भाषा

ENहिગુ
ग्रंथ पाठ

न्यायबिन्दुप्रकरण (टीका सहित) · अध्याय 6

6.1

आचार्यधर्मोत्तरविरचितायां न्यायबिन्दुटीकायां प्रथमः प्रत्यक्षपरिच्छेदः समाप्तः ॥
दर्शयति । यावत् प्रत्यक्षं स्वविषये स्वात्मनि निश्चयं नित्पादयति, न तावत् प्रमाणं भवति आत्मव्यापारानिर्वर्तनात् । ततश्चाध्यवसायं कुर्वदेव प्रमाणमिति निश्चयमप्र्क्षते । ननु यदि निश्चयं विना प्रमाणमेव न भवति प्रत्यक्षं विकल्पसहितम्, तर्हि प्रत्यक्षं प्रमाणं स्यात्, न केवलं तदन्वयव्यतिरेकादिति मन्यमानश्चोदयति- यदयेवमित्यादिना । नैतदेवम्..............
द्वितीयः स्वार्थानुमानपरिच्छेदः
1 अनुमानं द्विधा ॥
2 स्वार्थ परार्थ च ॥
3 तत्र स्वार्थ त्रिरूपात् लिङ्गाद् यदनुमये ज्ञानं तदनुमानम् ॥
प्रत्यक्षानुमानभेदेन सम्यग्ज्ञानं द्विविधमुक्तम् । तत्र प्रत्यक्षं सप्रपञ्चं कृतव्याख्यानम् । अनुमानकथनानुज्ञार्थमाह- अनुमानं द्विधेति । अनुमानस्य प्रकारौ द्वौ वेदितव्यौ । ज्ञानाभिधानात्मकयोः स्वपरार्थानुमानयोः सामान्यलक्षणं किमपि नास्ति, कथं तावत् पूर्वं न लक्षणमभिदीयेत? विभागेन च प्रतिनियतं लक्षणं सुखेन वक्तु शक्यम् । तस्मात् पूर्वं विभाग उक्तः

6.2

स्वार्थमिति । स्वार्थ परार्तह् चेति विशेषेण द्वैविध्यमेवोपदर्श्यते । अत्र अर्थ इति प्रयोहनम् । स्वप्रयोजनं परप्रयोजनं चेति शेषः । येनात्मनः प्रतीतिस्तत् स्वार्थम्, येन चापरस्य प्रतिपत्तिस्तत् परार्थमवगन्तव्यमिति

मूल पाठ: Nyāyabinduprakaraṇa with Vinītadeva's Nyāyabinduvistaraṭīkā (Śiṣyahita) and Dharmottara's Nyāyabinduṭīkā · Edition: Swami Dwarikadas Shastri: Nyāyabindu Prakaraṇa of Ācārya Dharmakīrti, with Commentary of Ārya Vinītadeva and Dharmottara. Varanasi 1994 (Bauddha Bhārati Series, 18). · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc