भाषा

ENहिગુ
ग्रंथ पाठ

न्यायबिन्दुप्रकरण (टीका सहित) · अध्याय 7

7.1

एवं प्रत्यक्षं व्याख्याय, अनुमानं व्याख्यातुकाम आह- अनु मानमिति ॥ अनुमानं द्विधा द्विप्रकारम् । अथानुमानलक्षणे वक्तव्ये किमकस्मात् प्रकारभेद कथ्यते? उच्यते परार्थानुमानं शब्दात्मकम्, स्वार्थानुमानं तु ज्ञानात्मकम्, तयोरत्यन्तभेदात् नैकं लक्षणमस्ति । ततस्तयोः प्रतिनियतं लक्षणमाख्यातु प्रकारभेदः कथ्यते । प्रकारभेदो हि व्यक्तिभेदः, व्यक्तिभेदे च कथिते प्रतिव्यक्तिनियतं लक्षणं शक्यते वक्तुम् नान्यथा । ततो लक्षणनिर्देशाङ्गमेव प्रकारभेदकथनम् । अशक्यतां च प्रकारभेदकथनमन्तरेण लक्षणनिर्देशस्य ज्ञात्वा प्राक् प्रकारभेदः कथ्यते इति

7.2

किं पुनस्तद् द्वैविध्यम्? इत्याह- स्वार्थमिति । स्वस्मायिदं स्वर्थम् । येन स्वयं प्रतिपदयते तत् स्वार्थम् । परस्मायिदं परमार्थम् । येन परं प्रतिपादयति तत् परार्थम्

7.3

तत्रेति । तत्र तयोः स्वार्थ- परार्थानुमानयोर्मध्ये स्वार्थ ज्ञानं किंविष्टम्? इत्याह- त्रिरूपादिति । त्रीणि रूपाणि यस्य वक्ष्यमाणलक्षणानि तत् त्रिरूपम् । लिङ्गयते= गम्यते ऽनेनार्थ इति लिङ्गम् । तस्मात् त्रिरूपाल्लिङ्गात्
4 प्रमाणफलव्यवस्थात्रापि प्रत्यक्षवत् ॥
5 त्रैरूप्यं पुनलिंगस्य अनुमेये सत्त्वमेव, सपक्षे एव सत्त्वम्, असपक्षे चासत्त्वमेव निश्चितम् ॥
तत्रेति । त्रीणि रूपाण्यस्य सन्तीति त्रिरूपम् । अर्थोलिङ्गयते ऽनेनेति लिङ्गम् । अनुमीयते इति अनुमेयः । त्रिलक्षणाद् हेतोरनुमेये यज्ज्ञानमुत्पदयते तदेव द्वार्थानुमानमिति । लिङ्गाभासाद् यज्ज्ञानमुत्पदयते तदप्यनुमानं स्यादिति तन्निरासार्थमनुमेय इत्युक्तम् । ज्ञानमिति कथनं तु लिङ्गमेव वस्तुतो ऽनुमानं स्यादिति तन्निरासार्थम्

7.4

यदयनुमेयविषयज्ञानमेव प्रमाणमिष्ठम्, तर्हि फलं नाम किं स्यात्? इत्याशङ्कायामाह- प्रमाणेत्यादि ।
यथा प्रत्यक्षे तज्जन्यमेव प्रमाणफलमभिहितम्, तथात्राप्यनुमितिरेव प्रमाणफलं स्यात् अर्थविनिश्चयनस्वभावात् । यथा प्रत्यक्षस्यार्थसारूप्यं प्रमाणम्, तथानुमानस्यापि अर्थसारूप्यमेव प्रमाणम् तद्वशाद् अर्थविनिश्चयसिद्धेरिति

7.3

त्रिरूपाल्लिङ्गात्, इत्युक्तम् । कानि च तानि त्रीणि रूपाणि?- इत्याशङ्कायामाह- त्रैरूप्यमिति ।
यत् जातं ज्ञानमिति । एतद् हेतुद्वारेण विशेषणम् । तत् त्रिरूपाच्च लिङ्गात् त्रिरूपलिङ्गालम्बनमप्युत्पदयत इति विशिनष्टि- अनुमेय इत् । एतच्च विषयद्वारेण विशेषणम् ।
त्रिरूपाल्लिङ्गाद् यदुत्पन्नमनुमेयालम्बनं ज्ञानं तत् स्वार्थमनुमानमिति

7.4

लक्षणविप्रतिपत्ति निराकृत्य फलविप्रतिपत्तिं निराकर्तुमाह- प्रमाणत्यादि । प्रमाणास्य यत् फलं तस्य या व्यवस्था सा अत्र अनुमाने ऽपि प्रत्यक्ष इव प्रत्यक्षवत् वेदितव्या ।
यथा हि नीलसरूपं प्रत्यक्षमनुभूयमानं नीलबोधरूपमवस्थाप्यते, तेन नीलसारूप्यं व्यवस्थापनहेतुः प्रमाणम्, नीलबोधरूपं तु व्यवस्थाप्यमानं प्रमाणफलम् । तद्वत् अनुमानं नीलाकारमुत्पदयमानं नीलबोधरूपमत्वस्थाप्यते, तेन नीलसारूप्यमस्य प्रमाणम्, नीलविकल्पनरूपं त्वस्य प्रमाणफलम् । सारूप्यवशाद्धि तन्नीलप्रतीतिरूपं सिध्यति नान्यथेति

7.5

एवमिह संख्या लक्षण फलविप्रतिपत्तयः, प्रत्यक्षपरिच्चेदे तु गोचर विप्रतिपत्तिनिराकृता । लक्षणनिरेशप्रसङ्गेन तु त्रिरूपं लिङ्गं प्रस्तुतम्, तदेवत्रिरूपस्य भावस्त्रैरूप्यम् । 1 अनुमेये सत्त्वमेवेति । अधोनिर्दिष्ठानुमेयलक्षणे सत्त्वमेव प्रथमं रूपम् । तत्र सत्त्वमिति उक्त्वा चाक्षुषत्वादित्यादिकं निरस्तम् । एवेत्यधिककथनेन पाक्षिकदेशासिद्धयादिकं निरस्तम् ।
2 सपक्षे एव सत्त्वमिति । समजातीये सत्त्वमेव द्वितीयं रूपम् । अत्र सत्त्वम् इत्युक्त्वा असाधारणानैकान्तिको निरस्तः । एवेत्यधिककथनेन साधारणानैकान्तिको निरस्तः । उभयकथनेन विरुद्धो निरस्तः ।
3 असपक्षे चासत्त्वमेवेति । असमजातीये क्वचिदपि असत्त्वं तृतीयं रूपम् । अत्र असत्त्वम् इत्युक्त्वा साधारणानैकान्तिको निरस्तौ । एवेत्यधिककथनेन विपर्क्षकदेशावृत्तेः परिहारः ।
व्याख्यातुमाह- त्रैरूप्यमित्यादि । लिङ्गस्य यत् त्रैरूप्यं यानि त्रीणि रूपाणि । तदिदमुच्यत इति शेषः ।
किं पुनस्तत् त्रैरूप्यम्? इत्याह-अनुमेय इति ।
1 अनुमेयं वक्ष्यमाणलक्षणम्, तस्मिन् लिङ्गस्य सत्त्वमेव निश्चितम्-एकं रूपम् । यदयपि चात्र निश्चितग्रहणं न कृतम्, तथापि अन्ते कृतं प्रक्रान्तयोर्द्वयोरपि रूपयोरपेक्षणीयम् । यतो न योग्यतया लिङ्गं परोक्षज्ञानस्य निमित्तम्; यथा- बीजमंकुरस्य; अदृष्टाद् धूमादग्नेरप्रतिपत्तेः । नापि स्वविषयज्ञानापेक्षं परोक्षार्थप्रकाशनम्, यथा- प्रदीपो घटादेः, दृष्टादप्यनिश्चितसम्बन्धादप्रतिपत्तेः । तस्मात् परोक्षार्थनान्तरीय कतया निश्चियनमेव लिङ्गस्य परोक्षार्थप्रतिपादनव्यापारः, नापरः कश्चित् । अतो ऽन्वयव्यतिरेकपक्षधर्मत्वनिश्चयो लिङ्गव्यापारात्मकत्वादवश्यकर्तव्य इति सर्वेषु रूपेषु निश्चितग्रहणमपेक्षणियम् ।
तत्र सत्त्ववचनेनासिद्धं चाक्षुषत्वादि निरस्तम् । एवकारेण पक्षैकदेशासिद्धो निरस्तः । यथा चितनास्तरवः, स्वापाद इति पक्षीकृतेषु तरुषु पत्रसङ्कोचलक्षणः स्वाप एकदेशे न सिद्धः । नहि सर्वे वृक्षा रात्रौ पत्रसङ्कोचभाजः, किन्तु केचिदेव । सत्त्ववचनस्य पश्चात्कृतेनैव कारणेनासाधारणो धर्मो निरस्तः । यदि हि अनुमेय एव सत्त्वम् इति कुर्यात्, श्रावणत्वमेव हेतुः स्यात् । निश्चितग्रहणेन सन्दिग्धासिद्धः सर्वो निरस्तः ।
2 सपक्षो वक्ष्यमाणलक्षणः, तस्मिन्नेव सत्त्वं निश्चितमिति द्वितीयं रूपम् । इहापि सत्त्वग्रहणेन विरुद्धो निरस्तः । स हि नास्ति सपक्षे । एवकारेण साधारणानैकान्तिकः । स हि न सपक्ष एव वर्तते, किन्तूभय-
6 अनुमेयो ऽत्र जिज्ञासितविशेषो धर्मी ॥
अन्ते निश्चितम् इत्युक्तेस्त्रिष्वेव निश्चितमिति वेदितव्यम् । तानि च त्रीणि रूपाणि स्वयं यथायथं प्रमाणैर्निश्चतान्येव ग्राहयाणी अन्यथानुमेये प्रत्यायनमशक्यमेवेति

7.5

कश्चानुमेय? इत्याशङ्कायामाह- अनुमेय इति ।
त्रापि । सत्त्वग्रहणात् पूर्वावधारणवचनेन सपक्षाव्यापिसत्ताकस्यापि प्रयत्नान्तरौयकस्य हेतुत्वं कथितम् । पश्चादवधारणे त्वयमर्थः स्यात् सपक्षे सत्त्वमेव यस्य स हेतुरिति प्रयत्नानन्तरीयकत्वं न हेतुः स्यात् । निश्चितवचनेन सन्दिग्धान्वयो ऽनैकान्तिको निरस्तः, यथा- सर्वज्ञः कश्चित्, वक्तृत्वात् । वक्तृत्वं हि सपक्षे सर्वज्ञे सन्दिग्धम् ।
3 असपक्षो वक्ष्यमाणलक्षणः, तस्मिन्नसत्त्वमेव निश्चितम्- तृतीयं रूपम् । तत्रासत्त्वग्रहणेन विरुद्धस्य निरासः । विरुद्धो हि स विपक्षे ऽस्ति । एवकारेण साधारणाय विपक्षैकदेशवृत्तेर्निरासः ।
प्रयत्नान्तरीयकत्वे साध्ये ह्यनित्यत्वं विपक्षैकदेशे विद्युदादौ अस्ति, आकाशादौ नास्ति । ततो नियमेनास्य निरासः । असत्त्वशब्दाद्धि पूर्वस्मिन्नवधारणे ऽयमर्थः स्यात्-विपक्ष एव यो नास्ति स हेतुः । तथा च प्रयत्नानन्तरोयकत्वं सपक्षे ऽपि सर्वत्र नास्ति, ततो न हेतुः स्यात् । अतः पूर्व न कृतम् । निश्चितग्रहणेन सन्दिग्धविपक्षव्यावृत्तिको ऽनैकान्तिको निरस्तः ।
ननु च सपक्ष एव सत्त्वम् इत्युक्ते, विपक्षे ऽसत्त्वमेव इति गम्यत एव, तत् किमर्थ पुनरुभयोरुपादानं कृतम्? उच्यते अन्वयो व्यतिरेको वा नियमवानेव प्रयोक्तव्यो नान्यथा ति दर्शयितु द्वयोरप्युपादानं कृतम् । अनियते हि द्वयोरपि प्रयोगे ऽयमर्थः स्यात्- सपक्षे यो ऽस्ति, विपक्षे च यो नास्ति च हेतुरिति । तथा च सति स श्यामः तत्पुत्रत्वात्, दृश्यमान पुत्रवत् इति तत्पुत्रत्वे हेतुः स्यात् । तस्मात् नियमवतोरेवान्यव्यतिरेकयोः प्रयोगः कर्तव्यः, येन प्रतिबन्धो गम्येत साधनस्य साध्येन । नियमवतोश्च प्रयोगे ऽवश्यकर्तव्ये द्वयोरेक एव प्रयोक्तव्यो न द्वाविति नियमवानेवान्वय व्यतिरेको वा प्रयोक्तव्यः इति शिक्षणार्थ द्वयोरूपादानमिति

7.6

त्ररूप्यकथनप्रसङ्गेनानुमेयः सपक्षो विपक्षश्चोक्तः, तेषां लक्षणं वक्तव्यम्, तत्र को ऽनुमेयः? इत्याह- अनुमेयो ऽत्रेत्यादि । अत्र हेतुलक्षणे निश्चेतव्ये धर्मी अनुमेयः अन्यत्र तु साध्यप्रतिपत्तिकाले समुदायो ऽनुमेयः, व्याप्तिनिश्चयकाले
7 साध्यधर्मसामान्येन समानो ऽर्थः सपक्षः ॥
8 न सपक्षो ऽसपक्षः ॥
9 ततो ऽन्यस्तद्विरुद्धस्तदभावश्चेति ॥
अत्रेति । हेतुलक्षणे । जिज्ञासितः प्रत्येतुमिष्टः । विशेष इति । विलक्षणो धर्मः । जिज्ञासितो विशेषो यस्मिन् स जिज्ञासितविशेषः । धर्माः सन्ति यस्मिन् स धर्मी । तेन यस्य धर्मिणः कश्चिद् विशेषः प्रत्येनुमिष्टः सो ऽनुमेय इत्यर्थः । स च हेतुलक्षणावसरे एव बोध्य इत्युक्तं भवति । अन्यत्र तु धर्मविशिष्टधर्मी अनुमेय इति

7.7

कस्तावत् सपक्षः? इत्याशङ्कायामाह- साध्येत्यादि ।
समानं मानमस्येति समानः । समानज्ञानपरिच्चेद्यः । सदृश इति शेषः । यश्च सदृशो ऽर्थः स सपक्षः ।
कथम्प्रकारं सामान्यमिति चेत्? तत्रैवमाह- साध्यर्मसामान्येनेति । साध्यश्चासौ धर्मश्चेति साधयधर्मः । तस्य सामान्यं साध्यधर्मसामान्यम् । साध्यधर्मस्य हि विशेषो भवति, प्रत्यर्थनियमात् । तेन च समानत्वाद् विरोधः स्यादितिं साध्यधर्म सामान्येन इत्युक्तमिति

7.8

।
कश्च असपक्षः? इत्याशङ्कायामाह- न सपक्ष इति ।
यश्च सपक्षो न भवति स सर्व एवासपक्ष इति

7.6

ततो ऽन्य इति । सपक्षविरुद्धः । यथा- उष्णस्पर्शे साध्ये ऽनुष्णाशीतं द्रव्यम् । तु धर्मो ऽनुमेयः- इति दर्शयितुम् अत्र ग्रहणम् । जिज्ञासितो ज्ञातुमिष्टो विशषो धर्मो यस्य धर्मिणः स यथोक्तः

7.7

कः सपक्षः? इत्याह- साध्यधर्मेत्यादि । समानो ऽर्थः सपक्षः । समानः सदृशो यो ऽर्थः पक्षेण स सपक्ष उक्तः, उपचारात् । समानशब्देन विशेष्यते । समानः पक्षः= सपक्षः, समानस्य च स शब्दादेशः ।
स्यादेतत् । किं तत् पक्षसपक्षयोः सामान्यम्, येन समानः सपक्षः पक्षेण? इत्याह- साध्यदह्र्मसामान्येनेति । साध्यश्चासौ असिद्धत्वात् धर्मश्च पराश्रितत्वात् साध्यधर्मः । न च विशेषः साध्यः, अपितु सामान्यम् । अत इह सामान्य साध्यमुक्तम् । साध्यदह्र्मश्चासौ सामान्यं चेति साध्यधर्म सामान्येन समानः पक्षेण सपक्ष इत्यर्थः

7.8

को ऽसपक्षः? इत्याह- न सपक्षो ऽसपक्षः । सपक्षो यो न भवति सो ऽसपक्षः

7.9

कश्च सपक्षो न भवति? इत्याह- तत इति । ततः सपक्षाद् अन्यः, तेन
10 त्रिऊपाणि च त्रीण्येव लिङ्गानि ॥
11 अनुपलब्धिः स्वभावः कार्य चेति ॥
12 तत्रानुपलब्धिर्यथा- न प्रदेशविशेषे क्वचिद् घटः, उपलब्धिलक्षण प्राप्तस्यानुपलब्धेरिति ॥
तद्दिरुद्ध इति । सपक्षविरुद्धः । यथा- उष्णस्पर्श एव साध्ये शीतं द्रव्यम् । तद्भाव इति । सपक्षाभावः । यथा- सौवान्तिकस्य अनित्यत्वे साध्ये अनित्यत्वाभाव एवासपक्षः, तन्नये आकाशादिष्वपि नित्यत्वाङ्गीकारात् ।
त्रिविध एवार्थे न सपक्षः असपक्षः इति बोध्यम् । अभावस्तु वस्तुत एव न सपक्षः । अन्यविरोधी च अप्रम्परया न सपक्षाविति

7.10

यथोक्तहेतुफलणयुक्तो हेतुः कतिविधः? इत्याशङ्कायामाह- त्रिरूपाणीति । यथोक्तं रूपत्रयं त्रिष्वेव सम्भवति, नाधिक इत्यधिकारार्थ एवकारार्थः । त्रयाणां लिङ्गानां प्रत्येकमपि त्रिरूपमेव द्रष्टव्यम्, एकरूपं द्विरूपं वा नैवेति

7.11

कानि च त्रीणि लिङ्गानि? इत्याशङ्कायामाह- अनुपलब्धिरिति ।
इह स्वनाम्ना त्रीणि लिङ्गानि निर्दिश्यन्ते

7.9

तत्रानुपलब्धिरिति । अनुपलब्धिस्वरूपमुच्यते । यथेति । उपप्रदर्शनशब्दः । प्रदेशविशेषे क्वचिद् घटो नेति सन्निहितदेशवचनम् । सम्बन्धस्तु एवम्- प्रदेशविशेष
च विरुद्धः । तस्य च सपक्षस्य अभावः । सपक्षादन्यत्वं तद्विरुद्धत्वं च न तावत् प्रत्येतुं शक्यम्, यावत् सपक्षस्वभावाभावो न विज्ञातः । तस्मादन्यत्व विरुद्धत्वप्रतीतिसामर्थ्यात् सपक्षाभावरूपौ प्रतीतावन्यविरुद्धौ ।
ततो ऽभावः साक्षात् सपक्षाभावरूपः प्रतीयते । अन्यविरुद्धौ सामर्थ्यादभावरूपी प्रतीयेते । ततस्त्रयाणामपि असपक्षत्वम्

7.10

उक्तेन त्रैरूप्येण त्रिरूपाणि च त्रीण्येव लिङ्गानीति । चकारी वक्तव्यान्तरसमुच्चयार्थः । त्रैरूप्यमादौ पृष्टम्, त्रिरूपानि च लिङ्गानि परेण । तत्र त्रैरूप्यमुक्तम्, त्रिरूपाणि चोच्यन्ते- त्रीण्येव त्रीण्येव त्रिरूपाणि लिङ्गानि । त्रयस्त्रित्ररूपलिङ्गप्रकारा इत्यर्थः

7.11

कानि पुनस्तानि? इत्याह- अनुपलब्धिरित्यादि । प्रतिषेध्यस्य साध्यस्यानुपलब्धिस्त्रिरूपा । बिधेयस्य साध्यस्य स्वभावश्च त्रिरूपः कार्य च

7.12

अनुपलब्धिमुदाहर्तुमाह- तत्रेत्यादि । यथेत्यादि । यथेत्युपदर्शनार्थम् । यथेयमनुपलब्धिस्तथान्यापि । न त्वियमेवेत्यर्थः । प्रदेश एकदेशः । इशिष्यत
13 उपलब्धिलक्षणप्राप्तिरुपलम्भप्रत्ययान्तरसाकल्पं स्वभावविशेषश्च ॥
क्वचिद् घटो नेति क्वचिदित्यनेन धर्मी निर्दिश्यते । प्रदेशविशेष इति तस्यैव विशेषः क्रियते । वाद्यभिमतदेशे घटो नित्यर्थः । देश इत्युक्ते सर्वस्य पक्षत्वे घटाभावसिद्धिरेव न स्यात् । स च योग्यो ऽपि न भवति ।
उपलब्धिलक्षणप्राप्तस्येति । अनेन हेतुर्विशेषणमुक्तम् । उपलब्धिरिति ज्ञानमुच्यते । लक्ष्यते इति लक्षणम् । विषय इति शेषः । उपलब्धेर्लक्षणमिति उपलब्धिलक्षणम्, तं प्राप्त इति उपलब्धिलक्षणप्राप्तः । योग्योपलब्धिविषय इति शेषः ।
अनुपलब्धेरिति । अदर्शनादित्यर्थः । अयमर्थः- प्रदेशादौ दृश्यघटाद्यदर्शनात् । घटशून्यदेशदर्शनादिति शेष इति

7.12

ननु का सा उपलब्धिलक्षणप्राप्तिः? इत्याशङ्कायामाह- उपलब्धीत्यादि ।
इति विशेषः प्रतिपत्तुप्रत्यक्षः । तादृशश्च न सर्वः प्रदेशः । तदाह- क्वचिदिति । प्रतिपत्तृप्रत्यक्षेः क्वचिदेव प्रदेशे इति धर्मी । न घट इति साध्यम् । उपलब्धिर्ज्ञानम् । तस्या लक्षणं जनिका सामग्री । तया हि उपलब्धिर्लक्षयते । तत्प्राप्तो ऽर्थो जनकत्वेन सामग्रयन्तर्भावात् । उपलब्धिलक्षणप्राप्तो दृश्य इत्यर्थः । तस्य अन पलब्धेः- इत्ययं हेतुः ।
अथ यो यत्र नास्ति स कथं तत्र दृश्यः? दृश्यत्वसमारोपादसन्नपि दृश्य उच्यते । यश्चैवं सम्भाव्यते- यद्यसावन्न भवेद् दृश्य एव भवेदिति । स तत्र अविध्यमानो ऽपि दृश्यः समारोप्यः । कश्चैवं सम्भाव्यः? यस्य समग्राणि स्वावलम्बनदर्शनकारणानि भवन्ति । कदा च तानि समग्राणि गम्यन्ते? यदा एकज्ञानवस्त्वन्तरोपलम्भः । एकेन्द्रियज्ञानग्राह्यं लोचनादिप्रणिधानाभिमुखं वस्तुद्वयमन्योन्यापेक्षमेकज्ञानसंसर्गि कथ्यते । तयोर्हि सतोर्नैक नियमता भवति प्रतिपत्तिः, योग्यताया द्वयोरप्यविशिष्टत्वात् । तस्मादेकज्ञानसंसर्गिणि दृश्यमाने सत्येकस्मिन् इतरत् समग्रदर्शनसामग्रीकं यदि भवेद्, दृश्यमेव भवेदिति सम्भावितं दृश्यत्वमारोप्यते । तस्यानुपलम्भो दृश्यानुपलम्भः । तस्मात् स एव घटविविक्तर्पदेशः, तदालम्बनं च ज्ञानं दृश्यानुपलम्भनिश्चयहेतुत्वाद् दृश्यानुपलम्भ उच्यते ।
यावद्धि एकज्ञानसंसर्गि वस्तु न निश्चितम्, तज्ज्ञाअन्ं च न तावद् दृश्यानुपलम्भनिश्चयः । ततो वस्तु अनुपलम्भ उच्यते, तज्ज्ञानं च । दर्शननिवृत्तिमात्रं स्वयमनिश्चितत्वादगमकम् । ततो दृश्यघटरहितः प्रदेशः, तज्ज्ञानं च वचनसामर्थ्यादेव दृश्यानुपलम्भरूपमुक्तं द्रष्टव्यम्

7.13

का पुनरूपलब्धिलक्षणप्राप्तिः? इत्याह- उपलब्धीत्यादि । उपलब्धि-
14 यः स्वभाव सत्स्वप्यन्येषूपलम्भप्रत्ययेषु सन् प्रत्यक्ष एव भवति स स्वभाव विशेषः ॥
15 स्वभावः स्वसत्तामात्रभाविनि साध्यधर्मे हेतुः ॥
उपलम्भ इति । ज्ञानम् । तस्य प्रत्ययान्तराणि उपलम्भप्रत्ययान्तराणि । उपलम्भप्रत्ययस्तत्र घट एव । ततो ऽन्यानि अनन्तरप्रत्ययादीनि । तेषां साकल्यम् उपलम्भप्रत्ययान्तरसाकल्यम् । साकल्यशब्देन समावेश उच्यते । स्वभावश्च विशेषश्च इति स्वभावविशेषः । तद् द्वयम् उपलब्धिलक्षणप्राप्तिशब्देनोच्यते इति

7.14

ननु को ऽयं स्वभावविशेषः? इत्याकाङ्क्षायामाह- सत्स्विति ।
यः स्वभावः सन् चक्षुरादिसन्निधाने विप्रकर्षप्रकारत्रयेण अविप्रकृष्टः शक्यदर्शनः, स एवात्र द्वभावविशेष उच्यते । तेन चक्षुरादिसन्निधाने ऽपि प्रत्यक्षयोग्यघटानुपलब्धेः अत्र घटो नास्ति इत्ययमर्थ उक्त इति

7.13

स्वभावहेतुलक्षणनिर्देशार्थमाह- स्वभाव इति ।
लक्षणप्राप्तिः उलब्धिलक्षणप्राप्तत्वम्, घटस्य उपलम्भप्रत्ययान्तरसाकल्पमिति । ज्ञानस्य घटो ऽपि जनकः, अन्ये च चक्षुरादयः । घटाद् दृश्यादन्ये हेतवः प्रत्ययान्तराणि, तेषां {साअ}ल्यं सन्निधिः । स्वभाव एव विशिष्यते तदन्यस्मादीत् विशेषो विशिष्ट इत्यर्थः । तदयं विशिष्टः स्वभावः प्रत्ययान्तरसाकल्पं च- एतद् द्वयमुपलब्धिलक्षणप्राप्तत्वं घटादेर्द्रष्टव्यम्

7.14

कीदृशः स्वभावविशेषः? इत्याह- यः स्वभाव इत्यादि ।
सत्स्वित्यादि । उपलम्भस्य यानि घटाद् दृश्यात् प्रत्ययान्तराणि तेषु सत्सु विद्यमानेषु यः स्वभावः सन् प्रत्यक्ष एव भवति स स्वभावविशेषः ।
तदयमत्रार्थः- एकप्रतिपत्त्रपेक्षमिदं प्रत्ययलक्षणम् । तथा च सति द्रष्टुं प्रवृत्तस्यैकस्य द्रष्टुर्द्दशयमान उभयवान् भावः । अदृश्यमानास्तु देशकाल स्वभावविप्रकृष्टाः स्वभावविशेषरहिताः प्रत्ययसाकल्पवन्तस्तु । यैर्हि प्रत्ययैः स द्रष्टा पश्यति ते सन्निहिताः । अतश्च सन्निहिता यद् द्रष्टुं प्रवृत्तः सः । द्रष्टुमप्रवृत्तस्य तु योग्यदेशस्था अपि द्रष्टुं ते न शक्याः प्रत्ययान्तरवैकल्पवन्तः स्वभावविशेषयुक्तास्तु । दूरकेशकालास्तु उभयविकलाः । तदेवं पश्यतः कस्यचिन्न प्रत्ययान्तरविकलो नाम, स्वभावविशेषविकलस्तु भवेत् । अपश्यतस्तु द्रष्टुं शक्यो योग्यदेशस्थः प्रत्ययान्तरविकलः, अन्ये तूभयविकला इति

7.15

अनुपलब्धिमुदाहृत्य स्वभावमुदाहर्तुमाह- स्वभाव इत्यादि । स्वभावो
16 यथा- वृक्षो ऽयम्, शिशपात्वात् इति ॥
17 कार्य यथा- वह्निरत्र धूमात् इति ॥
18 अत्र द्वौ वस्तुसाधनौ, एकः प्रतिषेहहेतुरिति ॥
सत्तामात्रमिति । साधनसत्तामात्रम् । सत्तामात्रे भवितुं शीलं यस्य स सत्तामात्रभावी, तस्मिन् सत्तामात्रभविनि साध्यधर्मे स्वभावहेतुर्बोध्यः

7.16

यथा वृक्ष इति । अत्र वृक्षस्य शिशपामात्रेण सम्बन्धः । तस्मात् तेन साध्यते

7.17

कार्यहेतुरुदाह्रियते । अग्निनिर्भरोत्पत्तिकत्वाद् यत्र धूमस्तत्र वह्निः इत्यवगम्यते

7.15

अथ कस्मात् लिगं त्रिविधम् इति व्यवस्थितिः? इत्याशङ्कायामाह- अत्र द्वाविति ।
यस्मादनुमेयो भावाभावरूपो द्विविधः, तस्माद् हेतुरपि 1 । भावसाधनः, 2 अभावसाधनश्च द्विविध एव । अनुमेयो ऽपि भावरूपो द्विविधः- 1 भिन्नः, 2 अभिन्नश्च ।
हेतुरिति सम्बन्धः । कीदृशो हेतुः साध्यस्य स्वभावः? इत्याह- स्वस्य आत्मनः सत्ता, सैव केवला स्वसत्तामात्रम् । तस्मिन् सति भवितुं शीलं यस्येति । यो हेतोरात्मनः सत्तामपेक्ष्य विद्यमानो भवति, न तु हेतुसताया व्यतिरिक्तं कञ्चिद् हेतुमपेक्षते स स्वसत्तामात्रभावी साध्यः । तस्मिन् साध्ये यो हेतुः स स्वभावस्तस्य साध्यस्य, नान्यः

7.16

उदाहरणम्- यथेति । अयमिति धर्मी । वृक्ष इति साध्यम् । शिशपात्वादिति हेतुः । तदयमर्थः- वृक्षव्यवहारयोग्यो ऽयम्, शिशपाव्यवहारयोग्यत्वादिति । तत्र प्रचुरशिशपे देशे ऽविदितशिशपाव्यवहारो जडो यदा केनचिदुच्चां शिंशपामुपादर्श्योच्यते- अयं वृक्ष इति, तदा असौ जाडयाच्चिशपाया उच्चत्वमपि वृक्षव्यवहारस्य निमित्तमवस्यति । स मूढः शिशपात्वमात्र निमित्ते वृक्षव्यवहारे प्रवर्त्यते, निच्चत्वादि निमित्तान्तरमिह वृक्षव्यवहारस्य, अपितु शिशपात्वमात्रं निमित्तम् । शिशपागतशाखादिमत्वं निमित्तमित्यर्थः

7.17

।
कार्यमुदाहर्तुमाह- कार्यमित्यादि । वह्निरिति साध्यम् । अत्रेति धर्मी । धूमादिति हेतुः । कार्यकारणभावो लोके प्रत्यक्षानुपलम्भनिबन्धनः प्रतीत इति न स्वभावस्येव कार्यस्य लक्षणमुक्तम्

7.18

ननु त्रिरूपत्वादेकमेव लिङ्ग युक्तम्, अत्र प्रकारभेद भेदः, एवं सति स्वभावहेतोरेकस्यानन्तप्रकारत्वात् त्रित्वमयुक्तम्? इत्याह- अत्र द्वाविति ।
19 स्वभावप्रतिबन्धे हि सत्यर्थो ऽर्थ गमयेत् ।
20 तदपर्तिबद्धस्य तदव्यभिचारनियमाभावात् ॥
अनुमेयस्य भावरूपस्य द्वैविध्येन भावसाधनो ऽपि द्विविधो भवति । तथा हि- 1 साध्यहेत्वोः स्वरूपभेदे अभिन्नं साध्यं साधयितुं न शक्नोति । 2 साध्यहेत्वोः स्वरूपाभेदे च भिन्नं साध्यं साधयितुं न शक्नोति ।
तत्र साध्यसाधनयोरभेदे स्वभावहेतुः । साध्यसाधर्मयोर्भेदे च कार्यहेतुः । अनुपलब्धिस्तु अभावहेतुः । एतेन यस्माद् द्वाभ्यां भावसाधनम्, एकेन च प्रतिपेधसाधनम्, तस्मात् लिङ्गं त्रिविधम्- द्वे भावसाधने, एकं च प्रतिषेधकारणमीत् दर्शितमिति

7.19

अथ कस्माद् द्वावेव वस्तुसाधनो इति चेत्? तत्राह स्वभाव इति । स्वभावेन= स्वरूपेण प्रतिबन्धः स्वभावप्रतिबन्ध । तत्सत्त्वे एव लिङ्गलक्षणार्थेन साध्यलक्षणार्थस्य प्रत्यायनमिति शेषः

7.18

कस्मात् स्वभावप्रतिबन्धसत्त्व एव अर्थो ऽर्थ गमयोदिति चेत्? तत्राह- तदप्रतीत्यादि ।
अत्रेति । एषु त्रिषु हेतुषु मध्येद्वौ हेतू वस्तुसाधनौ विधेः साधनौ गमकौ । एकः प्रतिषेधस्य हेतुर्गमकः । प्रतिषेध इति चाभावो ऽभावव्यवहारश्चोक्तो द्रष्टव्यः ।
तदयमर्थः- हेतुः साध्यसिद्धाय्र्थत्वात् साध्याङ्गम्, साध्यां प्रधानम् । अतश्च साध्योपकरणस्य हेतोः प्रधानसाध्यभेदाद् भेदः, न स्वरूपभेदात् । साध्यश्च कश्चिद् विधिः, कश्चित् प्रतिषेधः । विधिप्रतिषेधयोश्च परस्परपरिहारेणानवस्थानात् तयोर्हेतूभिन्नौ । विधिरपि कश्चिद्धेतीर्भिन्नः, कश्चिदभिन्नः । भेदाधेदयोरप्यन्योन्यत्यागेनात्मस्थितेर्भिन्नौ हेतू । ततः साध्यस्य परस्परविरोधात् हेतवो भिन्नाः, न तु स्वत एवेति

7.19

कस्मात् पुनस्त्रयाणां हेतुत्वम्, कस्माच्चान्येषामहेतुत्वम्?- इत्याशङ्कय यथा त्रयाणामेव हेतुत्वम्, अन्येषां चाहेतुत्वम्, तदुभयं दर्शयितुमाह- स्वभावप्रतिबन्ध इति । स्वभावेन प्रतिबन्धः स्वभावप्रतिबन्धः । साधने कृता इति समासः । स्वभावप्रतिबद्धत्वं प्रतिबद्धस्वभावत्वमित्यर्थः । कारणे स्वभावे च साध्ये स्वभावेन प्रतिबन्धः कार्यस्वभावयोरविशिष्ट इत्येकेन समासेन द्वयोरपि संग्रहः । हिर्यस्मादर्थे । यस्मात् स्वभावप्रतिबन्धे सति साधनार्थः साध्यं गमयेत्, तस्मात् त्रयाणां गमकत्वम्, अन्येषामगमकत्वम्

7.20

कस्मात् पुनः स्वभावप्रतिबन्ध एव सति गम्यगमकभावः, नान्यथा?
21 स च प्रतिबन्ध साध्ये ऽर्थे लिङ्गस्य ॥
यतो यन्न प्रतिबद्धम्, तत्रार्थनिश्चयाव्यभिचारि, तस्मात् प्रतिबन्धे सत्येव गम्यगमकभावो वेदितव्यः, नान्यथेति

7.21

स च तावत् कस्य प्रतिबन्धः, केन रूपेण व प्रतिबन्धः? इत् प्रदर्शनार्थमाह- स चेति ।
यस्मात् परमार्थतो लिगं क्वचित् साध्यार्थस्वभावमेव, तस्मात् तत् तेन प्रतिबद्धम्

7.20

इत्याह- तदपतिबद्धस्येति । तदिति स्वभावः उक्तः । तेन स्वभवेनाप्रति बद्धः तदप्रतिबद्धः । यो यत्र स्वभवेन प्रतिबद्धः तस्य तदप्रतिबद्धस्य । तदव्यभिचारनियमाभावात् । तस्याप्रतिबन्धविषयस्याव्यभिवारः तदव्यभिचारः,तस्य नियम तदव्यभिचारनियमः, तस्याभावात् ।
तदयमर्थः- न हि यो यत्र स्वभावेन न प्रतिबद्धः, स तमप्रतिबन्धविषय मवश्यमेव न व्यभिचारतीति नास्ति तयोरव्यभिचारनियमः= अविनाभावनियमः । अव्यभिचारनियमाच्च गम्य-गमकभावः । न हि योग्यतया प्रदीपवत् परोक्षार्थप्रतिपत्तिनिमित्तमिष्टं लिङ्गम्, अपि तु अब्यभिचारित्वेन निश्चितम् । ततः स्वभावप्रतिबन्धे सत्यविनाभावित्वनिश्चयः, ततो गम्य-गमकभावः । तस्मात् स्वभावप्रतिबन्धे सत्यर्थो ऽर्थ गमयेत्, नान्यथेति श्थितम् ॥

7.21

ननु च परायत्तस्य प्रतिबन्धो ऽपरायत्ते, तदिह साध्यसाधनयोः कस्य क्व प्रतिबन्धः? इत्याह- स चेति । स च स्वभावप्रतिबन्धो लिङ्गस्य साध्ये ऽर्थे । लिङ्ग परायत्तत्वात् प्रतिबद्धम् । साध्यस्त्वर्थो ऽपरायत्तत्वात् प्रतिबन्धविषयः, न तु प्रतिबद्ध इत्यर्थः । तत्रायमर्थः- तादात्म्यविशेषे ऽपि यत् प्रतिबद्धं तद् गमकम् । यत् प्रतिबन्धविषयस्तद् गम्यम् । यस्य च धर्मस्य यो नियत स्वभावः स तत्प्रतिवद्धः । यथा प्रयत्नानन्तरीयकत्वाख्यो ऽनित्यत्वे । यस्य तु स चान्यश्च स्वभावः स प्रतिबन्धविषयः, न तु प्रतिबद्धः । यथानित्यत्वाख्यः प्रयत्नानन्तरीयकत्वाख्ये । निश्चयापेक्षो हि गम्यगम्यकभावः । प्रयत्नानन्तरीयकत्वमेव चानित्यस्वभावं निश्चितम् । अतस्तदेवानित्यत्वे प्रतिबद्धम् । तस्मान्नियतविषय एव गम्यगम्यकभावः, नान्यथेति

7.22

22 साध्यार्थतादात्म्यात् साध्यार्थादुत्पत्तेश्च ॥
23 अतत्स्वभावस्यातदुत्पत्ते श्च तत्राप्रतिबद्धस्वभावत्वात् ॥
साध्यार्थतादात्म्यादिति । यस्मात् लिङ्गं क्वचित् साध्यार्थादेवोत्पदयते, तस्मात् तत् तेन प्रतिबद्धमिति

7.23

अथ कथमुच्यते- साध्यार्थतादात्म्यात् साध्यार्थादुत्पत्तेश्चैव लिङ्गस्य प्रतिबन्ध इति चेत्? तत्राह- अतत्स्वभावस्येति ।
यच्च न साध्यैकस्वभावम्, यदपि च नोत्पदयते साध्यार्थात् तस्य तेन प्रतिबन्ध । केन प्रकारेणाभिधीयेत अप्रतिबद्धं च न लिङ्गम्, अतिप्रसङ्गात् । तस्मात् तादात्म्य तदुत्पत्तिभ्यामेव प्रतिबन्धो वक्तव्यः, नान्यथेति

7.22

भवतु तावत् तथिव, ततश्च किमायातमिति चेत्? आह- ते चेति ।
कस्मात् पुनः स्वभावप्रतिबन्धो लिङ्गस्य? इत्याह- वस्तुत इत्यादि । स साध्यो ऽर्थ आत्मा स्वभावो यस्य तत् तदात्मा, तस्य भावस्तादात्म्यम्, तस्माद्धेतोः । यतः साध्यस्वभावं साधनं तस्मात् । तत्र स्वभावप्रतिबन्ध इत्यर्थः ।
यदि साध्यस्वभावं साधनम्, साध्यसाधनयोरभेदात् प्रतिज्ञार्थैकदेशो हेतुः स्यात्? इत्याह- वस्तुत इति । परमार्थसत्तारूपेणाभेदस्तयोः । विकल्पविषयस्तु यत् समारोपित रूपम्, तदपेक्षः साध्यसाधनभेदः । निश्चयापेक्ष एव हि गम्यगमकभावः । ततो निश्चयारूढरूपापेक्ष एव तयोर्भेदो युक्तः, वास्तवस्त्वभेद इति । न केवलात तादात्म्याद्, अपि तु ततः तदुत्पत्तश्च साध्ये ऽर्थे स्वभावप्रतिबन्धो लिङ्गस्य

7.23

कस्मान्निमित्तद्वयात् स्वभावप्रतिबन्धो लिङ्गस्य, नान्यस्मात्? इत्याह- अतत्स्वभावस्येत्यादि । स स्वभावो ऽस्य सो ऽयं तत्स्वभावः । न तत्स्वभावो ऽतत्स्वभावः । तस्मादुत्पतिरस्य सो ऽयं तदुत्पत्तिः, न तथातदुत्पत्तिः । यो यत्स्वभावो यदुत्पत्तिश्च न भवति तस्य अतत्स्वभावस्य अतदुपत्तेश्च । अत्र अतत्स्वभावे अनुत्पादके चाप्रतिबद्धः स्बभावो ऽस्येति सो ऽयमप्रतिबद्धस्वभावः, तस्य भावो ऽप्रतिबद्धस्वभावत्वम्, तस्माद् अप्रतिबद्धस्वभावत्वात् ।
यदयतत्स्वभावे ऽनुत्पादके च कश्चित् प्रतिबद्धस्वभावो भवेद्, भवेदन्यतो ऽपि निमित्तात् स्वभावप्रतिबन्धः । प्रतिबधस्वभावत्वं हि स्वभावप्रतिबन्धः । न चान्यः कश्चिदायत्तस्वभावः । तस्मात् तादात्म्यतदुत्पत्तिभ्यामेव स्वभावप्रतिबन्धः

7.24

भवतु नाम तादात्म्यदुत्पत्तिभ्यामेव स्वभावप्रतिबन्धः, कार्यस्वभाव
24 ते च तादात्म्यतदुत्पत्तौ स्वभावकार्ययोरेवेति ताभ्यामेव वस्तुसिद्धिः ॥
25 प्रतिषेधसिद्धिरपि यथोक्ताया एवानुपलब्धेः ॥
26 सति वस्तुनि तस्या असम्भवात् ॥
तादात्म्यं स्वभावहेतोः प्रतिबन्धः । तदुत्पत्तिः कार्यहेतोः प्रतिबन्धः । अत एव ताभ्यामेव वस्तुसिद्धिरित्युक्तम् । यस्मात् तादात्म्यतदुत्पत्ती स्वभावकार्ययोरेव, तस्मात् ताभ्यामेव वस्तुसिधिः शक्या, न त्वन्येन अप्रतिबद्धेन । ततश्च वस्तुसिद्धिर्द्वाभ्यामेवेति स्थितम्

7.25

एकश्च प्रतिषेधहेतुः इत्युक्तम्, को नामासौ? इत्याह- प्रतिषेधेत्यादि ।
उपलब्धिलक्षणप्राप्तस्यानुपलब्धेः इति यदुक्तं प्राक्, तद् द्वयमेव प्रतिषेधहेतुः

7.26

कथमिति चेत्? आह- सति वस्तुनीति ।
तथा हि- वस्तुनि विदयमाने सा न सम्भवति

7.24

यथोक्ता अनुपलब्धिरेव वस्त्वभावव्यवहारसाधिका इति, एतच्च कस्मादिति चेत्? आह- अन्यथेति ।
योरेव तु गमकत्वं कथम्? इत्याह- ते चेति । इतिः तस्मादर्थे । यस्मात् स्वभावे कार्ये एव च तादात्म्यतदुत्पत्ती स्थिते, तन्निबन्धनश्च गम्यगमकभावः, तस्मात् ताभ्यामेव कार्यस्वभावाभ्यां वस्तुनो विधेः सिद्धिः

7.25

अथ प्रतिषेधसिद्धिरदृश्यानुपलम्भादपि कस्मान्नेष्टा? इत्याह- प्रतिषेधेत्यादि । प्रतिषेधव्यवहारस्य सिद्धिर्यथोक्ता या दृश्यानुपलब्धिस्तत एव भवति यतस्तस्मादन्यतो नोक्ता

7.26

ततस्तावत् कस्माद् भवति? इत्याह- सतीत्यादि । सति तस्मिन् प्रतिषेध्ये वस्तुनि, यस्माद् दृश्यानुपलब्धिर्न सम्भवति तस्माद् असम्भवात् ततः प्रतिषेधसिद्धिः

7.27

अथ तत एव कस्माद्? इत्याह- अन्यथा चेति । सति वस्तुनि तस्या अदृश्यानुपलब्धेः सम्भवाद्- त्यन्यथाशब्दस्यार्थः । एतस्मात् नान्यस्या अनुपलब्धेः प्रतिषेधसिद्धिः ।
कुत एतत्- सत्यपि वस्तुनि तस्याः सम्भवः? इप्याह- अनुपलब्धिलक्षणप्राप्तेष्वित्यादि । इह प्रत्ययान्तरसाकल्यात् स्वभावविशेषाच्चो
27 अन्यथा चानुपलब्धिलक्षणप्राप्तेषु देश काल स्वभावविप्रकृष्टेष्वर्थेषु आत्मप्रत्यक्षनिवृत्तेरभावनिश्चयाभावात् ॥
28 अमूढस्मृतिसंस्कारस्यातीतस्य वर्तमानस्य च प्रतिपत्तृप्रत्यक्षस्य निवृत्तिरभावव्यवहारसाधनो ॥
यदि यथोक्तो विशेषो नाश्रीयते, तदा देश कालस्वभावैर्विप्रकृष्टा व्यवहिता ये ऽर्था नोपलब्धिलक्षणप्राप्ताः तेषु च या प्रतिपत्तुप्रत्यक्षनिवृत्तिः, तया अभावनिश्चयो न शक्यते । च इति । यस्मादित्यर्थे बोध्यम् । देशश्च कालश्च स्वभावश्चेति देशकालस्वभावाव् तैविप्रकृष्टेष्वित्यर्थः । तत्रापरिमेयदेशेन व्यवहिता देशविप्रकृष्टाः, अनेक कल्पने व्यवहिताः कालविप्रकृष्टाः, अतीतिन्द्रियाश्च भावाः स्वभाविप्रकृष्टा वेदितव्याः ।
तस्मादिह अनुपलब्धिलक्षणप्राप्ता इत्यनेनोपलब्धिप्रत्ययसाकल्याभाव उक्तः । देशकालस्वभावविप्रकृष्टाः इत्यनेन स्वभावविशेषेण अभाव उपदर्शितः । तस्मात् यथोक्ता अनुपलब्धिरेव प्रतिषेधसाधिका इति स्थितम् । एवं क्वचित् कालविशेषे ऽग्रहे ऽपि यथोक्ता अनुपलब्धिरेव प्रतिषेशसाधिका भवतीत्युच्यते

7.27

इदानीमुक्तकालविशेषेण सिद्धिनिर्देशार्थमाह- अमूढेत्यादि ।
स्मृतिजनकः संस्कारः स्मृतिसंस्कारः । स्मृतिबीजंमिति शेषः । अमूढः स्मृति पलब्धिलक्षणप्राप्तो ऽर्थ उक्तः । द्वयोरेकैकस्याप्यभावे ऽनुपलब्धिलक्षणप्राप्तो ऽर्थ उच्यते ।
तदिह अनुपलब्धिलक्षणप्राप्तेषु इति प्रत्ययान्तरवैकल्यवन्तः उक्ताः । देशकालस्वभावविप्रकृष्टेषु इति स्वभावविशेषरहिता उक्ताः । देशश्च कालश्च स्वभावश्च तैर्विप्रकृष्टा इति बिग्रहः । तेष्वभावनिश्चयस्याभावात् सत्यपि वस्तुनि तस्याभाव इष्टः ।
कस्मान्निश्चयाभावः? इत्याह- तेषु प्रतिपत्तु रात्मनो यत् प्रत्यक्षं तस्य निवृत्तेः कारणात् निश्चयाभावः । यस्मादनुपलब्धिलक्षणप्राप्तेषु आत्मप्रत्यक्षनिवृत्तेरभावनिश्चयाभावः, तस्मात् सत्यपि वस्तुनि आत्मप्रत्यक्षनिवृत्तिलक्षणाया अदृश्यानुपलब्धेः सम्भवः । ततो यथोक्ताया एव प्रतिषेधसिद्धिः

7.28

अथेयं दृश्यानुपलब्धिः कस्मिन् काले प्रमाणम्? किंस्वभावा? किंव्यापारा च? इत्याह- अमूढेत्यादि । प्रतिपत्तुः प्रत्यक्षो घटादिरर्थः, तस्य निवृत्तिरनुपलब्धिः, तदभावस्वभावेति यावत् । अत एवाभावो न साध्यः स्वभावानुपलब्धेः, सिद्धत्वात् । अविध्यमानो ऽपि च घटादिरेकज्ञानसंसर्गिणि संस्कारो यस्मिन् घटादौ स तथोकः । अतीतस्य वर्तमानस्य च प्रतिपतृप्रत्यक्षस्य निवृत्तिरिति । अतीतवर्तमानकालयोर्यः शून्यप्रदेशादिरुपलब्धः तत्प्रदेशादिसमानयोग्यो यो घटादिः स एवातीतवर्तमानत्वेनोच्यते । अन्यथा प्रदेशादौ घटाद्यभावे चातीतत्वं वर्तमानत्वं च कुतः स्यात् ।
प्रतिपत्ता च देवदत्तादिः । तस्य प्रत्यक्षेण परिच्चेद्यत्वाद् घटादिः प्रत्यक्षः । अत्रापि प्रत्यक्षापरिच्चेद्यप्रदेशादिसमानयोग्यरूपत्वाद् घटादिः प्रत्यक्ष इत्युच्यते । परमार्थतस्तत्र घटाद्यभावे कथं प्रत्यक्षत्वं स्यात् । एवमुक्तप्रकारेण प्रतिपत्तु प्रत्यक्षस्यातीतस्य वर्तमानस्य च निवृत्तिरभावाश्रितत्वादपरवस्तुलक्षणा । घटादिशून्यदेशविशेषस्वरूपा भवतीति शेषः ।
अभावव्यवहारस्तु इह घटो नास्ति इत्येवमाकारं विज्ञानम्, तदभिधानम्, निःशङ्क पर्देशादौ गमनलक्षण प्रवृत्तिश्च । ज्ञानाभिधानप्रवृत्तिलक्षणो व्यवहारः भूतले भासमाने समग्रसामग्रीको ज्ञायमानो दृश्यतया सम्भावितत्वात् प्रत्यक्ष उक्तः । अत एवज्ञानसंसर्गी दृश्यमानो ऽर्थस्तज्ज्ञानं च प्रत्यक्षनिवृत्तिरुच्यते । ततो हि दृश्यमानादर्थात् तद्बुद्धेश्च समग्रदर्शनसामग्रीकत्वेन प्रत्यक्षतया सम्भावितस्य निवृत्तिरवसीयते । तस्मादर्थज्ञाने एव प्रत्यक्षस्य घटस्याभाव उच्यते । न तु निवृत्तिमात्रमिहाभावः, निवृत्तिमात्राद् दृश्यनिवृत्य निश्चयात् ।
ननु च दृश्यनिवृत्तिरवसीयते, दृश्यानुपलम्भात्?3 सत्यमेवैतत् केवलमेकज्ञानसंसर्गिणि दृश्यमाने घटो यदि भवेद् दृश्य एव भवेदिति दृशय् सम्भावितः । ततो दृश्यानुपलब्धिर्निश्चिता । दृश्यानुपलब्धिनिश्चयसामर्थया देव च दृश्याभावो निश्चितः । यदि हि दृश्यस्तत्र भवेद्, दृश्यानुपलम्भो न भवेत् । अतो दृश्यानुपलम्भनिश्चयाद् दृश्याभावः सामर्थ्यादवसितः, न व्यवहृत इति दृश्यानुपलम्भेन व्यवहर्तव्यः ।
तस्मादर्थान्तरम्- एकज्ञानसंसर्गि दृश्यमानम्, तज्ज्ञानं च प्रत्यक्ष निवृत्तिनिश्चयहेतुत्वात् प्रत्यक्षनिवृत्तिरित्युक्तं द्रष्टव्यम् ।
यथा चैकज्ञानसंसर्गिणि प्रत्यक्षे घटस्य प्रत्यक्षत्वमारोपितमसतो ऽपि, तथा तस्मिन्नेकज्ञानसंसर्गिण्यतीते चामूढस्मृतिसंस्कारे, वर्तमाने च घटस्य तत्तद्रूपमारोपितमसत इति द्रष्टव्यम् । अनेन च दृश्यानुपलब्धिः प्रत्यक्ष घटनिवृत्तिस्वभावोक्ता, सा च सिद्धा । तेन न घटाभावः साध्यः, अपितु अभावव्यवहार इत्युक्तम् ।
साध्यते ऽनयेति अभावव्यवहारसाधनी । तदेवमतीत वर्तमानोत्पन्नविषया अनुपलब्धिरेव अभावव्यवहारसाधनी, भाविविषया तु नेत्युक्तं भवति । तथा हि भाविकालस्य प्रदेशादिधर्मी न प्रत्यक्ष ।शून्यप्रदेशोपलब्धिलक्षणा अनुपलब्धिरपि न सिध्यति । अतीतकालस्य तु धर्मी प्रत्यक्षः घटशून्यप्रदेशश्च स्मर्यते । तदुभयहेतोरमूढस्मृतिसंस्कार इत्युक्तम् । तस्माद् विगतादिदिवसीयघटादिशून्यप्रदेशादिस्मरणे अभावव्यवहारसिद्धिर्भवति । वर्तमानकालस्य च धर्मी घटादिशून्यप्रदेशादिरपि प्रत्यक्षसिद्धः । तस्मात् तत्राभावव्यवहारसम्बन्धः सुलभः ।
अमूढस्मृतिसंस्कार इत्युक्त्वा हेत्वसिद्धिनिरस्ता । अन्यथा शून्यप्रदेशाद्यस्मरणे ऽनुपलब्धिरेव न सिध्यति । अतीत वर्तमान इत्यनेनोक्तः कालविशेषो निर्दिष्ठः ।
अमूढो ऽभ्रष्टो दर्शनाहितः स्मृतिजननरूपः संस्कारो यस्मिन् घटादौ स तथोक्तः । तस्यातीतस्य प्रतिपत्तप्रत्यक्षस्येति सम्बन्धः । वर्तमानस्य च प्रतिपत्तृप्रत्यक्षस्येति सम्बन्धः । अमूढस्मृतिसंस्कारग्रहणं तु न वर्तमानविशेषणम् । यस्मादतीते घटविविक्तप्रदेशदर्शने स्मृतिसंस्कारो मूढो दृश्यघटानुपलम्भे दृश्ये च घटे ऽमूढो भवति । वर्तमाने तु घटरहितप्रदेशदर्शने न स्मृति संस्कारमोहः । अत एव न घटाभावे नापि घटानुपलम्भे घटे मोहः । तस्मान्न वर्तमाननिषेध्यविशेषणममूढस्मृतिसंस्कारग्रहणम् । स्मृतिसंस्कारव्यभिचाराभावाद्वर्तमानस्यार्थस्य । अत एव वर्तमानस्य चेति । च शब्दः कृतो विशेषणरहितस्य वर्तमानस्य विशेषणवतातीतेन समुच्चयो यथा विज्ञायेतेति ।
तदयमर्थः- अतीतो ऽनुपलम्भः स्फुटं स्मर्यमाणः प्रमाणं वर्तमानश्च । ततो नासीदिह घटो ऽनुपलब्धत्वान्नास्त्यनुपलभ्यमानत्वादिति शक्यं ज्ञातुम् । न तु न् अभविष्यत्यत्र घटो ऽनुपलप्स्यमानत्वादि शक्यं ज्ञातुम् । अनागताया अनुपलब्धेः सत्त्वसन्देहादिति कालविशेषो ऽनुपलब्धेर्व्याख्यातः ।
व्यापारं दर्शयति- अभावस्य व्यवहारः नास्ति इत्येवमाकारकं ज्ञानम्, शब्दश्चैवमाकारः, निश्शङ्क गमनागमनलक्षणा च प्रवृत्तिः कायिको ऽभावव्यवहारः । घटाभावे हि ज्ञाते निःशङ्क गन्तुमागन्तुं च प्रवर्तते ।
तदेतस्य त्रिविधस्यापि अभावव्यवहारस्य दृश्यानुपलब्धिः प्रवर्तनी साधनी प्रवर्तिका ।
यद्यपि च नास्ति घटः इति ज्ञानमनुपलब्धेरेव भवति । अयमेव चाभावनिश्चयः, तथापि यस्मात् प्रत्यक्षेण केवलः प्रदेश उपलब्धस्तस्मात् इह घटो नास्ति इत्येव च प्रत्यक्षव्यापारमनुसरत्यभावनिश्चयः, तस्मात् प्रत्यक्षस्य केवलप्रदेशग्रहणव्यापारानुसार्यभावनिश्चयः प्रत्यक्षकृत ।
29 तस्या एवाभावनिश्चयात् । ॥
30 सा च प्रयोगभेदादेकादशप्रकारा ॥
प्रतिपत्त प्रत्यक्ष इत्युक्त्वा च निखिलप्रतिपत्त प्रत्यक्षं निरस्तम् । निखिलप्रतिपत्तप्रत्यक्षोक्तो हि हेतुरसिद्ध एव स्यात् । सकलप्रतिपत्तप्रत्यक्षनिवृत्तिस्तु प्रतिवाद्यसिद्धा इति

7.29

।
अनन्तरोक्ता अनुपलब्धिरेवाभावव्यवहारसाधनी इत्येतदेव कस्मात् इति चेत्? आह- तस्या इति ।
अनुपहतस्मृतिबीजस्य प्रतिपत्तप्रयक्षस्यातीतवर्तमानोत्पन्नविषयवस्तुनो या निवृत्तिस्तयैवाभावनिश्चयः शक्यते, अन्यया भाविविषयया तु न

7.30

तदेवं पूर्वोक्तहेतुना अनुपलब्धिस्वरूपं कालवेशेषश्चाभिहितः । तस्या प्रयोगभेदप्रदर्शनार्थमाह- सा चैति ।
प्रयोग इति त्रिलक्षणसाधनस्य शब्देनाभिधानम् । तद्भदादनुपलब्धिरेकादशप्रकारा भवति

7.28

किञ्च- दृश्यानुपलम्भनिश्चयकरणसामर्थ्यादेव पूर्वोक्तया नीत्या प्रत्यक्षणैवाभावो निश्चितः । केवलमदृष्टानामपि सत्त्वसम्भवात्, सत्त्वशङ्कया न शक्नोत्यसत्त्वं व्यवहर्तुम् । अतो ऽनुपलम्भो ऽभावं व्यवहारयति- दृश्यो यतो ऽनुपलब्धः, तस्मान्नास्ति इति । अतो दृश्यानुपलम्भो ऽभावज्ञानं कृत प्रवर्तयति, न त्वकृतं करोति- इत्यभावनिश्चयो ऽनुपलम्भात् प्रवृत्तो ऽपि प्रत्यक्षेण कृतो ऽनुपलम्भेन प्रवर्तित उक्त इत्यभावव्यवहारप्रवर्तन्यनुपलब्धिः

7.29

कस्मात् पुनरतीते, वर्तमाने चानुपलब्धिर्गमिका? इत्याह- तस्या एव यथोक्तकालाया अनुपलब्ध्रभावनिश्चयात् । अनागता ह्यनुपलब्धिः स्वयमेव सन्दिग्धस्वभावा । तस्या असिद्धाया नाभावनिश्चयः, अपि त्वतीतवर्तमानाया इति

7.30

सम्प्रत्यनुपलब्धेः प्रकारभेदं दर्शयितुमाह- सा चेत्यादि । सा च एषानुपलब्धिः एकादशप्रकारा एकादश प्रकारा अस्य इत्येकादशप्रकारा ।
कुतः प्रकारभेदः? प्रयोगभेदात् । प्रयोगः= प्रयुक्तिः, शब्दस्याभिधाव्यापार उच्यते । शब्दो हि साक्षात् क्वचिदर्थान्तराभिधायी, क्वचित् प्रतिषेधान्तराभिधायो। सर्वत्रैव तु दृश्यानुपलब्धिरशब्दोपात्तापि गम्यत इति वाचकव्यापारभेदादनुपलम्भप्रकारभेदः, न तु स्वरूपभेदादिति याअव्त्

7.31

31 स्वभावानुपलब्धिर्यथा- नात्र धूमः इति उपल्ब्धिलक्षणप्राप्तस्यानुपलब्धिरिति ॥ (1)
32 कार्यानुपलब्धिर्यथा- नात्राप्रतिबद्धसामर्थ्यानि धूमकारणानि सन्ति, धूमाभावादिति ॥ (2)
प्रकारभेदनिर्देशार्थमाह- स्वभावानुपलब्धिरिति ।
स्वभावस्य वस्तुस्वरूपस्य अनुपलब्धिरित्यर्थः । दृष्टान्तप्रदर्शनार्थमाह- यथेति । दृष्टान्तशब्दः । इह सर्वत्र तथा द्रष्टव्यम् । अत्र इति । अनेन धर्मोउक्तः । धूमो न इति । अनेन साध्यधर्म उक्तः ।
उपलब्धिप्रत्ययान्तरसत्त्वे ऽपि योग्यस्वभावधूमानुपलब्धिरिति शेषः ।

7.31

कार्यानुपलब्धिरिति । कार्यस्य अनुपलब्धिरिति । विग्रहः । दृष्टान्तमाह- यथा नात्र अप्रतिबद्धसामर्थ्यानि धूमकारणानि सन्तीति । अप्रतिबद्धसामर्थ्यानि यानि प्रकारभेदात् आह- स्वभावेत्यादि । प्रतिषेध्यस्य यः स्वभावस्तस्यानुपलब्धिर्यथेति । अत्रेति धर्मी । न धूमः इति साध्यम् । उपलब्धिलक्षणप्राप्तस्यानुपलब्धेरिति हेतुः । अयं च हेतुः पूर्ववद् व्याख्येयः

7.32

प्रतिषेध्यस्य यत् कार्यम्, तस्यानुपलब्धिरुदाह्रियते- कार्येत्यादि । यथेति । इहेति धर्मी । अप्रतिबद्धम्= अनुपहतं धूमजननं प्रति सामर्थ्य येषां तान्यप्रतिबद्धसामर्थ्यानि । न सन्तीति साध्यम् । धूमाभावादिति हेतुः । कारणानि च नावर्श्यं कार्यवन्ति भवन्तीति कार्यादर्शनादप्रतिबद्धसामर्थ्यानामेवाभावः साध्यः, न त्वन्येषाम् । अप्रतिबद्धशक्तीनि चान्त्यक्षण भावीन्येव, अन्येषां पर्तिबन्धसम्भवात् ।
कार्यानुपलब्धिश्च यत्र कारणदृश्यं तत्र प्रयुज्यते । दश्ये तु कारणे दृश्यानुपलब्धिरेव गमिका ।
तत्र धवलगृहोपरिस्थितो गृहाङ्गणमपश्यन्नपि चतुर्षु पार्श्वष्वङ्गणभित्तिपर्यन्तं पश्यति । भित्तिपर्यन्तसम चालोकसंज्ञकमाकाशदेशे धूमविविक्तं पश्यतिः, तत्र धूमाभावनिश्चयात् । यद्देशस्थेन वह्निना जन्यमानो धूमस्तद्देशः स्यात् । तस्य च वह्नरेप्रतिबद्धसामर्थ्यस्याभावः प्रतिपत्तव्यः । तद्गृहाङ्गणदेशेन च वह्निना जन्यमानो धूमस्तद्देशः स्यात् । तस्माद् तद्देशस्य वहनरभावः प्रतिपत्तव्यः । तद् गृहाङ्गणदेश भित्तिपरिक्षिप्तं भित्तिपर्यन्तपरिक्षिप्तेन चालोकात्मना धूमविविक्तेनाकाशदेशेन सह धर्मिणं करोति । तस्माद् दृश्यमानादृशय्मानाकाशदेशावयवः प्रत्यक्षाप्रत्यक्षसमुदायो वह्नयभावप्रतीतिसामर्थ्यायातो धर्मी, न दुश्यमान एव । अत्र इति तु प्रत्यक्षनिर्देशो दृश्यमानभागापेक्षः ।
33 व्यापकनुपलब्धिर्यथा- नात्र शिशपा, वृक्षाभावादिति ॥ (3)
34 स्वभावविरुद्धोपलब्धिर्यथा- नात्र शीतस्पर्शः, अग्नेरिति ॥ (4)
धूमकारणानि अनलेग्धनादीनि तानि तथोक्तानि । अत्र इत्यनेन धर्मी उक्तः । अप्रतिबद्धसामर्थ्यानि धूमकारणानि न सन्तीत्यनेन साध्यधर्म उक्तः । धुमाभावादिति । यस्मादत्र धूमस्यैभावः, तस्मादिति शेषः । यद्यत्राप्रतिबद्धसामर्थ्यानि धूमकारणानि स्युः, तर्हि धूमो ऽप्युत्पद्यमानः स्यादेव

7.33

व्यापकानुपलब्धिरिति । व्याप्नोतीति व्यापकम्, तस्यानुपलब्धिरित्यर्थः । यथा नात्र सिशपा वृक्ष्त्वादिति । अनेन दृष्टान्त उक्तः । वृक्षस्तु शिशपाया व्यापकः, तस्य निवृतौ सापि निवर्तिता भवति । अत्रेति । अनेन धर्मी उक्तः । वृक्षाभावादिति । अनेन हेतुरुक्तः । शिशपा न इति । अनेन साध्यधर्म उक्तः

7.32

स्वभावविरुद्धोपलब्धिरिति । स्वभावेन विरुद्धः स्वभावविरुद्धः, तस्योपलब्धिरित्यर्थः । दृष्टान्तमाह- यथा नात्र शीतस्पर्शः, अग्नेरिति । अत्रेत्यनेन धर्मी उक्तः । न केवलमिहैव दृश्यादृश्यसमुदायो धर्मी, अपि तु अन्यत्रापि । शब्दस्य क्षणिकत्वे साध्ये कश्चिदेव शब्दः प्रत्यक्षः, अन्यस्तु परोक्षः । तद्वदिहापि । यथा चात्र धर्मी साध्यप्रतिपत्त्यधिकरणभूतो दृश्यादृश्यावयवो दर्शितः, तद्वदुत्तरेष्वपि प्रयोगेषु स्वयं पर्तिपत्तव्यः

7.33

प्रतिषेध्यस्य व्याप्यस्य यो व्यापको धर्मरतस्यानुपलब्धिरुदाह्रियते- व्यापवेत्यादि । यथेति । अत्रेति धर्मी । न शिशपेति । शिशपाभावः साध्यः । वृक्षस्य व्यापकस्य अभावादिति हेतुः । इयमप्यनुपलब्धिर्व्याप्यस्य शिशपात्वस्यदृशय्स्याभावे प्रयुज्यते । उपलब्धिलक्षणप्राप्ते तु व्याप्ये दृश्यानुपलब्धिर्गमिका । तत्र यदा पूर्वापरावुपलिप्टौ समुन्नतौ देशौ भवतः, तयोरेकरतरुगहनोपेतः, अपरश्चैकशिलाघटितो निर्वृक्षकक्षकः । द्रष्टापि तत्स्थान् वृक्षान् पश्यन्नपि शिशपादिभेदं यो न विवेचयति, तस्य वृक्षत्वं प्रत्यक्षम्, अप्रत्यक्षं तु शिशपात्वम् । स हि निर्वृक्ष एकशिलाघटिते वृक्षाभावं दृश्यत्वाद् दृश्यानुअलम्भादवस्यति । शिशपात्वाभावं तु व्यापकस्य वृक्षत्वस्याभावादिति । तादृशे विषये ऽस्या अभावसाधनाय प्रयोगः

7.34

प्रतिषेध्यस्य स्वभावेन विरुद्धरयोपलब्धिरदाह्रियते- स्वभावेत्यादि । यथेति । अत्रति धर्मी । न शीतरपर्श इति शीतस्पर्शप्रतिषेधः साध्यः ।
35 विरुद्धकायपलब्धिर्यथा- नात्र शीतस्पर्शो धूमादिति ॥ (5)
36 विरुद्धव्याप्तोपलब्धिर्यथा- न ध्रुवभावो भूतस्यापि भावस्य विनाशो हेत्वन्तरापक्षणादिति ॥
अग्नेरित्यनेन हेतुरुक्तः । न शीतस्पर्श इत्यनेन साध्यधर्म उक्तः । तथा हि- अग्नेः शीतस्पर्शेन विरोधात् तत्सत्त्वे शीतस्पर्शो निवार्यते

7.35

विरुद्धकार्योपलब्धिरिति । विरुद्धस्य कार्य विरुद्धकार्यम्, तस्योपलब्धिरित्यर्थः । यथा नात्र शीतस्पर्शो धूमादिति । अनेन सा अभिधीयते । अत्रेति धर्मी । धूमादिति हेतुः । न शीतस्पर्श इति साध्यधर्मः । शीतस्पर्शविरुद्धो ऽग्निः, तस्य कार्य धूमः । तस्माद् यत्र धूमस्तत्राग्निरपि, तत्राग्निस्तत्र च कुतः शीतस्पर्शः

7.34

विरुद्धव्याप्तोपलब्धिरिति । विरुद्धेन व्याप्तं विरुद्धव्याप्तम् । तस्योपलब्धिरित्यर्थः । दृष्टान्तमाह- यथा न ध्रुवभावो भूतस्यापि भावस्य विनाश इति । ध्रुवभावीति निश्चितभवनधर्मा इति शेषः । भूतस्यपि भावस्येति । जातस्य भावस्येति वह्नेरिति हेतुः । इयं चानुपलब्धिस्तत्र प्रयोक्तव्या यत्र शीतस्पर्शो ऽदृश्यः, दृश्ये दृश्यानुपलब्धिप्रयोगात् ।
तस्माद् यत्रे वर्णविशेषाद् वह्निर्द्दश्यः, शीतस्पर्शो दूरस्थत्वात् सन्नप्यदृश्यः, तत्र प्रयोगः

7.35

प्रतिषेध्येन यद् विरुद्धं तत्कार्यस्योपलब्धिर्गमिका । यथेति । अत्रेति धर्मी । न शीतस्पर्श इति शीतस्पर्शाभावः साध्यः । धूमादिति हेतुः । यत्र शीतस्पर्शः सन् दृश्यः स्यात्, तत्र दृश्यानुपलब्धिर्गमिका । यत्र वह्निः प्रत्यक्षः, तत्र विरुद्धोपलब्धिर्गमिका । द्वयोरपि तु परोक्षत्वे विरुद्धकार्योपलब्धिः प्रयुज्यते ।
तत्र समस्तपवरकस्थं शीतं निवर्तयितुं समर्थस्याग्नेरनुमापकं यदा विशिष्टं धूमकलापं निर्यान्तमपवरकात् पश्यति, तदा विशिष्टाद् वह्नरनुमिताद् शीतस्पर्शनिवृत्तिमनुमिमीते । इह दृश्यमानद्वारप्रदेशसहितः सर्वो ऽपवरकाभ्यन्तरदेशो धर्मी साध्यप्रतिपत्त्यनुसरणात्पूर्ववद् द्रष्टव्य इति

7.36

प्रतिषेधस्य यद् विरुद्धं तेन व्याप्तस्य धर्मान्तरस्य उपलब्धिरुदाहर्तव्या । यथेति । ध्रुवम्= अवश्यम् भवतीति ध्रुवभावो । नेति ध्रुवभावित्वनिषेधः साध्यः । विनाशो धर्मी । भूतस्यापि भवस्येति धर्मिविशेषणम् । भूतस्य जातस्यापि विनश्वरः स्वभावो नावश्यम्भावी, किमुत अजातस्य इति अपिशब्दार्धः । जनकाद् हेतोरन्यो हेतुः हेत्वन्तरम् मुद्गरादि । तदपेक्षते
37 कार्यविरुधोअलब्धिर्यथा- नेहाप्रतिबद्धसामर्थ्यानि शीतकारणानि सन्ति, वह्नेरिति ॥
शेष । भूतस्यापि भाव्स्य विनाशः इत्यनेन धर्मी उक्तः । न ध्रुवभावी इत्यनेन साध्यधर्म उक्तः । तेन जातस्यैव भावस्य विनाशो न नित्य इत्यमर्थः पर्यवसितः ।
कथमेतदिति चेद्? आह- हेत्वन्तरापेक्षणादिति ।
एवं हि हेत्वन्तरापेक्षा अङ्गीक्रियते । येषां हेत्वन्तरापेक्षा, ते नावश्यम्भाविनः, यथा कार्षासे रक्तता । इहापि ध्रुवभावित्वमध्रुवभावित्वेन विरुद्धम् । तेन हेत्वन्तरापेक्षणं व्याप्तम् । तस्माद् यत्र हेत्वनन्तरापेक्षा तत्राध्रूवभावित्वम् । यत्राध्रुवभावित्वं तत्र ध्रुवभावित्वं कुतः

7.36

कार्यविरुद्धोपलब्धिरिति । कार्येण विरुद्धं कार्यविरुद्धम्, तस्योपलब्धिरिति शेषः । विनश्वरः । अपेक्षणादिति हेतुः । हेत्वन्तरापेक्षणं नाम अध्रुवभावित्वेन व्याप्तम् । यथा- वाससि रागस्य रञ्जनादिहेत्वन्तरापेक्षणमद्रुवभावित्वेन व्याप्तम् । ध्रुवभावित्वविरुद्धं चाध्रुवभावित्वम् । विनाशश्च विनश्चरस्वभावात्मा हेत्वन्तरापेक्ष इष्टः । ततो विरुद्धव्याप्तहेत्वन्तरापेक्षणदर्शनात् ध्रुवभावित्वनिषेधः ।
इह ध्रुवभावित्वं नित्यत्वम्, अध्रुवभावित्वं चानित्यत्वम् । नित्यत्वानित्यत्वयोश्च परस्परपरिहारेणावस्थानादेकत्र विरोधः । तथा च सति परस्परपरिहारवतोर्द्वयोर्यदैकं दृश्यते तत्र द्वितीयस्य तादात्म्यनिषेधः कार्यः । तादात्म्यनिषेधश्च दृश्यताभ्युपगतस्य सम्भवति । यत एवं तादात्म्यनिषेधः क्रियते- यदययं दृश्यमानो नित्यो भवेत्, नित्यरूपो दृश्येतः, न च नित्यरूपो दृश्यते, तस्मान्न नित्यः । एवं च प्रतिषेधस्य नित्यत्वस्य दृश्यमानात्मकत्वमभ्युपगम्य प्रतिषेदह्ः कृतो भवति । वस्तुनो ऽप्यदृश्यस्य पिशाचादेर्यदि दृश्यघटात्मकत्वनिषेधः क्रियते, दृश्यात्मकत्वमभ्युपगम्य कर्तव्यः । यदययं घटो दृश्यमानः पिशाचात्मा भवेत् पिशाचो दृष्टो भवेत्, न च दृष्टः, तस्मान्न पिशाच इति । दृश्यात्मत्वाभ्युपगमपूर्वको दृश्यमाने घटादौ वस्तुनि वस्तुनो ऽवस्तुनो वा दृश्यस्यादृश्यस्य च तादात्म्यप्रतिषेधः । तथा च सति यथा घटस्य दृश्यत्वमभ्युपगम्य प्रतिषेधो दृश्यानुपलम्भादेव, तद्वत् सरव्स्य परस्परपरिहारवतो ऽन्यत्र दृश्यमाने निषेधो दृश्यानुपलम्भदेव । तथा चास्यैवञ्जातीयकस्य प्रयोगस्य स्वभावानुपलब्धावन्तर्भावः

7.37

प्रतिषेध्यस्य यत् कार्य तस्य यद्विरुद्धं तस्योपलब्धेरुदाहरणम्- यथेति ।
38 व्यापकविरुद्धोपलब्धिर्यथा- नात्र तुषारस्पर्शो वह्नरिति ॥
39 कारणानुपलब्धिर्यथा- नात्र धूमो ऽग्न्यभावादिति ॥
दृष्टान्तमाह- यथा नेहाप्रतिबद्धसामर्थ्यानि शीतकारणानि सत्यग्नेरिति । इहेति धर्मी । अग्नेरिति हेतुरुक्तः । नाप्रतिवद्धसामर्थ्यानि शीतकारणानि सन्तीति । साध्यधर्म उक्तः ।
अत्र शीतकारणानां कार्य शीतम् । शीतं चाग्निना विरुद्धम् । यत्राग्निस्तत्र कुतः शीतप्रवेशः । यत्र शीतस्पर्शस्तत्राप्रतिबद्धसामर्थ्यानि शीतकारणानि च कथमपि न । यदि स्युस्तादृशानि, तर्हि अवश्यं शीतस्पर्शो ऽपि स्यात्

7.38

व्यापकविरुद्धोपलब्धिरिति । व्यापकेन विरुद्धं व्यापकविरुद्धम्, तस्योपलब्धिरित्यर्थः । दृष्टान्तमाह- यथा नात्र तुषारस्पर्शो ऽग्नेरिति । अत्रेति । अनेन धर्मी उक्तः । अग्नेरिति । अनेन हेतुरुक्तः । न तुषारस्पर्श इति । अनेन साध्यधर्म उक्तः । तुषारस्पर्शः= हिमस्पर्शः । तस्य व्यापकः शीतस्पर्श, तद्विरुद्धो ऽग्निः । तस्माद् यत्राग्निस्तत्र शीतस्पर्शः कुतः । यत्रा च शीतस्पर्शस्तत्र तुषारस्पर्शो ऽपि कथमपि न

7.37

कारणानुपलब्धिरिति । कारणस्यानुपलब्धिः कारणानुपलब्धिरिति विग्रहः । इहेति धर्मी । अप्रतिबद्धं सामर्थ्यंयेषां शीतकारणानां शीतजननं प्रति, तानि न सन्ति- इति साध्यम् । वह्नरिति हेतुः ।
यत्र शीतकारणानि अदृश्यानि, शीतस्पर्शो ऽप्यदृश्यः, तत्रायं हेतुः प्रयोक्तव्यः । दृश्यत्वे तु शीतस्पर्शस्य तत्कारणानां वा कार्यानुपलब्धिः, दृश्यानुपलब्धर्वा गमिका । तस्मादेषाप्यभावसाधनी । ततो यस्मिन्नुद्देशे सदपि शीतकारणमदृश्यं शीतस्पर्शश्च दूरस्थत्वात्, प्रतिपत्तु र्वह्निर्भास्वरवर्णत्वाद् दूरादपि दृश्य तत्रायं प्रयोग इति

7.38

प्रतिषेध्यस्य यद् व्यापकं तेन यद् विरुद्धं तस्योपलब्धिरुदाहतव्या यथेति । अत्रेति धर्मी । तुषारस्पर्शो नेति साध्यम् । वह्नरिति हेतुः ।
यत्र व्याप्यस्तषारस्पर्शो व्यापकश्च शीतस्पर्शो न दृश्यः, तत्रायं हेतुः । तयोदृश्यत्वे स्वभावस्य व्यापकस्य चानुपलब्धिर्यतः प्रयोक्तव्या । तथा च सत्यभावसाधनीयम् । दूरवर्तिनश्च प्रतिपत्तुस्तुषारस्पर्शः शीतस्पर्शविशेषः । शीतमात्रं च परोक्षम् । वह्निस्तु रूपविशेषाद् दूरस्थो ऽपि प्रत्यक्षः । ततो वह्नः शीतमात्राभावः । ततः शीतविशेषतुषारस्पर्शाभावनिश्चयः । शीतविशेषस्य शीतसामान्येन व्याप्तत्वादिति विशिष्टविषये ऽस्याः प्रयोगः

7.39

प्रतिषेध्यस्य यत् कारणं तस्यानुपलब्धेरुदाहरणम्- यथेति । अत्रेति
40 कारणविरुद्धोपलब्धिर्यथा- नास्य रोमहर्षादिविशेषः, सन्निहितदहनविशेषात्वादिति ॥
दृष्टान्तमाह- यथा नात्र धूमो ऽग्न्यभावादिति । अत्रेति, अनेन धर्मी उक्तः । अग्न्यभावादित्यनेन च निर्दुष्टो हेतुः कीर्तितः । न धूम इति । अनेन साध्यधर्म उक्तः । इह चाग्नेः कार्य धूम इति । यत्राग्न्यभावस्तत्र धूमो ऽपि कथमपि न

7.39

कारणविरुद्धोपलब्धिरिति । कारणेन विरुद्धं कारणविरुद्धम्, तस्योपलब्धिरित्यर्थः । दृष्टान्तमाह- यथा नास्य रोमहर्षादिविशेषा इति । अस्यति । अनेन धर्मी उक्तः । न रोमहर्षादिविशेष इत् । अनेन साध्यधर्म उक्तः । रोमहर्षास्तु रोम्णामुद्भदेः । स आदिर्येषां ते रोमहर्षादयाः । आदिशब्देन दन्तसङ्घर्षण- शरीरकम्पादीनां परिग्रहः । ते च रोमहर्षादय एव विशेषा इति रोमहर्षादिविशेषाः । भय- प्रीत्यादिभिरपि रोमहर्षादिर्जायते । तस्य व्यवच्चेदार्थ विशेष इत्युक्तम् । इह च शीतवायुपीडितस्य ये रोमहर्षास्ते एव बोध्याः ।
सन्निहितदहनविशेषत्वादिति । अत्र दहनविशेषस्त्वग्निविशेषः । सन्निहित इति । समीपवर्ती । सन्निहितो दहनविशेषो यस्य स सन्निहितदहनविशेषः, तस्य भावस्तत्त्वम्, तस्मात् सन्निहितदहनविशेषत्वात् । यादृशो ऽग्निविशेषः शीतधर्मी । न धूम इति साध्यम् । वह्नयभावादिति हेतुः । यत्र कार्य सदपि अदृश्यं भवति, तत्रायं प्रयोगः । दृश्ये तु कार्ये दृश्यानुपलब्धिर्गमिका । ततो ऽयमप्यभावसाधनः । निष्कम्पायतसलिलपूरिते ह्नदे हेमन्तोचितबाष्पोद्गमे विरले सन्ध्यातमसि सति सन्नपि अत्त्र धूमो न दृश्यत इति कारणानुपलब्ध्या प्रतिषेध्यते । वह्निस्तु यदि तस्याम्भसः उपरि ष्लवमानो भवेत् प्रज्वलितः, रूपविशेषादेवोपलब्धो भवेत् । अज्वलितस्तु इन्धनमध्यनिविष्टो भवेत् । तत्रापि दहनाधिकरणनिबन्धनं प्रत्यक्षमिति स्वरूपेण, आधाररूपेण वा दृश्य एव वह्निरिति तत्रास्य प्रयोग इति

7.40

प्रतिषेध्यस्य यत् कारणं तस्य यद् विरुद्धं तस्योपलब्धेरुदाहरणम्- यथेति । अस्येति धर्मी । रोम्णां हर्ष उद्भदः, स आदिर्येषां दन्तवीणादीनां शीतकृतानाम् ते विशिष्यन्ते तदन्येभ्यो भयश्रद्धादिकृतेभ्य इति रोमहर्षादिविशषाः । ते न सन्तीति साध्यम् । दहन एव विशिष्यते तदन्यस्माद् दहनाच्चीतनिवर्तनसामर्थ्यनेति दहनविशषः । कश्चिद् दहनह् सन्नपि न शीतनिवर्तनक्षमः, यथा प्रदीपः । तादृशनिवृतये विशेषग्रहणम् । सन्निहितो दहनविशेषो यस्य स तथोक्तः तस्य भावस्तस्मादिति हेतुः । यत्र शीतस्पर्शः सन्नप्यदृश्यः, रोम-
41 कारणविरुद्धकार्योपलब्धिर्यथा- न रोमहर्षादिविशेषयुक्तपुरुषवा यं प्रदेशः धूमादिति ॥
निराकरणसमर्थस्तादृशस्य सिद्धयर्थ विशेष इत्युक्तम् । तथाहि- अत्र रोमहर्षादि विशेषस्य हेतुः शीतस्पर्शः, तद्विरुद्धो ऽनिः । अग्नितापः शीतनिवारकः । शीतविवृतौ रोमहर्षादिविशेषाः कथमपि न स्युः

7.41

कारणविउर्द्धकार्योपलब्धिरिति । कारणेन विरुद्धं कारणविरुद्धम्, तस्य कार्य कारणविरुद्धकार्यम्, तस्योपलब्धिः । कारणविरुद्धकार्योपलब्धिः । दृष्टान्तमाह- यथा न रोमहर्षादिविशेषयुक्तपुरुषवानयं प्रदेशो धूमादिति । अयं प्रदेश इत्यनेन धर्मी उक्तः । धूमादित्यनेन हेतुरुक्तः । न रोमहर्षादिविशेषयुक्तपुरुषवानित्यनेन साध्यधर्म उक्तः ।
रोमहर्षादिविशेषेण युक्तो रोमहर्षादिविशेषयुक्तः । रोमहर्षादिविशेषयुक्तश्चासौ पुरुषश्चेति रोमहर्षादिविशेषयुक्तपुरुषाः, स विदयते यस्मिन् प्रदेशे स रोम हर्षादिविशेषयुक्तपुरुषवान् ।
इह रोमहर्षादिविशेषस्य कारणं शीतस्पर्शः । तद्विरुद्धो ऽग्निः । अग्निकार्य धूमः ।
हर्षादिविशेषाश्चादृश्याःव् तत्रायं प्रयोगः । रोमहर्षादिविशेषस्य दृश्यत्वे दृश्यानुपल्ब्धिः प्रयोक्तव्या । शीतस्पर्शस्य दृश्यत्वे कारणानुपलब्धिः । तस्माद्भवसाधनो ऽयम् । रूपविशेषाद्धिदूराद् दहनं पश्यति । शीतस्पर्शस्त्वदृश्यो रोमर्षादिविशेषाश्च । तेषां कारणविरुद्धोपलब्ध्याभावं प्रतिपद्यत इति तत्रास्य प्रयोग इति ॥ ।40 ॥
प्रतिषेध्यस्य यत् कारणं तस्य यद् विरुद्धं तस्य यत् कार्यं तस्योपलब्धिरुदाहर्तव्या- यथेति । अयं प्रदेश इति धर्मी । योगो युक्तम् । रोमहर्षादिविशेषाइयुक्तं रोमहर्षादिविशेषयुक्तम्, तस्य सम्बन्धी पुरुषो रोमहर्षादिविशेषयुक्तपुरुषः, तद्वान् न भवतीति साध्यम् । धूमादिति हेतुः ।
रोमहर्षादिविशेषस्य प्रत्यक्षत्वे दृश्यानुपलब्धिः । कारणस्य शीतस्पर्शस्य प्रत्यक्षत्वे कारणानुपलब्धिः । वहन्स्तु प्रत्यक्षत्वे कारणविरुद्धोपलब्धिः प्रयोक्तव्याः । त्रयाणामप्यदृस्यत्वे ऽयं प्रयोगः । तस्मादभावसाधनो ऽयम् । तत्र दूरस्थस्य प्रतिपत्तुर्दहनशीतस्पर्शरोमहर्षादिविशेषा अप्रत्यक्षाः सन्तो ऽपि, धूमस्तु प्रत्यक्षो यत्र, तत्रैतत् प्रमाणम् । धूमस्तु यदुशस्तद्देशे स्थितं शीतं निवर्तयितुं समर्थस्य वह्नरनुमापकः स इह ग्राह्यः ।
धूममात्रेण तु वह्निमात्रे ऽनुमिते ऽपि न शीतस्पर्शनिवृतिः, नापि रोम
42 इमे सर्वे कार्यानुपलब्ध्यादयो दशानुपलब्धिप्रयोगाः स्वभावानुपलब्धो संग्रहनुपयान्तीति ॥
43 पारम्पयेणार्थान्तरविधिप्रतिषेधाभ्यां प्रयोगभेदे ऽपि ॥
तस्माद् यत्र धूमस्तत्राग्निः । यत्राग्निस्तत्र न शीतस्पर्शः । यत्र न शीतस्पर्शस्तत्र शीतकार्याणि रोमहर्षादिविशेषाः कथं स्युः

7.42

पूर्वमुपलब्धिक्षणप्राप्तस्यानुपलब्धिरेकः प्रतिषेधहेतुरुक्तः, अथ कथं कार्यानुपलब्ध्यादिभिः स्वभावविरुद्धोपलब्ध्यादिभिश्च प्रतिषेध इति चेत्? तत्राह-
इमे इति । अव्यवहितोक्ताः । सर्वे इति निखिला दशसङ्खयापरिच्चिन्नाः । अनुपलब्धिप्रयोगाश्च स्वभावानुपलब्धावन्तभवन्ति

7.41

स्वभावानुपलब्धिप्रयोगश्चान्यः, कार्यानुपलब्ध्यादिरप्यन्यः । तथा हि- कार्यानुपलब्ध्यादिषु अर्थान्तरप्रतिषधः, स्वभावविरुद्धोपलब्ध्यदिषु चार्थान्तरविधिः । कथं तर्हि तस्यामन्तर्भव इति चेत्? तत्राह- अर्थान्तरेत्यादि ।
हर्षादिविशेषनिवृत्तिरवसातुं शक्येति न धूममात्रं हेतुरिति द्रष्टव्यमिति

7.42

यदि एकः प्रतिषेधहेतुरुक्तः, कथमेकदशाभावहेतवः? इत्याह- इमे सर्वे इत्यादि । इमे अनुपल्ब्धिप्रयोगाः । इदमननरप्रक्रान्ता निर्दिष्टाः । तत्र कियतामपि ग्रहणे प्रसक्तः? आह- कार्यानुपलब्ध्यादय इति । कार्यानुपलब्ध्यदीनामै त्रयाणां चतुर्णा वा गरहणे प्रसक्तः? आह- दशेति । तत्र दशानामप्युदाहरणमात्राणां ग्रहणप्रसङ्ग सत्याह- सर्व इति ।
एतदुक्तं भवति- अप्रयुक्ता अपि प्रयुक्तोदाहरणसदशाश्च । सर्व एवेति । दशग्रहणमन्तरेन सर्वग्रहणे क्रियमाणे प्रयुक्तोदाहरणकात्स्न्र्य रम्येत । दशग्रहणात् तु उदाहरणकात्स्न्र्ये ऽवगते सर्वग्रहनामतिरिच्यमानमुदाहृतसदृशकात्स्न्र्यावगतये जायते ।
ते स्वभावानुपलब्धौ संग्रहं तादात्म्येन गच्चन्ति । स्वभावानुपलब्धिस्वभावा इत्यर्थः

7.43

ननु च स्वभावानुपलब्धिप्रयोगाद् भिद्यन्ते कार्यानुपल्ब्ध्यादयः, तत् कथमन्तर्भवन्ति? इत्याह- पारम्पर्येणेति । प्रयोगभेदे ऽपीति । प्रयोगस्य शब्दव्यापारस्य भेदे ऽप्यन्तर्भवन्ति । कथं प्रयोगभेदः? इत्याह- अर्थान्तरविधीति । प्रतिषेध्यादर्थादर्थान्तरस्य विधिरुपलब्धिः स्वभावविरुद्धादयुपलब्धिप्रयोगेषु । प्रतिषेधः कार्यानुपलब्ध्यादिषु प्रयोगेषु । अर्थान्तरविधिना, अर्थान्तरप्रतिषेधेन
44 प्रयोगदर्शनाभ्यासात् स्वयमप्येवं व्यवच्चेदप्रतीतिर्भवतीति स्वार्थे ऽप्यनुमाने ऽस्या प्रयोगनिर्देशः ॥
यह्यपर्थान्तरविधिप्रतिषेधाभ्या प्रयोगभेद एव, तथापि परम्परया तस्या मन्तर्भावो ऽभिप्रेतः, न तु वस्तुतः । तथाहि क्वचित् कार्यानुपल्ब्धी धूमाभावेन धूमहेतोरप्रतिबद्धसामर्थ्यस्य अभावे सिद्धे अभावप्रतीतिर्भवति । यत्र यत्र धूमाभावस्तत्र तत्रोपलब्धिलक्षणाप्राप्तस्यैव तद्धेतोरनुपलब्धिरिति स्वभावानुपलब्धावन्तर्भवति ।
प्रतिपत्तु णां चिन्ताभेदाद् भेदः- कस्यचित् कार्याभावद्वारेण हेत्वभावप्रतीतिः, कस्यचित्तु स्वभावद्वारेण । तथैव व्यापकानुपलब्धेः कारणानुपलब्धेश्च परम्परया अन्तर्भावो ऽवगन्तव्यः । स्वभावविरुद्धोपलब्धी चाग्निना शोताभावप्रतीतिः । यत्राग्निस्तत्रोपलब्धिलक्षणप्राप्तस्य शीतस्पर्शस्यैवानुपलब्धिरिति स्वभावानुपलब्धावन्तर्भावः ।
विरुद्धव्याप्तोपलब्धावपि हेत्वन्तरापेक्षया सर्ववर्णेषु प्रकाशस्वभावो ऽपि स्वभावानुपलब्धिवदेव । तथा कारणविरुद्धकार्योपलब्धावपि धूमेनाग्निसिद्धिः । शीतनिवृतौ च तत्र तद्विपरीतस्य रोमहर्षादिविशेषयुक्तपुरुषस्याभावसिद्धिः । सा च तत्रोपलब्धिलक्षणप्राप्तता{द्सि}हपुरुषस्यानुपलब्धिरिति स्वभावानुपलब्धावेवान्तर्भवति ।

7.43

ये च कार्यकारणद्वयव्याप्त्यभेदैर्भेदाभवेनोपचारात् स्वभावानुपलब्धो अन्तर्भवन्ति इत्याहुः, तेषां तदुपचारेणन्तर्भावः, परमार्थतस्तु न प्रतिज्ञैकदेशस्यापि हेतुत्वे सति परम्परार्थो ऽपि न रम्यः ।
स्वभावविरुद्धोपलब्ध्यादिषु च विजातीयप्रमाणेन निवृत्याभिधानमिति किं केन समानं स्यात् । स्वार्थानुमाने प्रयोगे न सम्भवति । तत्रानुपलब्धिप्रयोगप्रकारविशेषा एकादश इति कुत इति चेत्? तस्मादाह- प्रयोगदर्शनेत्यादि ।
च प्रयोगाः भिद्यन्ते । यदि प्रयोगान्तरेष्वर्थान्तरविधिप्रतिषेधौ, कथं तर्हि अन्तर्भवन्ति? इत्याह- पारम्पर्येणेति । प्रणालिकयेत्यर्थः ।
एतदुक्तं भवति- न साक्षादेते प्रयोगा दृश्यानुपलब्धिमभिदधति, दृश्यानुपलभ्द्यभिचारिणस्त्वर्थान्तरस्य विधि निषेधं वाभिदधति । ततः प्रणालिकयामीषां स्वभावानुपलब्धौ संग्रहः, न साक्षादिति

7.44

यदि प्रयोगभेदादेष भेदः, पराथानुमाने वक्तव्य एषः, शब्दभेदो हि प्रयोगभेदः, शब्दश्च परार्थानुमानम्? इत्याशङ्कयाह- प्रयोगदर्शनेत्यादि । प्रयोगाणां शास्त्रपरिपठिटानां दर्शनम्= उपलम्भः, तस्य अभ्यासः= पुनः पुनरावर्तनम्, तस्मान्निमित्तात् ।
स्वयमपीति । प्रतिपत्तुरात्मनो ऽपि । एवम् इत्यनन्तरोक्तेन कमेण । व्यवच्चेदस्य प्रतीतिर्भवतीति इतिशब्दस्तस्मादर्थे ।
45 सर्वत्र चास्यामभवव्यवह्रसाधन्यामनुपलब्धौ येषां स्वभावविरुद्धादीनामुपलब्ध्या कारणादीनामनुपलब्ध्या च प्रतिषेध उक्तः, तेषामुपलब्धिलक्षणप्राप्तानामेवो पलब्धिरनुपलब्धिश्च वेदितव्या ॥
प्रयोगाणां दर्शनम्= प्रतीतिः । तस्याः पौनःपुन्येनावर्तनम्= अभ्यासः । तस्मात् प्रयोगेष्वभ्यासातिशयात् स्वयमपि यदा कस्यचित् व्यवच्चेदप्रतीतिर्भवति, तदा प्रयोगरूपेणैव प्रतीतिर्भवति । अत एव स्वार्थानुमाने ऽपि अनुपलब्धिप्रयोगस्य विशेषनिर्देशः । व्यवच्चेदप्रतीतिः प्रतिषेधप्रत्यायनमिति शेषः । यद्वा- व्यवच्चेदप्रतीतिः विशेषप्रतिपत्तिरिति शेषः

7.44

स्वभावानुपलब्धेर्विशेष उक्तः । कार्यानुपलब्ध्यादौ तद्भावात् कथमव्यभिचारित्वमिति चेत्? तत्राह- अभावेति । अभावव्यवहारसाधन्यो बहुप्रकारा या अनुपलब्धयो ऽभिहिताः, ताः सर्वास्तद्विशेता एव द्रष्टव्याः । यदि कारणादेरुपलब्धि-
तदयमर्थः- यस्मात् स्वयमप्येवमनेनोपायेन प्रतिपद्यते, प्रयोगाभ्यासात्ः तस्मात् स्वप्रतिपत्तावप्युपयुज्यमानस्यास्य प्रयोगभेदस्य स्वार्थानुमाने निर्देशः । यत् पुनः परप्रतिपत्तावेवोयुज्यते, तत् परार्थानुमान एव वक्तव्यमिति

7.45

ननु च कार्यानुपलब्ध्यादिषु कारणादीनामदृश्यानामेव निषेधः, दृश्यनिषेधे स्वभावानुपलब्धिप्रयोगप्रसङ्गात् तथा च सति न तेषां दृश्यानुपलब्धेनिषेधः, तत् कथमेषां प्रयोगाणां दृश्यानुपलब्धावन्तर्भावः? इत्याह सर्वत्र चेत्यादि । अभवश्च तद्वयवहारश्च अभावव्यवहारौ । स्वभावानुपलब्धावभावव्यवहारः साध्यः । शिष्टेष्वभावः । तयोः साधन्यामनुपलब्धौ । सर्वत्र चेति । च शब्दो हिशब्दस्यार्थे । यस्मात् सर्वत्रानुपलब्धौ येषां प्रतिषेध उक्तस्तेषामुपलब्धिलक्षणप्राप्तानां दृश्यानामेव प्रतिषेधः । तस्माद् दृश्यानुपलब्धावन्तर्भवः ।
कुत एतद् दृश्यानामेव? इत्याह- स्वभावेत्यादि । अत्रापि चकारो हेत्वर्थः । यस्मात् स्वभावविरुद्ध आदिर्यषां तेसामुपलब्ध्या, कारणमादिर्येषां तेषामनुपलब्ध्या प्रतिषेध उक्तः, तस्माद् दृश्यानामेव प्रतिषेध इत्यर्थः ।
यदि नाम स्वभावविरुद्धाद्युपलब्ध्या कारणाद्यनुपलब्ध्या च प्रतिषेध उक्तः, तथापि कथं दृश्यानामेव प्रतिषेधः? इत्याह- उपलब्धिरित्यादि । अत्रापि चकारो हेत्वर्थः । यस्माद् ये विरोधिनः व्याप्य- व्यापकभूताः कार्यकारणभूताश्च ज्ञाताः, तेषामवश्यमेवोपलब्धिः, उपलब्धिपूर्वा चानुपलब्धि-
46 अन्येषां विरोध कार्य कारणभावाभावासिद्धेः ॥
लक्षणप्राप्तस्यानुपलब्धिः स्यात्, तदा कार्यादेः प्रतिषेधसिद्धिः सम्भवति, नान्यत्र

7.45

स्वभावविरुद्धादिरपि यदि उपलब्धिलक्षणप्राप्त एव स्यात्, तदा विपरीतप्रतिषेधे समर्थः, नान्यथा । कथमिति चेत्? तत्राह- अन्येषामिति ।
विरोधश्च कार्यकारणभावश्च अभावश्च विरोधकार्यकारणभावाभावाः, तेषाममसिद्धिरित्युक्तम् । तदेवं ये नोपलब्धिलक्षणप्राप्तास्तेषां विरोधीऽसिद्धः, विरोधाभावो ऽप्यसिद्धः, कार्यकारणभावो ऽसिद्धः, कार्यकारणभावाभावो ऽप्यसिद्धः- इत्येतत् प्रदर्शितं भवति ।
वेदितव्या= ज्ञातव्या । उपलब्ध्यनुपलब्धी च द्वेयेषां स्तः, ते दृश्या एव । तस्मात् स्वभाप्रविरुद्धाद्यु पलब्ध्या कारणाद्यनुपलब्ध्या चोपलब्ध्यनुपलब्धिमतां विरुद्धादीनां प्रतिषेधः क्रियमाणो दृश्यानामेव कृतो द्रष्टव्यः ।
बहुषु चोद्येषु प्रक्रान्तेषु परिहारसमुच्चयार्थश्चकारो हेत्वर्थो भवति । यस्मादिदं चेदं च समाधानमस्ति, तस्माद् तत्तच्चोद्यमयुक्तमिति चकारार्थः

7.46

कस्मात् पुनः प्रतिषेध्यानां विरुद्धादीनामुपलब्ध्यनुपलब्धी वेदितव्ये? इत्याह- अन्येषामिति । उपलब्ध्यनुपलब्धिमद्भयो ऽन्ये ऽनुपलब्धा एव ये तेषां विरोधश्च कार्यकारणभावश्च केनचित् सह अभावश्च व्याप्यस्य व्यापकस्याभावे न सिध्यति, यस्मात् ततो विरोधकार्यकारणभावाभावासिद्धे कारणाद् उपलब्ध्यनुपलब्धिमन्त एव विरुद्धादयो निषेध्याः । उभयवत्नश्च दृश्या एव । तस्माद् दृश्यानामेव प्रतिषेधः ।
तदयमर्थः- विरोधश्च कार्यकारणभावश्च व्यापकाभावे व्याप्याभावश्च दृश्यानुपलब्धेरेवेति । एकसन्निधावपराभावप्रतीतो ज्ञातो विरोधः । कारणाभिमताभावे च कार्याभिमताभावप्रत्यये ऽवसितः कार्यकारणभावः । व्यापकाभिमताभावे च व्याप्याभिमताभावे निश्चिते निश्चितो व्याप्यव्यापकभावः । तत्र व्याप्यव्यापकभावप्रतीतेनिमित्तमभावः प्रतिपत्तव्यः । इह गृहीते वृक्षाभावे हि शिशपात्वाभावप्रतीतौ प्रतीतो व्याप्यव्यापकभावः । अभावप्रतिपत्तिश्च सर्वत्र दृश्यानुपलब्धेरेव । तस्माद्विरोधम्, कार्यकारणभावम्, व्याप्यव्यापकभावं च स्मरता विरोध कार्यकाअर्णभाव व्याप्यव्यापकभावविषयाभावप्रतिपत्तिनिबन्धनं दृश्यानुपलब्धिः स्मर्तव्या । दृश्यानुपलब्ध्यस्मरणे विरोधादीना
47 विप्रकृष्टविषया पुनरनुपलब्धिः प्रत्यक्षानुमाननिवृत्तिलक्षणा संशयहेतुः ॥
तथाहि- उपलब्धिलक्षणप्राप्तस्य नियतानुषङ्गीणो ये दृष्टास्तत्सन्निधाने कस्यचित् तिरोभावे तेन सह विरोधस्य प्रत्यायनं शक्यम् । यच्च सन्निहितं तदपि तथैव विरुद्धम् । तदुपलब्धौ तु विरोधाभव इति निश्चीयते ।
एवमुपलब्धिलक्षणप्राप्तस्य यस्य सत्त्वे उपलब्धिलक्षणप्राप्तमदृष्टपूर्व यदुपलभ्यते, तदभावे नोपलभ्यते । तत्तस्मादुत्पदयते इति तद्द्वयोः कार्यकारणभावो निश्चीयते । यदभावे ऽपि यदुपलब्धिः, तद्द्वयोः कार्यकारणभावाभावो निश्चीयते । एवमपि अभावव्यवहारसिद्धिरुपलब्धिलक्षणप्राप्तस्यानुपलब्धिसमाश्रिता इत्युक्तं भवति

7.47

ननु तदन्येनापि क्वचित् सिद्धिरिति चेत्? उच्यते- विप्रकृष्टेत्यादि । विप्रकृष्टी यो विषयः प्रत्यक्षानुमाननिवृत्तिस्वभावः स संशयस्य हेतुः, न स्वभावव्यवहारहेतुः

7.46

मस्मरणम् । तथा च सति न विरुद्धादिविधिप्रतिषेधाभ्यामितराभावप्रतीतिः स्यात् । विरोधादिग्रहणकालभाविन्यां च दृश्यानुपलब्धाववश्यस्मर्तव्यार्या तत एवाभावप्रतीतिः ।
तत्र यद्यपि सम्प्रतितनी नास्ति दृश्यानुपलब्धिः, विरोधादिग्रहणकाले त्वासीत् । या दृश्यानुपलब्धिः सम्प्रति स्मर्यमाणा सैवाभावप्रतिपत्तिनिबन्धनम् । ततः सम्प्रति नास्ति दृश्यानुपलब्धिप्रयोगाद् भिद्यन्ते कार्यानुपलब्ध्यादिप्रयोगाः ।
विरुद्धविधिना कारणादिनिषेधेन च यतो दृश्यानुपलब्धिराक्षिप्ता, ततो दृश्यानुपलब्धेरेव कालान्तरवृत्तायाः स्मृतिविषयभूताया अभावप्रतिपत्तिः । अमीषां च प्रयोगाणां दृश्यानुपलब्धावन्तर्भावः । तदनेन सर्वेण दृश्यानुपलब्धावन्तर्भावो दशानाममनुपलब्धिप्रयोगाणां पारम्पर्येण दर्शित इत्यवसेयम्

7.47

उक्ता दृश्यानुपलब्धिरभावे, अभावव्यवहारसाध्ये च प्रमाणम्, अदृश्यानुपलब्धिस्तु किंस्वभावा? किंव्यापारा? इत्याह- विप्रकृष्टेत्यादि । विप्रकृष्टस्त्रिभिर्देशकालस्वभवविप्रकर्षैर्यस्या विषयः स विप्रकृष्टविषयेति संशयहेतुः । किस्वभावा सा? इत्याह- प्रत्यक्षानुमाननिवृत्तिर्लक्षाणं स्वभावो यस्याः सा प्रत्यक्षानुमाननिवृत्तिलक्षाणा । न ज्ञानज्ञेयस्वभावेति यावत्

7.48

48 प्रमाणनिवृत्तावपि अर्थाभावसिद्धेरिति ॥
तदेव कस्मात्? इत्याह- प्रमानेत्यादि ।
प्रमाणनिवृत्तिलक्षणा विप्रकृष्टविषयानुपलब्धिः, प्रमाननिवृत्तिरपि अर्थाभावं न साध्यति । प्रमाणं तु अर्थकार्यमिति प्रमाणनिवृत्त्या कारणमात्रनिवृत्तिनं सिध्यतीति

7.48

इति न्यायविन्दुविस्तरटीकायां शिष्यहितायां द्वितीयः परिच्चेदः ॥
ननु च प्रमाणात् प्रमेयसत्ताव्यवस्था, ततः प्रमाणाभावात् प्रमेयाभावप्रतिपत्तिर्युक्ता? इत्याह- प्रमाणनिवृत्तावपीत्यादि । कारणं व्यापकं च निवर्तमानं कार्य व्याप्यं च निवर्तयेत् । न च प्रमाणं प्रमेयस्य करणम्, नापि व्यापकम् । अतः प्रमाणयोनिवृत्तवपि अर्थस्य प्रमेयस्य निवृत्तिनसिध्यति । ततो ऽसिद्धः संशयहेतुरदृश्यानुपलब्धिः, न निश्चयहेतुः । यत् पुनह् प्रमाणसत्तया प्रमेयसत्ता सिध्यति, तद्युक्तम् । प्रमेयकार्य हि प्रमाणम् । न च कारणमन्तरेण कार्यमस्ति । न तु कारणान्यवश्यं कार्यवन्ति भवन्ति । तस्मात् प्रमाणात् प्रमेयसत्ता व्यवस्थाप्या, न प्रमाणाभावात् प्रमेयाभावव्यवस्थेति

मूल पाठ: Nyāyabinduprakaraṇa with Vinītadeva's Nyāyabinduvistaraṭīkā (Śiṣyahita) and Dharmottara's Nyāyabinduṭīkā · Edition: Swami Dwarikadas Shastri: Nyāyabindu Prakaraṇa of Ācārya Dharmakīrti, with Commentary of Ārya Vinītadeva and Dharmottara. Varanasi 1994 (Bauddha Bhārati Series, 18). · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc