भाषा

ENहिગુ
ग्रंथ पाठ

न्यायबिन्दुप्रकरण (टीका सहित) · अध्याय 8

8.1

आचार्यधर्मोत्तरकृतायां व्यायबिन्दुटीकायां स्वार्थानुमानं नाम द्वितीयः परिच्छेदः ॥
तृतीयः परार्थानुमानपरिच्छेदः
1 त्रिरूपलिङ्गाख्यानं अप्रार्थमनुमानम् ॥
2 कारणे कार्योपचारात् ॥
सम्यग्ज्ञाननिरूपणप्रसङ्गेन स्वार्थपरार्थभेदेन अनुमानं द्विविधमङ्गीकृतम् । तत्र स्वार्थ सप्रपञ्चं निरूपितम् । परार्थानुमानाभिधानार्थमेवमनुजानीते त्रिरूपेत्यादि ।
आख्यायते ऽनेनेति आख्यानम् । वचनमिति । त्रीणि रूपाणि सन्ति यस्य तत् त्रिरूपम् । त्रिरूपं च तल्लिङ्गं चेति त्रिरूपलिङ्गम् । तस्य आख्यानमित्यर्थः

मूल पाठ: Nyāyabinduprakaraṇa with Vinītadeva's Nyāyabinduvistaraṭīkā (Śiṣyahita) and Dharmottara's Nyāyabinduṭīkā · Edition: Swami Dwarikadas Shastri: Nyāyabindu Prakaraṇa of Ācārya Dharmakīrti, with Commentary of Ārya Vinītadeva and Dharmottara. Varanasi 1994 (Bauddha Bhārati Series, 18). · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc