत् हेतुसम्भवे साध्यसम्भवः? इत्याह- नहीति । स्वभावेन प्रतिबन्धो यस्त्स्मिन्नसत्येकस्य साध्यस्य निवृत्त्या नापरस्य साधनस्य नियमेन युक्ता नियमवती निवृत्तिः
स च स्वभावप्रतिबन्धो द्विप्रकारः सर्वस्य प्रतिबद्धस्य । तादात्म्यं लक्षणं निमित्तं यस्य स तथोक्तः । तदुत्पत्तिर्लक्षणं निमित्तं तस्य स तथोक्तः । यो यत्र प्रतिबद्धस्तस्य स प्रतिबन्धविषयो ऽर्थः स्वभावः कारणं वास्यत् अन्यस्मिन् प्रसिद्धत्वानुपपत्तेः । तस्माद् द्विप्रकारः सः इत्युक्तम् । स च साध्ये ऽर्थे लिङ्गस्य इत्यत्रान्तरे ऽभिहितः
32 तेन हि निवृत्ति कथयता प्रतिबन्धो दर्शनीयः । यस्माद् निवृत्तिवचनमाक्षप्तप्रतिबन्धोपदर्शनमेव भवति । यच्च प्रतिबन्धोपदर्शनं तदेवान्वयवचनमियेकेनापि वाक्येन अन्वयमुखेन व्यतिरेकमुखेन वा प्रयुक्तेन सपक्षासपक्षयोर्लिङ्गस्य सदसत्त्वख्यापनं कृतं भवतीति नावश्यं वाक्यद्वयप्रयोगः ॥
मिति तस्य आत्मा तदात्मा, तदात्मनो भावस्तादात्म्यम्, तादात्म्यं लक्षणं यः स तादात्म्यलक्षणः । तस्मादुत्पत्तिस्तदुत्पत्तिः, तदुत्पत्तिर्लक्षणं यस्य स तदुत्पत्तिलक्षण इति विग्रहः । एतच्च पूर्वमुक्तमेव
यस्मात् प्रतिबन्धे सति एकनिवृत्त्या अपरनिवृत्तिर्भवति, अभावे न तेन हेतुना कस्यचिदेकस्य निवृत्या अपरनिवृत्तिरमिधीयते । एतेन निवर्त्त्यनिवर्तकयोः प्रतिबन्ध उक्त इति । निवृत्तिवचनेनैव प्रैबन्ध आक्षिप्यत इति ।
यदयवम् स्यादेव, ततश्च किमायातम्? इति चेदाह- यदेव प्रतिबन्धोपदर्शनं तदेवान्वय इति । तस्मादेकेनापि वाक्येनान्वयमुखेन व्यतिरेकमुकेन वा प्रयुक्तेन सपक्षासपक्षयोर्लिङ्गस्य सदसत्त्वख्यापनं कृत भवतीति । यदयपि अन्वयमुखेन
हिर्यस्मादर्थे । यस्मात् स्वभावप्रतिबन्धे निवर्त्यनिवर्तकभावः, तेन साध्यस्य निवृत्तौ साधनस्य निवृत्ति कथयता प्रतिबन्धो निवर्त्त्य निवर्तकयोर्दर्शनीयः । यदि हि साधनं साध्ये प्रतिबद्धम् भवेत्, एवं साध्यनिवृतौ तन्नियमेन निवर्तेत । यतश्च तस्य प्रतिबन्धो दर्शनीयः, तस्मात् साध्यनिवृतौ यत् साधन निवृत्तिवचनं तेनाक्षिप्तं प्रतिबन्धोपदर्शनम् । यच्च तदाक्षिप्तं प्रतिबन्धोपदर्शन तदेवान्वयवचनम् । प्रतिबन्धश्चेदवश्यं दर्शयितव्यः, न वक्तव्यस्तर्हि अन्वयः । यस्मात् दृष्टान्ते प्रमाणेन प्रतिबन्धो दर्श्यमान एवान्वयः, नापरः कश्चित्, तस्मात् निवर्त्य निवर्तकयोः प्रतिबन्धो ज्ञातव्यः । तथा च अन्वय एव ज्ञातो भवति । इतिशब्दो हेतौ । यस्मादन्वये ऽपि व्यतिरेकगतिः व्यतिरेके चान्वयगतिः, तस्मादेकेनापि सपक्षे चासपक्षे च सत्त्वासत्त्वयोः ख्यापनं कृतम् ।
अन्वयो मुखम्= उपायो ऽभिधेयत्वाद् यस्य तद् अन्वयमुखं वाक्यम् । एवं व्यतिरेको मुखं यस्येति । इति हेतो । यस्मादेकेनापि वाक्येन द्वयगतिः, तस्माद् एकस्मिन् साधनवाक्ये द्वयोरन्वय व्यतिरेकयोरवश्यमेव प्रयोगौ न न कर्तव्याः ॥
33 अनुपलब्धावपि यत्सद् उपलब्धिलक्षणप्राप्तं तदुपलभ्यत एवेत्युक्ते ऽनुपलभ्यमानं तादृशमसदिति प्रतीतेरन्वयदिस्शिः ॥
34 द्वयोरप्यनयोः प्रयोगयोर्नावश्यं पक्षनिर्देशः ॥
प्रयोगः क्रियते चेद् व्यतिरेकमुखेन करणमपि युक्तमेव, तथापि उक्तप्रकारेण सपक्षासपक्षयोः सत्त्वासत्त्वयोरभिधानमेव सत्त्वासत्त्वप्रदर्शनं भवतीति उभयेनापि लिङ्गेन प्रत्येकं क्रियते ।
इति नावश्यं वाक्यद्वयप्रयोग इति । तस्मादेकस्मिन्नेव प्रयोगे साधर्म्यवतो वैधर्म्यवतश्च वाक्यद्वयस्य प्रयोगो नावश्यं कार्यः
एवं कार्य स्वभावहेत्वोरन्वय व्यतिरेकयोः परस्पराक्षेपो ऽभिहितः । तृतीयहेतुनिर्देशार्थमाह- अनुपलब्धावपीति ।
कार्य स्वभावहेतुभ्यामनधिगतस्येति शेषह् । यदोपलब्धिलक्षणप्राप्तं यदि स्याद्, अवश्यमुपलभ्येत इति व्यतिरेक उच्यते, तदोपलभ्दिलक्षणप्राप्तस्यानुपलम्भे सामर्थ्यात्रास्तीति प्रतीतिजयिते । तस्मादन्वयसिद्धिराक्षिप्त एव । एवमन्वयाक्षेप उक्तः । अनुपलब्धौ व्यतिरेकाक्षेपस्तु स्वयं द्रष्टव्य इति
साधर्म्यवति वैधर्म्यवति चानुमाने उभयत्राइ पक्षनिर्देशो नास्ति । एवं च पक्षानिर्धेशाभाव एव कल्प्यत इति चेत्? तत्राह- द्वयोरपीति ।
अवश्यमेव पक्षो निदेह्स्यः इति यो नियमः, स तु नास्ति
अर्थगत्यर्थो हि शब्दप्रयोगः । अर्थश्चेदवगतः कि शब्दप्रयोगेण । एकमेवान्वयवाक्यं व्यतिरेकवाक्यं वा प्रयोक्तव्यम्
अनुपलब्धावपि व्यतिरेकेणोक्तेनान्वयगतिः । यत् सद् उपलब्धिलक्षणप्राप्तमिति । साध्यस्य असद्वयवहारयोग्यत्वस्य निवृत्ति दृश्यसत्त्वरूपामाह । तदुपलभ्यत एवेति । अनुपलम्भस्य निवृत्तिमुपलम्भरूपामाह । तदनेन साध्यनिवृत्तिः साधननिवृत्या व्याप्ता दर्शिता । यदि च साधनसम्भवे ऽपि साध्यनिवृत्तिर्भवेत् न साधनाभावेन व्याप्ता भवेत् । अतो व्याप्तिं प्रतिपद्यमानेन साधनसम्भवः साध्यसम्भवेन व्याप्तः प्रतिपत्तव्यः । अत एवाह- अनुपलभ्यमानं तादृशमिति । दृशयम् । असदिति प्रतीतेः सम्प्रत्यात् अन्वयसिद्धिरिति
यतश्च साधनं साध्यधर्मप्रतिबद्धं तादात्म्य तदुत्पत्तिभ्यां प्रतिपत्तव्यं द्वयोरपि प्रयोगयोः, तस्मात् पक्षो ऽवश्यमेव न निर्धेश्यः । यत् साधनं साध्यनियतं प्रतीतं तत एव साध्यधर्मिणि दृष्टात् साध्यप्रतीतिः । अतो न किञ्चित् साध्यनिर्दशनेति
35 यस्मात् साधर्म्यवत्प्रयोगे ऽपि यदुपलब्धिलक्षणप्राप्तं तन्नोपलभ्यते सो ऽसद्वयवहारविषयः । नोपलभ्यते चात्रापि उपलब्धिलक्षणप्राप्तो घट इति सामर्थ्यादेव इह घटो नास्तीति भवति ॥
36 तथा वैधर्म्यवत्प्रयोगे ऽपि यः सद्वयवहारविषय उपलब्धिलक्साणप्राप्तः स उपलभ्यत एव । न तथात्र तादृशो घट उपलभ्यते इत्युक्ते सामर्थ्यादेव नेह सद्वयवहारविषय इति भवति ॥
उपलब्धिलक्षणर्पाप्तो यावान्नोपलभ्यते स सर्वो ऽसद्वयवहारविषय इति निखिलपदार्थोसंहारेण अन्वयः कार्य इति । निखिलपदार्थोपसंहारेणान्वयो यत्र च पक्षधर्मः इत्येतयोनिर्देश तच्च साध्यं तत्र सामर्थ्येन सिद्धयतीति पक्षनिर्देशस्य किं प्रओजनम्?
निखिलपदार्थोपसंहारेण यो व्यतिरेकनिर्देशः पक्षधर्मश्चेति तदुभयसामर्थ्येन प्रतिज्ञाप्रतीतेनं प्रतिज्ञानिर्देशः । अन्यथा यन्न प्रतीयते तन्निदिश्येत । यदा सामर्थ्येन प्रतिज्ञार्थप्रतीतिर्जायते तदा प्रतिज्ञावचनश्रवणे उपरोधेनापि क आग्रही स्यात् । एवं च यदा सामर्थ्येन वितर्कविषयार्थविनिश्चयः, पक्षधर्मव्याप्तिनिर्देशबलाच्च प्रतिज्ञार्थावगमस्तत्र पक्षनिर्देशेन किम्? एतच्च विनिश्चयवचनाभिधाने द्रष्टव्यम् । प्रपञ्चा एनमेवार्थमनुपलब्धिप्रयोगे दर्शयति यस्मादिति । साधर्म्यवति प्रयोगे ऽपि सामर्थ्यादेव नेह प्रदेशे घटः इति भवति ।
कि पुनस्तत्सामर्थ्यम्? इत्याह- यदुपलब्धिलक्षणप्राप्तं सन्नोपलभ्यते इति अनुपलम्भानुवादः सो ऽसद्वयवहारविषय इति । असद्वयवहरयोग्यत्वविधिः ।तथा च सति दृश्यानुपलम्भो ऽसद्वयवहारयोग्यत्वेन व्याप्तो दर्शितह् । नोपलभ्यते च इत्यादिना साध्यधर्मिणि सत्त्वं लिङ्गस्य दर्शितम् । यदि च साध्यधर्मस्तत्र साध्यधर्मिणि न भवेत्, साधनधर्मो ऽपि न भवेत् । साध्यनियतत्वात् तस्य साधनधर्मस्येति सामर्थ्यम्
यथा साधर्म्यवत्प्रयोगे तथा वैधर्म्यवत्प्रयोगे ऽपि नेह सद्वयवहारविषयो ऽस्ति घट इति भवति ।
सामर्थ्य दर्शयितुमाह- यः सद्वयवहारविषय इति । विदयमानः । उपलब्धिलक्षणप्राप्त इति । दृश्य इत्येषा साध्यनिवृत्तिः । स उपलभ्यत एवेति । साध्यनिवृत्तिरिति । अनेन च साध्यनिवृतिः साधननिवृत्त्या व्याप्ता दर्शिता । न तथेति । यथान्यो दृश्य उपलभ्यते न तथात्र प्रदेशे तादृश इति । दृश्यो घटः । उपलभ्यते इति । अनेन साध्यनिवृत्तेर्व्यापिका निवृत्तिरसती साध्यधर्मिणि दर्शिता । यदि च साध्यधर्मः साध्यधर्मिणि न स्यात् साधन
37 कीदृशा पुनः पक्ष इति निर्देश्यः ॥
38 स्वरूपेणैव स्वयमिष्टो ऽनिराकृतो निर्देश्यः पक्ष इति ॥
39 स्वरूपेणेति साध्यत्वेनेष्ट इति ॥
40 स्वरूपेणैवेति साध्यत्वेनैवेष्टो न साधनत्वेनापि ॥
भिधानार्थे पक्षनिर्देशे च दोषः को ऽपि नास्ति । अत एव नियमो नेत्युक्तम् । यदि पुनः सर्वथा पक्षनिर्देशप्रतिषेध एवाभिर्पेतः स्यात्, तर्हि वचनमेतदवश्यं नोपदिश्येत इत्युक्तं भवतीति
यदि विनिश्चयवचनाभिधाने च पक्षनिर्देश इति उच्यते, यत्र प्रपञ्चाभिधानं तत्र निर्देशः, तर्हि कीदृग्लक्षणविशिष्टः पक्षत्वेनाभिधेय इति चेद्? आह- कीदृश इति ।
यश्चार्थो वादयभिमतेन विषयीकृतः साध्यरूपेणैव निर्दिश्यते, तथा प्रत्यक्षादिना च न निराक्रियते तादृशो ऽर्थः पक्ष इति अभिधेयः । एव समासार्थः
अवयवार्थस्तु- स्वरूपेणेति ।
साध्यरूपेण विना अन्यरूपेण न युज्यते इति स्वरूपेणोक्तमेव साध्यत्वेनावगन्तव्यमिति
अनयोक्त्या केवलसाध्यरूपेण निर्देश्यस्यैव पक्षत्वेनाभिधानम् । अन्यरूपेण निर्देश्यस्य तु नेति
धर्मो ऽपि न भवेत् । अस्ति च साधनधर्म इति सामर्थ्यम् । अतः सामर्थ्यात् नास्त्यत्र घट इति प्रतीतेन पक्षनिर्देशः । एवं कार्य स्वभावहेत्वोरपि समर्थ्यात् सम्प्रत्यय इति न पक्षनिर्देशः
कीदृशः पुनरर्थः पक्ष इति । अनेन शब्देन निर्देश्यो वक्तव्यः?: इति
आप-स्वरूपेणैवेति । साध्यत्वेनैव । स्वयमिति वादिना । इष्ट इति । नोक्त एव, अपि त्विष्टो ऽपीत्यर्थः । एवम्भूतः सन् प्रत्यक्षादिभिः अनिराकृतो यो ऽर्थः स पक्ष इत्युच्यते ।
अथ यदि पक्षो न निर्देश्यः, कथमनिर्देश्यस्य लक्षणमुक्तम्? न साधनवाक्यावयवत्वादस्य लक्षणमुक्तम्, अपि त्वसाध्ये केचित् साध्यम्, साध्यं चा साध्यमिति । केचित् प्रतिपन्नाः, तत्साध्यासाध्यप्रतिपत्तिनिराकरणार्थ पक्षलक्षणमुक्तम्
स्वरूपेणेष्ट इत्यस्य विवरणम्- स्वरूपेणेति । साध्यत्वेनेष्ट इति । पक्षस्य साध्यत्वान्नापरमस्ति रूपम् । अतः स्वरूपं साध्यत्वमिति
एवशब्दं विवरीतुमाह- स्वरूपेणैवेति । ननु चैवशब्दः केवल एव
41 यथा शब्दस्यानित्यत्वे साध्ये चाक्षुषत्वं हेतुः, शब्दे ऽसिद्धत्वात् साध्यं भवतीति न पुअन्रत्र साध्यत्वेनैवेष्टम्, साधनत्वेनाप्यभिधानात् ॥
42 स्वयमिति वादिना ॥
43 यस्तदा साधनमाह ॥
साध्यरूपान्यरूपविशिष्टस्य निर्देशः कीदृशः? इति चेदाह-यथेति ।
यः शब्दः सो ऽनित्यः इत्युच्यमाने तच्च चाक्षुषत्वं शब्दे ऽसिद्धमिति साध्यं भवति । तस्मात् स्वरूपेणैवेति निर्देशाभावे चाक्षुषत्त्वनिर्देशस्यापि पक्षत्वप्रसङ्गः ।
यदि तस्मिन् साध्यरूपमस्त्येव, कस्मान्न पक्ष इति चेद्? आह- अत्रेति ।
चाक्षुषत्वे साध्यरूपता अस्त्येव । तथापि हेतुत्वेन निर्देशान्न केवलं साध्यस्वरूपत्वमेव । साधनरूपताप्यस्ति । तस्मात् साध्यत्वे ऽपि अतिरिक्तसाधनरूपसत्त्वादधिकवचनस्य पक्षत्वं निरस्तम्
साधनं कथयता स्वयं निर्देश्यो यो ऽर्थः स एव पक्षः, शास्त्रकारेण निर्देश्यस्तु नेति शेषः
प्रत्यवम्रष्टव्यः, तत् किमर्थ स्वरूपशब्देन सह प्रत्यवमुष्टः? उच्यतेः एवशब्दो निपातो दयोतकः । पदान्तराभिहितस्यर्थस्य विशेष दयोतयति- इति पदान्तरेण विशेष्यवाचिना सह निर्दिष्टः । न साधनत्वेनापीति । यत् साधनत्वेन निर्धिष्टं तत् साधनत्वेनेष्टम् । असिद्धत्वाच्च साध्यत्वेनापीष्टम् । तस्य निवृत्त्यर्थम् एवशब्दः
तदुदाहरति- यथेति । शब्दयानित्यत्वे साध्ये चाक्षुषत्वं हेतुः शब्दे ऽसिद्धत्वात् साध्यम् इत्यनेन साध्यत्वेनेष्टिमाह । तद् इति चक्षुषत्वम् । इहेति शब्दे । साध्यत्वेनैवेष्टमिति । साध्यत्वेनेष्टिनियमाभावमाह । साधनत्वेनाभिधानादिति । यतः साधनत्वेनाभिहितम्, अतः साधनत्वेनापीष्टम्, न साध्यत्वेनैवेति
स्वयमित्यनेन स्वयं शब्दं व्याख्येयमुपक्षिप्य तस्यार्थमाह- स्वयमिति । स्वयंशब्दो निपातः आत्मनः इति षष्ठयन्तस्य आत्मना इति च तृतीयान्तस्यार्थे वर्तते । तदिह स्वात्मशब्दस्यार्थे वृत्तः स्वयं शब्दः । आत्म शब्दश्च सम्बन्धिशब्दः । वादी च प्रत्यासन्नः । ततो यस्य वादिन आत्मा तृतीयार्थ युक्तः, स एव तृतीयार्थयुक्तो निर्दिष्टो वादिनेति । न तु स्वयंशब्दस्य वादिना इत्येष पर्यायः
कः पुनरसौ वादी? इत्याह- यस्तदेति । वादकाले, साधनमाह । अनेक
44 एतेन यदयपि क्वचित् शास्त्रे स्थितः साधनमह, तच्चास्त्रकारेण तस्मिन् धर्मिण्यनेकधर्माभ्युपगमे ऽपीति यस्तदा तेन वादिना धर्मः स्वयं साधयितुमिष्टः स एव साध्यो नेतर इत्युक्तं भवति ॥
45 इष्ट इति यत्रार्थे विवादेन साधनमुपन्यस्तं तस्य सिद्धिमिच्चता सो ऽनुक्तो पि वचनेन साध्यो भवति ॥
तेनेति वादिना निर्देश्य एव पक्ष उच्यते
कश्चित् क्वचित् शास्त्रे स्थितः पक्षे कृतनिश्चय एव । अस्तु तादृशो निश्चयः, तथापि यदि शास्त्रादुद्धृत्य प्रमाणिक्रियते इति शेषः ।
वादी यस्मिन् शास्त्रे साधनं कथयति तच्चास्त्रकारेण वितर्कविषयधर्मिणि यदि बहवो धर्मा अङ्गीक्रियन्ते, तथापि च । वादिनैव यो धर्म साधयितुमिष्टः स एव साध्यः । शास्त्रकारेरोष्टस्तु न यस्माद् वादिना निर्देश्यस्य पक्षत्वमङ्गीक्रियते तस्माद् वादिना शास्त्राङ्गीकारद्वारेणोपकारको यो धर्मः परिष्कर्तुमिष्यते स एव साध्यः, शास्त्रकारेणाङ्गीकृतस्तु न- इत्यनेन वचनेनोक्तं भवति
वादिसम्भवे ऽपि स्वयं शब्दवाच्यस्य, वादिनो विशेषणमेतत् । यदयवम्, वादिनः इष्टः साध्यः इत्युक्तम्, एतेन च किमुक्तेन? अनेन तदा वादकाले तेन वादिना स्वयं यो धर्मः साधयितुमिष्टः, स एव साध्यः, नेतरो धर्मः- इत्युक्तं भवति । वादिनो ऽनिष्टधर्मसाध्यत्वनिवर्तनमस्य वचनस्य फलमिति यावत्
अथ कस्मिन् सति अन्यधर्मसाध्यत्वस्य सम्भवः, यन्निवृत्तयर्थ तद् वक्तव्यम्? इत्याह- तच्चास्त्रकारेणेति । यच्चास्त्रं तेन वादिनाभ्युपगतं तच्चास्त्रकारेण तस्मिन् साध्यधर्मिणि अनेकस्य धर्मस्याभ्युपगमे सति अन्यधर्मसाध्यत्वसम्भवः । तथा हि- शास्त्रं येनाभ्युपगतं तत्सिद्धो धर्मः सर्व एव तेन साध्य इत्यस्ति विप्रतिपत्तिः, अनेनापास्यते । अनेकधर्माभ्युपगमे ऽपि सति स एव साध्यो यो वादिना इष्टः, नान्य इति ।
ननु च शास्त्रानपेक्षं वस्तुवलप्रवृतं लिङ्गम्, अतो ऽनपेक्षणीयत्वान्न शास्त्र स्थित्वा वादः कर्तव्यः? सत्यम्ः आहोपुरुषिकया तु यदयपि क्वचिच्चास्त्रे स्थित इति किञ्चिच्चास्त्रमभ्युपगतः साधनमाह, तथापि य एव तस्येष्टः स एव साध्यः इति ज्ञापनायेदमुक्तम्
इष्टशब्दमुक्षिप्य व्याचष्टे- इष्ट इति । यत्रार्थ आत्मनि विरुद्धो
46 तदधिकरणत्वाद् विवादस्येति ॥
47 यथा परार्थाश्चक्षुरादयः सङ्घातत्वात् शयनासनादयङ्गवदिति ।
अत्र आत्मार्था इत्यनुक्ते ऽपि आत्मार्थतैव साध्यं भवतीति । तेन नोक्तमात्रमेव साध्यमित्युक्तं भवति ॥
इष्टशब्दार्थ आख्यायते । यस्मिन् वस्तुनि विवाद उत्पन्नः, विवादाधिकरणं तद् वस्तु साधयितुमिच्चता साध्यत्वेनोपन्यस्तो ऽर्थ एवेष्ट इति ।
यदि वितर्कविषयार्थो ऽसो वचनेन नाभिधीयते, तथापि स एव साध्यो भवति
तच्च कस्माद् इति चेद्? आह- तदधिकरणत्वादिति ।
तत एव यस्माद् विवादः कथमसौ विवाद एव साध्यो न स्यात्
यच्च विवादाधिकरणं तद् वचनेनानुक्तमपि साध्यमेवेष्यत इति कथम् इति चेद्? तथाह- यथेति ।
वादः प्रक्रान्तः- नास्ति आत्मा इत्यात्मप्रतिषेधवादः आत्मसत्तावादविरुद्धः, विधिप्रतिषेधयोर्विरोधात् । तेन विवादेन हेतुना साधनमुपन्यस्तन्, तस्यात्मार्थस्य सिद्धि निश्चयम् इच्चता वादिना सो ऽर्थः साध्य इत्युक्तं भवति- इष्टशब्देन । यत् तद् इत्युक्त भवति इति ग्रहणमन्ते तदिहापेक्ष्य वाक्यं समापयितव्यम् ।
यद्यपि परार्थानुमाने उक्त एव साध्यो युक्तः, अनुक्तो ऽपि तु वचनेन साध्यः, सामर्थ्योक्तत्वात् तस्य
कुत एतद्? इत्याह- तदिति । सो ऽर्थः अधिकरणम्= आश्रयो यस्य स तदधिकरणो विवादः, तस्य भावस्तत्त्वम्, तस्मादिति ।
एतदुक्तं भवति- यस्माद् विवादं निराकर्तुमिच्चता वादिना साधनमुपन्यस्तम्, तस्माद् यद् अधिकरणं विवादस्य तदेव साध्यम् । यतो विरुद्धं वादमपनेतुं साधनमुक्पन्यस्तं तच्चेत् न साध्यम्, किमिदानीं जातिनियतं किञ्चित् साध्यं स्यादिति
अनुक्तमपि परार्थानुमाने साध्यमिष्टम्, तदुदाहरति- परार्था इति । चक्षुरादिर्येषां श्रोत्रादीनां ते चक्षुरादय इति धर्मी । परस्मायिमे परार्था इति साध्यं पारार्थ्यम् । सङ्घातत्वादिति हेतुः । व्याप्तिविषयप्रदर्शनं च शयनासदाद्यङ्गवदिति । शयनम् आसनं च ते आदौ यस्य तच्चयनासनादि पुरुषोपभोगाङ्गं सङ्घातरूपम् । तद्वदत्र प्रमाणे यदप्यात्मार्थाश्चक्षुरादय इत्यात्मार्थता नोक्ता । अनुक्तावप्यात्मार्थता साध्या ।
48 अनिराकृत इति- एतल्लक्षणयोगे ऽपि यः साधयितुमिष्टो ऽप्यर्थः प्रत्यक्षानुमानप्रतीतिस्वचनैर्निराक्रियते, न स पक्ष इति प्रदर्शनार्थम् ॥
49 तत्र प्रत्यक्षनिराकृतो यथा- अश्रावणः शब्दः इति ॥
यथा शयनासनादीन्यङ्गानि सङ्घातरूपत्वात् परार्थानि दृष्टानि, तथा चक्षुरादयो ऽपि सङ्घातरूपत्वात् परार्था एवेति प्रयोगार्थः
अस्मिन् प्रयोगे यदयपि चक्षुरादय आत्मार्था इति नोक्तम्, तथापि आत्मार्थतैव साध्यते । अन्यथा परार्थत्वमात्रे साध्ये सिद्धसाधनं स्यात् । आत्मनि (आत्मार्थतायाम्) विप्रतिपत्त्या साध्यत्वेन उपस्थाप्यते । तस्मात् तदेव साध्यं भवति ।
यस्मादेवमनुयुक्तमपीष्टत्वेन विषयीकरणात् साध्यत्वेनैवष्टम्, तस्मात् केवलमुक्तमेव न साध्यं भवति । कथमिति चेत्? यस्मादिष्टत्वेन विषयीकृतमपि साध्यमेव
तथा हि साङ्खयनोक्तम्- अस्ति आत्मा, तद्विरुद्धं बौद्धेनोक्तम्- नास्त्यात्मा इति, ततः साङ्खयेन स्ववादविरुद्धं बौद्धवादं हेतूकृत्य विरुद्धवादनिराकरणाय स्ववादप्रतिष्ठापनाय च साधनमुपन्यस्तम् । अतो ऽनुक्तावप्यात्मार्थता साध्या, तदशिकरणत्वाद् विवादस्य । शयनासनादिषु हि पुरुषोपभोगाङ्गेषु आत्मार्थत्वेनाव्वयो न प्रसिद्धः । सङ्घातत्वस्य पारार्थ्यमात्रेण तु सिद्धः । ततः परार्था इत्युक्तम् ।
चक्षुरादय इति । अत्रादिग्रहणाद् विज्ञानमपि परार्थ साधयितुमिष्टम् । विज्ञानाच्च परआत्मैव स्यात् ।
परस्यार्थकारि विज्ञानं सेत्स्यतीति सामर्थ्यात् आत्मार्थत्वं सिध्यति चक्षुरादीनाम्- इति मत्वा परार्थग्रहणं कृतम् । तेन इष्टसाध्यत्ववचनेन नोक्तमात्रम्, अपि तु प्रतिवादिनो विवादास्पदत्वाद् वादिनः साधयितुमिष्टम् उक्तमनुक्तं वा प्रकरणगम्यं साध्यम्- इत्युक्तं भवति
अनिराकृत इति । व्याख्येयम् । एतदिति । अनन्तरप्रक्रान्तं यत् पक्षलक्षणमुक्तम्- साध्यत्वेनेष्टः इत्यादि, एतल्लक्षणेन योगे ऽप्यर्थो न पक्ष इति प्रदर्शनार्थम् प्रतिपादनाय अनिराकृतग्रहणं कृतम् ।
कीदृशो ऽर्थो न पक्षः साधयितुमिष्टो ऽपि? इत्याह- यः साधयितुमिष्टो ऽर्थः प्रत्यक्षं च अनुमानं च प्रतीनिश्च स्ववचनं च- एतैर्निराक्रियते विपरीतः साध्यते, न स पक्ष इति
तत्रेति । तेषु चतुर्षु प्रत्यक्षादिनिराकृतेषु प्रत्यक्षनिराकृतः कीदृशः? यथिति । यथायं निराकृतस्तथान्ये ऽपि द्रष्टव्या इति यथाशब्दस्यार्थः ।
50 अनुमाननिराकृतो यथा- नित्यः शब्द इति ॥
51 प्रतीतिनिराकृतो यथा- अचन्द्रः शशी इति ॥
यथोक्तलक्षणयुक्तो ऽप्यर्थो यदि साधनदशायां प्रत्यक्षानुमानप्रसिद्धिस्ववचनैर्निराक्रियते, तदा सो ऽर्थः पक्षो न भवतीति प्रदर्शनार्थमनिराकृत इत्युक्तम्
अत्र श्रवणम्= आकर्णनम् । कर्णविज्ञानमिति शेषः । श्रावणप्रतीर्तिर्वा । श्रवणेन ग्राह्यः श्रावणः । न श्रावणः अश्रावणः । कर्णविज्ञानेन अप्रतीत इति शेषः । तथा चात्र शब्दो धर्मी । अश्रावणत्वै साध्यधर्मः । अश्रावणः शब्दः इति पर्तिज्ञा तु प्रत्यक्षेण निराक्रियते। तथा हि- कर्णविज्ञानस्य शब्दप्रकाशकत्वं प्राणीभिः सर्वैः स्वयमवगम्यते । तेन शब्दे श्रावणत्वस्य स्वकीयज्ञानेन प्रतीतेरश्रावणत्वं निराक्रियते
अत्र- घटस्य नित्यत्वं प्रतिज्ञातं कृताद्यनुमानेन निराक्रियते । तथा हि कृतकमनित्यं दृष्टम्, घटो ऽपि कृतक इति, तेन कुतो नित्यत्वम्
यदि केनचित् शशी न चन्द्रशब्दभिधेयः इति प्रतिज्ञा क्रियते, स तु शशी चन्द्रशब्दाभिधेय एव इति प्रसिद्धया निराक्रियते । अपि च सर्वेष्वर्थेषु सर्वस्य शब्दस्य वाच्यतयापि निराक्रियते । शब्दार्थसम्बन्धस्य सङ्केतसूचितत्वात् । यथा घटस्थापि चन्द्रशब्दाभिधानयोग्यता
श्रवणेन ग्राहयः श्रावणः, न श्रावणो ऽश्रावणः । श्रोत्रेण न ग्राह्य इति प्रतिज्ञार्थेः । श्रोत्राग्राह्यत्वं शब्दस्य प्रत्यक्षसिद्धेन श्रोत्रग्राह्यत्वेन बाध्यते
अनुमाननिराकृतो यथा- नित्यः शब्द इति । शब्दस्य प्रतिज्ञातं नित्यत्वम् अनित्यत्वेनानुमानसिद्धेन निराक्रियते
प्रतीत्या निराकृतः अचन्द्र इति चन्द्रशब्दवाच्यो न भवति । शशीति प्रतिज्ञातार्थः । अयं च प्रतीत्या निराकृतः । प्रतीतो ऽर्थ उच्यते विकल्पविज्ञानविषयः । प्रतीतिः = प्रतीतत्वम्, विकल्पविज्ञानविषयत्वमेच्यते । तेन विकल्पज्ञानेन प्रतीतिरूपेण शशिनश्चन्द्रशब्दवाच्यत्वं सिद्धमेव । तथाहि-
यद्विकल्पविज्ञानग्राह्यं तत् शब्दाकारसंसर्गयोग्यम् । यच्चब्दाकारसंसर्गयोग्यं तत् साङ्केतिकेन शब्देन वक्तुं शक्यम् । अतः प्रतीतिरूपेण विकल्पविज्ञानविषयत्वेन सिद्धं चन्द्रशब्दवाच्यत्वम्, अचन्द्रत्वस्य बाधकम् । स्वभावहेतुश्च प्रतीतिः । यस्माद् विकल्पविषयत्वमात्रानुबन्धनी साङ्केतिकशब्दवाच्यता, ततः स्वभावहेतुसिद्धं चन्द्रशब्दवाच्यत्वम् अवाच्यत्वस्य बाधकं द्रष्टव्यम्
52 स्ववचननिराकृतो यथा- नानुमानं प्रमाणम् इति ॥
केनचिद् अनुमानं प्रमाणं न भवति इत्युच्यमाने तत् स्ववचनेन विरुद्धम् । अनुमानं प्रमाणमेव यदि न स्यात्, एतत् वचनमपि न वक्तव्यम् । तथा हि वाक्यमपि अनुमानन्तभूर्तमेव । अनुमानं च यदि प्रमाणं न स्यात् वाक्यं तावत् कुतः प्रमाणम् । तद् वाक्यमप्रमाणं चेत्, कस्मादुच्यते इति स्ववचनेन विरुद्धम्
स्ववचनं प्रतिज्ञार्थस्यात्मौयो वाचकः शब्दः, तेन निराकृतः प्रतिज्ञार्थो न साध्यः । यथा नानुमानं प्रमाणमिति । अत्र अनुमानस्य प्रामाण्यनिषेधः पर्तिज्ञार्थः । स नानुमानं प्रमाणम् इत्यनेन स्ववाचकेन वाक्येन बाध्यते । वाक्यं हि एतत् प्रयुज्यमानं वक्तुः शाब्दप्रत्ययस्य सदर्थत्वमिष्टं सूचयति । तथा हि- मद्वाक्याद् यो ऽर्थसम्प्रत्ययस्तवोत्पद्यते सो ऽसत्यार्थः इति दर्शयन् वाक्यमेव नोच्चारयेद् वक्ता, वचनार्थश्चेदसत्यः परेण ज्ञातव्यः, ववनमपार्थकम् । यो ऽपि हि सर्व मिथ्या ब्रवीमि इति वक्ति, सो ऽप्यस्य वाक्यस्य सत्यार्थत्वमादर्शयन्नेव वाक्यमुच्चारयति । यदि एतद् वाक्यं सत्यार्थत्वमादर्शितम्, एवं वाक्यान्तराण्यात्मायान्यसत्यार्थानि दर्शितानि भवन्ति । एतदेव तु यद्यसत्यार्थम्, अन्यान्यसत्यार्थानि न दर्शतानि भवन्ति । ततश्च न किञ्चिदुच्चारणस्य फलमिति नोच्चारयेत् । तस्माद् वाक्यप्रभववाक्यार्थालम्बनं विज्ञानं सत्यार्थ दर्शयन्नेव् वक्ता वाक्यमुच्चारयति । तथा च सति वाह्यवस्तुनान्तरीयकं शब्दं दर्शयता शब्दजं विज्ञानं सत्यार्थ दर्शयितव्यम् । ततो बाह्यार्थकार्याच्चब्दादुत्पन्नं विज्ञानं सत्यार्थमादर्शयता कार्यलिङ्गजमनुमानं प्रमाणं शाब्दं दर्शितं भवति ।
तस्मात् नानुमानं प्रमाणम् इति ब्रुवता शाब्दस्य प्रत्ययस्यासत्रार्थो ग्राह्य उक्तः । असदर्थत्वमेव ह्यप्रामाण्यमुच्यते, नान्यत् । शब्दोच्चारणसामर्थ्याच्च अथाविनाभावी स्वशब्दो दर्शितः । तथा च सन्नर्थो दर्शितः । ततः कल्पितादर्शकार्याच्चचब्दाच्चाब्दप्रत्ययार्थस्यानुमितं सत्त्वं प्रतिज्ञायमानमसत्त्वं प्रतिबध्नाति ।
तदेवं स्ववच्नानुमितेन सत्त्वेनासत्त्वं बाध्यमानं स्ववचनेन बाधितमुक्तमित्ययमत्रार्थः । अन्ये त्वाहुः- अभिप्रायकार्याच्चब्दाज्जातं ज्ञानमभिप्रायालम्बनम् । सदर्थमिच्चतः शब्दप्रयोगः । तेनाप्रामाण्यं प्रतिज्ञातं बाध्यते इति ।
तदयुक्तम्ः यत इह प्रतीतेः स्वभावहेतुत्वम्, स्ववचनस्य च कार्य
53 इति चत्वारा पक्षाभासा निराकृता भ्वन्तीति ॥
54 एवं सिद्धस्य, असिद्धस्यापि साधनत्वेनाभिमतस्य, तदा स्वयं वादिना साधयितुमनिष्टस्य, उक्तमात्रस्य, निराकृतस्य च विपर्ययेण साध्य इति । तेनैव स्वरूपेण वादिन इष्टो ऽनिराकृतः पक्ष इति पक्षलक्षणमन वदयं दर्शितं भवति ॥
अत्रागमविरुद्ध स्ववचनविरुद्धे ऽन्तभूत इति सर्वे पक्षाभासाश्चत्वार इत्युक्तम् । किञ्च- आगमस्य वस्तुबलप्रवृत्ते ऽनुमाने ऽनाश्रयणीयतयाविरोधादपि उक्तम् । इति इति । उक्तप्रकारेण
अत्र विपरीतम् इति प्रत्येकं योजनीयम् । एतेन सिद्धस्य विपरीतम् असिद्धस्यापि विपरीतम्, साधनत्वेनाभिमतस्य विपरीतम्, तदा वादिना स्वयं साधयितुमनिष्टस्य विपरीतम्, उक्तमात्रस्य विपरीतम्, निराकृतमात्रस्य च विपरीतं पक्षत्वेन द्रष्टव्यमित्ययमर्थ उक्तो भवति । तथा च वैपरीत्यमुखेन पक्षलक्षणकथनमेतत् ।
हेतुत्वं कल्पितमिष्टम्, न वास्तवम् । अभिप्राकार्यत्वं च वास्तवमेव शब्दस्य ततस्तदिह न गृह्यते ।
किञ्चि- यथा अनुमानमिचन्, वह्नयव्यभिचारित्वं धूमस्य प्रत्येति, तथा शब्दस्याप्यभिप्रायाव्यभिचारित्वं न प्रत्येष्यति । बाह्यवस्तुप्रत्यायनाय च शब्दः प्रयुज्यते । तत्र शब्दस्याभिप्रायाविनाभावित्वाभ्युपगमपूर्वकः शब्दप्रयोगः । अपि च, न स्वाभिप्रायनिवेदनाय शब्द उच्चार्यते, अपि तु बाह्यसत्त्वप्रतिपादनाय । तस्माद् बाह्यवस्त्वविनाभावित्वाभ्युपगमपूर्वकः शब्दप्रत्योगः । ततः पूर्वकमेव व्याख्यातमनवद्यम्
एवं च सति अनिराकृतग्रहणेन अनन्तरोक्ताश्चत्वारः पक्षवदवभासन्त इति पक्षाभासा निरस्ता भवन्ति
सम्प्रति पक्षलक्षणपदानि येषां व्यवच्चेदकानि तेषां व्यवच्चेदेन यादृशः पक्षार्थो लभ्यते, तं दर्शयितुं व्यवच्चेदयान संक्षिप्य दर्शयति- एवमिति । अनन्तरोक्तक्रमेण । सिद्धस्य विपर्ययेण विपरीत्वेन हेतुना साध्यो द्रष्टव्यः । यस्मादर्थात् सिद्धो ऽर्थो विपरीतः स साध्य इत्यर्थः । सिद्धश्च विपरीतो ऽसिद्धस्य । यस्मादसिद्धः साध्यः । असिद्धो ऽपि न सर्वः, अपि तु साधनत्वेनोक्तस्यासिद्धस्यापि विपर्ययेण । स्वयं वादिना साधयितुमनिष्टस्य असिद्धस्य विपर्ययेण । तथा उक्तमात्रस्य असिद्धस्यापि विपर्ययेण । तथा निराकृतस्यासिद्धस्यापि विपर्ययेण साध्यः ।
55 त्रिरूपलिङ्गाख्यानं परार्थानुमानमित्युक्तम् । तत्र त्रयाणां रूपाणामेकस्यापि रूपस्यानुक्तौ साधनाभासः ॥
56 उक्तावप्यसिद्धौ सन्देहे वा प्रतिपादयप्रतिपादकयोः ॥
तेनैव रूपेणेति । साध्यत्वेनैवेति शेषः । वादिना इष्ट इति । शास्त्रकारस्पेष्टो निरस्तः । इष्ट इति उक्तमात्रेमेव नेति प्रदर्शनार्थम् । अनिराकृत इति अपरिहारणीय इति शेषः । पक्ष इति । साध्य इति शेषः । इति पक्षलक्षणमनवदयं दर्शितं भवतीति । एव पक्षस्य लक्षणं दोषरहितमभितमिति ।
तदेवं यथार्थलक्षणकमनुमानं कृतव्याख्यानम्
अनुमानभासाभिधानानुज्ञार्थमाह- उक्तमिति ।
उक्त्वा हेत्वाभासासस्य सम्बन्ध उच्यते । तदा न्यूनमिति साधनदोषो भवति
त्रयाणां रूपाणां योग्यमेकमपि यदयुक्तमै वादिप्रतिवादिनोरसिद्धं सन्दिग्धं वा स्यत्, तदापि साधनाभासः, स्यात् । तदेवं साधनाभासयोगो दर्शितः
यश्चायं पञ्चभिर्व्यव्च्चेदयै रहितो ऽर्थोसिद्धो ऽसाधनं वादिनः स्वयं साधयितुमिष्ट उक्तो ऽनुक्तो वा प्रमाणैरनिराकृतः साध्यः, स एवासो स्वरूपेणैव स्वयमिष्टो ऽनिराकृत एतैः पदैरुक्त इत्यर्थः । यश्चायं साधय्ः स पक्ष इति उच्यते । इतिशब्द एवमर्थे । एवं पक्षलक्षणमनवदयमिति । अविद्यमानमवदयम्= दोषो यस्य तद् अनवदयम् । दर्शितं कथितम्
त्रिरूपलिङ्गाख्यानं परिसमापय्य, प्रसङ्गागतं च पक्षलक्षणमभिधाय हेत्वाभासान् वक्तुकामस्तेषां प्रस्तावं रचयति- त्रिरूपेत्यादिना ।
एतदुक्तं भवति- त्रिरूपलिङ्गं वक्तुकामेन स्फुटं तद् वक्तव्यम् । एवं च तत् स्फुटमुक्तं भवति यदि तच्च, तत्प्रतिरूपकं चोच्यते । हेयज्ञाने हि तद्विविक्तमुपादेयं सुज्ञातं भवतीति । त्रिरूपलिङ्गाख्यानं परार्थमौमानम् इति प्रागुक्तम् ।
तत्रेति । तस्मिन् सति । त्रिरूपलिङ्गाख्याने परार्थानुमाने सतीत्यर्थः । त्रयाणां रूपाणां मध्ये एकस्याप्यनुक्तौ । अपिशब्दाद् द्वयोरपि । साधनस्य आभासः सदृशं साधनस्य, न साधनमित्यर्थः । त्रयाणां रूपाणां न्यूनता नाम साधनदोषः
न केवलमनुक्तावुक्तावप्यसिद्धौ सन्देहे वा । कस्य? इत्याह- प्रतिपावयस्य प्रतिवादिनः प्रतिपादकस्य च वादिनो हेत्वाभासः
57 एकस्य स्वरूपस्य धर्मिसम्बन्धस्यासिद्धौ सन्देहे वासिद्धो हेत्वाभासः ॥
58 यथा- अनित्यः शब्दः इति साध्ये चाक्षुषत्वमुभयासिद्धम् ॥
59 चेतनास्तरवः इति साध्ये सर्वत्वगपहरणे मरणं प्रतिवादयसिद्धम् । विज्ञानेन्द्रियायुनिरोधलक्षणस्य मरणस्यानेनाभ्युपगमात् । तस्य च तरुष्वसम्भवात् ॥
विशेषकथनार्थमाह- एकस्येति ।
धर्मिणा सम्बन्धो धर्मिसम्बन्धः । पक्षधर्म इत्यर्थह् । तस्यासिद्धौ सन्देहे चासिद्धो नाम हेत्वाभासो भवति
दृष्टान्तनिर्देशर्थमाह- यथेति ॥
शब्दस्य चाक्षुषत्वं हि वादि- प्रतिवादिनोरुभयोरप्यननुमतम्
यदि दिगम्बरैरुक्तम्-वृक्षाः चेतनाः सर्वत्वगपहरणै मरणात् इति बौद्धैः प्रयोगते, तर्हि वृक्षाणां सर्वत्वगपहरणे मरणं बौद्धानामसिद्धम् । कस्मादसिद्धमिति चेद्? आह- विज्ञानेत्यादि ।
अथ कस्यैकस्य रूपस्यासिद्धौ सन्देहे वा किसंज्ञको हेत्वभासः?
इत्याह- एकस्य रूपस्येति । धर्मिणा सह सम्बन्धः धर्मिसम्बन्धः । धर्मिणि सत्त्वं हेतोः तस्य असिद्धौ सन्देहे वा असिद्धसंज्ञको हेत्वाभासः । असिद्धत्वादेव च धर्मिण्यप्रतिपत्तिहेतुः । न साध्यस्य, न विरुद्धस्य, न संशयस्य हेतुः, अपि त्वप्रतिपत्तिहेतुः । न कस्यचिदतः प्रतिपत्तिरिति कृत्वा । अयं चार्थो ऽसिद्धसंज्ञाकरणादेव प्रतिपत्तव्यः
उदाहरणमाह-यथेत्यादि । अनित्यः शब्द इत्यनित्यत्वविशिष्टे शब्दे साव्ये चाक्षुषत्वं चक्षुर्ग्राह्यत्वं शब्दे द्वयोरपि वादिप्रतिवादिनोर सिद्धम्
चेतनास्तरव इति । तरूणां चैतन्ये साध्ये । सर्वा त्वक् सर्वत्वक् तस्या अपहरणे सति मरणं दिगम्बरैरूपन्यस्तं प्रतिवादिनो बौद्धस्य असिद्धम् ।
कस्मादसिद्ध? इत्याह- विज्ञानमित्यादि । विज्ञानं चेन्द्रियं चायुश्चेति द्वन्द्वः तत्र विज्ञानं चक्षुरादिजनितम् । रूपादिविज्ञानोत्पत्त्या यदनुमितं कार्यान्तर्भूतं चक्षुर्गोलकादिस्थितं रूपं तद् इन्द्रियम् । आयुरिति लोके प्राणा उच्यते । न चागमसिद्धिरिह युज्यते वक्तुम् । अतः प्राणस्वभावमायुरिह । तेषां निरोधो निवृत्तिः । स लक्षणं तत्त्वं यस्य तत् तथोक्तम्ः तथाभूतस्य मरणस्यानेन बौद्धेन प्रतिज्ञातत्वात् ।
60 अचेतनाः सुखादयः इति साध्ये उत्पत्तिमत्त्वमनित्यत्वं वा साङ्खयस्य स्वयं वादिनो ऽसिद्धम् ॥
विज्ञानं च इन्द्रियाणि च आयुश्चेति विग्रहः । तेषां विरोधो विज्ञानेन्द्रियायु निरोधः । स एव लक्षणं यस्य मरणस्य तद् विज्ञानेन्द्रियायुनिरोधलक्षणं मरणम् । बौद्धानां तु तथाविधं मरणमनुमतम् । न तु शोषमात्रम् । तादृशं हि मरणं वृक्षेषु न सम्भवतीति
यदा साङ्ख्यैरुक्तम्- सुखादयो ऽचेतनाः, उत्पत्तिमत्त्वादनित्यत्वात् इति बौद्धैः प्रमीयते, तदा सुखादिषूत्पत्तिरनित्यत्वं वा साङ्खयानां स्वयमेवासिद्धम्ः तस्य हि किमपि नोत्पद्यते, किमपि वा न विनश्यति
यदि नामैवम्, तथापि कथमसिद्धम्? इत्याह- तस्य च विज्ञानादिनिरोधात्मकस्य तरुष्वसम्भवात् । सत्तापूर्वको निरोधः । ततश्च यो विज्ञाननिरोधं तरुष्विच्चेत्, स कथं विज्ञानं नेच्चेत् । तस्माद् विज्ञानानिष्टेर्निरोधो ऽपि नेष्टस्तरुषु ।
ननु च शोषो ऽपि मरणमुच्यते, स च तरुषु सिद्धः? सत्यम्ः केवलं विज्ञानसत्तया व्याप्तं यत् मरणं तदिह हेतुः । विज्ञाननिरोधश्च तत्सत्तया व्याप्तः, न शोषमात्रम् । ततो यन्मरणं हेतुस्तत् तरुष्वसिद्धम् । यत्तु सिद्धं शोषात्मकं तदहेतुः ।
दिगम्बरस्तु साध्येन व्याप्तव्याप्तं वा मरणमविविच्य मरणमात्रं हेतुमाह । तदस्य वादिनो हेतुभूतं मरणं न ज्ञातम् । अज्ञानात् सिद्धं शोषरूपम्, शोषरूपस्य मरणस्य तरुषु दर्शनात् प्रतिवादिनस्तु ज्ञातम्, अतो ऽसिद्धम् । यदा तु वादिनो ऽपि ज्ञातम्, तदा वादिनो ऽप्यसिद्धं स्यादिति न्यायः
अचेतनाः सुखादय इति । सुखमादिर्येषां दुःखादीनां ते सुखादयः । तेषामचैतन्ये साध्ये उत्पत्तिमत्त्वम्, अनित्यत्वं वा लिङ्गमुपन्यस्तम् । य उत्पत्तिमन्तो ऽनित्या वा ते न चेतनाः, यथा रूपादयः । तथा च- उत्पत्ति मन्तो ऽनित्या वा सुखादयः तस्मादचेतनाः । चैतन्यं तु पुरुषस्य स्वरूपम् । अत्र चोत्पत्तिमत्त्वमनित्यत्वं वा पर्यायेण हेतुः न युगपत् । तच्च द्वयमपि सांख्यस्य वादिनो न सिद्धम् । परार्थो हि हेतूपन्यासः । तेन यः परस्य सिद्धः स हेतुर्वक्तव्यः । परस्य चासत उत्पतिमत्त्वम्, सतश्च निरन्वयो विनाशो ऽनित्यत्वं सिद्धम् । तादृशं सांख्यस्यासिद्धम् । इहापि अनित्यत्वोत्पत्ति-
61 तथा स्वयं तदाश्रयणस्य वा सन्देहे ऽसिद्धिः ॥
62 यथा वाष्पादिभावेन सन्दिह्यमानो भूतसङ्घातो ऽग्निसिद्धावुपदिश्यमानः सन्दिग्धासिद्धः ॥
63 यथा- इह निकुञ्जे मयूरः,केकायितादिति ॥
यदा हेतोरात्मनस्तदधिकरणस्य वास् अन्देहः, तदा असिद्धएत्वाभासो भवति
तत्र दृष्टान्तः- यथेति ।
वाष्प आदिर्यस्य स वाष्पादिः, तेषां भावो वाष्पादिभावः । वाष्पादिस्वरूपमिति शेष । भूतानां सङ्घातो भूअसङ्घातः । अग्निसिद्धौ हेतुः क्रियते चेद्? असौ वाष्पो वा धूलिर्वा कुहेलिका वा? इति वाष्पादिभावेन सन्दिह्यमानः असिद्धहेत्वाभासो भवति
तदाश्रय- सन्देहनिर्देशार्थमाह- यथेति ॥
मयूरध्वनिप्रवाहः= केकायितमिति । निकुञ्चः= पर्वतप्रदेशविशेषः । यदि केनचित् इह निकुञ्जे मयुरो ऽस्ति, केकायितादु इति प्रमीयते, तदा मयूरध्वनिस्तत्र तदभिमतानिकुञ्जे सन्दिग्ध एव
मत्त्वसाधनाज्ञानाद् वादिनो ऽसिद्धम् । यदि त्वनित्यत्वोत्पत्तिमत्त्वयोः प्रामाण्यं वादिना ज्ञातं स्यात्, तदा वादिनो ऽपि सिद्धं स्यात् । ततः प्रमाणाप्रैज्ञानादिदं वादिनो ऽसिद्धम्
सन्दिग्धासिद्धं दर्शयितुमाह- तथेति । स्वयमिति हेतोरात्मनः सन्देहे ऽसिद्धह् । तदाश्रयणस्य वेति । तस्य हेतोराश्रयणम् । आश्रीयते ऽस्मिन् हेतुरित्याश्रयणम्, हेतोर्व्यतिरिक्त आश्रयभूतः सध्यधर्मी कथ्यते । तत्र हि हेतुर्वर्तमानो गमकत्वेनाश्रीयते तस्यश्रयणस्य सन्देहे सन्दिग्धः
आत्मना सन्दिह्यमानमुदाहर्तुमाह- यथेति । वाष्प आदिर्यस्य स वाष्पादिः, तद्भावेन वाष्पादित्वेन सन्दिह्यमानो भूतसङ्घात इति । भूतानां पृथिव्यादीनां संघातः समूहः । अग्निसिद्धौ अग्निसिद्धयर्थमुपादीयमानो ऽसिद्धः ।
एतदुक्तं भवति- यदा धूमो ऽपि वाष्पादित्वेन सन्दिग्धो भवति, तदासिद्धः, गमकरूपानिश्चयात् । धुमतया निश्चितो वह्निजन्यत्वाद् गमकः । यदातु सन्दिग्धः, तदा न गमकः- इत्यसिद्धताख्यो दोषः
आश्रयणासिद्धमुदाहरति- यथेति । इह निकुञ्ज इति धर्मी । पर्वतो परिभागेन तिर्यङ्निर्गतेन प्रच्चादितो भूभागो निकुञ्जः । मयूर इति साध्यम् । केकायितादिति हेतुः । केकायितम्= मयूरध्वनि ।63 ॥
64 तदापातदेशविभ्रमे ॥
65 धम्यंसिद्धावप्यसिद्धः- यथा सर्वगत आत्मा इति सध्ये सर्वत्रो पलभ्यमानगुणत्वम् ॥
कथं सन्दिग्ध इति चेत्? आह- तदेति ।
मयूरध्वन्यापातदेशः सन्दिग्ध एव । स हि मयूरध्वनिः कस्मान्निकुञ्जप्रदेशान्निः सरतीत्यत्र संशय एव । 64 ॥
सर्वगतः निखिलव्यापी । विभुरिति शेषः । सर्वत्रोपलभमाना गुणा यस्येति विग्रहः । तस्य भावः सर्वत्रोपलभ्यमानगुणत्वम् । कश्चित् सर्वत्रोपलभ्यमानगुणत्वेन सर्वगतत्वमात्मनः साधयति । तत्राश्रयसिद्धो हेतुः । तथाहि- सर्वत्रोपलभ्यमानगुणत्वं यस्य धर्म उक्तः स आत्मैव नास्ति ।
अयं तु परसंवादः । सुखादय आत्मगुणा इति प्रसिद्धम् । ते च सर्वदेशस्य एव देवदत्त उपलभ्यन्ते । क्रियाभावादात्मनि गमनागमने न स्तः । यस्मात्तस्य गुणाः सर्वत्रोपलभ्यन्ते, तस्मात् नूनमात्मा सर्वत्र स्थित इति
कथमयमाश्रयणासिद्धः? इत्याह तदापात इति । तस्य केकायितस्य आपात आगमनम्, तस्य देशः स उच्यते यस्माद् देशादागच्चति केकायितम् । तस्य विभ्रमे व्यामोहे सत्ययमाश्रयणासिद्धः । निरन्तरेषु बहुषु निकुञ्जेषु सत्सु यदा केकायितापातनिकुञ्जे विभ्रमः- किमस्मान्निकुञ्जात् केकायितमागतम्? आहोस्विद् अन्यस्मादिति? तदायमाश्रयणासिद्ध इति
धर्म्मिण्ऽसिधावप्यसिद्धत्वमुदाहरति- यथेति । सर्वस्मिन् गतः स्थितः सर्वगतः । व्यापीति यावत् । व्यापित्व आत्मनः साध्ये सर्वत्रोपलभ्यमानगुणत्व लिङ्गम् । सर्वत्र देशे उपलभ्यमानाः सुखदुःखेच्चारागद्वेषादयो गुणा यस्यात्मनस्तस्य भावस्तत्त्वम् । न गुणा गुणिनमन्तरेण वर्तन्ते, गुणानां गुणिनि समवायात् । निष्क्रियश्चात्मा । ततश्च यदि व्यापी न भवेत्, कथं दर्क्षिणापथे उपलब्धः दुखादयो मध्यदेशे उपलभ्येरन् तस्मात् सर्वगत आत्मा ।
तदिह बौद्धस्य आत्मैव न सिद्धः, किमुत सर्वत्रोपलभ्यमानगुणत्वं सिध्येत् तस्य इत्यसिद्धौ हेत्वाभासः पूर्वमाश्रयणसन्देहेन धर्मिणि सन्देह उक्तः । सम्प्रति त्वसिद्धो धर्म्युक्त इत्यनयोर्विशेषः ।
तदेवमेकस्य रूपस्य धर्मिसम्बन्धस्यासिद्धावसिद्धो हेत्वाभासः
66 तथैकस्य रूपस्यासपक्षे सत्वस्यासिद्धावनैकान्तिको हेत्वाभासः ॥
67 यथा शब्दस्यानित्यत्वादिके धर्मे साध्ये प्रमेयत्वादिको धर्मः सपक्षविपक्षयोः सर्वत्रैकदेशे वा वर्तमानः ॥
व्यतिरेकासिद्धौ अनैकान्तिको हेत्वाभासो प्रष्टव्यह्
दृष्टान्तनिर्देशार्थमाह- यथेति ॥
नित्यत्वमादिर्यस्य धर्मस्य स नित्य्त्वादिकः । तथा प्रमेयत्वमादिर्यस्य स प्रमेयत्वादिकः । शब्दो ऽनित्यः प्रमेयत्वात् इति साध्ये प्रमेयत्वं सपक्षविपक्षयोः सर्वत्रास्ति । शब्दो न प्रयत्नान्तरीयकः अनित्यत्वात् इति साध्ये, अनित्यत्यत्वं सपक्षस्य एकदेशे विपक्षस्य च सर्वत्रैवास्ति । शब्दः प्रयत्नान्तरीयकः, अनित्यत्वात् इति
तथा अपरस्यैकस्य रूपस्य असपक्षे ऽसत्त्वाख्यस्यासिद्धावनैकान्तिको हेत्वाभासः ॥
एको ऽन्त एकान्तः= निश्चयः, स प्रयोजनमस्येति ऐकान्तिकः, नैकान्तिको ऽनैकान्तिकः । यस्मान्न साध्यस्य न विपर्ययस्य निश्चयः, अपि तु तद्विपरीतः संशयः । साध्येतरयोः संशयेहेतुरनकान्तिक उक्तः
तमुदाहरति- यथेत्यादिना । अनित्यत्वमादिर्यस्यामी अनित्यत्वादिको धर्मः । आदि शब्दादप्रयत्नानन्तरीयकत्वं प्रयत्नानन्तरीयकत्वं नित्यत्वं च परिगृह्यते । प्रमेयत्वमादिर्यस्य स प्रमेयत्वादिकः । आदि शब्दादनित्यत्वम्, पुनरनित्यत्वम्, अमूर्तत्वं च गृह्यते । शब्दस्य धर्मिणो ऽनित्यत्वादिके धर्मे साध्ये प्रमेत्वादिको धर्मो ऽनैकान्तिकः । चतुर्णामपि हि विपक्षे ऽसत्त्वमसिद्धम् ।
तथा हि- अनित्यः शब्दः, प्रमेयत्वात्, घटवत् आकाशवत्- इति प्रमेयत्वं सपक्षविपक्षव्यपि ।
अप्रयत्नानन्तरीयकः शब्दः, अनित्यवाद विद्युदाकाशवद् घटवच्च इत्यनित्यत्वं सपक्षैकदेशवृत्ति विद्युदादावस्ति, नाकाशादौः विपक्षव्यापि प्रयत्नानतरीयके सर्वत्र भावात् ।
अनित्यत्वात् प्रयत्नानन्तरीयकः शब्दः घटवत्, विद्युदाकाशवच्च इत्यनित्यत्वं विपक्षैकदेशवृत्ति । विद्युदादावस्ति, नाकाशादौः, सपक्षव्यापि सर्वत्र प्रयत्नान्तरीयके भावात् ।
नित्यः शब्दः अमूर्तत्वाद्, आकाशपरमाणुवत्, कर्मघटवच्चं- इत्यमूर्तत्वमुभयैकदेशवृत्ति, उभयोरेकदेशे आकाशे कर्मणि च वर्ततेः परमाणौ तु
68 तथा अस्यैव रूपस्य सन्देहे ऽप्यनैकान्तिक एव ।
69 यथा असर्वज्ञः कश्चिद् विवक्षितः पुरुषो रागादिमान् वेति साध्ये वक्तृत्वादिको धर्मः सन्दिग्धविपक्षवावृत्तिकः ॥
साध्ये, अनित्यत्वं उपक्षस्य सर्वत्र विपक्षस्य चैकदेशे ऽस्ति । शब्दो नित्यः, अस्पर्शात् इति साध्ये, स्पर्शाभावः सपक्षविपक्षयोरुभयोकदेशे ऽस्ति । एतेन साधारणानैकान्तिकश्चतुर्विध उक्तः
विपक्षे ऽसत्त्वमेव यदा सन्दिग्धस्तदापि अनैकान्तिक एव
दृष्टान्तनिदर्शनार्थमाह- यथेति ।
केनचिद् विवक्षितः- कश्चित् पुरुषो न सर्वज्ञो वक्तृत्वात् तथा रागादिमान् वा वक्तृत्वादेव इति उच्यमाने तस्य वक्तृत्वादिधर्मो ऽनैकान्तिक एव ।
स चानैकान्तिकः किन्नामक इति चेत्? आह- सन्दिग्धेत्यादि । विपक्षाद् व्यावृत्तिः सन्दिग्धा अस्येति स सन्दिग्धविपक्षव्यावृत्तिकः । सन्दिग्धव्यतिरेक इति शेषः । सर्वज्ञः कश्चिद् वक्ता न दृश्यते इति अदर्शने ऽपि व्यतिरेक सिद्धिर्न भवति
सपक्षैकदेशे घटादौ च विपक्षैकदेशे न वर्ततेः, मूर्तत्वाद् घटपरमाणुप्रभतीनाम् ।
नित्यास्तु परमाणवो वैशेषिकैरभ्युपगम्यन्ते । ततः सपक्षान्तर्गताः ।
अस्य चतुर्विधस्य पक्षधर्मस्यसत्त्वमसिद्धं विपक्षे । ततो ऽनैकान्ति कता
यथा चास्य रूपस्यासिद्धवनैकान्तिकः, तथा अस्यैव विपक्षे ऽसत्त्वाख्यस्य रूपस्य सन्देहे ऽनैकान्तिकः
तमुदाहरति- यथेति । असर्वज्ञ इति । असर्वज्ञत्वं साध्यम् । कश्चिद् विवक्षित इति । वक्तुरभिप्रेतः । पुरुषो धर्मी । राग आदिर्यस्य द्वेषादेः स रागादिः, स यस्यास्ति स रागादिमान् इति द्वितीयं साध्यम् । वा ग्रहणं रागादिमत्त्वस्य पृथक्साध्यत्वख्यापनार्थम् । ततो ऽसर्वज्ञत्वे रागादिमत्त्वे वा साध्ये प्रकृते वक्तृत्वम्= वचनशक्तिः, तदादिर्यस्योन्मेषनिमेषादेः स वक्तृत्वादिको धर्मो ऽनैकान्तिकः ।
सन्दिग्धाविपक्षाद् व्यावृत्तिर्यस्य स तथोक्तः । असर्वज्ञत्वे साध्ये सर्वज्ञत्वं विपक्षः । तत्र वचनादेः सत्त्वमसत्त्वं वा सन्दिग्धम् । अतो न ज्ञायतेकि वक्ता सर्वज्ञः? उत असर्वज्ञः?- इत्यनैकान्तिकं वक्तृत्वम्
70 सर्वज्ञो वक्ता नोपलभ्यते इत्येवम्प्रकारस्यानु पलम्भस्यादृश्यात्मविषयत्वेन सन्देहहेतुत्वात् । ततो ऽसर्वज्ञविपर्ययाद्वक्तृत्वादेर्व्यावृतिः सन्दिग्धा ।
71 वक्तृत्वसर्वज्ञत्वयोविरोधाभावाच्च यः सर्वज्ञःस वक्ता न भवतीत्य दर्शने ऽपि व्यतिरेको न सिद्धयति, सन्देहात् ॥
कथमयमनैकान्तिक इति चेत्? तत्राह- एवमिति ।
सर्वज्ञस वक्तुर्दर्शने ऽपि, अदृश्यात्मविषयेयमनुपलब्धिरिति अदृश्यात्मविषयत्वात् सन्देहेतुरेव भवति । व्यतिरेकसिद्धि नाभिधत्ते ।
अदृश्यविषयानुपलम्भः संशयस्यैव हेतुरिति असर्वज्ञपर्ययात् सर्वज्ञात् वक्तृत्वलक्षणहेतोर्निवृत्तिः सन्दिग्धैव
अनुपलब्धिरदृश्यात्मविषयत्वाद् व्यतिरेकं मा साधयतु, स्वभावविरोधोपलब्ध्या सिद्धिः, स्यादिति चेत्? तत्राह- वक्तृत्वेति ।
वक्तृत्व- सर्वज्ञयोस्तु विरोधो नास्ति । तस्मात्- सर्वज्ञस्य वक्तुरदर्शने ऽपि वक्तृत्वसर्वज्ञत्वयोविरोधाभावाद् वक्तृत्वस्य सर्वज्ञत्वाद् व्यावृत्तिरिति न सिध्यति सन्देहसत्त्वात्
ननु च सर्वज्ञो वक्ता नोपलभ्यते, तत् कथं वचनं सर्वज्ञे सन्दिग्धम्? अत एव सर्वज्ञो वक्ता नोपलभ्यते इत्येवम्प्रकारस्य एवञ्जातीयस्य अनुपलम्भस्य सन्देहहेतुत्वात् । कुतः? इत्याह- अदृश्य आत्भा विषयो यस्य तस्य भावो ऽदृश्यात्मविषयत्वम् । तेन सन्देहहेतुत्वम् । यतो ऽदृश्यविषयो ऽनुपलम्भः सन्देहहेतुः न निश्चयहेतुः, ततो ऽसर्वज्ञविपक्षात् सर्वज्ञाद् वक्तृत्वादेर्व्यावृत्तिः सन्दिग्धा
नानुपलम्भात् सर्वज्ञे वक्तृत्वमसद् ब्रूमः, अपितु सर्वज्ञत्वेन सह वक्तृत्वस्य विरोधात् । एतन्न । सर्वज्ञत्ववक्तृत्वयोर्विरोधो नास्ति । विरोधाभावाच्च कारणात् व्यतिरेको न सिध्यति- इति सम्बन्धः ।
व्याप्तिमन्तं व्यतिरेकं दर्शयति- यः सर्वज्ञ इति । सध्याभावरूपं सर्वज्ञत्वमनूद्य स वक्ता न भवति इति साधनस्य वक्तृत्वस्याभावो विधीयते । तेन साध्याभावः साधनाभावे नियतत्वात् साधनाभावेन व्याप्त उक्त इति । व्याप्तिमानीदृशो व्यतिरेको विरोधे सति वक्तृत्वसर्वज्ञत्वयोः सिध्येत् । न चास्ति विरोधः, तस्मान्न सिध्यति । कुतः? इत्यह- सन्देहाद् । यतो विरोधह्बावः, तस्मात् सन्देहः । सन्देहाद् व्यतिरेकासिद्धिः
72 द्विविधो हि पदार्थानां विरोधः ॥
73 अविकलकारणस्य भवतो ऽन्यभावे ऽभवाद् विरोधगतिः ॥
कथं तयोर्विरोधाभाव इति चेत्? तत्राह= द्विविध इति ।
यत्र यः को ऽपि विरोध उपलभ्यते स सर्व एव प्रकारद्वये ऽन्तर्भवति । एको वास्तवविरोधः, द्वितीयो लाक्षणिकविरोधः
वास्तवविरोधकथनार्थमाह- अविकलेति ।
यदा भावस्य कारणसमूहानामवैकल्ये कारणनिवर्त्यस्याभिर्भावः । अन्यभावपरिनिष्पत्तौ च निवृत्तिस्तदा विरोधप्रतीतिः
कथं विरोधाभावः? द्विविध इति । हीति । यस्माद् द्विविध एव विरोधः, नान्यः, तस्मान्न वक्तृत्वसर्वज्ञत्वयोविरोधः
कः पुनरसौ द्विविधो विरोधः? इत्याह- अविकलकारणस्येति । अविकलानि समग्राणि कारणानि यस्य स तथोक्तः । यस्य कारणवैकल्यादभावः, न तस्य केनचिदपि विरोधगतिः । तदर्थमविकलकारणम् ।
ननु च यस्यापि कारणसाकल्पम्, तस्यापि निवृत्तिरशक्या केनचिदपि कर्तुम्, तत् कुतो विरोधगतिः? एवं तर्हि अविकलकरणस्यापि यत्कृतात् कारणवैकल्यादभावस्तेन विरोधगतिः ।
तथा च सति, यो यस्य विरुद्धः स तस्य किञ्चित्कर । एव तथाहि- शीतस्पर्शस्य जनको भूत्वा शीतस्पर्शान्तरजननशक्ति प्रतिबध्नन् शीतस्पर्शस्य निवर्तको विरुद्धः । तस्माद्धेतुवैकल्यकारी विरुद्धो जनक एव निवत्वस्य । सहानवस्थानविरोधश्चायम् । ततो विरुद्धयोरेकस्मिन्नपि क्षणे सहावस्थानं परिहृतव्यम् । दूरस्थयोर्विरोधाभावाच्च निकटस्तह्योरेव निवर्त्यनिवर्तकभावः ।
तस्माद् यो यस्य निवर्तकः स तं यदि परं तृतीयक्षणे निवर्तयति, प्रथमे क्षणे सन्निपतन्नसमर्थवस्थाधनयोग्यो भवति, द्वितीये विरुद्धमसमर्थ करोति, तृतीये त्वसमर्थे निवृत्ते तद्देशमाक्रामति ।
तत्रालोको गतिधर्मा क्रमेण जलतरङ्गन्यायेन देशमाक्रामन् यदान्धकारनिरन्तरमालोकक्षणं जनयति, तदालोकसमीपवर्तिनमन्धकारमसमर्थ जनय्ति । ततो ऽसामर्थ्य तस्य यस्य समीपवर्त्त्यालोकः । असमर्थे निवृत्ते तद्देशे जायत आलोक इत्येवं क्रमेणालोकेनान्धकारो ऽपनेयः । तथोष्णः स्पर्शेन शीतस्पर्शो निवर्तनीयः ।
यदा त्वालोकस्तत्रैवान्धकारदेशे जन्यते, तदा यतः क्षणादन्धकारदेशस्या लोकस्य जनकः क्षण उतप्दयते, तत एवान्धकारो ऽन्धकारान्तरजननासमर्थ
74 शीतोष्णस्पर्शवत् ॥
75 परस्परपरिहारस्थितलक्षणतया वा भावाभाववत् ॥
यथा शीतोष्णस्पर्शयोः शीतस्याविकलकारणस्य सतो यदा उष्णत्वापरिनिष्पत्तिस्तद शीतत्वनिवृत्तिः । तयोश्च लोके विरोधप्रतीतिः
परस्परपरिहारेण स्थितं लक्षणं येषां तानि परस्परपरिहारस्थितलक्षाणानि, तेषां भावः परस्परिहारशितलक्षणता, तया विरोधः । यथा भावाभावयोः भावो ऽभावपरिहारेण व्यवस्थितः, अभावश्च भवप्रिहारेण व्यवस्थितः
उत्पन्नः । ततो ऽसमर्थवस्थाजनकत्वमेव निवर्तकत्वम् । अतश्च यस्मिन् क्षणे जनकः, ततस्तृतीये क्षणे निवृत्तो विरुद्धो यदि शीघ्रं निवर्तते ।
जन्यजनकभावाच्च सन्तानयोविरोधः, न क्षणयोः । यद्यपि च न सन्तानो नाम वस्तु, तथापि सन्तानिनो वस्तुभूताः । ततो ऽयं परमार्थः न क्षणयोविरोधः, अपितु बहूनां क्षणानाम् । यतः सत्सु दहनक्षणेषु प्रवृत्ता अपि शीतक्षणा निवृत्तिधर्माणो भवन्तीति सन्तानयोर्निवर्त्यनिवर्तकत्वनिमित्ते च विरोधे स्थिते सर्वेषां परमाणूनां सत्यप्येकदेशावस्थानाभावे न विरोधः, इतरेतरसन्तानानिवर्तनात् तेषाम् । गतिधर्मा चालोको यां दिशमाक्रामति, तद्दिग्वर्तिनो विरोधिसनानान् निवर्तयति । ततो ऽपवरकैकदेशस्था प्रदीपप्रभान्धकारनिकटवर्तिन्यपि नान्धकारं निवर्तयतिः अन्धकाराक्रान्तायां दिश्यालोकक्षणान्तरजननासामर्थ्यत् । कारणसामर्थ्यहेतुत्वकृतं सन्ताननिष्ठमेव विरोधं दर्शयता भवता इति कृतम् । भवतः प्रबन्धेन प्रवर्तमानस्य शीतस्पर्शसन्तानस्याभावो ऽन्यस्योष्णसन्तानस्य भावे सतीति ।
ये त्वाहुः- न विरोधो वास्तवः इति, त इदं तक्तव्याः- यथा न निष्पन्ने कार्ये कश्चिज्जन्य जनकभावो नाम द्विष्ठो ऽस्ति, कारणपूर्विका तु कार्यवृत्तिः । अतो वास्तव एव । तद्वन्न निवृत्ते वस्तुनि कश्चिद् द्विष्ठो नाम विरोधो ऽस्ति । दहननिमित्तं तु शीतस्पर्शस्य क्षणान्तरजननासामर्थ्यम् । अतो विरोधो ऽपि वास्तव एव ।
उदाहरणभाह- शीतेति । शीतश्चोष्णश्च तावेव शीतस्पर्शौ, तयोरिव । शीतोष्णस्पर्शयोर्हि पूर्ववद् विरोधो योजनीयः
द्वितीयमपि विरोधं दर्शयितुमाह- परस्परेत्यादि । परस्परस्य परिहारः= परित्यागः, तेन स्थितं लक्षणम्= रूपं ययोःव् तद्भावः परस्परपरिहारस्थितलक्षणता, तया ।
76 स च द्विविधो ऽपि विरोधो वक्तृत्वसर्वज्ञत्वयोर्न सम्भवति ॥
स चोभयविधो ऽपि विरोधो वक्तृसर्वज्ञयोर्न सम्भवति । वक्तृत्वस्य हि इह यस्मिन् परिच्चिद्यमाने यद् व्यवच्चिद्यते, तत् परिच्चिद्यमानमविच्चद्यमानपरिहारेण स्थितरूपं द्रष्टव्यम् । नीले च परिच्चेद्यमाने ताद्रूप्यप्रच्युतिरवच्चिद्यते, तदव्यवच्चेदे नीलापरिच्चेदप्रसङ्गात् । तस्माद् वस्तुनो भावाभावौ परस्परपरिहारेण स्थितरूपौ । नीलात्तु यदन्यद्रूपं तन्नीलाभावा व्यभिचारि । नीलस्य दृश्यस्य पीतादावुपलभ्यमाने ऽनुपलम्भादभावनिश्चयात् । यथा च नीलं स्वभावं परिहरति, तद्वद् अभावाव्यभिचारि पीतादिकमपीति । तथा च भावाभवयोः साक्षाद् विरोधः, वस्तुनोस्त्वन्योन्या भावाव्यभिचारित्वाद् विरोधः ।
कस्य चान्यत्राभावावसायः? यो नियताकारो ऽर्थः, तस्य । न त्वनियताकारः । क्षणिकत्वादिवत् । क्षणिकत्वं हि सर्वेषां नीलादीनां स्वरूपात्मकम् । अतो न नियताकारम् यतः क्षणिकत्वपरिहारेण न किञ्चिद् दृश्यते ।
यद्यवम्, अभावो ऽपि न नियताकारः । कथमनियताकारो नाम? यावता वस्तुरूपविविक्ताकारः कल्पितो ऽभावः । ततो दृस्टं कल्पितं वा नियतं रूपमन्यत्रासदित्यवसीयते, नानियतम् । एवं नित्यत्वपिशाचादिरपि नियताकारः कल्पितो द्रष्टव्यः । एकात्मत्वविरोधस्चायम् । ययोर्हि परस्परपरिहारेणावस्थानं तयोरेकत्वाभावः ।
अत एव लाक्षणिको ऽयं विरोध उच्यते । लक्षणं रूपम्, वस्तूनां प्रयोजनमस्येति कृत्वा । विरोधेन ह्यनेन वस्तुत्वं विभक्तं व्यवस्थाप्यते । अत एव दृश्यमाने रूपे यन्निषिध्यते, तद् दृश्यमेवाभ्युपगम्य निषिध्यते । तथा हि- अभावो ऽपि पिशाचो ऽपि यदा पीते निषेद्भूमिष्यते, तदा दृश्यात्मतय निषेध्य इति दृश्यत्वमभ्युपगम्य दृश्यानुपलब्धेरेव निषेधः । तथा च सति रूपे परिच्चिद्यमान एकस्मिस्तदभावो दृश्यो व्यवच्चिद्यते । यच्च तदभाववन्नि यताकारं रूपम्, तदपि दृश्यं व्यवच्चिद्यते । ततः द्वप्रच्युतिवत् प्रच्युतिमन्तो ऽपि व्यवच्चिन्ना इति ये परस्परपरिहारस्थितरूपाः सर्वे ते ऽनेन निषिद्धकत्वादिति । सत्यपि चास्मिन् विरोधे सहावस्थानं स्यादपि ।
ततो भिन्नव्यापारो विरोधौ । एकेन विरोधेन शीतोष्णस्पर्शयोरेकत्वं वार्यते । अन्येन सहावस्थानम्, भिन्नविषायौ च । सकले वस्तुन्यवस्तुनि च परस्परपरिहारविरोधः । वस्तुन्येव कतिपये सहानवस्थानविरोधः । तस्माद् भिन्नव्यापरो । भिन्नविषयौ च । ततो नानयोरन्योन्यान्तर्भाव इति
स चायं द्विविधो ऽपि विरोधो वक्तृत्वं च सर्वज्ञत्वं च तयोर्न सम्भवति ।
77 न चाविरुद्धविधेरनुपलब्धावप्यभावगतिः ॥
78 रागादीनां वचनादेश्च कार्यकारणभावसिद्धेः ॥
79 अर्थान्तरस्य चाकारणस्य निवृत्तौ न वचनादेनिर्वृत्तिः ॥
अविकलकारणस्य सतः सर्वज्ञत्वपरिनिष्पत्तावपि निवृत्तिनं इष्टा । वक्तृत्वपरिहारेणापि सर्वज्ञत्वस्य न व्यवस्थितिः, नापि वा सर्वज्ञत्वपरिहारेण वक्तृत्वस्य व्यवस्थितिः
विरोधाभावे च अविरुद्धवद्वक्तृत्वं सर्वज्ञत्वावविपर्ययेणोपलभ्यत इति चेत्? तत्राह- नचेति ।
यत्र विरुद्धत्वेन नाभिधानं तत्र वस्तुनोरनुपलब्धावपि नाभावनिश्चयः सम्भवति । असर्वज्ञत्वे साध्ये वक्तृत्वस्य व्यतिरेकस्तथैव सन्दिग्धः
रागादिमत्त्वेन निर्देशे ऽपि व्यतिरेकसन्देहकथनार्थमाह- रागादीनामिति ।
रागादिर्वचनस्य हेतुरित्येतदसिद्धम्
अस्तु रागादिवचनयोः कार्यकारणभावो ऽसिद्धः, ततः किमिति चेत्? आह-
न ह्यविकलकारणस्य सर्वज्ञत्वस्य वक्तृत्वभावादभावगतिः । सर्वज्ञत्वं ह्यदृश्यम् । अदृष्टस्य चाभावो नावसीयतेः, ततो नानेन विरोधगतिर्भवति ।
न च वक्तृत्वपरिहारेण सर्वज्ञत्वमवस्थितम् । काष्ठादयो हि वक्तृत्वपरिहृताः, तेषामपि सर्वज्ञत्वप्रसङ्गात् । नापि सर्वज्ञत्वपरिहारेण वक्तृत्वम्ः काष्ठादीनामपि वक्तृत्वप्रसङ्गात् । तत एवाविरोधाद् वक्तृत्वविधेर्न सर्वज्ञत्वनिषेधः
स्यादेतत्- यदि नास्त्येव विरोधो घटपटयोरिव, स्यादपि तयोः सहावस्थितिदर्शनम् । सहावस्थित्यदर्शनात्तु विरोधगतिः, विरोधाच्चाभावगतिः? इयाशङ्कयाह- न चाविरुद्धविधेरिति । अनुपलब्धावपि नायं विरुद्धविधिः । यदयपि सहावस्थानानुपलम्भस्तथापि न तयोविरोधः । यस्मान्न सहानुपलम्भमात्राद् विरोधः, अपि तु द्वयोरुपलभ्यमानयोनिवर्त्यनिवर्तकभावावसायात् । तस्मादनुपलब्धावपि न वक्तृत्वविधेविरुद्धविधिः । अतो ऽस्मान्नान्यस्याभावगतिः
तथा न वक्तृत्वाद् रागादिमत्त्वगतिः । यतो यदि वचनादि रागादीनां कार्य स्याद्, वचनादेः रागादिगतिः स्यात् । रागादिनिवृत्तो वचनादिनिवृत्तिः स्यात्, न च कार्यम् । कुतः? रागादीनां वचनादेश्च कार्यकारणभावसासिद्धेः । कारणान्न कार्यम् । अतो ऽस्मान्न गतिः
मा भूद् रागादिकार्यम्, वचनं सहचारि तु भवति । ततो रागादौ
80 इति सन्दिग्धव्यतिरेको ऽनैकान्तिको वचनादिः ॥
81 द्वयो रूपयोर्विपर्यसिद्धौ विरुद्धः ॥
82 कयोर्द्वयोः?
83 सपक्षे सत्त्वस्य, असपक्षे वासत्त्वस्य । यथा कृतकत्वं प्रयत्नानन्तरोयकत्वं च नित्यत्वे साध्ये विरुद्धो हेत्वाभासः ॥
अर्थान्तरस्येति । अर्थान्तरम् रागादिकम् । अकारणस्य तस्य निवृत्तौ कथं वचनादेर्निवृत्तिः स्यात्?
तथाहि यस्माद् वक्तृत्वसर्वज्ञत्वयोः को ऽपि विरोधो नास्ति । रागादिवचनयोर्वा न कार्यकारणभावः । तत्मात् असर्वज्ञनिवृत्त्या रागादिनिवृत्त्या वा वचननिवृत्तिः सन्दिग्धा । तस्मात्, सन्दिग्धव्यतिरेको नामानैकान्तिकः
यदि द्वयो रूपयोर्विपर्ययसिद्धिस्तदा विरुद्धहेत्वाभासः स्यात्
कयोर्द्वयो रूपयोर्विपर्यप्रतीतौ विरुद्धहेत्वाभास उच्यते?
अन्वय व्यतिरेकाविति शेषः । एवं विरुद्धस्य सामान्यं लक्षणमुक्तम् ।
विशेषेण कथनार्थमाह- कृतकत्वमित्यादि ।
सहचारिणि निवृत्ते निवर्तते वचनम्? इत्याशङ्कयाह- अर्थान्तरस्य चाकरणस्य निवृतौ सहचारित्वदर्शनमात्रेण नान्यस्य वचनादेनिवृत्तिः । अतो वक्तृत्वं भवेद् रागादिविरहश्च
इतिशब्दस्तस्मादर्थे । तस्मादसर्वज्ञत्वविपर्ययाद् विपक्षात् सर्वज्ञत्वाद् रागादिमत्त्वविपर्ययादरागादिमत्त्वात् सन्दिग्धो व्यतिरेको वचनादे । अतो ऽनैकान्तिको वचनादिः
एवमेकैकरूपादिसिद्धिसन्देहे हेतुदोषान् आख्याय, द्वयोर्द्वयो रूपयोरसिद्धिसन्देहे हेतुदोषान् वक्तुकाम आह- द्वयोर्द्वयोरिति । द्वयो रूपयोविपर्ययसिद्धौ सत्यां विरुद्धह्
त्रीणि च रूपाणि सन्ति, ततो विशेषज्ञापनार्थमाह- कयोद्वयोरिति
विशिष्टे रूपे दर्शयति- सपक्षे सत्त्वस्य, असपक्षे चासत्त्वस्य । विअप्र्ययसिद्धाविति सम्बन्धः । कृतकत्वमिति स्वभावहेतुः । प्रयत्नानन्तरीयकत्वं हि कार्यहेतुः । प्रयत्नान्तरीयकशब्देन हि प्रयत्नानन्तरं जन्मज्ञानं च प्रयत्नानन्तरीयकमुच्यते । जन्म= जायमानस्य स्वभावः । ज्ञानम् = ज्ञेयस्य कार्यम् । तदिह प्रयत्नानन्तरं ज्ञानं गृह्यते । तेन कार्यहेतुः ।
84 अनयोः सपक्षे ऽसत्त्वम्, असपक्षे च सत्त्वमिति विपर्यसिद्धिः ॥
85 एतौ च साध्यविपर्ययसाधनाद् विरुद्धौ ।
86 ननु च तृट्यो ऽपीष्ट्
87 यथा परार्थाचक्षु रादयः संघातत्वाच्चयनासनाद्यङ्गवदिति ॥
यदि कृतकत्वेन प्रयत्नान्तरीयक्त्वेन वा नित्यत्वं साध्यते, तर्हि विरुद्धो हेत्वाभासः स्यात्
कथमिह विपर्ययासिद्धिरिति चेद्? आह- अनयोरिति ।
वित्यत्वे साध्ये सपक्ष आकाशादिः, तत्र कृतकत्वप्रयत्नान्तरीकत्वयोरुभयोरेवासम्भवः । विपक्षश्चानित्या घटादिः । तत्र तयोरुभयोरेव सत्त्वम्, तथा च तयोविपर्ययसिद्धिः
यस्माद् द्वयो रूपयोर्विपर्ययसिद्धिः, तस्मात् साध्यविर्ययसिद्द्धिः । साध्यविपर्ययसाधनाच्च विरुद्धो हेत्वाभासः
इष्टसय् विघातः क्रियते ऽनेनेति इष्टविघातकृत् । तृतीयो हि विरुद्धः शास्त्रकारैरुक्तः
दृष्टान्तकथनम्- अय्थेति । तस्यार्थस्तु व्याख्यात एव
एतौ हेतू नित्यत्वे साध्ये हेत्वाभासौ
कस्मात् पुनरेतौ विरुद्धौ? इत्याह- अनयोरिति । सपक्षे हि नित्ये कृतकत्वप्रयत्नानन्तरीयकत्वयोरसत्त्वमेव निश्चितम् । अनित्ये विपक्षे एव सत्त्वं निश्चितमिति विपर्ययसिद्धिः
कस्मात् पुनर्विपर्यसिद्धवप्येतौ विरुद्धौ? इत्याह- एतौ च साध्यस्य नित्यत्वस्य विपर्ययम् अनित्यत्वं साधय्तः । ततः साध्यविपर्ययसाधनाद् विरुद्धौ
यदि साध्यविपर्ययसाधनाद् विरुद्धवेतो, उक्तं च परार्थानुमाने साध्यम्, न त्वनुक्तम्, इष्टं चानुक्तम्, अतो ऽन्य इष्टविघातकृदाभ्यामिति दर्शन्नाह- ननौ च तृतीयो ऽपि विरुद्ध उक्तः । उक्तविपर्ययसाधनौ द्वौ । तृतीयो ऽयमिष्टस्य शब्देनानुपात्तस्य विघातं करोति विपर्ययसाधनादिति इष्टविघातकृत्
तमुदाहरति- यथेति । चक्षुरादय इति धर्मी । परो ऽर्थः प्रयोजनं परार्थः प्रयोजकः संस्कार्य उपकर्तव्यो येषां ते परार्था इति साध्यम् । सङ्घातत्वात् सञ्चितरूपत्वादिति हेतुः । चक्षुरादयो हि परमाणुसञ्चितिरूपाः । ततः सङ्घातरूपा उच्यन्ते । शयनम्, आसनं चादिर्यस्य तत् शयनासनादि । तदेव अङ्गम् पुरुषोपभोगाङ्गत्वत् । अयं व्याप्तिप्रदर्शनविषयो दृष्टान्तः । अत्र हि
88 तदिष्टासंहतपारार्थ्यविपर्यसाधनाद् विरुद्धः ॥
89 स इह कस्मान्नोक्तः?
90 अनयोरेवान्तर्भावात् ॥
91 न ह्यमाभ्यां साध्यविपर्ययसाधनत्वेन भिद्यते ॥
विरुद्धश्चार्य कथमिति चेद्? आह- तदिष्टेति । परेभ्यो ऽयमिति परार्थः, तस्य भावः पारार्थ्यम् । असंहृतस्य पारार्थ्यमिति असंहृतपारार्थ्यम् । इष्टं च तस्य तद् असंहृतपारार्थ्य चेति विग्रहः, तद्विपर्ययः असंहृतपारार्थ्यविषयः । तस्य साधन इत्यर्थः । तस्मात् तदिष्टासहृतपारार्यविपर्ययसाधनादसौ विरुद्ध एव द्रष्टव्यः
शास्त्रकारेणानुमतस्तथा विरुद्धलक्षणयुक्तो ऽपीति भावः
यच्च विरुद्धद्वयमुक्तं तयोरेवान्तर्भावेण पृथ्ग्नाभिधानम्
अन्तर्भावस्यैव प्रदर्शनार्थमाह- न हीति ।
कृतकत्वप्रयत्नान्तरीयकवलक्षणं हेतुनित्यत्वे साध्ये साध्यविपर्ययसाधनाद् विरुद्ध इत्युक्तम् । अयमपि साध्यविपर्ययसाधनात् ताभ्यां समान एव विरुद्धह्
पारार्थ्येनं संहतत्वं व्याप्तम् । यतः शयनासनादयः सङ्घातरूपाः पुरुषस्य भोगिनो भवन्ति उपकारका इति परार्था उच्यन्ते
कथमयमिष्टविघातकृत्? इत्याह- तदिष्टासंहृतपारार्थ्यविपर्ययसाधनादिति । असंहृते विषये पारार्थ्यमसंहृतपारार्थ्यम् । तस्य साङ्खयस्य वादिनः इष्टमसंहृतपारार्थ्य तदिष्टासंहृतपारार्थ्यम् । तस्य विपर्ययः संहृतपारार्थ्य नाम । तस्य साधनाद् विरुद्धह् ।
आत्मा अस्ति इति ब्रुवाणः साङ्ख्यः कुत एतद् इति पर्यनुयुक्तो बौद्धेन, इदमात्मनः सङ्ख्ये प्रमाणमाह । तस्माद् असंहृतस्यात्मनः उपकारकत्वं साध्यं चक्षुरादीनाम् । अयं तु हेतुर्विपर्ययव्याप्तः । यस्माद् यो यस्योपकारकः स तस्य जनकः । जन्यमानश्च युगपत् क्रमेण वा भवति संहृतः, तस्मात् परार्थाश्चक्षुरादयः संहृतपरार्था इति सिद्धम्
अयं च विरुद्ध आचार्यदिङ्नागेनोक्तः, स कस्माद् वात्तिककारेण सता त्वया नोक्तः
इतर आह- अनयोरेव साध्यविपर्ययसाधनयोरन्तर्भावात्
ननु च उक्तविपर्ययं न साधयति, तत् कथमुक्तविपर्यसधनयोरेवान्तभव्तिः? इत्याह- न ह्यमिति । हीति यस्मादर्थे । यस्माद् अयम् इष्टविघातकृद् आभ्यां हेतुभ्यां साध्यविपर्यस्य साधनत्वेन न भिद्यते । यथा तो साध्यविपर्ययसधनी, तथायमपीति । उक्तविपर्ययं तु साधयतु वा मा वा, किमुक्तविपर्ययसाधनेन तस्मादनयोरेघान्तर्भावः
92 न हीष्टोक्तयोः साध्यत्वेन कश्चिद्विशेष इति ॥
93 द्वयो रूपयोरेकस्यासिद्धावपरस्य च सन्देहे ऽनैकान्तिकः ॥
94 यथा वीतरागः कश्चित् सर्वज्ञो वा वक्तृत्वादिति । व्यतिरेको ऽत्रासिद्धः । सन्दिग्धो ऽन्वयः ॥
95 सर्वज्ञवीतरागयोर्विप्रकर्षाद् वचनादेस्तत्र सत्त्वमसत्त्वं व संदिग्धम् ॥
पूर्वं शब्देनोक्तस्यैव साध्यस्य विपर्ययसिद्धिः । तत्र च नेष्टार्थविपर्ययसिद्धिः । तस्मात् कथमयं ताभ्यां समान इति चेत्? तत्राह- न हीति ।
यच्चेष्टं यच्चोक्तं तद्द्वयोः साध्यत्वे विशेषः को ऽपि नास्तीत्येतदुक्तमेव
अन्वयव्यतिरेकयोरेवैकस्यासिद्धौ अपरस्य च सन्देहे हेतोरनैकान्तिकत्वम्
दृष्टान्तकथनम्- यथेति । तस्याथं उक्त एव ।
अत्रेति । अस्मिन् प्रयोगे । व्यतिरेको नास्ति । अन्वयस्तु सन्दिग्धः । तथा हि सर्वज्ञत्वे साध्ये असर्वज्ञो विपक्षः । असर्वज्ञेभ्यश्च वचनं च व्यावृत्तम्
अन्वयसन्देहकथनार्थमाह- सर्वज्ञेति ।
यस्मात् सर्वज्ञत्वं वीतरागत्वं चेन्द्रियस्याविषयस्यैव, तस्मात् तयोः कुत्रापि वचनमस्ति नास्ति वेति सन्दिग्धमेव । तथहि- दृष्टान्तत्वेन यः पुरुष उक्तः स कि सर्वज्ञ सन् वक्ता, किमुत असर्वज्ञः सन् वक्ता? इत्यत्र निश्चयो नास्ति
ननु च उक्तमेव साध्यम्, तत् कथं साध्यविपर्ययसाधनेत्वेनाभेदः? इत्याह- न हीति । यस्मादिष्टोक्तयोः परस्परस्मात् साध्यत्वेन न कश्चिद् विशेषो भेद इति । तस्मादनयोरेव अन्तर्भाव इत्युपसंहार ।
प्रतिवादिनो हि यज्जिज्ञासितं तत् प्रकरणापन्नम् । यच्च प्रकरणापन्नं तत् साधनेच्चया विषयीकृते साध्यमिष्टमुक्तम्, अनुक्तं वा, न तूक्तमात्रेमेव साध्यम् । तेनाविशेष इति
द्वयो रूपयोर्विपर्ययसिद्धौ विरुद्धः उक्तः । तयोस्तु द्वयोर्मध्ये । एकस्यासिद्धौ, अपरस्य च संदेहे चानैकान्तिकः
कीदृशो ऽसौ? इत्याह- यथेति । विगतो रागो यस्य स वीतराग इत्यकं साध्यम् । सर्वज्ञो वेति द्वितीयम् । वक्तृत्वादिति हेतुः । व्यतिरेको ऽत्रासिद्धैति । स्वात्मन्येव सरागे च असर्वज्ञे च विपक्षे वक्तृत्वं दृष्टम् । अतो ऽसिद्धोव्यतिरेकः सन्दिग्धो ऽन्वयः
कुतः? इत्याह- सपक्षभूतयोः सर्वज्ञवीतरागयोः । विप्रकर्षादिति अतीन्द्रियत्वाद् । वचनादेरतीन्द्रियगम्यस्यापि तत्र अतीन्द्रिययोः सर्वज्ञवीतरागयोः सत्त्वमसत्त्वं व सन्दिग्धम् । ततश्च न ज्ञायते किं वक्तृत्वात् सर्वज्ञः? उत न- इत्यनैकान्तिक इति
96 अनयोरेव द्वयो रूपयोः सन्देहे ऽनिकान्तिकः ॥
97 यथा सात्मकं जीवच्चरीरं प्राणादिमत्त्वादिति ॥
98 न हि सात्मकनिरात्मकाभ्यामन्यो राशिरस्ति यत्रायं प्राणादिर्वर्तेत ॥
यद्यन्वयो व्यतिरेकश्च द्वावेव सन्दिग्धौ, तदापि अनैकान्तिकहेत्वाभासः
दृष्टान्तकथनार्थयाह- यथेति । प्राण आदिर्यस्य स प्राणादिः । प्राणशब्देन उन्मेषनिमेषप्रसारणसङ्कोचादीनां परिग्रहः । सात्मकमिति । आत्मनो भोगायतनभूतम् । जीवच्चरीरमिति । अनेन मृतशरीरस्य निरासः
तत्र च व्यतिरेकसन्देहकथनार्थमाह- नहीति ।
द्विविधो हि राशिः- सात्मकः, निरात्मकश्च । तत्रान्तर्भूतो ऽपरो नास्ति ।
प्राणादिमत्त्वस्य वस्तुधर्मत्वे तच्च सात्मकनिरात्मकाभ्यां निवृतम्
सम्प्रति द्वयोरेव सन्देहे ऽनैकान्तिकं वक्तुमाह- अनयोरेव अन्वयव्यतिरेकयोः । सन्देहात् संशयहेतुः
उदाहरणम्- यथेति । सह आत्मना वर्तते सात्मकमिति साध्यम् । शरीरमिति धर्मी । जीवद्ग्रहणं धर्मिवेशेषणम् । मृते ह्यात्मानं नेच्चति ।
प्राणाः= श्वासादय आदिर्यस्योन्मेषनिमेषादेः प्राणिधर्मस्य स प्राणादिः, स यस्यास्ति तत् प्राणादिमत् जीवच्चरीरम्, तस्य भावस्तत्त्वम्, तस्मादित्येष हेतुः
अयमसाधारणः संशहेतुरुपपादयितव्यः । पक्षधर्मस्य च द्वाभ्यां कारणाभ्यां संशयहेतुत्वम् । संशयविषयौ यावाकारौ, ताभ्यां सर्वस्य वस्तुनह् संग्रहात् । तयोश्च व्यापकयोराकारयोरकत्रापि वृत्त्यनिश्चयात् । याभ्यां ह्याकाराभ्यां सर्व वस्तु न संगृह्यते तयोराकारयोर्न संशयह् । प्रकारान्तरसम्भवे हि पक्षधर्मो धर्मिणमवियुक्तं द्वयोरेकेन धर्मेण दर्शयितुं न शक्नुयात्, अतो न संशयहेतुः स्यात् । द्वयोर्धर्मयोरनियतं भावं दर्शयन् संशयहेतुः । द्वयोस्त्वनियतमपि भावं दर्शयितुमशक्तो ऽप्रतिपत्तिहेतुः । नियतं तु भावं दर्शयन् सम्यग् हेतुविरुद्धो वा स्यात् । तस्माद् यभ्यां सर्व वस्तु संगृह्यते, तयोः संशयहेतुः, यदि यतोरेकत्रापि सद्भावनिश्चयो न स्यात् । सद्भावनिश्चये तु यद्येकत्र नियतसत्तानिश्चयो हेतुरिवुद्धो वा स्यात् । अनियतसत्तानिश्चये तु साधारणानैकान्तिकः, सन्दिग्धविपक्षव्यवृत्तिकः, संदिग्धान्वयो ऽसिद्धव्यतिरेको वा स्यात् । एकत्रापि तु वृत्त्यनिश्चयादसाधारणानैकान्तिको भवति । ततो ऽसाधारणानैकान्तिकस्यानैकान्तिकत्वे हेतुद्वयं दर्श-
99 आत्मनो वृत्तिव्यवच्चेदाभ्यां सर्वसंग्रहात् ॥
100 नाप्यनयोरेकत्र वृत्तिनिश्चयः ॥
101 सात्मकत्वेनानात्मकत्वेन वा प्रसिद्धे प्रमाणादेरसिद्धेः ॥
तिष्ठत्वन्यत्र कुत्रापि, कथं तृतीयराश्यसम्भव इति चेद्? आह- आत्मन इति । वृतिश्च व्यवचेदश्च वृत्तिव्यवच्चेदौ । वृत्तिः= सद्भावः । व्यवच्चेदः= अभावः । आत्मनो वृत्तिव्यवच्चेदौ आत्मवृत्तिव्यवच्चेदौ । ताभ्यां हि सकलवस्तुसंग्रहः । तथा हि- यस्मिन् आत्मनो वृत्तिस्तत् सात्मकम् । तत्रानन्तभूतमन्यत् सर्व निरात्मकम् । तस्मात् कुतस्तृतीयरशिसम्भवः । एवं हि प्राणादिमत्त्वस्य सात्मकनिरात्मकाभ्यां व्यतिरेको ऽसिद्धः
यद्यपि ताभ्यां व्यतिरेको ऽसिद्धः तथापि तत्रान्वय एवास्त्विति चेद्? तत्राह-नापीति । प्राणादिमत्त्वस्य सात्मके निरात्मके वा सत्त्वमिति निश्चयो न शक्यते कर्तुम्
तच्च कस्मादिति चेद्? आह- सात्मकत्वेनेति ।
सात्मकत्वेन निश्चेति वस्तुनि, निरात्मकत्वेन वा निश्चिते वस्तुनि प्राणादिमत्त्वमदृष्टम्, तस्मात् कुतो वृत्तिनिश्चयः?
यितुमाह- न हीति । सहात्मना वर्तते सात्मकः । निष्क्रान्तः आत्मा यस्मात् स निरात्मकः । ताभ्यां यस्मान्नान्यो राशिअर्स्ति । किम्भूतः? यत्रायं वस्तुधर्मः प्राणादिर्वर्तेतः । तस्माययं यतोर्भवति संशयहेतुः
कस्मादन्यराश्यभावः? इत्याह- आत्मनो वृत्तिः= सद्भावः, व्यवच्चेदः= अभावः, ताभ्यां सवस्य वस्तुनः संग्रहात् क्रोडीकरणात् । यत्र ह्यात्मा अस्ति तत् सात्सकम्, अन्यन्निरात्मकम् । ततो नान्यो रशिरस्तोति संशयहेतुत्वकारणम्
प्रकाराभ्यां सर्ववस्तुसंग्रहं प्रतिपाद्य द्वितीयमाह- नाप्यनयोः सात्मकानात्मकयोर्मध्य एकत्र सात्मके ऽसात्मके वा वृत्ते सद्भावस्य निश्चयो ऽस्ति । द्वावपि राशी त्यक्त्वा न वर्तते प्राणादिः वस्तुधर्मत्वात् । ततश्चानयोरेव वर्तते इत्येतावदेव ज्ञातम् । विशेषे तु वृत्तिनिश्चयो नास्तीत्यमर्थः
तदाह- सात्मकत्वेनानात्मकत्वेन वा विशेषेण युक्ते प्रसिद्धे निश्चिते वस्तुनि प्राणादेर्धर्मस्य सर्ववस्तुव्यापिनोः प्रकारयोरेकत्र नियतसद्भावस्य असिद्धे रनैकान्तिकः, अनिश्चितत्वात् ।
तदेवमसाधारणस्य धर्मस्यानैकान्तिकत्वे कारणद्वयमभिहितम्
102 तस्माज्जीवच्चरीरसम्बन्धी घ्राणादिः सात्मकादनात्मकाच्च सर्वस्माद् व्यावृत्तत्वेनासिधेस्ताभ्यां न व्यतिरिच्यते ॥
103 न तत्रान्वेति ॥
104 एकात्मन्यप्यसिद्धेः ॥
105 नापि सात्मकादनात्मकाच्च तस्यान्वयव्यतिरेकयोरभावनिश्चयः ॥
उपसंहारे पक्षधर्मो निर्दिश्यते । जीवच्चरीरेण सम्बन्ध इति विग्रहः । स यस्यास्ति स जीवशरीरसम्बन्धी । पक्षधर्म इति शेषः । अनेनोपसंहारेण व्यतिरेकाभावो दर्शितः
अनेनोपसंहारेणान्वयाभावो दर्शितः
एवं चान्वयव्यतिरेकयोर्द्वयोः सत्त्वमसिद्धम्
ननु तयोस्तत्राभावनिश्चय एव स्यादिति चेत्? तत्राह- नापीति ।
यथा सात्मके ऽन्वयव्यतिरेकयोः सत्त्वमनिश्चियम्, तथैवासत्त्वमपि अनिश्चितम् ।
एवमेव निरात्मकस्यापि वक्तव्यम्
पक्षधर्मश्च भवन् सर्वः साधारणो ऽसाधारणो वा भवत्यनैकान्तिकः । तस्मादुपसंहारव्याजेन पक्षधर्मत्वं दर्शयति- तस्मादित्यादिना । जीवच्चरीरस्य संबन्धी पक्षधर्म इत्यर्थः । यस्मात् तयोरेकत्रापि न निवृत्तिनिश्चयः तस्मात् ताभ्यां न व्यतिरिच्यते ।
वस्तुधर्मे हि सर्ववस्तुव्यापिनोः प्रकारयोरेकत्रनियतसद्भावो निश्चितः प्रकारान्तरान्निवर्तेत । अत एवाह- सात्मकादनात्मकत्वाच्च सर्वस्माद् वस्तुनो व्यवृत्तत्वेनासिद्धरिति । प्राणादिस्तावत् कुतश्चित् घटादेर्निवृत्त एव । तत एतावदवसातुं शक्यम्- सात्मकादनात्मकाद् वा कियतो निवृत्तः । सर्वस्मात् तु निवृत्तो नावसीयते । ततो न कुतश्चिद् व्यतिरेकः
यदयेवम्, अन्वयो ऽस्तु तयोर्निश्चितः? इत्याह- न तत्र सात्मके ऽनात्मके वार्थे ऽन्वेति अन्वयवान् प्राणादिः
कुतः? इत्याह- एकात्मन्यपीति । एकात्मनि सात्मके ऽनात्मके वासिद्धेः कारणात् । वस्तुधर्मतया तयोर्द्वयोरेकत्र वा वर्तत इत्यवसितः प्राणादिः । न तु सात्मक एव निरात्मक एव वा वर्तत इति कुतो ऽन्वयनिश्चयः
ननु च प्रतिवादिनो न किञ्चित् सात्मकमस्ति, ततो ऽस्य हेतोर्न सात्मके ऽन्वयो न व्यतिरेक इत्यन्वयव्यतिरेकयोरभवनिश्चयः सात्मके, न तु सद्भाव-
106 एकाभावनिश्चयस्यपरभावनिश्चयनान्तरीयकत्वात् ॥
107 अन्वय व्यतिरेकयोरन्योन्यव्यवच्चेदरूपत्वात्, तत एवान्वयव्यतिरेकयोः सन्देहादनैकान्तिकः ॥
सत्त्वनिश्चयाभावे ऽपि असत्त्वनिश्चयः कथं न स्यादिति चेत्? तत्राह- अन्वय इति ।
अन्योन्यवच्चेदरूपेण तौ स्थितावित्युच्यते, ततश्च किमिति चेत्? आह- एकेति ।
यदि तयोः परस्पराभावरूपेण स्थितिस्तदा यत्रान्वयाभावनिश्चयस्तत्र व्यतिरेकसत्त्वनिश्चयो ऽवश्यम्भवी । तथा व्यतिरेकाभवनिश्चये ऽपि अन्वतसत्त्वनिश्चयो ऽवश्यम्भावी । एवं यत्र प्राणादिमत्त्वस्य सत्त्वंनेति निश्चयस्तत्राभावनिश्चयः । यत्र च तदसत्त्वं नेति निश्चयस्तत्र भावनिश्चयः । यस्मादेवमन्वयव्यतिरेकयोरेकस्याभाव- निश्चय एव, अपरस्य सत्त्वनिश्चयो ऽवश्यम्भावी, तस्मात् सात्मक- निरात्मकयोः प्राणादिमत्त्वाभावनिश्चयो ऽपि नास्त्येव
सत्त्वनिश्चयाभावे ऽपि असत्त्वनिश्चयः कथं न स्यादिति चेत्? तत्रा- अन्वयेति । अन्वयव्यतिरेको हि परस्पराभाअरूपेणावस्थितौ । तथा हि यत्रान्वयाभावस्तत्र व्यतिरेकसत्त्वम्, यत्र वा व्यतिरेकाभावस्तत्रान्वयसत्त्वम् ।
संशयः? इत्याशङ्कयाह- नापीति । नापि सात्मकाद् वस्तुनः तस्य प्राणादेरन्वयव्यतिरेकयोरभावनिश्चयः । नापि च निरात्मकात् । सात्मकादनात्मकादिति च पञ्चमी व्यतिरेकशब्दापेक्षया द्रष्टव्या
कथमन्वयव्यतिरेकयोर्नाभावनिश्चयः? इत्याह- एकेति । एकस्य अन्वयस्य व्यतिरेकस्य वा यो ऽभावनिश्चयः सो ऽपरस्य द्वितीयस्य भावनिश्चयनान्तरीयकः भावनिश्चयस्याव्यभिवारी, तस्य भावस्तत्वं तस्मात् । यत एकाभावनिश्चयो ऽपरभावनिश्चयनान्तरीयकः, तस्मान्न द्वयोरेकत्राभावनिश्चयः
कस्मात् पुनरेकस्याभावनिश्चयो ऽपरसद्भावनिश्चयाव्यभिचारी? इत्याह- अन्वयव्यतिरेकयोरन्योन्यव्यवचेदरूपत्वादिति । अन्योन्ययस्य व्यवच्चेदः अभावः, स एव रूपं ययोस्तयोर्भावस्तत्त्वम्, तस्मात् कारणात् ।
अन्वयव्यतिरेकौ भावाभावौ । भवाभावौ च परस्परव्यवच्चेदरूपौ । यस्य व्यवच्चेदेन यत् परिच्चेदयते तत् तत्परिहारेण व्यवस्थितम् । स्वभावव्यवच्चेदेन च भावः परिच्चेदयते ।
तस्मात् स्वभावव्यवच्चेदेन भवो व्यवस्थितः । अभावो हि नीरूपो यादृशो विकल्पेन दर्शितः । नीरूपतां च व्यवच्च्दय रूपमाकारवत्
108 साध्येतरयोरतो निश्चयाभावत् ॥
109 एवमेषां त्रयाणां रूपाणामेकैकस्य द्वयोर्द्वयोर्वा रूपयोरसिद्धौ सन्देहे वा यथायोगमसिद्धविरुद्धानैकान्तिकास्त्रयो हेत्वाभासाः ॥
तस्मादन्वयव्यतिरेकयोः सन्देहादसौ अनैकान्तिक एव
अन्वय व्यतिरेकयोः सन्देहे सत्यपि कस्मादनैकान्तिकत्वमेव स्यादिति चेत्?
तत्राह- साध्येत्यादि । यस्मात् साध्य साध्यविपक्षयोः प्राणादिमत्त्वनिश्चयो नास्ति, तस्मादनैकान्तिकः
एवमिति । उक्तप्रकारेण । त्रयाणां रूपाणमिति । पक्षधर्मः, अन्वयः, व्यतिरेकश्चेति । एकैकस्य द्वयोर्द्वयोर्वा रूपयोरसिद्धौ सन्देहे चेति । क्वचिदेकस्य रूपस्या-
परिच्चिदयते । तथा च सत्यन्वयाभावो व्यतिरेकः, व्यतिरेकाभावश्चान्वयः ।
ततो ऽन्वयाभावे निश्चिते व्यतिरेको निश्चितो भवति । व्यतिरेकाभावे च निश्चिते ऽन्वयो निश्चितो भवति । तस्माद् यदि नाम सात्मकमवस्तु, निरात्मकं च वस्तुः तथापि तयोर्न प्राणादेरन्वयव्यतिरेकयोरभावनिश्चयः । एकत्र वस्तुनि एकस्य वस्तुनो युगपद् भावाभवविरोधात् तयोरभावनिश्चयायोगात् ।
न च प्रतिवादयनुरोधात् सात्मकानात्मके वस्तुनी सदसती, किन्तु प्रमाणानुरोधात् । इत्युभे सन्दिग्धे । ततस्तयोः प्राणादिमत्त्वस्य सदसत्त्वसंशयः ॥
यत एव क्वचिदन्वयव्यतिरेकयोर्न भावनिश्चयः, नाप्यभावनिश्चयः, तत एवान्वयव्यतिरेकयोः सन्देहः ।
यदि तु क्वचिदप्यन्वयव्यतिरेकयोरेकस्याप्यभावनिश्चयः स्यात्, स एव द्वितीयस्य । भावनिश्चय इत्यन्वयव्यतिरेकसन्देह एव न स्यात् । यतश्च न क्वचिद् भावाभावनिश्चयः, तत एवान्वयव्यतिरेकयोः सन्देहः । सन्देहाच्चातैकान्तिकः
कस्मादनैकान्तिकः? इत्याह- साध्येति । साध्यस्य इतरस्य च विरुद्धस्य, अतः सन्दिग्धान्वयव्यतिरेकान्निश्चयाभावात् । सपक्षविपक्सयोर्हि सदसत्त्वसन्देहे न साध्यस्य न विरुद्धस्य सिद्धिः । न च सात्मकानात्मकाभ्यां परः प्रकारः सम्भवति । ततः प्राणादिमत्त्वाद् धर्मिणी जीवच्चरीरे संशय आत्मभावाभावयोः- इत्यनैकान्तिकः प्राणादिरिति
त्रयाणां रूपाणामसिद्धौ सन्देहे च हेतुदोषानुपपाद्योपसंहरन्नाह- एव-
110 विरुद्धव्यभिचार्यपि संशयहेतुरुक्तः । स इह कस्मान्नोक्तः?
111 अनुमानविषये ऽसम्भवात् ॥
112 न हि सम्भवो ऽस्ति कार्यस्वभावयोरुक्तलक्षणयोरनुपलम्भस्य च विरुद्धतायः ॥
सिद्धिः सन्देहो वा, क्वचितु द्वयो रूपयोः । यथायोगमिति प्रयोगानुरूपम् । अमिद्धविरुद्धानैकान्तिकास्त्रयो हेत्वाभासा इति । असिद्धश्च विरुद्धश्च अनैकान्तिकश्चेति विग्रहः
विरुद्धेनाव्यभिचारो विरुद्धाव्यभिचारः । सो ऽत्रस्तीति विरुद्धाव्यभिचारी । यदा- विरुद्धश्चसौ न व्यभिचरितुं शीलं चास्येति विरुद्धाव्यभिचारी । स च शास्त्रकारेणानैकान्तिक उक्तः । स इहेति । स्वयं न निर्दिष्ट इत्यर्थः
तच्च कस्मादिति चेत्? आह- अनुमान इति ।
तथा हि- वस्तुवलप्रवृत्ते तस्यासम्भवः
कथमसम्भव इति चेत्? आह- न हीति ।
कारणसत्त्वे कार्यसत्त्वमेव कार्यहेतोर्लक्षणम् । तन्मात्रानुबन्धिहेतुत्वमेव स्वभाव मिति अनन्तरोक्तेन क्रमेण । एषां मध्य एकैकं रूपं यदा असिद्धं सन्दिग्धं वा भवति, द्वे द्वौ वासिद्धे सन्दिग्धे वा भवतः, तदासिद्धश्च विरुद्धश्च अनैकान्तिकश्च ते हेत्वाभासाः । यथायोगमिति । यस्यासिद्धौ सन्देहे वा यो हेत्वाभासो युज्यते स तस्यासिद्धेः सन्देहाच्च व्यवस्थाप्यत इति यस्य यस्य येन येन योगो यथायोगमिति ॥ । 109 ॥
ननु च आचार्येण विरुद्धाव्यभिचार्यपि सम्शयहेतुरुक्तः । हेत्वन्तरसाधितस्य विरुद्धं यत् तन्न व्यभिचरतीति विरुद्धाभिचारी । यदि वा विरुद्धश्चासौ साधनान्तरसिद्धस्य धर्मस्य विरुद्धसाधनात्, अव्यभिचारी च स्वसाध्यव्यभिचाराद् विरुद्धव्यभिचारी?
सत्यम्, उक्त आचर्येण, मया तु नोक्तः । कस्मात्? इत्याह- अनुमानेति । अनुमानस्य विषयः प्रमाणसिद्धं त्रैरूप्यम् । यतो हि अनुमानसम्भवः, सो ऽनुमानस्य विषयः । प्रमाणसिद्धाच्च त्रैरूप्यादनुमानसम्भवः । तस्मात् तदेवानुमानविषयः । तस्मिन् प्रक्रान्ते न विरुद्धाव्यभिचारिसम्भवः । प्रमाणसिद्धे हि त्रैरूप्ये प्रस्तुते स एव हेत्वाभासः सम्भवति यस्य प्रमाणसिद्धं रूपम् । न च विरुद्धाव्यभिचारिणः प्रमाणसिद्धमस्ति रूपम् । अतो न सम्भवः । ततो ऽसम्भवान्नोक्तः
कस्मादसम्भवः? इत्याह- नहीति । यस्मान्न सम्भवो ऽस्ति विरुद्धतायाः । कार्य च स्वभावश्च तयोरुक्तलक्साणयोरिति ।
113 न चान्यो ऽन्यभिचारी ।
114 तस्मादवस्तुदर्शनबलप्रवृत्तमागमाश्रयमनुमानमाश्रित्य तदर्थविचारेषु विरुद्धाव्यभिचारी साधनदोष उक्तः ॥
हेतोर्लक्षणम् । उपलब्धिलक्षणप्राप्तस्यानुपलब्धिरनुपलब्धेर्लक्षणम् । विरुद्धश्र्चोक्तलक्षणविशिष्टेषु न सम्भवति । तथा हि शिशपया वृक्षसंसिद्धौ विजातीयवृक्षसाधनं यथोक्तलक्षणस्य द्वितीयस्यसम्भवः
यद्युक्तलक्षणेषु त्रिषु असम्भवः, अस्तु तर्हि अपरत्र सम्भव इति चेत्? तत्राह- न चेति । त्रिषु हेतुषु अनन्तभूतमव्यभिचारिहेत्वन्तरं नास्ति यस्मिन् विरुद्धाव्यभिचारिसम्भवः
कस्मात्त्रिषु असम्भव इति चेद्? आह- तस्मादिति ।
यत्र अतिबद्धेन प्रमाणेन न निर्णयस्तद् अवस्तुदर्शनबलप्रवृत्तमिति । आगमाश्रयमनुमानमश्रित्येति । आगम आश्रयो ऽस्येति आगमाश्रयम् । यत्र आगमद्वारेण धर्मिपक्षधर्मादिकमुपस्थाप्यते तद् आगमाश्रयमनुमानमिति । तदर्थविचारेष्विति ।
कार्यस्य कारणाज्जन्मलक्षणं तत्त्वम् । स्वभावस्य च साध्यव्याप्तत्वं तत्त्वम् । यत् कार्य यश्च स्वभावः, स कथमात्मकारणं व्यापकं च स्वभावं परित्यज्य भवेद्, येन विरुद्धह् स्यात् । अनुपलम्भस्य च उक्तलक्षणस्येति । दृश्यानुपलम्भत्वं चानुपलम्भलक्षणम् । तस्यापि वस्त्वभावाव्यभिचारित्वान्न विरुद्धत्वसम्भवः
स्यादेतत्, एतेभ्यो ऽन्यो भविष्यति? इत्याह- न चान्य एतेभ्यो ऽव्यभिचारी त्रिभ्यः । अत एवैष्वेव हेतुत्वम्
क्व तर्ह्याचार्यदिङ्नगेनायं हेतुदोष उक्तः? इत्याह- तस्मादिति । यस्माद् वस्तुबलप्रवृत्ते ऽनुमाने न सम्भवति तस्माद् आगमाश्रयानुमानमाश्रित्य विरुद्धाव्यभिचायुक्तः । आगमसिद्धं हि यस्यानुमानस्य लिङ्गत्रैरूप्यं तस्यागम आश्रयः ।
ननु चागमसिद्धमपि त्रैरूप्यं प्रमाणसिद्धः? इत्याह- अवस्तुदर्शनबलप्रवृत्तमिति । अवस्तुनो दर्शनं विकल्पमात्रम्, तस्य बलं सामर्थ्यम्, ततः प्रवृत्तम् अप्रमाणाद् विकल्पमात्राद् व्यवस्थितं त्रैरूप्यमागमसिद्धमनुमानस्य, न तु प्रमाणात् ।
तत् तहर्यनुमानमागमसिद्धत्रैरूप्यं क्वाधिकृतम्? इत्याह- तदर्थेति । तस्य आगमस्य यो ऽर्थो ऽतीन्द्रियः प्रत्यक्षानुमानाभ्यामविषयीकृतः सामान्या
115 शास्त्रकाराणामर्थेषु भ्रान्त्या विपरीतस्वभावोपसंहाअर्सम्भवात् ॥
116 न ह्यस्य सम्भवो यथावस्थितवस्तुस्थितिष्वात्मकार्यानुपलम्भेषु ॥
117 तत्रोदाहरणम्- यत् सर्वदेशस्थितः स्वसम्बन्धिभियुगपदभिसम्बध्यते तत् सर्वगतम् यथाकाशम् । अभिसम्बध्यते च सर्वदेशावस्थितः स्वसम्बन्धिभियु गपत् सामान्यमिति ॥
आगमार्थविचारेषु । विरुद्धाव्यभिचारी साधनदोष उक्त इति । सुगमम्
यद्ययमयोग्य एव, तर्हि आगमाश्रयानुमाने ऽपि तस्य कथं सम्भव इति चेद्? आह- शास्त्रेति ।
सर्वैश्च शास्त्रकारैस्तद्दर्शनानुत्पन्ना अपि केचन अर्थाः स्वभावविपर्ययेणाभिहिता बवन्ति । ततस्तया विरुद्धाव्यभिचारी भवति
यदि तस्यागमप्रतिबद्धानुमाने सत्त्वमेवेष्यते, तर्हि वस्तुबलेन प्रवृत्तिरपि कस्मान्नेष्यते इति चेत्। तत्राह- न हीति ।
यथा वस्तुनो ऽवस्थितिस्तथैव स्थितिर्येषां ते यथावस्थितवस्तुस्थितयः । स्थितिः= व्यवस्था । आत्मा च कार्य चानुपलम्भश्चेति विग्रहः । आत्मा स्वभावो नाम । यथा सदर्थे वस्तुव्यवस्था, तथा स्वभाव- कार्य अनुपलम्भहेतवस्ते व्याव्स्थिता तेषु विरुद्धाव्यभिचारिणः कुतः सम्भवः
तत्रोदाहार्णमिति । आगमाश्रितप्रमाणोपदर्शनम् । यत् सर्वदेशावस्थितैः दिस्तस्य विचारेषु प्रक्रान्तेषु आगमाश्रयमनुमानं सम्भवति । तदाश्रयो विरुद्धाव्यभिचार्युक्त आचार्येणोति
कस्मात् पुनरागमाश्रये ऽप्यनुमाने सम्भवः? इत्याह- शास्त्रकाराणामीत् । शास्त्रकृताम् । विपरीतस्य वस्तुविरुद्धस्य स्वभावस उपसंहारो ढौकनमर्थेषु, तस्य सम्भवाद् विरुद्धाव्यभिचारिसम्भवः । भ्रान्त्येति । विपर्यासेन । विपर्यस्ता हि शास्त्रकाराः सन्तमसन्तं स्वभावमारोपयन्तीति
यदि शास्त्रकृतो ऽपि भ्रान्ताः, पुनरन्येष्वपि पुरुषेषु क आश्वासः? इत्याह- न हीति । न हेतुषु कल्पनया हेतुत्वव्यवस्था, अपि तु वस्तुस्थित्या । ततो यथावस्थितवस्तुस्थितिष्वात्मकार्यानुपलम्भेष्वस्य सम्भवो नास्ति ।
अवस्थितं परमार्थसद्वस्तु तदनतिक्रान्ता यथावस्थिता वस्तुस्थितिः= व्यवस्था येषां ते यथावस्थिदवस्तुस्थितयः । ते हि यथा वस्तु स्थितं तथा स्थिताः, न कल्पनया । ततस्तेषु न भ्रान्तेरवकाशो ऽस्ति, येन विरुद्धाव्यभिचारि सम्भवः स्यात्
118 तत्सम्बन्धस्वभवमात्रानुबन्धिनी तद्देशसन्निहितस्वभावता ॥
स्वसम्बन्धिभिर्यु पगपदभिसम्बद्धयते तत् सर्वगतमिति । सर्वस्मिन् देशे ऽवस्थिताः सर्वदेशावस्थिताः । त एव स्वस्य च सम्बन्धिनः स्वसम्तन्धिनः । यदपि वस्तु सर्वदेशावस्थितस्वसम्बन्धिभियु गपदभिसम्बध्यते तत् सर्वगतमेव दृष्टम् । यथा आकाशमिति । आकाशं हि सर्वदेशावस्थितस्वसम्बन्धिभिर्यु गपदभिसम्बध्यते तच्च सर्वगतमेवेष्टम् । एतद्वचनेनान्वयो दर्शितः ।
सामान्यमपि सर्वदेशावस्थितैः स्वसम्बन्धिभिर्यु गपदभिसम्बध्यते इति । सामान्यस्य सम्बन्धिनो हि व्यक्तिविशेषाः सर्वेषु विद्यमानाः । तैश्च सामान्यं युगपदभिसम्बद्धयते । अनेन पक्षधर्म उक्तः
स्वभावहेतुलणत्वं प्रयोगस्य दर्शयितुमाह- तत्सम्बन्धोति ।
तस्य सम्बन्धितः तत्सम्बन्धिनः । तत्सम्बन्धिनां स्वभावमात्रमनुबन्धु शीलं यस्या सा तत्सम्बन्धिस्वभवमात्रानुबन्धिनी । तेषां सम्बन्धिनां देशास्तद्देशाः । तत्देशे सन्निहितस्तद्देशसन्निहितः । तद्देशन्निहितः स्वभावो यस्य स तद्देशसन्नि हितस्वभावः । तस्य भावः तद्देशसन्निहितस्वभावता । सम्बन्धिदेशे उपस्थितिरिति शेष
तत्र विरुद्धाव्यभिचार्युदाहरणम्- यदिति । यत् सर्वस्मित् देशे ऽवस्थितैः स्वसम्बन्धिभिर्यु गपदभिसम्बद्धयते इति सर्वदेशावस्थितैरभिसम्बध्यमानत्वं सामान्यस्य अनूदय सर्वगतत्वं विधीयते । तेन युगपदभिसम्बध्यमानत्वं सर्वगतत्वे नियतं तेन व्याप्तं कथ्यते ।
इह सामान्यं कणादमहर्षिणा निष्क्रियं दृश्यमेकं चोक्तम् । युगपच्च सर्वैः स्वैः सम्बन्धिभिः समवायेन सम्बद्धम् । तत्र पैलुकेन कणादशिष्येण व्यक्तिषु व्यक्तिरहितेषु च देशेषु सामान्यं स्थितं साधयितुं प्रमाणमिदमुपन्यस्तम् । यथा आकाशमिति । व्याप्ति प्रदर्शनविषयो दृष्टान्तः । आकाशमपि हि सर्वदेशावस्थितैवृक्षादिभिः स्वसंयोगिभिर्युगपदभिसम्बध्यमानं सर्वगतं च । अभिसम्बध्यते च सर्वदेशावस्थितैः स्वसम्बन्धिभिरिति । हेतोः पक्षधर्मत्वप्रदर्शनम्
अस्य स्वभावहेतुत्वं योजयितुमाह- तत्सम्बन्धीति । तेषां सर्वदेशावस्थितानां द्रव्याणां सम्बन्धी सामान्यस्य स्वभावः स एव तत्सम्बन्धिस्वभावमात्रम्, तदनुबध्नातीति तदनुबन्धिनी ।
कासौ? इत्याह- तद्दे शसन्निहितस्देभावता । तेषां सम्बन्धिनां देशः तद्देशः । तद्देशे सन्निहितः स्वभावो यस्य तत् तद्देशन्निहितस्व-
119 न हि यो यत्र नास्ति स तद्द्शमात्मना व्याप्नोतीति स्वभावहेतुप्रयोग इति ।
120 द्वितीयो ऽपि प्रयोगः- यदुपलब्धिलक्षप्राप्तं सन्निपलम्यते न तत् तन्नास्ति । तदयथा- क्वचिदविदयमानो घटः । नोपलभ्यते चोपलभिलक्षणप्राप्तं सामान्यं व्यक्त्यन्तरालेष्विति । अयमनुपलम्भह् स्वभावश्च परस्परविरुद्धासाथनादे कत्र संशयं जनयतः ॥
सर्वगतत्वेनव हि सम्बन्धिनो व्याप्यन्ते इत्येतच्च कस्मादिति चेत्? आह- य इति ।
यश्च यत्र नास्ति तस्य तद्देशव्यापन्नं कथं शक्यम्? तद्देश इति । स देशो यस्य स तद्देश इति यस्मिन् देशे स नास्ति तद्देशसम्बन्धिनं स न सक्नोति व्यापयितुमीत् शेषः । स्वभावहेतुप्रयोग इति । सुगमम्
अथ काणादैः कैश्चित् सामान्यस्य सर्वगतत्वमुक्तम्, अपरैश्च काणादैः सामाभावम्, तस्य हि येषां सम्बन्धी स्वभावः, तन्नियमेन तेषां देशे सन्निहितं भवति । ततस्तत्सम्बन्धित्वानुबन्धिनी तद्देशसन्निहिता सामान्यस्य
ननु च गवां सम्बन्धी स्वामी, न च गोदेशे सन्निहितस्वभावः, तत् कथं तत्सम्बन्धित्वात् तद्देशत्वम्? इत्याह- न हीति । यो यत्र देशे नास्ति स देशो यस्य स तद्देशः तं न व्याप्नोतीत्यात्मना स्वरूपेण । इह सामान्यस्य तद्वतां च समवायलक्षणः सम्बन्धह्, स चाभिन्नदेशयोरेव । तेन यत्र तय् समवेतं तत् तदात्मीयेन रूपेण क्रोडीकुर्वत् समवायिरूप देशे स्वात्मानं निवेशयति ।
तद्देशरूपनिवेशनमेव तत्क्रोडीकरणम् । ततस्तत्समवायः ।
तस्माद् यत् तत्र समवेतं तत् तद् द्रव्यं व्याप्नुवदात्मा तद्देशे सन्निहितं भवति ।
तदयमर्थह्- तद्देशस्थवस्तुव्यापनं तद्देशसत्तया व्याप्तम् । तद्देशसत्ताभावे तद्वयापनाभावात् व्यापनलक्षणः समवायसम्बन्धो न स्यात् । अस्ति च व्यापनम् । अतस्तद्देशे सन्निहितत्वमिति यदयं स्वभावहेतुः
पैठरप्रयोगं दर्शयन्नाह- द्वितीयऽपीति । यदुपलब्धेर्लक्षणतां विषयतां प्राप्तं दृश्यमित्यर्थः । एतेन दृश्यानुपलब्धिमनूदय न तत् तत्रास्ति इत्यसद्वयवहार्यत्वं विहितम् । ततो व्याप्यदृश्यानुपलब्धेर्व्यापकमसद्वयवहार्यत्वं दर्शितम् । तदयथेति क्वचिदसन् घटो दृष्टान्तः ।
121 त्रिरूपी हेतुरुक्तः । तावता नार्थप्रतीतिरिति न पृथग्दृष्टान्तो नाम साधनावयवः कश्चित् । तेन नास्य लक्षणं पृथगुच्यते गतार्थत्वात् ।
न्यस्य केवलाश्रयसर्वगतत्वमेवाङ्गीकृतम्, तन्नयप्रदर्शनार्थमाह- द्वितीय इति । तच्च सुगमम् ।
यदुपलब्धीति । अत्रानुपलब्धेरन्वयः कथितः ।
व्यक्तेरन्तरालानि व्यक्त्यन्तरालानि व्यक्त्यन्तराणि । तेषु उपलब्धिलक्षण प्राप्तं सामान्यं नोपलभ्यते । अनेन पक्षधर्म उक्तः । तद्वादिना च केवलाश्रयसर्वगतत्वमुक्तम्
अव्यवहितोक्त्यानुपलब्ध्या सामान्यस्य केवलाश्रयसर्वगतत्वं साध्यते । प्राक्च स्वभावहेतुना सर्वसर्वगतत्वं साधितमिति द्वाभ्यां परस्परविरुद्धार्थसाधनात् किं व्यक्त्यन्तरालेषु सामान्यानुपलब्धेः केवलाश्रयसर्वगतत्वमेव सर्वदेशावस्थितस्वसम्बन्धिषु अनुबद्धत्वात् सर्वसर्वगतत्वमेव वेति अनुभवादेकस्मिन्नेव सामान्ये सन्देही जायते । एवमियता परार्थानुमानं तत्स्वरूपैर्दर्शितम्
ननुन् दृष्टान्तलक्षणं कस्मान्नोक्तमिति चेत्? तत्राह- त्रिरूप इति ।
पूर्व हेतोर्लक्षणत्रयं यदुक्तं तेनैव रूपत्रयेण साध्यार्थसिद्धिर्भवति । तेन दृष्टान्तो नाम पृथक् साधनावयवो नास्ति । ततश्च तल्लक्षणं पृथग्नोक्तम् ।
पक्षधर्मत्वं दर्शयितुमाह- नोपलभ्यते चेति । व्यक्त्यन्तरालं व्यक्त्यन्तरं च व्यक्तिशून्यं चाकाशम् । दृश्यमपि कस्याञ्चिद् व्यक्ती गोसामान्यमश्वादिषु व्यक्त्यन्तरेषु व्यक्तिशून्ये चाकाशे नोपलभ्यते । तस्मान्न तेष्वस्तीति गम्यते ।
अयमनुपलम्भः पूर्वोक्तश्च स्वभावः परस्य विरुद्धौ यवथौ तयोः साधनात् तावेकस्मिन् धर्मिणि संशयं जनयतः । न ह्येको ऽर्थः परस्परविरुद्धस्वभावो भवितुमर्हति । एकेन चात्र व्यक्त्यन्तरेषु व्यक्तिशून्ये चाकाशे सत्त्वम् । अपरेण चानुपलम्भेन असत्त्वं साध्यते । न चैकस्यैकसैकत्र सत्त्वमसत्त्वं च युक्तम्ः तयोविरोधात् । तदागमसिद्धस्य सामान्यस्य सर्वगतत्वासर्वगतत्वयोः साध्ययोरेतो विरुद्धाव्यभिचारिणी जातौ । यतः सामान्यस्यैकस्य युगपत् सर्वदेशावस्थितैरभिसम्बन्धित्वं चाभ्युपगतम्, दृश्यत्वं च ततः सर्वसम्बन्धित्वात् सर्वगतत्वम्, दृश्यत्वादन्तरालादनुपलम्भादसर्वगतत्वम् । ततः शास्त्रकार्रेणैव विरुद्धव्यप्तत्वमपश्यता विरुद्धव्याप्ती धर्मावुक्त्वा विरुद्धाव्यभिचार्यवकाशो दत्त इति । न च वस्तुन्यस्य सम्बह्वः
इत्युक्ता हेत्वाभासाः ॥
ननु च साधनावयवत्वाद् यथा हेतव उक्ताः, तत्प्रसङ्गेन च हेत्वा-
122 हेतोः सपक्ष एव सत्त्वमसपक्षाच्च सर्वतो व्यावृत्तो रूपमुक्तमभेदेन । पुनर्विशेषेण कार्यस्वभावयोरुक्तलक्षणयोर्जन्मतन्मात्रानुबन्धी दर्शनीयावुक्तौ । तच्च दर्शयता- यत्र धूमस्तत्राग्निः, असत्यग्नौ न क्वचिद् धूमः, यथा महानसेतरयोः । यत्र कृतकत्वं तत्रानित्यत्वम्,
गतार्थत्वादिति हेत्वर्थेनैव दृष्टान्तार्थस्यावगमात्
कथमिति चेदाह- हेतोरिति ।
प्रयोगमात्र एतदेव हेतोर्लक्षणम्- सपक्ष एव सत्त्वम् इत्येवरूपम् । तथा सर्वस्माद् विपक्षाद् व्यावृतिः इत्येवंरूपम् च ।
विशेषेण च हेतोर्लक्षणम्- कार्यहेतोर्जन्म प्रदर्शनीयम् इत्युक्तम्, स्वभावहेतो स्तन्मात्रानुबन्धः कथनीय इत्युक्तम् ।
सामानय्लक्षणं विशेषलक्षणं च दर्शयतेति शेषः ।
कार्यहेतोर्हि स्वकीयक्षणं(विशेषलक्षणं) तथा सामानय्लक्षणं च योग्यम् । एवं च दर्शयता विशेषेण कथयता इत्यर्थः । तथाहि- अत्र सपक्षसत्त्वं प्रदर्शयता
भासाः, तथा साधनावयत्वाद् दृष्टान्ता वक्तव्याः तत्प्रसङ्गेन च दृष्टान्ता भाषाः तत् कथं नोक्ताः? इत्याह- त्रिरूपो हेतुरुक्तः, तत् कि दृष्टान्तैः?
स्यादेतत्, तावता नार्थप्रतीतिः? इत्याह- तावता चेति । उक्तलक्षणेनैव हेतुना भवति साध्यप्रतीतिः, अतः स एव गमकः, ततस्तद्वचनमेव गमकम् । न दृष्टान्तो नाम साधनस्यावयवः । यतश्चार्य नावयवः, तेन नास्य दृष्टान्तस्य लक्षणं हेतुलक्षणात् पृथगुच्यते ।
कथं तर्हि हेतोर्व्याप्तिनिश्रयः, यद्यदृष्टान्तको हेतुरिति चेद्? नोच्यते हेतुरदृष्टान्तक एव, अपि तु न हेतोः पृथग्दृष्टान्तो नाम । हेत्वन्तर्भूत एव दृष्टान्तः । अत एवोक्तम्- नास्य पृथग् लक्षणमुच्यते इति । न त्वेवमुक्तम् नास्य लक्षणमुच्यते इति ।
यद्येवम्, हेतूपयोगिनो ऽपि लक्षणं वक्तव्यमेव? इत्याह- गतार्थत्वात् । गतो ऽर्थः प्रयोजनम्, अभिधेयं वा यस्य दृष्टान्तलक्षणस्य, तत् तथा । तस्य भावस्तत्वम्, तस्मात् । दृष्टान्तलक्षणं ह्युच्यते दृष्टान्तप्रतीतिर्यथा स्यात् । दृष्टान्तश्च हेतुलक्षणादेवावसितः, ततो दृष्टान्तलक्षणस्य यत् प्रयोजनं दृष्टान्तप्रतीतिः, तद् गतम्= निष्पन्नम् । अभिधेयं व गतम्= ज्ञातं दृष्टान्ताख्यम्
कथं गतार्थत्वम्? इत्याह- हेतोः रूपमुक्तमभेदेन । सामान्येन । साधारणं कार्य स्वभाव अनुपलम्भनामेतल्लक्षणमित्यर्थः । किं पुनस्तत्?
अनित्यत्वाभावे कृतकत्वासम्भवः, यथा घटाकाशयोरिति दर्शनीयम् ।
न ह्यन्यथा सपक्ष विपक्षयोः सदसत्त्वे यथोक्तप्रकारे शक्ये दर्शयितुम् ।
तत्कार्यतानियमः कार्यलिङ्गस्य, स्वभावलिङ्गस्य च स्वभावेन
अवश्यं यथा महानसः इत्यभिधेयम् । अन्यथा सपक्षसत्त्वमेव कथयितु न शक्यते । तथैव व्यावृत्ति कथयताप्यवश्यं यथा जलम् इत्याभिधेयम् । अन्यथा व्यावृत्तिरेव नोक्ता स्यात् ।
अनेन स्वभावहेतोः सामान्यलक्षणं विशेषलक्षणं च यथा वक्तव्यं तथा दर्श्यते । इह यदि यथा घटः इति नोच्यते तदा सपक्षसत्त्वमेव कथयितुं न शक्यते । यदि यथा आकाशम् इति नोच्यते, तदा व्यावृत्तिरपि कथयितुं न शक्यते । तन्मात्रानुबन्धो ऽपि तथैव दर्शयितुं न शक्यम् । तथाहि यदि यत्र यत्र कृतकत्वं तत्र तत्रावश्यं नित्यत्वम्, यथा घटे इति निर्दिश्यते, तदा तन्मात्रानुबन्ध एवोक्तो भवति । सपक्ष एव यत् सत्त्वम्, विपक्षाच्च सर्वस्माद् व्यावृत्तिर्या- रूपद्वयमेतदभेदेनोक्तम् ।
नच सामान्यमुक्तमपि शक्यं ज्ञातुम्, अतस्तदेव विशेषनिष्ठं वक्तव्यम् ।
अतः पुनरपि विशेषेण विशेषवन्तौ जन्मतन्मात्रानुबन्धौ दर्शनीयावक्तौ । कार्यस्य जन्म ज्ञातव्यमुक्तम् । जन्मनि हि ज्ञाते कार्यस्य सपक्षे एव सत्त्वम्, विपक्षाच्च सर्वस्माद् व्यावृत्तिर्ज्ञाता भवति । स्वभवस्य तन्मात्रानुबन्धो दर्शनीय उक्तः । तदिति साधनम् । तदेव तन्मात्रम्= साधनमात्रम् । तस्यानुबन्धः= अनुगमनम् । साधनमात्रस्य भावे भावः साध्यस्य । तन्मात्रभावित्वमेव हि साध्यस्य तादात्म्यम् । साधनस्य यदा स्वभावो ज्ञातो भवति तदा स्वभावहेतोः- सपक्षे एव सत्त्वम्, विपक्षाच्च सर्वस्माद् व्यावृत्तिर्ज्ञाता भवति ।
तदेवं सामान्यलक्षणं विशेषात्मकं ज्ञातव्यम्, नानय्था । ततो विशेषलक्साणमुक्तम् ।
किमतो यदि नामैवम्? इत्याह- तच्चेति । तच्च सामान्यलक्षणं दर्शयितुकामेन विशेषलक्षणं दर्शयता एव दर्शनीयम्- इति सम्बन्धः । यत्र धूमस्तत्राग्निरिति । कार्यहेतोर्व्याप्तिदर्शिता । व्याप्तिश्च कार्यकरणभावसाधनात् प्रमाणान्निश्चौयते । ततो यथा महानस इति दर्शनीयम्, असत्यग्नौ न भवत्येव धूम इति व्यतिरेको दर्शितः । स च यथेतरस्मिन्निति दर्शनीयः । वह्निनिवृत्तिर्हि धूमनिवृत्तौ नियता दर्शनीया । सा च महानसादितरत्रेति दर्शनीया ।
व्याप्तिः । अस्मिश्चार्थे दर्शिते एव दृष्टान्तो भवति । एतावन्मात्ररूपत्वात् तस्येति ॥
सपक्षत्वं दर्शयता यदि यथा महानसः यथा घटः इति वा नोच्यते, तदा सपक्षसत्त्वमेवोक्त न स्यात् । यदि च विपक्षासत्त्वं दर्शयता यथा जलम् यथा आकाशम् इति वा निच्यते, तदा व्यावृत्तिरेव नोक्ता स्यात् ।
एवं सामान्यलक्षणमुक्त्वा अशक्यत्वमुक्तम् । विशेषलक्षणेन अशक्यत्वकथनानन्तरमाह- तत्कार्यतेत्यादि ।
तस्य कार्य तत्कार्यम्, तस्य भावस्तत्कार्यता, तस्या नियमः तत्कार्यतानियमः । कारणसत्त्वे कार्यस्यापि सत्त्वम् इत्येष नियम एव तत्कार्यतानियमः ।
स्वरूपेण व्याप्तिरेव स्वभावेन व्याप्तिः । तन्मात्रानुबन्ध इति शेषः । तदुभयमपि दृष्टान्तमनुक्त्वा वक्तुं न शक्यते । यदा यथोक्तन्यायेन क्वचिद् धर्मिणि हेतुः सामान्यलक्षणतो विशेषलक्षणतश्चोच्यते, तदा दृष्टान्तो ऽप्युक्त एव ।
तच्च कस्मादिति चेद्? आह- एतावदित्यादि ।
यत्र कृतकत्वं तत्र । नित्यत्वमिति स्वभावहेतोर्व्याप्तिदर्शिता । अनित्यत्वाभावे न भवत्येन कृतकत्वमिति व्यतिरेको दर्शितः । व्याप्त्रेश्च साधकै प्रमाणं साधर्म्यदृष्टान्ते दर्शनीयम् । प्रसिद्धव्याप्तिकस्य च हेतोः साध्यनि वृत्तौ निवृत्तिर्नियता दर्शनीया । तदवश्यं यथा घटे, यथा आकाशे चेति दर्शनीयम् ।
कस्मादेवम्? इत्याह- न होति । यस्मादन्यथा सामान्य लक्षणरूपे सपक्षविपक्षयोः सदसत्त्वे यथोक्तप्रकारे इति नियते- सपक्षे एव सत्त्वम्, विपक्षऽसत्त्वमेवेति नियमो यथोक्तप्रकारः । ते न शक्ये दर्शयितुम् । विशेषलक्षणे हि दर्शिते यथोक्तप्रकारे सदसत्वे दर्शिते भवतः । न च विशेषलक्षणमन्यथा शक्यं दर्शयितुम् ।
तस्य साध्यस्य कार्यधूमः, तस्य भावस्तत्कार्यता, सैव नियमो यतस्तत्कार्यताया धूमो दहने नियतः । सो ऽयं तत्कार्यतानियमो विशेषलक्षणरूपो ऽन्यथा दर्शयितुमशक्यः । स्वभावलिङ्गस्य च स्वभावेन साध्येन व्याप्ति विशेषलक्षणरूपा न शक्या दर्शयितुम् । यस्मात् कार्यकारणभावस्तादात्म्यं च महानसे घटे च ज्ःआतव्यम्, तस्माद् व्याप्तिसाधनं प्रमाणं दर्शयता साधर्म्यदृष्टान्तो दर्शनीयः वैधर्म्यदृष्टान्तस्तु प्रसिद्धे तत्कार्यत्वे कारणाभावे कार्याभावप्रतिपत्त्यर्थम् । तत एव नावश्यं वस्तु भवति । कारणाभावे कार्याभावो वस्तुन्यव्स्तुनि वा बवति । ततो वस्त्ववस्तु वा वैधर्म्य
123 एतेनैव दृष्टान्तदोषा अपि निरस्ता भवन्ति ॥
124 यथा नित्यः शब्दो ऽमूर्तत्वात्, कर्मवत् परमाणुवद् घटवदिति । एते दृष्टान्ताभासाः साध्यसाधनधर्मोभयविकलाः ।
तथाहि तस्य रूपमेतावन्मात्रेमेव । यत्र साध्येन हेतोरन्वयो दृश्यते, स साधर्म्यदृष्टान्तः । यत्र च साध्याभावे हेत्वभावो निर्दिश्यते स वैधर्म्यदृष्टान्तः
यस्माद् यदा हेतोः सामान्यविशेषलक्षणयोनिर्देशः क्रियते स निर्दुष्ठदृटान्त इत्युच्यते तस्माद् यत्र तल्लक्षणयोर्निर्देशो न सम्भवति स दृष्टान्ताभासो भवतीत्युक्तं भवति
उदाहार्णान्याह- यथेति । साध्य- साधनधर्मोभयविकला इति । शब्दो नित्यः, अमूर्तत्वत् कर्मवत् इति साधय्धर्मविकलः । परमाणुवत् इति साधनधर्मविकलः । घटवत् इत्युभयविकलः
दृष्टान्त इष्यते । तस्माद् दृष्टान्तमन्तरेण न हेतोरन्वयो व्यतिरेको वा शक्यो दर्शयितुम् । अतो हेतुरूपाख्यानादेव हेतोर्व्याप्तिसाधनस्य प्रमाणस्य दर्शकः साधर्म्यदृष्टान्तः ।
प्रसिद्धव्याप्तिकस्य साध्याभवे हेत्वभावप्रदर्शनाद् वैधर्म्यदृष्टान्त उपादेय इति च दर्शितं भवति ।
अस्मिश्चार्थे दर्शिते एव दृष्टान्तो भवति । यो ऽयमर्थो व्याप्ति प्रसाधनप्रमाणप्रदर्शनः कश्चिदुपादेयो निवृत्तिप्रदर्शनश्च- इत्यस्मिन्नर्थे दर्शिते दर्शितो दृष्टान्त इत्याह । एताबन्धमात्रं रूपं यस्य, तस्य भावस्तत्त्वम्, तस्मादिति । एतावदेव हि रूपं दृष्टान्तस्य, यदुत व्याप्तिसाधनप्रमाणप्रदर्शकत्वं नाम साधर्म्यदृष्टान्तस्य, प्रसिद्धव्याप्तिकस्य च साध्यनिवृतौ साधननिवृत्तिप्रदर्शकत्वम्- इत्येतद् वैधर्म्यदृष्टान्तस्य । एतच्च हेतूपाख्यानादेवाख्यातमिति किं दृष्टान्तलक्षणेन
एतेनैव च हेतुरूपाख्यानाद् दृष्टान्तत्वप्रदर्शनेन दृष्टान्तदोषा दृष्टान्तभासाः कथिता भवन्ति । तथा हि- पूर्विक्तिसिद्धये य उपादीयमानो ऽपि दृष्टान्तो न समर्थः स्वकार्य साधयितुं स दृष्टान्तदोष इति सामर्थ्यादुक्तं भवति
दृष्टान्ताभासानुदाहरति- यथा नित्यः शब्द इति । शब्दस्य नित्यत्वे साध्ये अमूर्तत्वादिति हेतुः । साधर्म्येण कर्मवत्, परमाणुवत्, घटवदित्येते दृष्टान्ता उपन्यस्ताः । एते च दृष्टान्तदोषाः । साध्यं च साधनं च
125 तथा सन्दिग्धसाध्यधर्मादयश्च । यथा- रागादिमानयं वचनाद् रथ्यापुरुषवत् । मरणधर्माय पुरुषो रागादिमत्त्वाद् रथ्यापुरुषवत् । असर्वज्ञो ऽयं (पुरुषो) रागादिमत्त्वाद् रथ्यापुरुषवदिति ।
126 तथानन्वयो ऽप्रदर्शितान्वयश्च । यथा- यो वक्ता स रागादिमान् इष्टपुरुषवत् । अनित्यः शब्दः कृतकत्वाद् घटवदिति ।
सन्दिग्धः साध्यधर्मो ऽस्मिन्निति विग्रहः । साध्यधर्म आदिर्येषां ते तथोक्ताः ।
उदाहरणान्याह- रागादिमानिति । अयं सन्दिग्धसाध्यधर्मः । मरणधर्मेति । अयं सन्दिग्धसाधनधर्मः । असवज्ञ इति । अयं सन्धिग्धोभयधर्मः
अनन्वय इति । यत्रान्वयो नास्त्येव । अप्रदर्शितान्वय इति । यत्रान्वयो विद्यमानो ऽपि न प्रदर्शितः ।
उदाहरणमाह- यथेति । तत्रान्वयो नास्ति । तेन तत्र वचनरागादयोर्व्याप्यव्यपकभवः कार्य कारणभावो वा नैव विद्यते ।
अनित्य इति । इहान्वयो विद्यमानो ऽपि न प्रदर्शितः
उभयं चेति च तैर्विकलाः । 1 साध्यविकलं कर्म तस्यानियतत्वात् ।
2 साधनविकलः परमाणुः, मूर्तत्वात् परमाणूनाम् । असर्वगताद्रव्यपरिमाणम् =मूर्तिः । असर्वगतश्च द्रव्यरूपाश्च परमाणवः । नित्यास्तु वैशेषिकैरिष्यन्ते । ततो न साध्यविकलः । 3 घटस्तूभयविकलः, अनित्यत्वात् मूर्तत्वाच्च घटस्येति
तथा सन्दिग्धः साध्यधर्मो यस्मिन् स सन्दिग्धसाध्यधर्मः । स आदिर्येषां ते तथोक्तः । सन्दिग्धसाध्यधर्मः, सन्दिग्धसाधनधर्मः, सन्दिग्धिभयः ।
उदाहरणम्- रागादिमनिति । रागादिमत्त्वं साध्यम् । वचनादिति हेतुः । रथ्यापुरुषवदिति दृष्टान्ते रागादिमत्तव्ं सन्दिग्धम् । मरणे धर्मो ऽस्येति मरणधर्मा, तस्य भावो मरणधर्मत्वं साध्यम् । अयं पुरुष इति धर्मी । रागादिमत्त्वादिति हेतुः । तदुभयमपि रथ्यापुरुषे दृष्टान्ते सन्दिग्धम्- असर्वज्ञत्वं रागादिमत्वं चेति
तथानन्वय इति । यस्मिन् दृष्टान्ते साध्यसाधनयोरसम्भवमात्रे दृश्यते, नतु साध्येन व्याप्तो हेतुः सो ऽनन्वयः । अप्रदर्शितान्वयश्च यस्मिन् दृष्टान्ते विद्यमानो ऽप्यन्वयो न प्रदर्शितो वक्त्रा, सो ऽप्रदर्शितान्वयः ।
अनन्वयमुदाहरति- यथेति । यो वक्तेति । वक्तृत्वमनूद्य स रागादिमानिति रागादिमत्त्वं विहितम् । ततो वक्तृत्वस्य रागादिमत्त्वे प्रतिनियमः ।
127 तथा विपरीतान्वयः- यदनित्यं तत् कृतकमिति ॥
विपरीतेति । अन्वयो विपरीतो यस्मिन् दृष्टान्ते इति विग्रहः ।
उदाहरणमाह यदनित्यमिति । इह यत् कृतकं तदनित्यम् इर्यामधेये यदनित्यं तत्कृतकम् इति विपरीताभिधानम्
तेन व्याप्तिरुक्ता । इष्टपुरुषवदिति । इष्टाग्रहणेन प्रतिवाधय्पि संगृह्यते, वाद्यपि । तेन वक्तृत्वरागादिमत्त्वयोस्सत्त्वमात्रेमिष्टे पुरुषे सिद्धम् । व्यप्तिस्तु न सिद्धा । तेनानन्वयो दृष्टान्त इति ।
अनित्यः शब्द इति । अनित्यत्वं साध्यम् । कृतकत्वादिति हेतुः । घटवदिति दृष्टान्ते न प्रदर्शितो ऽन्वयः ।
इह यद्यपि कृतकत्वेन घटसदृशः शब्दः, तथापि नानित्यत्वेनापि सदृशः प्रत्येतु शक्यते, अतिप्रसङ्गात् । यदि तु कृतकत्वमनित्यस्वभवं विज्ञातं भवति, एवं कृतकत्वादनित्यत्वप्रतीतिः स्यात् । तस्माद् यत् कृतकं तदनि त्यम् इति कृतकत्वमनित्यत्वे नियतमभिधाय नियमसधनायान्वयवाक्यार्थप्रतिपत्तिविषयो दृष्टान्त उपादेयः । स च प्रदर्शितान्वय एव । अनेन त्वन्वयवाक्यमनुक्त्वैव दृष्टान्त उपात्तः । ईद्दशश्च साधर्म्यमाट्रेणैवोपयोगी, न च साधर्म्यात् साध्यसिद्धिरतो ऽन्वयार्थो दृष्टान्तस्तदर्थश्चानेन नोपात्तः । साधर्म्यार्थश्चोपात्तो निरुपयोग इति वक्तृदोसादयं दृष्टान्तदोषः । वक्ता हयत्र परःप्रतिपदयोतव्यः । ततो यदि नाम न दुष्टां वस्तु, तथापि वक्त्रा दुष्टां दर्शिततमिति दुष्टमेव
तथा विपरीतो ऽन्वयो यस्मिन् दृष्टान्ते स तथोक्तः । तमेवोदाहरति यदनित्य तत् कृतकमिति । कृतकत्वमनित्यत्वनियतं दृष्टान्ते दर्शनीयम् । एवं कृतकत्वादनित्यावर्गतिः स्यात् । अत्र त्वनित्यत्वं कृतकत्वे नियत दर्शितम् । कृतकत्वं त्वनियतमेवानित्यत्वे । ततो यादृशमिह कृतकत्वमनियत मनित्यत्वे दर्शितम्, तादृशान्नास्त्यनित्यत्वप्रतीतिः । तथाहि- यदनित्यमित्यनित्यत्वमनूदय तत् कृतकमिति कृतकत्वं विहितम् । अतो ऽनित्यत्वं नियतमुक्तं कृतकत्वे, न तु कृतकत्वमनित्यत्वे । ततो यथानित्यत्वादनियतात् प्रयत्नानन्तरीयकत्वे न प्रयत्नानन्तरीयकत्वप्रतीतिः, तद्वत् कृतकत्वादनित्यत्वप्रतिपत्तिर्न स्यात्, अनित्यत्वे ऽनियतत्वात् कृतकत्वस्य ।
यद्यपि च कृतकत्वं वस्तुस्थित्यानित्यत्वे नियतम्, तथाप्यनियतं वक्त्र दर्शितम् । अतः स्वयमदुष्टमपि वक्तृदोषाद् दृष्टम् ।
तस्माद् विपरीतान्वयो ऽपि वस्तुरपराधात्, न वस्तुनः । परार्थानुमाने च वक्तुरपि दोषश्चिन्त्यते इति
128 साधर्म्येण दृष्टान्तदोषाः ॥
129 वैधर्म्येणापि- परमाणुवत् कर्मवद् आकशवदिति साध्यादयव्यतिरेकिणः ॥
130 तथा सन्दिग्धसाध्यव्यतिरेकादयः । यथा असर्वज्ञाः कपिलादयो ऽनाप्ता वा अविदयमानसर्वज्ञताप्ततालिङ्गभूतप्रमाणातिशयशासन
एते सर्वे साधर्म्यदृष्टान्ताभासाः
वैधर्म्यदृष्टान्ताभासा उच्यन्ते ।
साध्यमादिर्येषां तानि साध्यादीनि, तेषामव्यतिरेकः साध्याद्यव्यतिरेकः । ते च यत्र सन्ति ते साध्याद्यवय्तिरेकिणह् । तत्र परमाणुवदिति साध्याव्यतिरेकी । नित्यत्वात् परमाणूनां साध्याद्यव्यतिरेकः । कर्मवदिति साधनाव्यतिरेकी । अमूर्तत्वात् कर्मणां साधनाव्यतिरेकः । आकशवदिति उभयाव्यतिरेकी । आकाशस्य चोभयाव्यतिरेकः
सन्दिग्धेति । साध्यस्य व्यतिरेकः सन्दिग्धो यस्मिन्निति विग्रहः । सन्दिग्धसाध्यव्यतिरेक आदिर्येषामिति विग्रहः । उदाहरणान्याह- यथेति । प्रतिज्ञाद्वयमुपन्यस्तम् ।
साधर्म्येण नव दृष्टान्तदोषा उक्ताः
वैधर्म्येणापि दृष्टान्तदोषान् वक्तुमाह- वैधर्म्येणापीनि । नित्यत्वे शब्दस्य साध्ये हेतावमूर्तत्वे परमाणुवैधर्म्ये दृष्टान्तः साध्याव्यतिरेकी नित्यत्वात् परमाणूनाम् कर्म साधनाव्यतिरेकि । अमीष्र्तत्वात् कर्मणः । आकाशमुभयाव्यतिरेकि नित्यत्वाद्, अमीष्र्तत्वाच्च । साध्यमादिर्येषां तानि साध्यादीनि साध्यसाधनोभयानि । तेषामव्यतिरेको निवृत्यभअः । स येषामस्ति ते साध्यादयव्यतिरेकिणः । ते चोदाहुताः
अपरानुदाहर्तुमाह- तथेति । साध्यस्य व्यतिरेकः सध्यव्यतिरेकः । सन्दिग्धः साध्यव्यतिरेको यस्मिन् स सन्दिग्धसाध्यव्यतिरेकः, स आदिर्येषां ते तथोक्ताः ।
सन्दिग्दसाध्यव्यतिरेकमुदार्हर्तुमाह- यथेति । असर्वज्ञा इत्येकं साध्यम्, अनाप्ता अक्षीणदोषा इति द्वितीयम् । कपिलादय इति धर्मी । अविद्यमानसर्वज्ञतेत्यादिहेतुः । आप्तता च तयोर्लिङ्गभूतः प्रमाणतिशयो लिङ्गात्मकः प्रमाणविशेषो ऽविदयमानः सर्वज्ञताप्ततालिङ्गभूतः प्रमाणातिशयो यस्मिन् तथोक्तं शासनम् । तादृशं शासनं तेषां ते तथोक्ताः तेषां भावस्तत्त्वम् । तस्मात् प्रमाणातिशयो ज्योतिर्ज्ञानोपदेश इहाभिप्रेतः । यदि त्वादिति । अत्र वैधर्म्योदहरणम्- यः सर्वज्ञ आप्तो वा स ज्योतिर्ज्ञानादिकमुपदिष्टवान् । यथा ऋषभवर्धमानादिरिति । तत्रासर्वज्ञतानाप्ततयोः साध्यधर्मयोः सन्दिग्धो व्यतिरेकः । 131 सन्दिग्धसाधनव्यतिरेको यथा- न त्रयीविदा राम्हणेन ग्राह्यवचनः कश्चिद् विवक्षितः पुरुषो रागादिमत्त्वदिति । अत्र वैधर्म्योदाह-
सर्वज्ञत्व च वीतरागत्वं सर्वज्ञत्ववीतरागत्वे, तयोलिङ्गभूतं प्रमाणातिशयशासनमविध्यमानं येषु ते अविद्यमानसर्वज्ञत्ववीतरागत्वलिङ्गभूतप्रमाणातिशयशासनाः, तेषां भावस्तत्तवम्। तस्माद् अविद्यमानसर्वज्ञत्ववीतरागत्वलिङ्गभूतप्रमाणातिशयशासनत्वात् । परीक्ष्यते इत्युपरितः सम्बन्धः ।
ज्योतिर्ज्ञानम्= नक्षत्रविपरीक्षणमिति हेतुः । तच्च सर्वज्ञत्व वीतरागत्वलिङ्गभूतमृषभ- वर्धमानादिभिरनुशिष्टाम् । तस्मात् ते सर्वज्ञा वीतरागा वेति निश्चेतुं शक्यत इति ।
अत्र ऋषभमहावीरादिवैधर्म्यदृष्टान्त उक्त, तेषु च असर्वज्ञत्वावीतरागत्वयोर्व्यतिरेकनिश्चयो नास्ति
सन्दिग्धेत्यदि । तदर्थस्तु गत एव । उदाहरणम्- यथेति ।
हि कपिलादयः सर्वज्ञा आप्ता वा स्युः, तदा ज्योतिर्ज्ञानादिकं कस्मान्नो पदिष्टावन्तः? न चोपदिष्टावन्तः, तस्मान्न सर्वज्ञा आप्ता वा ।
अत्र प्रमाणे । वैधर्म्योदाहरणम्- यः सर्वज्ञ आप्तो वा स ज्योतिर्ज्ञानादिकं सर्वज्ञताप्ततलिङ्गभूतमुपदिष्टावान् । यथा ऋषभो वर्धमानश्च तावादी यस्य स ऋषभ्वर्धमानादिर्दिगम्बराणां शास्ता सर्वज्ञश्च आप्तश्चेति । तदिह वैधर्म्योदाहरणम् ऋषभादेरसर्वज्ञत्वस्यनाप्ततयाश्च व्यतिरेको व्यावृत्तिः सन्दिग्धा । यतो ज्योतिर्ज्ञानं चोपदिशेत्, असर्वज्ञश्च भवेद् अनाप्ता वा । को ऽत्र विरोधः? नैमित्तिकमेतज्ज्ज्ञानं व्यभिचारि न सर्वज्ञत्वमनुमापयेत्
सन्दिग्धः साधनव्यतिरेको यस्मिन् स तथोक्तः? तमुदाहरति- यथेति । ऋक्सामयजूषि त्रीणि= त्रयी, तां वेत्तीति त्रयीवित् । तेन न ग्राह्यं वचनं यस्येति साध्यम् । विवक्षितं इति । कपिलादिधर्मी । रागादिसत्त्वादिति हेतुः ।
अत्र प्रमाणे वैधर्म्योदाहरणम्- साध्याभावः साधनाभावेन यत्र व्याप्तो दर्श्यते तद् वैधर्योदहरणम् । ग्राह्यं वचनं येषां ते ग्राह्यवचना इति साध्यनिवृत्तिमनूदय न ते रागादिमन्त इति साधनाभवो विहितः । गौरमरणम्- ये ग्राह्यवचना न ते रागादिमन्तः, तदयथा गौतमादयो धर्मशास्त्राणां प्रणेतार इति । गौतमादिभ्यो रागादिमत्त्वस्य साधनधर्मस्य व्यवृत्तिः सन्दिग्धा ॥
132 सन्दिग्धोभयव्यतिरेको यथ- अवीतरागाः कपिलादयः, अप्रिग्रहाग्रहयोगादिति । अत्र वैधर्म्येणोदाहरणम्- यो वीतरागो न तस्य परिग्रहाग्रहः, यथर्षभादेरिति । ऋषभादेरवीरतागत्वपरिग्रहाग्रहयोगयोः साध्यसाधनधर्मयोः सन्दिग्धो व्यतिरेकः ।
ऋग्वेदः, यजुर्वेदः, सामवेदश्चेति त्रयो वेदाः । त एव त्रयी शब्देनोच्यन्ते । त्रयी वेत्तीति त्रयीवित् । ग्राह्यं वचनमस्येति ग्राह्यवचनः । प्रामाण्यवचन इति शेषः । तेनतदुक्त भवति- त्रयीविद् यो ब्राम्हणस्तदभिमतपुरुषवचनं नित्यप्रमाणं नास्तीति । अत्रेति । तदर्थस्तु गत एव । ये हि ग्राह्यवचना न ते रागादिमन्तः । तद्यथेति । गौतम व्यासमुनिप्रभृत्तिभिर्यानि धर्मशास्त्राणि प्रणीतानिव् तानि हि त्रयीविदां प्रामाण्यवचनानि ।
तेभ्यो हि रागादिमत्त्वस्य व्यवृत्तेनिश्चयो नास्ति
सन्दिग्ध उभयोर्व्यतिरेको यस्मिन्निति समासः । उदाहरणम्- यथेति ।
प्रैग्रहः= द्रव्यस्य स्वीकरणम् । आग्रहः= स्वीकारादूर्ध्वमासक्तिः । परिग्रहश्चाग्रहश्चेति प्रैत्ग्रहग्रहौ । ताभ्यां योग इत्यर्थः ।
आदिर्येषां ते तथोक्ता मन्बादयो धर्मशास्त्राणि= स्मृतयस्तेषां कर्तारः । त्रयीविदा हि ब्राम्हणेन ग्राह्यवचना धर्मशास्त्रकृतो वीतरागाश्च त ईतीह धर्मी व्यतिरेकविषयो गौतमादय इति । गौतमादिभ्यो रागादिमत्त्वस्य साधनस्य निवृत्तिः सन्दिग्धा । यद्यपि ते ग्राह्यवचनास्त्रयीविदा, तथपि कि सरागा उत वीतरागाः? इति सन्देहः
सन्दिग्ध उभयोर्व्यतिरेको यस्मिन् स तथोक्तः । तमुदाहरति- तथेति । अवीतरागा इति । रागादिमत्त्वं साध्यम् । अकपिलदय इति धर्मी । परिग्रहो लभ्यमानस्य स्वीकार्ः प्रथमः । स्वीकारादूर्ध्व यद् गार्ध्य मात्सर्य स आग्रहः । परिग्रहश्च आग्रहश्च तभ्यां योगात् कपिलादयो लभ्यमानं स्वीकुर्वन्ति स्वीकृतं न मुञ्चन्ति- इति ते रागादिमन्तो गम्यन्ते । अत्र प्रमाणे वैधर्म्योदाहरणम्- यत्र साह्द्याभाव साधनाभवो दर्शयितव्यः । यो वीतराग इति । साध्याभावमनूदय न तस्य परिग्रहाग्रहाविति साधनाभवो विहितः । यथर्षभादेरिति दृष्टान्तः । एतस्माद् ऋषभादेदृष्टान्ताद् अवीतरागत्वस्य साध्यपरिग्रहाग्रहयोगस्य च साधनस्य निवृत्तिः सन्दिग्धा । ऋषभदीनां हि परि
133 अव्यतिरेको यथा- अवीतरागो ऽयं वक्तृत्वात् । वैधर्म्येणोदाहरणम्- यत्रावीतरागत्वं नास्ति, न स वक्ता ।यथा उपलखण्ड इति । यदयप्युपलखण्डादुभयं व्यावृतं तथापि सर्वो वीतरागो न वक्तेति व्याप्त्या व्यतिरेकासिद्धेरव्यतिरेकः ॥
134 अर्पदर्शितव्यतिरेको यथा- अनित्य शब्दः, कृतकत्वादाकाशवत् इति वैधर्म्येण ॥
ऋषभादयो हि स्वल्पमत्रमपि व्यञ्जनं न परिगृह्णन्ति । तस्मात् तेसां परिग्रहो नास्ति । परिग्रहाभवे चाग्रहाभावः, तेन च वीतरागाः ।
अवीतरागो रागादिमानित्यर्थः । परिग्रहश्च मनसा स्वीकरणम् । आग्रहश्च तृष्णा । ते च सर्वे मानसत्त्वात् इन्द्रियगोचरा न भवन्ति । तस्मात् ऋषभादिभ्यो व्यावृत्तिरेवेति निश्चेतुं न शक्यते
अव्यतिरेक इति । अविद्यमानो व्यतिरेको ऽस्मिन्निति विग्रहह् । यथेति । तदर्थस्तु गत एव । वैधर्म्येति । वैधर्म्ये दृष्टान्तो ऽयम् ।
यद्यपि उपलखण्डस्याचेतनत्वाद्रागादिमत्त्वं वक्तृत्वं वा नैव, तथापि सर्वो वीतरागो न वक्तेति व्याप्तिरसिद्धा । रागवत्त्ववक्तृत्वयोः सम्बन्धाभावाद् रागवत्त्वव्यावृतौ वक्तृत्वविनिवृत्तिनं भवति । तस्मादन्न वस्तुनो व्यतिरेको नास्ति
अप्रदर्शित इति । यत्र व्यतिरेको वर्तमानो ऽपि नोच्यते ।
ग्रहाग्रहयोगो ऽपि सन्दिग्धः वीतरागत्वं च । यदि नाम तत्सिद्धान्ते वीतरागाश्च निष्परिग्रहाश्च पठयन्ते, तथापि सन्देह एव
अपरानपि त्रीनुदाहर्तुमाह- अव्यतिरेक इत् अविद्यमानो व्यतिरेको यस्मिन् सो ऽव्यतिरेकः । अवीतराग इति । रागादिमत्वं साध्यम् । वक्तृत्वादिति हेतुः । इति व्यतिरेकमाह- यत्रावीतरागत्वं नास्तीति । साध्याभवानुबादः । तत्र वक्रृत्वमपि नास्तीति साधनाभावविधिः । तेन सधनाभवेन साध्याभावो व्याप्त उक्तः । दृष्टान्तो यथोपलखण्ड इति । कथमयमव्यतिरेको यावतोपलखण्डाद् उभयं निवृतम्? किमतः? यद्यपि उपलखण्डादुभयं व्यवृत्तम्- सरागत्वं वीतरागत्वं च तथापि व्यप्त्या व्यतिरेको यस्तस्यसिद्धेः कारणादव्यतिरेको ऽयम् ।
कीदृशी पुनर्व्याप्तिः? इत्यह- सर्वो वीतराग इति । साध्याभावानुवादः ।
न वक्तेति साधनाभवविधिः । तेन साध्यभावः सधनाभवनियतः ख्यापितो भवति । ईदृशी व्याप्तिः । तया व्यतिरेको न सिद्धः । अस्य चार्थस्य प्रसिद्धगे दृष्टान्तः । तत् स्वीकार्याकरणाद् दुष्टः
135 विपरीतव्यतिरेको यथा- यदकृतकं तन्नित्यं भवतीति ।
उदाहरणमाह- शब्दो ऽनित्य इति ।
केनचिद् वैधर्म्यदृष्टान्तत्वेन शब्दो ऽनित्य कृतकत्वात्, आकाशवत् इत्युक्त, तत्र व्यतिरेको विद्यमानो ऽप्यनुक्त एव भवति । तथाहि यदि ये ये च अप्दार्था नित्याः ते सर्व एवाकृतकाः इत्युच्यते, तदा व्यतिरेको दर्शितो भवति । न तु दृष्टान्तमात्रेण
अप्रदर्शितो व्यतिरेको यस्मिन् स तथोक्तः । अनित्यः शब्द इति । अनित्यत्वं साध्क्यम् । कृतकत्वादिति हेत् । आकशवदिति वैधर्म्येण दृष्टान्तः ।
इह पराथानुमाने परस्मादर्थः प्रतिपत्तव्यः । स शुद्धो ऽपि स्वतो यदि परेणाशुद्धः ख्याप्यते स तावद् यथा प्रकाशितस्तथा न युक्तः । यथा युक्तस्तथा न प्रकाशितः । पर्काशितश्च हेतुः । अतो वक्तुरपराधादपि पराथानुमाने हेतुर्दृष्टान्तो वा दुष्टाः स्यादपि । न च सादृश्यादसादृश्याद्वा साध्यप्रतिपत्तिः, अपितु साध्यनियताद्धेतोः । अतः साध्यनियतो हेतुरन्वयवाक्येन, व्यतिरेकवाक्येन वा वक्तव्यः । अन्यथा गमको नोक्तः स्यात् । स तथोक्तो दृष्टान्तेन सिद्धो दर्शयितव्यः । तस्माद् दृष्टान्तो नामन्वयव्यतिरेकवाक्यार्थप्रदर्शनः । न चेह व्यतिरेकवाक्यं प्रयुक्तम्, अतो वैधर्म्यदृष्टान्त इहासादृशय्मात्रेण साधक उपन्यस्तः । न च तथा साधकः । व्यतिरेकविषयत्वेन स साधकः न च तथोपन्यस्त इति अयमप्रदर्शितव्यतिरेको वक्तुरपराधाद् दुष्टाः
विपरीतो व्यतिरेको यस्मिन् वैधर्म्यदृष्टान्ते स तथोक्तः । तमुदाहरति- यथा यदकृतकमित्यादि । इह अन्वयव्यतिरेकाभ्यां साध्यनियतो हेतुर्दशयितव्यः, यदा च साध्यनियतो हेतुर्दर्ह्सयितव्यः, तदा व्यतिरेकवाक्ये साध्याभावः साधनाभावे नियतो दर्शयितव्यः । एवं हि हेतुः साध्यनियतो दर्शितः स्यात् । यदि तु साध्याभावः साधनाभावे नियतो नाख्यायते, साधनसत्तायामपि साध्याभ्वः सम्भाव्येत । तथा च साधनं साध्यनियतं न प्रतीयेत । तस्मात् साध्याभावः साध्याभावे नियतो वक्तव्यः । विपरीतव्यतिरेके च साध्याभावः साध्याभावे नियत उच्यते, न साध्याभावः साधना भावे । तथा हि- यदकृतकमिति । साधनाभावमनूदय । तन्नित्यमिति साध्याभावविधिः ।
ततो ऽयमर्थः- अकृतको नित्य एव । तथा च सति अकृतकत्वं नित्यत्वे साध्याभावे नियतमुक्तम्, न नित्यत्वं साधनाभावे । ततो न साध्यनियतं
136 न ह्येभिर्दृष्टान्ताभासैर्हेतोः सामान्यलक्षणं सपक्ष एव सत्त्वं विपक्षे च सर्वत्रासत्त्वमेव निश्चयेन शक्यं दर्शयितुं विशेषलक्षणं वा । तदर्थापत्त्यैषां निरासो द्रष्टव्यः ॥
137 दूषणा न्यूनतादयुक्तिः ॥
विपरीतो व्यतिरेको ऽस्मिन्निति विग्रहः । उदाहरणमाह- यथेति । इह यन्नित्यं तदकृतकम् इत्यभिधेये तद्विपरीतमुक्तम्
तैश्च दृष्टान्ताभासैर्हेतोयच्च सामान्यलक्षणं तदपि विशेषलक्षणं तच्च न शक्यते दर्शयितुम् । तत एव ते दृष्टान्ताभासा इति दृष्टान्ताभासाः ।
यस्माद् द्विविधमपि हेतिर्लक्षणं दर्शयितुं न शक्यते, तस्मादर्थापत्त्या तेषां निरासो द्रष्टव्यः । इयता सम्यग्ज्ञानं तत्स्वरूपैर्व्याख्यातम्
इदानी तत्सहायकाभिधानमनुज्ञातुमाह-
न्यूनता आदिर्येषां ते न्यूनतादयः । तेषामुक्तिन्यूनताद्युक्तिः । ताश्च प्रत्येकं दूषणाः
अत्र आदि- इत्युक्तेरसिद्धविरुद्धानैकान्तिकदोषाणां परिग्रहः । उच्यते ऽनेति उक्तिः= वचनम्। येन वचनेन दोसा उद्ध्रियन्ते तद् दूषणमिति । हेतु व्यतिरेकवाक्यमाह । तथा च विपरीतव्यतिरेको ऽपि वक्तुरपराधाद् दुष्टः
दृष्टान्तदोषानुदाहृत्य दुष्टत्वनिबन्धनत्वं दर्शयितुमाह- न हयेभिरिति । साध्यनियतप्रदर्शनाय हि दृष्टान्ता वक्तव्याः । एभिश्च हेतोः सपक्ष एव सत्त्वं विपक्षे च सर्वत्रासत्त्वमेव यत् सामान्यलक्षणं तत् निश्चयेन न शक्यं दर्शयितुम् ।
ननु च सामान्यलक्षणं विशेषनियतमेव प्रतिपत्तव्यम्, न स्वत एव? इत्याह- विशेषलक्षणं वा । यदि विशेषलक्षणं प्रतिपादयितुं शक्येत, स्यादेव सामान्यलक्षणप्रतिपत्तिः । विशेषलक्षणमेव तु न शक्यमेभिः प्रतिपादयितुम् । तस्मादर्थापत्त्या सामर्थ्येन एषां निराकरणं द्रष्टव्यम् । साध्यनियतसाधनप्रतीतये उपाताः । तदसमर्था दुष्टाः, स्वकार्याकरणादिति असामर्थ्यम्
इयता साहनमुक्तम् ॥
दूषणं वक्तुमाह- दुषणेति । दूषणा का द्रष्टव्या? न्यूनतादोनामुक्तिः ।
उच्यते ऽनयेत्युक्तिः= वचनम् । न्यूनतादेर्वचनम्
138 ये पूर्व न्यूनतादयः साधनदोषा उक्तास्तेषामुद्भावनं दूषणम् तेन परेष्टार्थसिद्धिप्रतिबन्धात् ॥
139 दूषणाभासास्तु जातयः ।
140 अभूतदोषोद्भावनानि जात्युत्तराणीति ॥
तच्च कस्मादिति चेत्? तत्राह- तेनेति ।
यस्मात्तेन वचनेन पूर्वपक्षिणा साधयितुमिष्टस्यार्थस्य सिद्धिः प्रतिबध्यते, तस्मात् तद् दूषणम् । तदेतानि अनुद्भूतदूषणाति
जातय एव दूषणाभासा विदितव्याः
काश्च पुनस्ता जातय इति? आह- अभूतेति ।
न भूतो ऽभूतः, अभूता दोषा अभूतदोषाः तेषामुद्भवनानि अभूतदोषोद्भावनानि । यैश्च वचनैः साधनदोषा अबिध्यमाना अपि उद्भाव्यन्ते तानि जातयो वेदितव्याः ।
सम्यग्ज्ञाननिरूपणावसरे कथं दूषण- तदाभासानामुपदर्शनमिति चेत्? उच्यते, दूषणानां तया दूषणाभासानां च निरूपणे सम्यग्ज्ञानमपि ससहायं निरूपितं भवतोति । तथा चैता ह्यत्र दूषणा इति तासां परिहरो विधेयः । यदा वा एते दूषणाभासाः, एतेभ्यः शङ्काभाव एव वेदितव्य इत्यभिधीयते, तदा सम्यग्ज्ञानमेव सर्वथा निरूपितं भवति । तस्माद् यथोक्तदोषप्रसङ्गो नास्ति
दूषणं विवरीतुमाह- ये पूर्व न्यूनतादयो ऽसिद्धविरुद्धानैकान्तिका उक्ताः, तेषामुद्भावकं यद् वचनं तद् दूषणम् ।
ननु च न्यूनतादयो न विपर्ययसाधनाः, तत् कथं दूषणम्? इत्याह- तेन न्यूनतादिवचनेन परेषामिष्टश्चासावर्थश्च तस्य सिद्धिः निश्चयः, तस्याः प्रतिबन्धात् । नावश्यं विपर्ययसाधनादेव दूषणं विरुद्धवत्, अपि तु परस्याभिप्रेतनिश्चयविबन्धान्निश्चयाभावो भवति निश्चयविपर्यय इत्यस्त्येव विपर्ययसिद्धिरिति
उक्ता दूषणा ॥
दूषणाभासा इति । दूषणवदाभासन्त इति दूषणाभाषा । के ते? जातय इति । जातिशब्दः सादृश्यवचनः । उत्तरसदृशानि जात्युत्तराणि । उत्तरस्याप्रयुक्तत्वाद् उत्तरसदृशानि जात्युत्तराणि
तदेवोत्तरसादृश्यमुत्तरस्थानप्रयुक्तत्वेन दर्शयितुमाह- अभूतेति । अभूतस्य असत्यस्य दोषस्य उद्भवनानि । उद्भाव्यत एतैरित्यौद्भावनानि = वचनानि । तानि जात्युत्तराणि । जात्या सादृश्येनोत्तराणि जात्युत्तराणीति
मूल पाठ: Nyāyabinduprakaraṇa with Vinītadeva's Nyāyabinduvistaraṭīkā (Śiṣyahita) and Dharmottara's Nyāyabinduṭīkā · Edition: Swami Dwarikadas Shastri: Nyāyabindu Prakaraṇa of Ācārya Dharmakīrti, with Commentary of Ārya Vinītadeva and Dharmottara. Varanasi 1994 (Bauddha Bhārati Series, 18). · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0