भाषा

ENहिગુ
ग्रंथ पाठ

न्यायबिन्दुप्रकरण (टीका सहित) · अध्याय 5

5.2

किं पुनस्तद् द्वैविध्यम्? इत्याह- प्रत्यक्षमिति । प्रतिगतमाश्चितम् अक्षम् । " अत्याद्यः क्रान्ताद्यर्थे द्वितीयया" इति समासः । प्राप्तापन्नालङ्गतिसमासेषु परवल्लिङ्गप्रतिषेधात् अभिधेयवल्लिङ्गे सति सर्वलिङ्गः प्रत्यक्षशब्दः सिद्धः ।
ननु च सम्यग्ज्ञानस्य लक्षणे कथिते सति पश्चात् तद्भेदः प्रदर्शयितु युज्यते- इत्यम्भुतलक्षणं सम्यग्ज्ञानं द्विविधमिति, तत् किमित्यादावेव प्रदर्शितम्? इत्याह व्यक्तिभेदे चेत्यादि । एवं मन्यते- सत्यमेवमेव, किन्त्वत्र संख्याभेदे ऽकथिते सम्यग्ज्ञानस्य लक्षणमेव न शक्यते कथयितुम्, अतः प्रत्यक्षस्यान्यल्लक्षणं प्रतिनियतं शक्यते कथयितुमित्यतो लक्षणाङ्गमेवादौ संख्याभेदकथनमिति । ननु च प्रत्यक्षमनुमानं च इति निर्देशाद् द्विविधमिति लब्धम्, किमर्थ द्विविधग्रहणम्? उच्यते द्विविधमेव सम्यग्ज्ञानम् इत्यवधारणार्थम्, तेनैकत्रिचतुरा संख्या निरस्ता स्यात् ।
असति द्वित्वकथने प्रत्यक्षानुमाने तावत् सम्भवतिऽन्यान्यपि प्रमाणानि भविष्यन्तीति स्यादाशङ्का

5.3

प्रतिगतमक्षमित्यादिना गतिसमासं दर्शयति । अक्षमक्षं प्रति प्रत्यक्षमित्यव्ययीभावसमासः, कस्मान्न प्रदर्श्यते ऽयं समासः? यतो ऽव्ययोभावश्चेन्नपुसकलिंगता स्यात्
3 प्रत्यक्षम, अनुमानं चेति ॥
कोदृशं च द्वैविव्यम्? कथं न वा चतुर्विधं ज्ञानमिति? अतः विशेषेणोक्तम् प्रत्यक्षम् अनुमानं चेति ।
अक्षेषु आश्रितं प्रत्यक्षम् । निपातो ऽयं ज्ञानविषयस्य प्रत्यक्षकारकत्वं सूचयित । यथा- गमनेन गौरिति । तत्र गमनं गोत्वस्योपलक्षणम्, तस्माद् गोत्वाश्चयपिण्डो गोशब्दाभिवेय इत्युपार्श्यते । तथात्रापि इन्द्रियाश्रितत्वेन ज्ञानविषयस्य प्रत्यक्षकारकत्वसूचनात् प्रत्यक्षचतुष्ठयमेव प्रत्यक्षत्वेनाश्रीयते ।
मोयते ऽनेनेति मानम् । परिच्चेदकमिति शेषः । अनुशब्दं आनन्तर्यबोधकः । अप्श्चान्मानम् अनुमानम् । पक्षधर्मग्रनप्रतिबन्धस्मरणपूर्वकं प्रवर्तमानमिति शेषः ।
अक्षाश्रितत्वं च व्युत्पत्तिनिमित्तं शब्दस्य, न तु प्रवृत्तिनिमित्तम् । अनेन त्वक्षाश्रितत्वेनैकार्थसमवेतमर्थसाक्षात्कारित्वं लक्ष्यते । तदेव शब्दस्य प्रवृत्तिनिमित्तम् ततश्चयत्किञ्चिदर्शस्य साक्षात्कारि ज्ञानं तत् प्रत्यक्षमुच्यते ।
यदि त्वक्षाश्रितत्वमेव प्रवृत्तिनिमित्तं स्यात्, इन्द्रियविज्ञानमेव प्रत्यक्षमुच्येत, न मानसादि । यथा गच्चतोति गौः इति गमनक्रियायां व्युत्पादितो ऽपि गोशब्दो गमनक्रियोपलक्षितमेकार्थसमवेतं गोत्वंप्रवृत्तिनिमित्ती करोति । यथा च गच्चत्यगच्चति च गवि गोशब्दः सिद्धो भवति ।
मीयते ऽनेनेति मानम् । करणसाधनेन मान शब्देन सारूप्यलक्षणं प्रमाणमभिदीयते । लिङ्गग्रहणसम्बन्धस्य्मरणस्य पश्चात् मानम् अनुमानम् । गृहोते पक्षधर्म, स्मृते च साध्यसाधनसम्बन्धे ऽनुमानं प्रवर्तते इति पश्चात्कालभावि उच्यते ।
प्रत्यक्षस्य्, ततश्व प्रत्यक्षा बुद्धिः, प्रत्यक्षो घटैति न स्यात्ः इदमेव स्यात्प्रत्यक्षाज्ञानम्, प्रत्यक्षं कुण्डं चेति । गतिसमासे तु सर्वलिगता भवति । ननु च प्रतिगतमक्षमित्यस्यां व्युत्पत्तावक्षाश्रितस्यैविद्न्रियज्ञनस्य प्रत्यक्षशब्दवाच्यता स्यात्, न योनिज्ञानादः, तेषाभक्षानाश्रयात्? इत्याशङ्कयाह- अक्षाश्रितत्वं चेत्यादि । एकार्थसमवेतमित्येकस्मिन्निन्द्रियज्ञाने समवेतमक्षाश्रितत्वमर्थसाक्षात्कारित्वं च सम्बद्धमित्यथं ।
सारूप्यलक्षणमित्यनेनार्थसारूप्यलक्षितं ज्ञानमेवोच्यते, तन्न सारूप्यमात्रम्, अन्यथा विरूपाल्लिगादनुमेये ज्ञानमिति विरुद्धयेत । अपपि पश्चान्मानमनुमानमित्यव्ययीभावसमासे पूर्वच्चोदयमुद्भाव्य गतिसमास आश्रयितव्यः- अनुगतं मानमनुमानमिति । पश्चादित्यर्थकथनं कृतम्, न तस्मिन् वाक्ये समासः ।
प्रत्यक्षामनुमानं चेति विभक्तिभेदेन निर्विष्ठम् । अथदि विषयभेदो गम्यते । यथा तयोविभक्तिभेदः, तथा तयोर्विषयबेधो ऽपीति शेषः ।
च शब्दः समुच्चायार्थः । तेन प्रत्यक्सानुमानयोः समबलत्वसंग्रहः । यथा प्रत्यक्षामर्थेनोत्पन्नं सद् अभ्रान्तमिति प्रमाणं भवतिव् तथानुमानमपि तादात्म्यदुत्पत्तिभ्यामर्थप्रतिबन्धादभ्रान्तमिति तत् प्रमाणं भवति । एतेन यदुवत कैश्चित्- सर्वेषु प्रमाणेषु मुख्यं प्रत्यक्षम् इति तन्निरस्तम् ।
अभ्रान्तत्वमुभयोरपि समानमेव । प्रतिपादितं हि केनचित् प्रत्यक्षस्य मुख्यत्वम्

5.3

स्वरूपविप्रतिपत्तिनिराकरणार्थ तत्र प्रत्यक्षं कल्पनापोढमभ्रान्तमित्युक्तम् । तत्रेति शब्दः निर्धारणार्थः । सम्यग्ज्ञानस्य प्रत्यक्षमघोलक्षाणेन निर्धायते । प्रत्य्क्षमित्यनेन लक्ष्यमुक्तम् कल्पनापोढमभ्रान्तमित्यनेन लक्षणमुक्तम् । तेन कल्पनापोढमभ्रान्तं यद् भवति तदेव प्रत्यक्षं विदितव्यम् इत्यर्थ उक्तो भवति ।
चकारः प्रत्यक्षानुमानयोस्तुल्यबलत्वं समुच्चिनोति । यथार्थाविनाभावित्वादर्थ प्रापयत् प्रत्यक्षं प्रमाणम्, तद्वदर्थाविनाभावित्वाद अनुमानमपि परिच्चन्नमर्थ प्रापयत् प्रमाणमिति

5.3

तत्रेति सप्तम्यर्थे वर्तमानो निर्धारणे वर्तते । ततो ऽयं वाक्यार्थः- तत्र तयोः प्रत्यक्षानुमानयोरिति समुदायनिर्देशः । प्रत्यक्षमिति एकदेशनिर्देशः । चकारः प्रत्यक्षानुमानयोस्तुल्यवलत्वं समुच्चिनोतीत्यादिना यदुवतं शबरस्वामिप्रभृतिभिः- प्रत्यक्षं श्रेष्ठं नानुमानम्, तथा चोक्तं मीसांसाभास्ये- प्रत्यक्षे वलीयसि कथमनुमानम् इति तत् प्रयुक्तम् यतो द्वयोरपि स्वव्यापारे तुल्यबलत्बम् । अमुमेवार्थ दर्शयति- यथार्थाविनाभावीत्यादिना । अनेन विनीतदेव शान्तभद्रयोव्याख्या च दूषिता । ताभ्यामेवं व्याख्यातम्- प्रत्यक्षमनुमानं च इति भिन्नविभक्तिनिर्देशो ऽर्थाद् विषयभेदं दर्शयति । यथानयोव्रिभक्तिभिन्ना, एवं विषयो ऽपि भिन्नः इति, एतच्चायुक्तम् यस्माद् एकविभक्तिनिर्देशे क्रियमाणे चकारेण तुल्यबलत्वं न प्रदर्शितं स्यादिति

5.4

प्रत्य्क्षत्वजात्येति । प्रत्यक्षाणां बहुत्वात् तज्जात्या निर्यायते ।
प्रत्यक्षमनूद्भयेति लक्षयनिर्देशः । कल्पनापोढत्वमभ्रान्तत्वं च विधीयत इति लक्षणनिर्देश । अनेन लक्ष्यलक्षणभावं दर्शयता विनीतदेवव्याख्यानं संज्ञासंज्ञिसम्बन्धरूपं प्रत्युक्तम् । न हि संज्ञा यथार्थ सम्भवति । यथार्थकथनेन हि विप्रतिपत्तिनिराकृता स्यात् । यदयप्यन्वर्थसंज्ञया कल्पनापोढं यद्भ्रान्तं च तत्प्रत्यक्षमिति शक्यते यथार्थ कथयितुम्, तथापि न स्वरूपं प्रत्यक्षस्य कथितं स्यत्, यतो ऽन्यदपि प्रत्यक्षस्य स्वरूपमर्थ अवयवार्थस्तु- कल्पनाभ्य अपोढमिति कल्पनापोढम् । कल्पनावियुक्तमिति शेषः । यद्धा- कल्पनया अपोढं कल्पनापोढम् । कल्पनाविवर्जितमिति शेषः । न भ्रान्तमभ्रान्तम् । प्रापकविषये ऽविसंवादकमिति शेषः ।
कस्माद् विशेषणद्वयमुक्तमिति चेद्? उच्यते, तिमिरवतो भ्रान्तज्ञानव्यच्चेदार्थम् अभ्रान्तमित्युक्तम् । कल्पनापोढमिति चानुमानव्यवच्चेदार्थमुक्तम् । एवमभ्रान्तत्वे
तत्र समुदायात् प्रत्यक्षत्वजात्यैकदेशस्य पृथक्करणं निर्धारणम् । प्रत्यक्षमनूदय कल्पनापोढत्वम्, अश्रान्तत्वं विधीयते । यत् तद् भवताम् अस्माकं चार्थेषु साक्षात्कारि ज्ञानि प्रसिद्धम्, तत् कल्पनापोढाभ्रान्तत्वयुक्तं द्रष्टव्यम् ।
न चैतन्मतव्यम्- कल्पनापोढाभ्रान्तत्वं चेदप्रसिद्धम्, किमन्यत् प्रत्यक्षस्य ज्ञानस्य रूपमवशिष्यते यत् प्रत्यक्षशब्दवाच्यं सद् अनूद्येतेति, यस्मादिन्द्रियान्वयव्यतिरेकानुविधाय्यर्थेषु साक्षात्कारि ज्ञानं प्रत्यक्षशब्द वाच्यं सर्वेषां प्रसिद्धम्, तदनुवादेन कल्पनापोढाभ्रान्तत्वविधिः ।
साक्षात्कारादिकमस्तीति । लक्ष्यलक्षणेतुकथिते यथार्थ कथितं भवति यत् किञ्चित् प्रत्यक्षं तत् कल्पनापोढाभ्रान्तमिति प्रतिपत्तव्यम् । अत एव लक्षणकरणं संज्ञाकरणं भवति, संज्ञाकरणत्वेनाप्रतीतेलक्षणकरणस्य । शब्दमनूदयानित्यत्वं लक्षणं विधीयते, न चानित्यत्वं संज्ञेति गम्यत इति संज्ञा लक्षणकरणयोर्भेदः ।
यस्त्वमयोः प्रदेशान्तरप्रदिस्शयोरनुवादं कृत्वा प्रत्यक्षत्वं विदधाति, तेनाप्यत्र लक्ष्यलक्षणभावो विपरीतमाख्यातं भङ्गयाः यतो लक्षणविधानकाले लक्ष्यमनूदय लक्षणविधीयते, न तु लक्षणमनूदय लक्ष्यं विधीयते । सिद्धे तु लक्ष्यलक्षणभावे सति लक्षणसनूदय लक्ष्यं विधीयते, अय्था- यः शिखावान् स परिव्राजकः इति । शिखालक्षणविधानकाले तु परिव्राजकानुवादेन शिखैव विधीयते । विपरीतविधानमित्यन्यदपि अस्मिन्मते दूषणं दत्त्वं विनिश्चयटीकाया टीकाकृत्तेति तत्रैव द्रष्टव्यम् ।
ननु च लक्षणविधिपक्षे प्रत्यक्षस्याद्याप्यसिद्धत्वादनूद्यं न सम्भवति, ततश्च कथं प्रत्यक्षलक्षणमनूद्य लक्षणं विज्ञाप्यते, अय्था- शिखया परिव्राजकः इत्यत्र शिखालक्षणमनूद्य कल्पनापोढादि विधीयते? इत्याशङ्क्याह- यत् तद् बवतामित्यादि । एवं मन्यते- यद्यपि कल्पनापोढत्वेन प्रत्यक्षं न सिद्धम्, तथापि अर्थसाक्षात्कारित्वेन सामान्यं प्रत्यक्षां प्रसिद्धम्, ततो ऽप्युच्यते- प्रत्यक्षमनूद्येति ।
ननु च तयोरप्रसिद्धत्वात् प्रत्यक्षस्याप्रसिद्धिरेव, प्रत्यस्य तत्स्वभावत्वात्? इत्याशङ्कयाह- न चैतन्मन्तव्यमित्यादि । सुबोधम् ।
प्रापकविषये उपादेयम्, न तु आलम्बनविषये । यद्यालम्बनविषये अभ्रान्तत्वमभ्युपगम्यते, तहयत्र योगाचारनयनिरासः स्यात् । योगाचारा हि सर्वमालम्बनज्ञानं भ्रान्तं कल्पनायाः अपोढम् अपेत कल्पनापोढम् । कल्पनास्वभावरहितमित्यर्थः । अभ्रान्तम् अर्थक्रियाक्षमे च वस्तुरूपे ऽविपर्यस्तमुच्यते । अर्थक्रियाक्षमं च वस्तुरूपं सन्निवेशोपाधिवर्णात्मकम् । तत्र यन्न भ्राम्यति तदभ्रान्ताम् ।
एतच्च लक्षणद्वयं विप्रतिपत्तिनिरासार्थम्, न त्वनुमाननिवृत्त्यर्थम्ः यतः कल्पनापोढग्रहणेनैवानुमानं विवर्तितम् ।
तत्रासति अभ्रान्तग्रहणे गच्चद्वृक्षदर्शनादि प्रत्यक्षं कल्पनापोढत्वात् स्यात् । ततो हि प्रवृत्तेन वृक्षमात्रमवाप्यते इति संवादकत्वात् सम्यग्ज्ञानम्, कल्पनापोढत्वाच्च प्रत्यक्षमिति स्यादाशङ्का । तन्निवृत्त्यर्यम् अभ्रान्तग्रहणम् ।
कल्पनास्वभावरहितमिति । भावप्रधानी निर्देशः । कल्पनात्वस्वभावरहितमिर्यर्थः । अभ्रान्तमर्थक्रियाक्षमे च वस्तुरूप इत्यादिनाविसंवादो ऽर्थो ऽभ्रान्तशब्दस्य न सम्भवतीति दर्शयति । अविसंवादार्थे ऽभ्रान्तशब्दे गृह्यमाण उतरत्र दूषण प्रतिपादयति । सन्निवेशोपाधिवर्णात्मकमित्यनेनैतद् दर्शयति- वर्णादन्यत् संस्यानादिकं परपरिकल्पितं नास्तीति ।
एतच्च लक्षणद्वयमित्यादिना पदद्वयेन विप्रतिपत्तिनिरासं दर्शयता विनीतदेवव्यख्या पदद्वयव्यवचेदकथनरूपा दूषिता । तेन त्वेवं व्याख्यातम्- अभ्रान्तमिति यद् विसंवादि न भवति । एवं सत्यनुमास्यापि प्रत्यक्षलक्षणं प्राप्नोतीति कल्पनापोढग्रहणं तन्निवृत्त्यर्थम् । यद्येवं व्याख्यायते, आलम्बने यन्न भ्रान्तं तदभ्रान्तम् इत्येवमुच्यमाने सर्व प्रत्यक्षं ज्ञानमालम्बने भ्रान्तमिति न कस्यचित् प्रत्यक्षत्वं स्यात् ।
तथा चाह- सर्वमालम्बने भ्रान्तं मुक्त्वा तथागतज्ञानम्, इति योगाचारमतेनः तदप्यत्राचार्येण संगृहीतमिति तदयुक्तम्, यत आचार्येण विप्रतिपत्तिनिरासार्थ पदद्वयं कृतम्, न व्यवच्चेदार्थम् । अत एवाचार्यमनुमापयता धर्मोतत्रेण पदद्वयं व्याख्यामिति ।
ननु च भवतः पक्षे ऽपि किमिति व्यवच्चेदार्थ न भवति? इत्याह- एतच्चेत्यादि । एवं मन्यते- भ्रान्तशब्दो ऽयं नाविसंवादार्थो गृह्यते, अपि त्वर्थक्रियाक्षमे वस्तुरूप आलमबने यन्न भ्राम्यति तदभ्रान्तशब्देन गृह्यते । ननूक्रं योगाचारमतमसंगृहीतं स्यादिति? उच्यते बाह्यनयेन सौतान्त्रिकमतानुसारेणाचार्येण लक्षणं कृतमित्यदोषः । योगाचारमतेन त्वभ्रान्तग्रहणं न कर्तव्यम्ः संवादकस्य सम्यग्ज्ञानस्य प्रस्तुतत्वात् । अन्यव्यावर्त्यस्याभवात् । तस्मादभ्रान्तग्रहणेनानुमाने निरस्ते कल्पनापोढग्रहणमधिकं सिद्धिविप्रतिपत्ति निराकरोति । अत एवाह- न त्वनुमाननिवृत्त्यर्थमिति । अस्ति चात्र मन्यन्ते । ततश्च प्रकरणारम्भस्तन्नयनिराकरणार्थः स्यात् । इष्टश्च प्रकरणारम्भः सीत्रान्तिक- योगाचारोभयमतानुघावनार्थम् । प्रापकविषये ऽविसंवादकलक्षणम तद्दि भ्रान्तत्वान्न प्रत्यक्षम् । त्रिरूपलिङ्गजत्वाभावाच्च नानुमानम् । न च प्रमाणान्तरमस्ति । अतो गच्चद्{ब्रि}क्षदर्शनादि मिथ्याज्ञानम्- इत्युक्तं भवति । यदि मिथ्याज्ञानम्, कथं ततो वृक्षावाप्तिः? इति चेत्, न ततो वृक्षावाप्तिः । नानादेशगामी हि वृक्षस्तेन परिच्चिन्नः । एकदेशनियतश्च वृक्षो ऽवाप्यते । ततो यद्देशो गच्चद् वृक्षो दृष्टः तद्देशो नावाप्यते । यद्देशश्चावाप्यते स न दृष्ट इति तस्मात् कश्चिदर्थो ऽवाप्यते । ज्ञानानन्तरादेव तु वृक्षादिरर्थो ऽवाप्यते । इत्येवमभ्रान्तग्रहणं विप्रतिपत्तिनिरासार्थम् ।

विप्रतिपत्तिः । तथा हि मोमांसकादय एवमाहुः यथा निर्विकल्पकं ज्ञानं सम्यग्ज्ञानं तथा जात्यादियोजनाज्ञानमपि सम्यग्ज्ञानमिन्द्रियजम्ः उपदर्शितस्यार्थस्य प्रापणात् । तथा चाह-
ततः परं पुनर्वस्तुधर्मैर्जात्यादिभिर्यया ।
बुद्धयावसीयते सापि प्रत्यक्षत्वेन सम्मता ।
तथा च वैयाकरणा आहुः-
वाग्रूपता चेदुत्कामेदवबोधस्य शाश्वती ।
न प्रकाशः प्रकाशेन सा हि प्रत्यवमशिनी ॥
न सो ऽस्ति प्रत्ययो लोके यः शब्दानुगमदृते ।
अनुबिद्धमिव ज्ञान सर्व शब्देन भासते ॥
तथा नैयायिकादीनां सविकल्पकं प्रत्यक्षमिति कल्पनापोढग्रहणेन निराक्रियते । तथा कल्पनापोढग्रहणेन निर्विकल्पे सिद्धे ऽग्रहणमतिरिच्यमान द्विचन्द्रज्ञानादेःसम्यग्ज्ञानाधिकरण एव निरस्तत्वाद् विप्रतिपत्तिनिरासार्थत्वमेव भवति । तथाचार्यैकदेशीयाशुक्ले शंखे पीतज्ञानम्, गच्चद्वृक्षदर्शनज्ञानं चालातचक्रज्ञानमभ्रान्तमपि सम्यग्ज्ञानमिच्चन्तिः वस्तुनो ऽभ्रान्तत्वात् पीताकारादेश्च भ्रान्तत्वाद- इत्यस्ति विप्रतिपत्ति, तन्निराक्रियते ऽब्र्हान्तग्रहणेनेति स्थितं द्वयोरपि विप्रतिपत्तिनिरासार्थत्वमिति । तथा सति अभ्रान्तग्रहण इत्यादिनाभ्रान्तविषयस्य विप्रतिपत्तिविषयं दर्शयति । न ततो वृक्षावाप्तिरित्युपदर्शितस्य गच्चद्वृक्षस्याप्राप्तेरित्यनिप्रायः । ज्ञानान्तरादेव त्वति । प्रत्यक्षान्तरात् स्थिरवृक्षस्य प्राप्तेः ।
5 अभिलापसंसगयोग्यप्रतिभासप्रतीतिः कल्पना ॥
भ्रान्तत्वं चोभयातुमतमेव । एवमनुमानस्यापि प्रत्यक्षत्वप्रसङ्गः, तदपि हि अविसंवादकमभ्रान्तमेवेष्टम् । अतः एवानुमाननिरासार्थ कल्पनापोढमित्युक्तम् । तस्माद् विशेषणद्वयमुक्तप्रयोजनकम्

5.4

सिद्धान्ते प्रसिद्धकल्पना निरस्ता । लौकिककल्पनोपदेशार्थम् अभिलापसंसर्गयोग्यप्रतिभासप्रतीतिः कल्पना इत्युक्तम् । अभिलप्यते ऽनेनेति अभिलापः=वाच्यः तथा अभ्रान्तग्रहणेनाप्यनुमाने निवर्तिते कल्पनापोढग्रहणं विप्रतिपत्तिनिराकरणार्थम् । भ्रान्तं हि अनुमानं स्वप्रतिभासेअनर्थऽध्यवसायेन प्रवृत्तत्वात् । प्रत्यक्षं तु ग्राह्य रूपे न विपर्यस्तम् ।
न त्वविसंवादकमभ्रान्तिमिह ग्रहीतव्यम् यतः सम्यग्ज्ञानमेव प्रत्यक्षम्, नान्यत् । तत्र सम्यग्ज्ञानत्वादेवाविसंवादकत्वे लब्धे पुनरविसंवादकग्रहणं निष्प्रयोजनमेव । एवं हि वाक्यार्थः स्यात्- प्रत्यक्षाख्यं यदविसंवादकं ज्ञानं तत् कल्पनापोढमविसंवादकं चेति । न चनेन द्विरविसंवादकग्रहणेन किञ्चित् । तस्माद् ग्राह्यऽर्थक्रियाक्षमे वस्तुरूपे यदविपर्यस्तं तदभ्रान्तमिह वेदितव्यम् ।

5.4

कीदृशी पनः कल्पनेह गृह्यते? इत्याह- अभिलापेत्यादि । अभिलप्यते ऽनेनेति अभिलापः, वाचकः शब्दः । अभिलापेन संसर्गः अभिलापसंसर्गः= एकस्मिन् ज्ञाने ऽभिधेयाकारस्याभिधानाकारेण सह घ्राह्याकारतया मिलनम् । ततो यदैकस्मिन् ज्ञाने ऽभिधेयाभिधानयोराकारौ सन्निविष्टौ भवतः तदा तथा भ्रान्तग्रहणेनेत्यादिना कल्पनापोढग्रहणद्य विप्रतिपत्तिनिरासार्थत्वं दर्शयति । विप्रतिपत्तिविषयश्च टीकाकृता न दर्शितः अतिप्रसिद्धत्वात् । यदुक्तं प्राक्नाविर्सवादार्थो ऽभ्रान्तार्थ इति । तस्यार्थस्म ग्रहणे दोषं दर्शयति- न त्वविसंवादकमित्यादिना

5.5

कीदृशी पुनः कल्पनेत्यादिना कल्पनाबहुत्वात् कस्याः कल्पनाया ग्रहणमिति कल्पनाविशेषमजानन् पृच्चति । तथा हि- वैभाषिका इन्द्रियविज्ञानं वितर्क विचार चैतसिकसम्प्रयुक्तं कल्पनामिच्चन्ति । योगाचारमतेन च तथागतज्ञानमद्वयं मुक्त्वा सर्वज्ञानं ग्रह्यग्राहकत्वेन विकल्पितं कल्पना । जात्यादिसंसृष्टं तु मनोज्ञानं कल्पनेत्यन्ये कथयन्ति । अभिलापेत्यादिना शब्दसंसृष्टस्य विकल्पस्य ग्रहणं नागमपरिपठितानामिति दर्शयति । तेषां ग्रहणे सतीन्द्रियविज्ञानस्य प्रत्यक्षत्वानुपपत्तेः । अभिलप्यते ऽनेनेति करणसाधनेन एतद् दर्शयति- वाचको ऽभिलापशब्देनेष्ठः, न तु वाच्यं शब्दसामान्यरूपः । अभिलापेन संसर्ग इति अभिलापसंसर्गः । संसर्गस्तु सम्बन्धः । अभिलापसंसर्गस्य योग्यमिति अभिलापसंसर्गयोग्यम् । अर्थसामान्यम् । तदेव हि अन्वयव्यतिरेकवत्त्वाद् व्याप्तत्वाद् अभिलापयितुं शक्यम् । अर्थविशेषः स्वलक्षणरूपस्तु संसृष्टे अभिधानाभिधेये भवतः । अभिलापसंसर्गस्य योग्यो ऽभिधेयाकाराभासो यस्यां प्रतीतौ सा तथोक्ता ।
तत्र काचित् प्रतीतिः अभिलापसंसृष्टाभासा भवति, यथा- व्युत्पन्न संकेतस्य घटार्थकल्पना घटशब्दसंसृष्टार्थावभासा भवति । काचित्तु अभिलापेनासंसृष्टापि अभिलापसंसर्गयोग्याभासा भवतिः यथा- बालकस्याव्युत्पन्नसंकेतस्य कल्पना । तत्र अभिलापसंसृष्टाभासा कल्पना इत्युक्तावव्युत्पन्नसंकेतस्य कल्पना न संगृह्येत । योग्यग्रहणे तु सापि संगृह्यते, यदयपि अभिलापसंसृष्टाभासा न भवति तदहर्जातस्य बालकस्य कल्पना, अभिलापसंसर्गयोग्यप्रतिभासा तु भवत्येव । या चाभिलापसंसृष्टा, सापि योग्या । तत उभयोरपि योग्यग्रहणेन संग्रहः ।
सामान्यदि तेन विनीतदेवव्याख्या दूषिता- अभिलप्यत इत्यभिलापः= वाच्यः सामान्यादिः इत्येवंरूपा । एवमेवात्राश्रयणीयम्, अन्यथा योग्यग्रहणेन शब्दसंसर्गयोग्यो न कथितः स्यादिति । यदयेवम्, धर्मोत्तरव्याख्याने जात्यादेर्वाचकस्य संसर्गभावो न प्रदर्शितः स्यात्? सत्यमनेन न प्रतिपादितः, विषयचिन्तायां सामान्यादेविषयभावकथनेन सामर्थ्यात् कथितं भवतीति निरोधः । एकस्मिन् ज्ञाने वाच्य वाचकाक्रतया संघटर्नामत्यर्थः । ननु च यदयपि तस्मिन् ज्ञाने आकारयोर्मीलनं तथपि शब्दार्थयोः संसर्गो नास्ति? इत्याह- ततो यदैकस्मिन्नित्यादि । शब्दार्थयोः ससर्गविज्ञाने ऽपि तयोराकारयोर्मीलनं न सम्भवतीत्यभिर्पायः ।
तत्र काचित् प्रतीतिरित्यादिना योग्यग्रहणस्य विषयं दर्शयति । व्युत्पन्नसंकेतापक्षयाकारद्वयप्रतिभासनम् । ननु चाव्युत्पन्नसंकेतस्य बालमूकादेरनुमतो विज्ञाने न शब्दसंसर्ग इति तदयोग्यत्वमपि नास्ति । कश्च संसर्गयोग्यप्रतिभासः? यः शब्दप्रतिभासः । मूकादिज्ञाने तु संकेताभावे सति शब्दरतिभासो ऽपि न सम्भवतीति ससर्गयोग्यत्वमपि नास्ति । किमिदं योग्यत्वं नाम? अभिधेयाकारस्य संकेतकरणयोग्यत्वम् । न चाभिघानोल्लेखाभावे सत्यभिधेयप्रतिभासम्, नापि योग्यत्वमिति । तथा च कुमारिलः प्राह-
अस्ति ह्यालोचनाज्ञानं प्रथमं निर्विकल्पकम् ।
बालमूकादिविज्ञानसदृश शुद्धवस्तुजम् ॥
अभिलापयितुं न शक्यतेः तद्वयाप्तत्वात् । ज्ञाने ऽभिलापसंसर्गयोग्यो यः प्रतिभासः स एवाभिलापसंसर्गयोग्यप्रतिभासः । अर्थसामान्यस्यार्थाकार इति शेषः ।
यद्वा- न अभिलप्यते इति अभिलापः= अभिधेर्य यदर्थसामान्यम् । अभिलापेन संसर्ग इति अभिलापसंसर्गः । अभिलापसंसर्गस्य योग्यमिति अभिलापसंसर्गयोग्यम् । शब्दसामान्यम् । अन्वयव्यतिरेकवशात् तेनार्थाभिधानं शक्यम् । शब्दविशेषेण तु न शक्यम्ः तस्यासामानत्वात् । ज्ञाने ऽभिलापसंसर्गयोग्यो यः प्रतिभासः स एवाभिलाप असत्यभिलापसंसर्गे कुतो योग्यतावसितिः? इति चेत्ः अनियतप्रतिभासत्वात् । अनियतप्रतिभासत्वं च प्रतिभासनियमहेतोरभावात् । ग्रह्यो ह्यर्थो विज्ञानं जनयन् नियतप्रतिभासं कुर्यात् । यथा रूपं चक्षुर्विज्ञानं जनयन्नियतप्रतिभासं जनयति, विकल्पविज्ञानं त्वर्थान्नोत्पदयते । ततः प्रतिभासनियमहेतोरभावादनियतप्रतिभासम् ।
कुतः पुनरेतद्- विकल्पो ऽर्थान्नोत्पदयते इति? अर्थसन्निधिनिरपेक्षत्वात् । बालो ऽपि हि यावद् दृश्यमानं स्तनं स एवायम् इति पूर्वदुष्टत्वेन न प्रत्यवमृशति तावन्नोपरतरुदितो मुखमर्पयति स्तने । पूर्वदृष्टापरदृष्टं चार्थमेकीकुर्वद विज्ञानमसन्निहितविषयम्, पूर्वदृष्टस्यासन्निहितत्वात् । असन्निनहितविषयं चार्थनिरपेक्षम् । अनपेक्षं च प्रतिभासनियमहेतोरभावादनियतप्रतिभासम् । तादृशं चाभिलापसंसर्गयोग्यम् ।
ततश्च व्याअवर्त्त्याभवाद योग्यग्रहणं न कर्तव्यमित्याशङ्कां परस्य दर्शयति असत्यभिलापेत्यादिना । अनियतप्रतिभासेत्यादिनोत्तरमाह । एवं मन्यते- शब्दसंसर्गित्वं किमुच्यते? विकल्पज्ञानस्यानियतभसत्वमेव । कुतस्तत् सिद्धम्? इत्याह- अनियतेत्यादि । अर्थादेव ह्युत्पदयमानं नियतप्रतिभासं भवति । तथा चक्षुर्विज्ञानमित्यभिप्रायः । ननु कल्पनाज्ञानमप्यर्थादुत्पदयमानं नियताकाअर्ं भविष्यति? इत्याह- विकल्पविज्ञानमित्यादि । अर्थसन्निधि विना विकल्पज्ञानस्योत्पत्तिरित्यभिप्रायः ।तेनेन्द्रियज्ञानमेव नियतप्रतिभासम्, विकल्पज्ञानं त्वनियतप्रतिभासमिति । तथा नियतप्रतिभासं विकल्पज्ञानं बालमूकादेरप्यस्तीति दर्शयति- बालो ऽपि हीत्यादिना । ननु च बालस्य ताल्वादिकरणपाटवाभावे सामान्यविशेषशब्दोच्चारणं नास्ति, तत् किमुच्यते- स एवायमिति? सत्यं नास्तिः किन्तु स एवायम् इत्येनेन विकल्पस्यावस्थोच्यते । स एवायम् इत्यनेन पूर्वदृष्टत्वमेवोच्यते । उपरतरुदितः= अपगतरुदितः । एतद् दर्शयति- बालस्यापि पूर्वपरपरामर्शरूपं विकल्पकं विज्ञानमस्ति, नियतविषये प्रवृत्तेः, यथा गृहीतसंकेतस्य पूर्वापरपरामशेन प्रवृतिरिति । यच्च पूर्वापरपरामर्श तदनियतप्रतिभासं पूर्वापरयोरा संसर्गयोग्यप्रतिभासः, शब्दसामान्याकार इति शेष इत्येतदुक्तं भवति ।
एवं श्लेषेण वाक्यस्य व्याख्यानेन उभयोरपि तद्विकल्पाकारः अभिलापसंसर्गयोग्यप्रतिभास इत्युक्तं वेदितव्यम् ।
इन्द्रियविज्ञानं तु सन्निहितार्थमात्रग्राहित्वादर्थसापेक्षम् । अर्थस्य च प्रतिभासनियमहेतुत्वान्नियतप्रतिभासम् । ततो नाभिलापसंसर्गयोग्यम् ।
अत एव स्वलक्षणस्याइ वाच्यवाचकभावमभ्युप्गम्य एतदविकल्पकत्वमुच्यते । यदयपि हि स्वलक्षणमेव वाच्यं वाचकं च भवेत्, तथापि अभिलापसंसृष्टार्थ विज्ञानं सविकल्पकम् । न चेन्द्रियविज्ञानम् अर्थेन नियमितप्रतिभासत्वात् अभिलापसंसर्गयोग्यप्रतिभासं भवतीति निर्विकल्पकम् ।

श्रोत्रविज्ञानं तर्हि शब्दस्वलक्षणग्राहि, शब्दस्वलक्षणं च किञ्चित् वाच्यं किञ्चिद् वाचकम्- इत्यभिलाकसंसर्गयोग्यप्रतिभासं स्यात्, तथा च सविकल्पकं स्यात्?
रोपितत्वादिति संसगंयोग्यं बालमूकादेर्विज्ञानमिति तन्निवृत्त्यर्थं योग्यग्रहणं कर्तव्यमिति स्थितम् ।
इन्द्रियविज्ञानमित्यादिना कुमरिलेन यदिन्द्रियविज्ञानस्यालोचनाख्यस्य बालमूकादिविज्ञानेन सादृश्यं प्रतिपादितम्, तद् दूषयितुमुकस्ंहारव्याजेन वैलक्षण्यं दर्शयति अत एवेत्वादि । यदिन्द्रियविज्ञानमर्थबलेनोत्पदयमानं नियतप्रतिभासं तन्निर्विकल्पसम् । अत एव स्वलक्षणस्यापि शब्दस्यार्थस्य च वाच्य वाचकत्वमम्युपगम्य निर्विकल्पकत्वमिन्द्रियविज्ञानस्य साध्यते । विकल्पविज्ञानस्य तु स्वलक्षणवाच्य वाचकत्वं प्रतिभासिनो ऽपि सविकल्पकत्वमिति स्थितम् । यदयपीत्यनेन स्वलक्षणयोर्वाच्यवाचकभावाभ्युपगमं दर्शयति । परमार्थतः सामान्ययोरेव वाच्यवाचकत्वं नार्थशब्दविशेषस्येत्यादिना न्यानेन । अवश्यं च स्वलक्षणयोः वाच्यवाचकभवो ऽभ्युपगम्य । कुतः? सामान्ययोर्विषयचिन्तायामेव निरस्यमानत्वादिति निर्विकल्पकत्वकथनं व्यर्थ स्यादिह । तदपि हि विषयाविषयचिन्ताद्वारेण निर्विकल्पकविषयमेवेति । तेन यद् विनीतदेवेन सामान्ययोर्वाच्यवाचकभावमङ्गीकृत्य निर्विकल्पकत्वमिन्द्रियाविज्ञानस्य प्रतिपादितम्, तद् दूषितं भङ्गया ।
श्रोत्रविज्ञानं तहींत्यादिना स्वलक्षणस्य वाच्यवाचकभावपक्षे ऽतिप्रसङ्गमापादयति परः । किञ्चिन्निर्विकल्पकत्वमिन्द्रियविज्ञानस्य साधनीयम् । न सामान्ययोर्वाच्य वाचकभावमभ्युपगम्य शब्दस्वलक्षणं वाच्यम् । यदा घटशब्दः । शब्दशब्दो वा शब्दं शब्देन प्रतिपदयते, तदा किञ्चिद् वाच्यं शब्दस्वलक्षणं किञ्चिद् वाचकं शब्दस्वलक्षण
6। तया रहितं तिमिराशुभ्रमणनौयानसंक्षोभाद्यनाहितविभ्रमं ज्ञानं प्रत्यक्षम् ॥
प्रतीतिरिति संविदनम् । बुद्धरिति शेषः

5.5

तया रहितमिति कल्पनया रहितम् । कल्पनाकलुषेण रहितमिति शेषः । तेन एतदुक्त्या शब्दार्थसामान्याकाररहिताया प्रतीतिः सा एव प्रतीतिः, सा एव प्रत्यक्षप्रमाणमित्युक्तं भवति ।
तिमिराशुभ्रमण नौयान संक्षोभाद्यनाहितविभ्रममिति । अत्र तिमिरमिति अक्षिपीडा । आशुभ्र्रमणमिति अलातचक्रादि । नौयानमिति नावा यानम् । संक्षोम नैष दोषः, सत्यपि स्वलक्षणस्य वाच्यवाचकभावे संकेतकालदृष्टत्वेन गृह्यमाणं स्वलक्षणं वाच्यं वाचकं च गृहीतं स्यात् । न च संकेतकालभावि दर्शनविषयत्वं वस्तुनः संप्रत्यम्ति । यथा हि- संकेतकालभावि दर्शनमद्य निरुद्धम्, तद्वत् तद्विषयत्वमपि अर्थस्याद्य नास्ति । ततः पूर्वकालद्दष्टत्वमपश्यच्च्रोत्रज्ञानं च वाच्यवाचकभावग्राहि ।
अनेनैव न्यानेन योगिज्ञानमपि सकलशब्दार्थावभासित्वे ऽपि संकेतकालदृष्टत्वाग्रहणणान्निर्विकल्पकम्

5.6

तयेति । तया कल्पनया कल्पनास्वभावेन रहितं शून्यं सह्ज्ञानं यदभ्रान्तं तत् प्रत्यक्षम् इति परेण सम्बन्धः । कल्पनापोढत्वाभ्रान्तत्वे परस्परसापेक्षे मिति । ततः शुद्धयोः श्रवणे सति शब्दविज्ञाने द्वयोरपि शब्दयोः प्रतिभासनाच्चोत्रेन्द्रियज्ञानमनियतप्रतिभासित्वात् सविकल्पकं स्यादित्याकूतम् ।
सत्यपीत्यादि । एवं मन्यते- यद्यपि स्वलक्षणयोर्वाच्यवाचकत्वम्, तथापि श्रोत्रविज्ञाने न वाच्यवाचकतया तयोः प्रतिभासनम्, अपि तु शुद्धयोरेव प्रतिभासनम्, यस्मात् शब्दसन्निधिबलेन श्रोत्रविज्ञानमुत्पद्यते । न च सन्निहितयोः शब्दयोर्वाच्य वाचकत्वमस्ति । यावत् संकेतकालभावि शब्दस्मरणं न भवति, तावत् कुतो वाच्यत्वं वाचकत्वं वा स्यात्, एतत्प्रत्यभिज्ञया स एवायं वाचको भविष्यतोत्याह न च संकेतकालेत्यादि । विषयभेदात् तयोः पूर्वोत्तरयोर्भेदः । कश्च संकेतविषयः शब्दः? यः संकेतकालभाविना ज्ञानेन विषयीकृतः । यश्च पूर्व ज्ञानेन विषयीकृतः स इदानी नास्ति, पूर्वज्ञानविनाशे पूर्वज्ञानविषयत्वस्याभावात् । अतः पूर्वकालविषयत्वमपश्यत् सन्निहिते श्रोत्रवलेनोत्पद्यमानां निर्विकल्पकमेव ।
योगिज्ञानेन यद्येकस्मिन् काले मनोविज्ञानेन च युगपच्चब्दाथौ गृह्यते, तथापि सन्निहितवस्तुतया तेन गृहीतव्याविति दर्शयति- योगिज्ञानमित्यादिना ॥ ।5 ॥
ननु कल्पनाज्ञानमपि परया कल्पनया शून्यम्, ततश्च तस्यापि निर्विकल्पकत्वं प्राप्नोति? इत्याशङ्कयाह- तथा कल्पनया कल्पनास्वभावेनेत्यादि । एवं इति वातपित्तकफप्रकोपेण धातुखेदः । तिमिरं च आशुभ्रमणं च नौयानं च संक्षोभश्चेति ते आदयो येषां ते तिमिराशुभ्रमणनौयानसंक्षोभादयः । आदिशब्देन नष्टदृष्टिपीतदृष्टयादीनां संग्रहः । आहितो विभ्रभो यस्मिंमस्तद् आहितविभ्रमम्, न आहितविभ्रममित्यनाहितविभ्रमम् । तिमिराशुभ्रमणनौयानसंक्षोभैरनाहितविभ्रममिति तिमिराशुभ्रमणनौयानसंक्षोभानाहितविभ्रमम् । तथा च तिमिररोगेण द्विचन्द्रदर्शनं भवति । नौयानगत्या तोरतरुश्चलन् दृश्यते । वातपित्तादिकोपेन वस्तु ज्वलितादिकं दृश्यते ।
प्रत्यक्षलक्षणम्, न प्रत्येकम्- इति दर्शयितुं तया रहितं यदभ्रान्तं तत् प्रत्यक्षमिति लक्षणयोः परस्परसापेक्षयोः प्रत्यक्षविषयत्वं दर्शितमिति ।
तिमिरम् {अस्णो}र्विप्लवः । इन्द्रियगतमिदं विभ्रमकारणम् । आशुभ्रमणम् अलातादेः । मन्दं हि भ्रम्यमाणे ऽलातादौ न् अचक्रभ्रान्तिरुत्पद्यते । तदर्थम् आशुग्रहणेन विशेष्यते भ्रमणम् । एतच्च विषयगतं विभ्रमकारणम् । नावा गमनं नौयानम् । गच्चन्त्यां नावि स्थितस्य गच्चद्वृक्षादिभ्रान्तिरुत्पद्यते इति यौनग्रहणम् । एतच्च बाह्याश्रयस्थितं विभ्रमकारणम् । संक्षाभो वातपित्तश्लेष्मणाम् । वातादिषु हि क्षोभङ्गतेषु ज्वलितस्तम्भाविभ्रान्तिरुत्पद्यते। एतच्चाध्यात्मगतं विभ्रमकारणम् ।
सर्वरेव च विभ्रमकारणैरिन्द्रियविषयबाह्याध्यात्मिकाश्रयगतैरिन्द्रिय- मन्यते-धर्मिणा कल्पनाज्ञानेन धर्मो ऽत्र कल्पनात्वं लक्ष्यते । यथा विषाणीत्यव विषाणित्वम्ः ततश्च कल्पनात्वेन रहितं यज्ज्ञानं तन्निर्विकल्पकम् । न च कल्पनाज्ञानं कल्पनात्वरहितमित्यदोषः ।
कल्पनापोढाभ्रान्तत्वयोलंक्षणयोः परस्परं विशेषणविशेष्यत्वम्, न स्वातन्त्र्येण पृथग्लक्षणत्वमिति दर्शयितुमन्ते प्रत्यक्षशब्दं गृहीत्वा तयोरपि सम्बध्नाति-तत्प्रत्यक्षमिति परेण सम्बन्ध इत्यनेन । इन्द्रियगतमिदं विभ्रमकारणमिति । इन्द्रियस्य तिमिरेणाक्रान्तत्वात् । आशुभ्रमणमिति । मन्दं भ्रम्यमाणः इति विशेषणस्य व्यावृत्तिः । विषयगतमिति । विषयस्यालातादेश्चक्राकारं प्रति निमित्तत्वात् । नौयानमिति । समुदायप्रश्नः । गच्चत्यां नावीत्यादिना । प्रयोजनं दर्शयति बाह्याश्रयस्थितमिति । बाह्या नौः सैवाश्रयस्तत्र स्थितस्याश्रयद्वारको विभ्रम उच्चते । संक्षोभो वातादीनां विकारापत्तिराध्यात्मिकविभ्रमकारणम् ।
ननु चेन्द्रियगतमेव विभ्रमकारणम् प्रत्युच्यतेः नान्यैरिन्द्रियगतैरिन्द्रियं बिक्रियां गतम्? इत्याह- सर्वैरेवेत्यादि । तिमिरस्य साक्षादलातादेः पारम्पर्येणेति । इतच्च विनिश्चयटीकायां विस्तरेण प्र्तिपादितमिति । संक्षोभपदेन सह द्वन्द्वं कृत्वा बहुव्रीहि-
7 तच्चतुर्विधम् ॥
ज्ञानं प्रयक्षमिति । सूत्रे ज्ञानं नोक्तम् । कथं तल्लम्यते इति चेद्? कल्पना ज्ञानेनैव प्रतिबद्धा, भ्रान्तिरपि ज्ञानधर्म इति दृष्टम् । तस्मात् कल्पनारहितमभ्रान्तं ज्ञाममेवेति । यथा अवत्सा गौरानीयताम् इत्यनेन काचित् अश्वा नानीयते घेनुरेवा नोयते तस्या एव वत्सम्बन्धदर्शनात् । तथा अवापि भ्रान्तिकल्पनयोर्ज्ञानेनैव सम्बन्धो दृष्टः, नान्येनेति ज्ञानमेव प्रत्यक्षतयेष्यते

5.6

तच्चतुर्विधमिति । प्रत्यक्षमिति यदुक्तं तत्- 1 इन्द्रियजन्यम्, 2 मानसम्, 3 आत्मसंवेदनम्, 4 योगिज्ञानं चेति चतुर्विधं ज्ञेयम् । प्रविभागो ऽयं विप्रति- मेव विकर्तव्यम् अविकृते इन्द्रिये इन्द्रियभ्रान्त्ययोगात् । एते स्ंक्षोभपर्यन्ता आदयो येषां ते तथोक्ताः । आदिग्रहणेन काचकामलादय इन्द्रियस्था गृह्यन्ते, आशुनयनानयनादयो विषयस्थाः । आशुनयनायने हि कार्यमाणे ऽलाते ऽग्निवर्णदण्डाभाक्सा भ्रान्तिर्भवति । हस्तियानादयो बाह्याश्रयस्थाः, गाढमर्मप्रहारादय आध्यात्मिकाश्रयस्था व्हिभ्रमहेतवो गृह्यन्ते ।
तैरनाहितो विभ्रभो यस्मिस्तत् तथाविधं ज्ञानं प्रत्यक्षम्

5.6

तदेवं लक्षणमाख्याय यैरिन्द्रयमेव द्रष्ट कल्पिअत्म्, मानसप्रत्यक्षरिति दर्शयति । विनिश्चरो तु संक्षोभशब्देन षष्ठीसमासं कृत्वादिशब्देन बहुब्रीहिसमासं दर्शयतः को ऽभिर्पायष्ठीकाकृत इति । व्युत्पत्तिभेदकथनमेव, नार्थभेद इति । यदा संक्षोभशब्देन षष्ठीसमासस्तदाश्रयगतस्य विभ्रमकारणस्य उपलक्षणत्वाद् वातपित्तादेर्ग्रहणं भवतीति नार्थभेदः । अथ किमर्थमाशुभ्रमणग्रहणादेरुपादानम्, तिमिरादीत्येव क्रियताम्, आदिग्रहणेन सर्वेषां संग्रहो भविष्यति? उच्यतेः, असत्याशुभ्रमणादिग्रहणे इन्द्रियगतमेवादिशब्देन काचकामलादि गृह्यत इत्याशंक्येत । तस्मादाशुभ्रमणादिरुपादीयते । तेषामुपादाने, यद्यादिग्रहणं न क्रियेत, तदा तेषां स्वरूपग्रहणमेव स्यात्, न प्रकारोपलक्षणमित्यादिग्रहणम् । तत उभयोपादाने सति तिमिरादीम्य्भयकात्स्न्र्य लभ्यत इति स्थितम् । तत् तथाविधं ज्ञानमिति यदयपि सूत्रे ज्ञानग्रहणं नास्ति, तथापि भ्रान्ते ज्ञानधर्मत्वाद् तद्वयुदासेन ज्ञानमेव प्रत्यक्षं गृह्यत इत्यदोषः । विनीतदेवव्याख्यायां भवति तु प्रत्य्क्षसूत्रेस्यार्थकथनं ज्ञानं प्रत्य्क्षमिति, तस्मात् स्थितं निर्विकल्पकं ज्ञानं प्रत्यक्षमभ्रान्तमिति

5.7

यैरिन्द्रियमेव द्रष्ट परिकल्पतमिति । वैभाषिकैः- चक्षुः पश्यति रूपाणि इति अतिरिष्यते। मानसे च प्रत्यक्षे दोष उद्भावित इति । द्वाभ्यां, भिक्षवो, रूपं दृश्यते चक्षुर्विज्ञानेन तदाकृष्टेन मनोविज्ञानेन इति, तदाममसिद्धं मनो-
8 इन्द्रियजन्यम् ॥ (1)
पत्तिनिरासार्थम्पदिश्यते । केषाञ्चित् इन्द्रियमेव दर्ह्सकर्तुं इष्टम्, तन्निरासार्थ प्रथमम् । इन्द्रियजन्यं ज्ञान्ं हि प्रत्यक्षम्, न त्विन्द्रियमिति । कैश्चित् मानसप्रत्यक्षे दोष उद्भावितः, तद्दोपपरिहारथ द्वितीयम् । केचित् चित्तचैतानामात्मसंवेदनं नाङ्गोकुर्वन्ति तन्निरासार्थ तृतीयम् । केचिद् योगिप्रत्यक्षं नानुमन्यन्ते, तन्निरासार्थ चतुर्थ प्रत्यक्षमुक्तम्

5.8

इन्द्रियजन्यमिति । चक्षुरादीनि पञ्चेन्द्रियाण्येव इन्द्रियत्वेनेष्यन्ते । मनस्तु इन्द्रियं नः मानसप्रत्यक्षस्य पृथङ् निर्देशात् । तस्मात् चक्षुरादीन्द्रियेषु आश्रितं ज्ञानमेव इन्द्रियजन्य प्रत्यक्षम्

5.7

लक्षणे च दोष उद्भावितः, स्वसंवेदनं च नाभ्युपगतम्, योगिज्ञानं च, तेषां विप्रतिपत्तिनिराकरणार्थ प्रत्यक्षस्य प्रकारभेदं दर्शयन्नाह- तच्चतुर्विधमिति

5.8

इन्द्रियज्ञानमिति । इन्द्रियस्य ज्ञानम् इन्द्रियज्ञानम् । इन्दिर्याश्रितं यत् ज्ञानं तत् प्रत्यक्षम्

5.7

विज्ञानमाचार्यदिङ्नागेन प्रत्यक्षं दशितम् । तत् परैः कुमारिलोआदिभिलंक्षणमजानद्भिर्दूषितम् । तन्मनोज्ञानं यदीन्द्रियविज्ञानविषये प्रवतते तदा गृहीतग्राहितया प्रमाणम् अथान्यविषय प्रवर्तते, व्यवहिते प्रत्यक्षं भवत् कि तन्मनोविज्ञानमिन्द्रियसव्यपेक्षं स्यात्? निरपेक्ष वा? इन्द्रियसव्यपेक्षत्वे सतीन्द्रियविज्ञानमेव, निरपेक्षत्वे वानिन्द्रिस्यापि मनोविज्ञानं प्रत्यक्षं स्यादित्यन्धवधिराद्यभावचोदयं कृतम् ।
स्वसंवेदनं च नाभ्युपगतमिति । मीमांसकैः परीक्षं विज्ञानमर्थापतिगम्यं प्रत्यक्षो ऽयं इप्यते, नैयायिकादिभिस्तु ज्ञानान्तरगम्यं ज्ञानमिष्यते, न स्वसंवेदनंसिद्धम् स्वात्मनि कारित्वविरोधात् । योगिज्ञानं च नाभ्युपगतमिति सम्बन्धः । मीमांसकादय एवमाहुः- योगिन एव न सन्ति सम्प्रति प्रमाणाभावात्, कि पुनस्तेषां ज्ञानमिति

5.8

इन्द्रियाश्रितमिति । चक्षुरादीन्द्रियचतुष्टयं गृह्यते, न मनैन्द्रियम्, तस्य स्वसंवेदनप्रत्यक्षे प्रतिपादयमानत्वात् । इन्द्रियाश्रितं विज्ञानं प्रत्यक्षम् इति ब्रुवता वार्त्तिककृता न चक्षुः प्रमाणम् इति कथितं भवति यस्माज्ज्ञानस्यैवान्वयव्यतिरेकानुविधानाद् रूपादिदर्शने सामर्थ्यम्, न चक्षुषः । यत्तूक्तम्- ज्ञानं चेत् पश्यति, व्यवहितमपि कि न पश्यति? अमूर्तस्यावाचकाभावात् इति, तदयुक्तम् यतो योग्यदेशेनैवार्थेन तज्ज्ञानं जन्यते, न व्यवहितेन विज्ञानादर्शनात्

5.9

9 स्वविषयानन्तरविषयसहकारिणेन्द्रियज्ञानेन समनन्तरप्रत्ययेन जनितं तन्मनोविज्ञानम् ॥
स्वविषयानन्तरविषयसहकारिणा इन्द्रियज्ञानेन समनन्तरप्रत्येन जनितं मनोविज्ञानमिति । तत्र स्वस्य विषय इति स्वविषयः । स्वकौयमालम्बनमिति शेषः । स्वविषयेणानन्तरः स्वविषयानन्तरः । द्वितीयक्षणभवी सरूपश्चानन्तरशब्देनोच्यते। स्वविषयानन्तरश्चासौ विषयश्चेति स्वविसयानन्तरविषयः, स सहकारिई यस्य इन्द्रियज्ञानस्य तqत् स्वविषयानन्तरविषयसहकारि इन्द्रियज्ञानम् । समनन्तरप्रत्ययभूतेन इन्द्रियज्ञानेन जनितं यत् तदेव मनोमात्राश्रयत्वान्मानसं प्रत्यक्षमिति ।
मानसप्रत्यक्षे परैर्योदोष उद्भावितः, तं निराकर्तु मानसप्रत्य्क्षलक्षणमाह- स्वविषयेत्यादि । स्व आत्मीयो विषय इन्द्रियज्ञानस्य तस्य अनन्तरः । न विद्यते ऽन्तरमस्येति अनन्तरः । अनन्तरं च व्यवधानं विशेषश्चोच्यते । ततश्चान्तरे प्रतिषिद्धे समानजातीयो द्वितीयक्षणभव्युपदेयक्षण इन्द्रियविज्ञानविषयस्य गृह्यते । तथा च सतीन्द्रियज्ञानविषयक्षणादुत्तरक्षण एकसन्तानान्तर्भूतो गृहीतः । स सहकारी यस्य इन्द्रियज्ञानस्य तत्तथोक्तम् ।
द्विविधश्च सहकारी- परस्परोपकारी, एककार्यकारी च । इह च क्षणिके वस्तुनि अतिशयाधानायोगादेककायकारित्वेन सहकारी गृह्यते । विषयविआनाभ्यां हि मनोविज्ञानमेकं क्रियते यतः, तदनयोः परस्पर सहकरित्वम् ।
स्वशब्दस्य विवरणम्- आत्मीय इति । इन्द्रियविज्ञानस्यात्मीयो विषयक्षणः । तस्यनन्तर इत्यस्य विवरणम्- न विदयत इत्यादि । अन्तरशब्दस्य विवरणं व्यवधानमित्यादि । समानजातीय उपादेयक्षण इन्द्रियविज्ञानविषयस्याव्यवहितः समनजातीयक्षण उच्यते । स विपादेयक्षणो विषयः । विषयग्रहणेनालोकस्यान्तरस्य निरासः । स तथाभूतः सहकारी यस्येति सम्बन्धः ।
ननु च कथं विषयक्षणस्य सहकारित्वम्, एकस्मिन् क्षणे उपकार्योपकारकभवाभावात्? इत्याह- द्विविधेश्चेत्यादि । एवं मन्यते- नात्रोपकारक्त्वात् सहकारित्वम्, अपि तु एककार्यकारित्वादिति । तदेव दर्शयति- विषयेत्यादिना । ईदृशेनेति । स्वविषयानन्तरविषयसहकारिणेन्द्रियज्ञानेन । आलम्बनप्रत्ययभूतेनेन्ति । यदा योगिज्ञानं परस्यैर्वविधज्ञानमालम्बते, तदालम्बनभूतेन योगिज्ञानं जन्यत इति । समश्चासाविति । अनन्तरक्षणस्यापि ज्ञानत्वात् । स्मन्तर इति च भवति शकन्ऽवादिषु पाठात् षररूपत्वम्, यतः स चेति इह स्वविषयानन्तरविषय इत् कथनं गृहीतग्रहणादवबोधकं न भवतीति दोषम्, तथा असमानजातीयविषयग्रहणदोषं च परिहतु बोध्यम् । तथा हि मानस प्रत्यक्षमिन्द्रियविज्ञानविषयानन्तरद्वितीयक्षणोत्पत्तिकं यत् तद्विषयकमिष्टम् । तस्मात् कुतो गृहीतग्रहणम् ।
ईदृशेनेन्द्रियविज्ञानेन आलम्बनभूतेनापि योगिज्ञानं जन्यते, तन्निरासार्थ समनन्तरप्रत्ययग्रहणं कृतम् । समश्चासो ज्ञानत्वेन, अनन्तरश्चासौ अव्यवहितत्वेन, स चासौ प्रत्ययश्च हेतुत्वात् समनन्तरप्रत्ययः, तेन जनितम् ।
तदनेनैकसन्तानान्तर्भूतयोरेव इन्द्रियज्ञान मनोविज्ञानयोजन्यजनकभावे मनोविज्ञानं प्रत्यक्षमिति उक्तं भवति । ततो योगिज्ञानं परसन्तानवर्ति निरस्तम् ।
यदा चेन्द्रियज्ञानविषयादन्यो विषयो मनोविज्ञानस्य, तदा गृहीतग्रहणादासञ्जितो ऽप्रामाण्यदोषो निरस्तः ।
समनन्तरः । हेतुत्वादिति । प्रत्ययार्थकथनमेतत् । तेन जनितमित्यादिनेतत् कथयति- इन्द्रियविज्ञानेन स्वविषयान्तरविषयसहकारिणोपादानभूतेन यज्जनितं तदेव मनोविज्ञानं प्रत्यक्षम् । न आलम्बनभूतेन जनितमित्यर्था ।
यदा चेत्यादिना द्वयोरेकं विषयं गृहीत्वा यच्चोदितं परेण तत् परिहृतम् । पूर्वक्षणे इन्द्रियविज्ञानस्य विषयो द्वितीयक्षणे मनोविज्ञानस्य विषय इत्यगृहीतग्राहि मनोविज्ञानम् ।
यदा चित्यादिना यच्चोदयं कृतम्- यदि मनोविज्ञानमिन्द्रियसव्यपेक्षम्, न स्यान्मनोविज्ञानस्येन्द्रियविज्ञानविषयादन्यो विषायः, तदान्धबधिरादयभावः । व्यवहितस्य नीलादेर्ग्रहणै भवतु इति, तत् परिहृतम् । यस्मादिन्द्रियविज्ञानविषयस्य द्वितीयोपादेयभूतविषयक्षणो गृहीतो मनोविज्ञानविषयः, तस्माद् व्यवहितक्षणो विषयो न भवत्यस्यान्धवधिरादेश्चातीन्द्रियविज्ञानम् । विज्ञानविषयानन्तरविषयसहकारिविदयते । तेन तेषां न मनोविज्ञानं भवतीति परिहृतम् ।
स्वविषयानन्तरविषयसहकारिणेत्युच्यमाने शब्दविषयं मानसं न प्राप्नोतिः, श्रोत्रविज्ञानविषयाच्चव्दादपरस्योपादेयक्षणस्यानुत्पत्तेः, शब्दस्योच्चेदित्वात् । अपरस्य शब्दस्य शब्दादनुत्पत्तेरित्यवश्यं मानसं प्रत्यक्षशब्दविषयमेष्टव्यम्, अन्यथा पञ्च बाह्या विज्ञेयाः इत्यस्य व्यघातः स्यात् । स्वविषयानन्तरविषयशब्देन श्रोत्रविज्ञानविषयानन्तरयोग्यविषयो गृह्यते, नोपादेयक्षण एवः तेन विज्ञानविषयदेशे ऽपरश्ब्दो यदोत्पद्यते तदा मानसं प्रत्य्क्षं स्वविषयानन्तरविषयसहकारिणा जनितं भवतीत्यदोषः ।
अनन्तरशब्दश्च समानजातीयपर तेन असमानजातीयविषयग्रहणप्रसङ्गो वा । कुतः? इन्द्रियविज्ञानेन समनन्तरप्रत्ययेन जनितमित्युक्तेरन्धवधिरादयभवयदा चिद्न्रियविज्ञानविषयोपादेयभूतः क्षणो गृहीतः, तदा इन्द्रियज्ञानेनागृहीतस्य विषयान्तरस्य ग्रहणादन्धवधिरादयभावदोषप्रसङ्गो निरस्तः ।
एतच्च मनोविज्ञानमुपरतव्यापारे चक्षुषि प्रत्यक्षमिष्यते । च्यपारवति तु चक्षुषि यद् रूपज्ञानं तत् सर्व चक्षुरश्रितमेवः इतरथा चक्षुराश्रितत्वानु पपत्तिः कस्यचिदपि विज्ञानस्य ।
एतच्च सिद्धान्तप्रसिद्धं मानसं प्रत्यक्षम्, न त्वस्य प्रसाधकमस्ति प्रमाणम् । एवञ्जातीयकं तद् यदि स्यात् न कश्चिद् दोषः स्याद्- इति वक्तुं लक्षणमाख्यातमस्येति

5.9

एतच्चेत्यादिना मनोविज्ञनस्योत्पत्तिविषयं दर्शयति । उपरुते चक्षुषौति । यदा चक्षुविषयमालोच्योपरतं भवति तदालोचनाविषये चक्षुर्विज्ञानमुत्पन्नं सत् पुनद्वितीये क्षण आत्मीयविषयानन्तरविषये नोत्पदयतेः इन्द्रियाणां तत्र व्यापाराभावात् । ततश्च तेनेन्द्रियविज्ञानेन स्वविषयानन्तरविषयसहकारिणा प्रत्यक्षमुत्पदयते इति स्थितम् । नन्वेकस्मिन् क्षणे तस्योत्पदके सति न तत्र काचिदर्थक्रियावाप्यते- इति पुरुषार्थानुपयोगित्वात् प्रामाण्यं प्राप्नोति? उच्यतेः न मानसप्रत्यक्षेणास्मद्विघानामर्थक्रियावाप्तिर्भवति, अपि तु योगिनो वीतरागादेः । ते च तस्मिन् क्षणे मानसे चोपदर्शितं विषयं प्रतिपदय धर्मदेशनादिकमर्थक्रियामासादयन्तीत्यनवदयम् ।
अथ व्यापारवति चक्षुषि किमिति मानसोत्पत्तिलुप्यते? इत्याह- व्यापारवतीत्यादि । सर्वेन्द्रियाश्रितं ज्ञानं चक्षुर्विज्ञानमेव, न मानसस्योपत्तिरस्तीत्यभिप्रायः । ननु व्यापारवति चक्षुषि प्रथमे क्षण इन्द्रियविज्ञानं भवति, द्वितीये क्षणे मानसं भवति, यदयपि समानजातीययोर्युगपदुत्पत्तिर्नास्ति? इत्याह- इतरथेत्यादि । एवं मन्यते- व्याआरवति चक्षुषि किमितीन्द्रियविज्ञानं नोत्पदयते, द्वितीये क्षणे योग्यकरणे सति समानरूपम्, तेन तयोः कथमिन्द्रियविज्ञानव्यप्देशो न स्यादिति । ननु च यदि मानसं प्रत्यक्षमिन्द्रियविज्ञानाद् भित्रे प्रत्यक्षादिप्रमाणसिद्धं भवेत्, तदा तस्य लक्षणं यावता प्रमाणसिद्धमेव नास्ति? इत्यह- एतच्चे त्यादि । एवञ्जातीयकमिति । इन्द्रियविज्ञानसदृशम् । तदेतद् धर्मोत्तरेणागमसिद्धं दर्शयतामाचार्यज्ञानगर्भप्रभृतीनां मानससिद्धये यत् प्रमाणमुपन्यस्तम् विकल्पोदयात् इति, तद् भङ्गयावधारणादेव दूषितम् ।
तेरेवं व्यख्यातम्- व्यापारवति चक्षुषि इन्द्रियज्ञानम्त्पदयते, मानसं च, न शक्यते
10 सर्वचित्तचैत्तानामात्मसंवेदनन् ॥ (3)
प्रसङ्गदोषो निरस्तः । अन्धवधिरयोमनोविज्ञाने समनन्तरप्रत्यय इन्द्रियविज्ञानं नास्ति । तेन यदाहुः केचित्- मनोविज्ञानेन बाह्याविषयप्रत्यक्षमङ्गीक्रियते, एवमन्धबबिरादयभावप्रसङ्ग इति, तद्वचनमपास्तं वेदितव्यम्

5.9

सर्वचित्तचैतानामात्मसंवेदनमिति । सर्वे च ते चित्तचैताश्चेति सर्वचितचैत्ताः । स्वसंवेदनमाख्यातुमाह- सर्वचित्तेत्यादि । चित्तम् अर्थमात्रग्राहि । चैत्ता विशेषावस्थाग्राहिणः सुखादयः । सर्वे च ते चित्त्चैत्ताश्च सर्वचित्त वक्तुम्- द्वयोयुगपदुत्पत्तिर्नास्तीतिः यतः समानेन्द्रिययोर्नास्ति, न भिन्नेन्द्रिययोः, षण्णा युगपदुत्पत्तिः इति वचनात् । ततश्च द्वयोर्भिन्नेन्द्रिययोयुगपदुत्पत्तिः । न च तत्र भेदेनानुपलभ्यमानं मानस नास्तीति शक्यते वक्तुम्ः समानजातीयनीलविकल्पीदयात् । यदि च तन्न मानसं स्यात्, तत्पृष्ठभावी नीलविकल्पो न स्यादेव । समानाद्धि मानसात्मनो विकल्पस्योत्पत्तिर्भवति, न विजातीयादिन्द्रियविज्ञानादिति । यथा- देवदत्तेन नीले गृहीते न यज्ञदत्तस्य नीलनिश्चयो भवति, तथेन्द्रियविज्ञानसन्तनयो भिन्नत्वात् । न था मानसमनोविकल्पसन्तानयोर्भिन्नसन्तानत्वम् द्वयोरप्यनिन्द्रियत्वात्, मनोव्यपदेशाच्च इति ।
अत्रोच्यते- यदुक्तं तावत् समानजातीयविकल्पोदयात् इति, तत्सद्धौ यत् साधनं तदनेकान्तिकम्ः विजातीयादप्युत्पत्तिदर्शनादन्वयव्यतिरेकाभ्याम् । न च व्यापारवति चक्षुषि मानसस्योत्पत्तिरस्ति । न च द्वयोनीलविज्ञानयोरुत्पत्तिनिर्विकल्पकयोर्दृश्यते, अनुपलभ्यमानत्वात् तयोः । तेनेन्द्रियविज्ञानादेव विजातीयाद् विकल्पकस्योत्पत्तेनं दिकल्पस्योदयादिति मानससिद्धौ हेतुः । न च देवदत्तयज्ञदत्तयोरिव भिन्नसन्तानवर्तित्वं सविकल्पकनिर्विकल्पकयोः, येन भिन्नसन्तानान्निर्विकल्पकादुत्पत्तिनं स्याद्, एकसन्तानपातित्वात् तयोः । अवश्यं चाङ्गीकर्तव्या विकल्पस्योत्पत्तिः, येन वार्त्तिककार एवमाह-
तद् दृष्टावेव दृष्टेषु संवित् सामर्थ्यभाविनः ।
स्वव्यापारत्वकरणात् स्मरणात् ॥ () इत्यादि ।
सविच्चब्देन इन्द्रियविज्ञानमेवोच्यते, न मानसम् । ततश्च तत्सामर्थ्यभवि कथं विकल्पविज्ञानं स्मरणम्? विजातीयत्वात् । न च तत्र मानसं संविदुच्यते इन्द्रियविज्ञानस्य व्यवहारेण, प्रामाण्यस्य चिन्त्यत्वात् किञ्च इन्द्रियविज्ञानस्य कथं प्रामान्यम्, यदि स्वव्यापारं करोति? स्वव्यापारस्तु स्वविषये विकल्पजनकत्वं नाम, ततश्च विजातीयादपि विकल्पस्योदयादिति यत् किञ्चिदेतत्

5.10

ननु चित्तचैता इति वक्तव्ये सर्वग्रहणस्य व्यावर्त्याभावादपार्थकं तद्ग्रहणम्? सर्वेत्युक्त्या भ्रमज्ञानान्यपि परिगृह्यन्ते । तेषा च यत् स्वरूपप्रकाशनं तदात्मसंवेदनम् ।
सर्वे हि चित्तचैत्ताः प्रतीतिस्वभावत्वात् स्वरूपज्ञापका भवन्ति । यथा प्रदीपः प्रकाशस्वभावत्वाद् आत्मनो ऽपि प्रकाशको भवति, स्वरूपप्रकाशे च प्रदीपान्तरं नापेक्षतेः चैत्ताः । सुखादय एव स्फुटानुभवत्वात् स्वसंविदिताः, नान्या चित्तायस्था- इत्पेतदाशङ्कानिवृत्त्यर्थ सर्वग्रहणं कृत्तम् । नास्ति सा काचित् चित्तावस्था, यस्यामात्मनः संवेदनं न प्रत्यक्षं स्यात् ।
येन हि रूपेणात्मा वेदयते तद्रूपमात्मसवेदनं प्रत्यक्षम् ।
इह च रूपादौ वस्तुनि दृश्यमाने आन्तरः सुखादयाकारस्तुल्यकालं संवेदयते । न च गृहयमाणाकारो नीलादिः सातरूपो वेदयते- इति वक्तुं शक्यम्ः यतो नीलादिः सातरूपेणानुभूयते इति च निश्चीयते ।
यदि हि सातरूपो ऽयं नीलादिरनुभूयते इति निश्चीयेत, स्यात् तदा तस्य सातादिरुपत्वम् । यस्मिन् रूपे प्रत्यक्षस्य साक्षात्कारित्वव्यापारो विकल्पेनानुगम्यते तत् प्रत्य्क्षम् ।
इत्याह- सुखादय एवेत्यादि । न केवलं प्रसिद्धाः सुखः दयश्चित्तर्चत्ताः स्वसंवेदना गृह्यन्तेः अन्ये ऽपि स्वसंवेदना इति तात्पर्यम् । अमुमेवार्थ दर्शयति- नास्तीत्यादिना । शुद्धस्य चित्तावस्थारूपस्यासंवेदितस्याभावमाहेति भावः । एवं ब्रुबता टीकाकृतानेन निरोधसमापत्त्यस्थायां शुद्धचित्ताभाव एवेत्यभिप्रायः प्रदर्शितः । तस्यामवस्थायां न काचित् चित्तावस्था संवेदयते यतः ।
ननु चित्तचैत्तानामात्मसंवेदर्न नास्ति, स्वात्मनि कारित्वविरोधादित्युक्तम्? इत्याह- येन हीत्यादि । यस्मादनेन बोधस्वरूपेणात्मस्वरूपं वेदयते, तत् प्रत्यक्षमात्मसंवेदनमुच्यते । एवं मन्यते- यथा प्रदीपः प्रकाशतया स्वरूपं निवेदयन्नात्मप्रकाशने न प्रदीपान्तमपेक्षते, तथा चित्तादिकमपि संविद्रूपतया स्वरूपं निवेदयदात्मसंवेदने न ज्ञानान्तरमपेक्षते । न च स्वात्मनि कारित्वविरोधः, यतो वास्तवकारकत्वाभावः । अत्रापि कल्पनया प्रकाश्च्यप्रकाशकत्वेन कर्मकर्तृभावः । तत्रापि नीलाकारोत्पत्तिरेव प्रकाशकत्वं ज्ञानस्य प्रदीपस्यापि प्राग्भावित्वमेव । प्रकाशत्वं कल्पनापरो व्यापारः । बोधस्य तु बोधरूपतयोत्पत्तिरेव स्वप्रकाशकत्वम् । ततश्च विज्ञानं बोधरूपतया प्रत्यक्षेणानुभूयमानं कथमपह्नुयते भवता परोक्षं विज्ञानमिति । एवं तावत् मौसांसकादीन् प्रति विज्ञानं संवेदनप्रत्यक्षनिर्दिष्टम् ।
यस्तु सांख्यो ऽपि बाह्यारूपाः सुखादयः इति मन्यते, तं प्रत्याह- इह च
11 मूतार्थभावनाप्रकर्षपर्यन्तजं योगिज्ञानं चेति ॥ (4)
तथा चित्तचैता अपि स्वरूपावबोधे ज्ञानान्तरं नापेक्षन्ते । ततश्च स्वसिद्धभावाः स्वयं प्रत्यक्षप्रमाणं भवन्ति

5.10

भूतार्थभावनाप्रकर्षपर्यन्तजं योगिज्ञानमिति । भूतः= अविपरीतः अर्थ इति भूतार्थः । यथा चत्वारि आर्यसत्यानि । तस्य भावना भूतार्थभावना । भावना इति न च नीलस्य सातरूपत्वमनुगम्यते । तस्मादसातान्नीलादयर्थादन्यदेव सातमनुभृयते नीलानुभवकाले । तच्च ज्ञानमेव । ततो ऽस्ति ज्ञानानुभवः । तच्च ज्ञानरूपदेवदनमात्मनः साक्षात्कारि निर्विकल्पकम्, अभ्रान्तं च । ततः प्रत्यक्षम्

5.10

योगिप्रत्क्षं व्याख्यातुकाम आह- भतार्थेत्यादि । भूतः सद्भूतो ऽर्थः । प्रमाणेन दृष्टश्च सद्भूतः । यथा- चत्वार्यायसत्यानि ।
भूतस्य भावना पुनः पुनश्चेतसि विनिवेशनम् । भावनाया प्रकर्षः भाव्यमानार्थभासस्य ज्ञानस्य स्फुटाभत्वारम्भः । प्रकर्षस्य पर्यन्तो यदा स्फुटाभत्वमीषदसम्पूर्ण भवति । यावद्धि स्फुटाभत्वपरिपूर्ण तावत् तस्य प्रकर्षगमनम् ।
रूपादौ दृश्यमान इत्यादि । एवं मन्यते- नीलरूपात् सातादिकमन्तरं संवेदनं प्रत्यक्षेणानुभूयमानं न बाहयेनाभिन्नरूपं जडरूपं च शक्यते व्क्तुमिति ।
अमुम्वार्थ न च गृह्यमाणाकार इत्यादिना दर्शयति ।
साक्षात्कारित्वव्यापार इति । प्रत्यक्षस्य व्यापारः । विकल्पः तत्पृष्ठभावी ।
न च नीलस्य सातरूपत्वमनुगम्यत इति । तत्पृष्ठभाविना विकल्पेन सातरूपो नीलादिनानुगम्यत इत्यर्थः । तेन नीलादिः सातस्वभावो न प्रत्यक्षसिद्धः इति साङ्खयं निराकुर्वता ग्राह्याग्राहकं सातादिरूपं भिन्नं प्रत्यक्षं प्रदर्शितम् । तेन युक्तमुक्तं कैश्चित्- ग्राहयाद् भिन्नं ग्राहकं न प्रत्यक्षेणानुभूयते इति । तेन किञ्चिन्नाम नापह्वु तं भवतीत्युक्तम् । तस्मात् सर्वाण्येतानि चित्तचैतानि स्वसंवेदनप्रत्यक्षाणीति ।
तेषां लक्षणं योजयति- तच्चेत्यादिना । तत्प्रत्यक्षं स्वसंवेदनरूपं निर्विकल्पकम् तत्र शब्दादियोजनाभावात् । कुतः? शब्देन संकेताभावात् । अभ्रान्तं च तद्विज्ञानं स्वरूपे ऽविपर्यस्तत्वात्, बाधकाभावाच्चेति

5.11

भाव्यमानार्थाभासस्येति । क्षणिकत्वादिग्राहिणः । स्फुटाभत्वारम्भ इत्यादयतिशयस्योपक्रमात् । ततः परेणातिशयाभावाद् ज्ञानस्य । ततश्च क्षणिकत्वादिग्राहि मनोविज्ञानं भाव्यमानमीषदसम्पूर्णमन्तक्षणः प्रकर्षपर्यन्त उच्यते । तदेव दर्शयति अभ्यासः । तस्याह् प्रकर्षो भूतार्थभावनाप्रकर्षः । स्मृत्युपस्थानोष्मगतमूर्धक्षान्तयः । तस्य पर्यन्तो भूतार्थभावनाप्रकर्षपर्यन्तः । पर्यन्तस्तु अग्रधमाः । तस्माज्जायत इति भूतार्थभावनाप्रकर्षपर्यन्तजम् । योगः= समाधिः, स येषामस्ति ते योगिनः । तेषां ज्ञान योगिज्ञानम् ।
तथा हि समाधिवलप्रभवं भूत-भावि-वर्तमानानां यथायर्थ प्रकाशकं ज्योतिः अविभ्रममाविर्भवति । यथा देवाद्यष्ठानप्रभावेण सत्यानि स्वप्नज्ञानानि भूत-भावि- सम्पूर्ण तु यदा, तदा नास्ति प्रकर्षगतिः । ततः सम्पूर्णावस्थायाः प्राक्तनी अवस्था स्फुटाभत्वप्रकर्षपर्यन्त उच्यते । तस्मात् पर्यन्तात् यज्जातं भाव्यमानस्याथस्य सन्निहितस्येव स्फुटतराकारग्राहि ज्ञानं योगिनः प्रत्यक्षम् ।
तदिह स्फुटाभत्वारम्भावस्था भावनाप्रकर्षः । अभ्रकव्यवहितमिव यदा भाव्यामानं वस्तु पश्यति सा प्रकर्षपर्यन्तावस्था । करतलामलकवत् भाव्यमानस्यार्थस्य यद् दर्शन तद् योगिनः प्रत्यक्षम् । तद्धि स्फुटाभम् ।
यदा स्फुटाभत्वमित्यादिना । तदिह स्फुटाभत्वारम्भेत्यादिना उपसंहारच्यजेन योगिनो मनोविज्ञानस्यावस्थात्रयं दर्शयति- भावनाप्रकर्षावस्थैका, प्रकर्षपर्यन्तावस्था द्वितीया, भाव्यमानस्य करतलामलकवद् दर्शनं योगिनस्तृतीयावस्थेति ।
तदिह स्फुटाभमित्यादिना योगिनो मनोविज्ञानमपि स्फुटाभत्वादेवेन्द्रियविज्ञानवन्निविकल्पकं दर्शयति ।
निर्विकल्पानुबद्धस्य स्पष्टार्थः प्रतिभासते ।
इति न्यायाद् यदयपि मनोविज्ञानेन भावनाप्रकर्षपर्यन्तेन शब्दार्थो युगपद गृह्यते तथापि द्वयोः स्वरूपस्य सन्निहिततया गृह्यमाणत्वात् तद्ग्राहि विज्ञानं निर्विकल्पकमिति ।
ननु च मनोविज्ञानं भाव्यमानं वाच्यवाचकसंसृष्टं प्रतिभासते यथा, तथैव भाव्यमानं प्रकर्षपर्यन्तर्ज मनोविज्ञानं वाच्यवाचकप्रतिर्भासि स्फुटाभं भवति । तदा स्फुटाभत्वान्निर्विकलको ऽयमित्यनैकन्तिको हेतुरिति यच्चोदितं परेण, तत् परिहतु मुपक्रमते- विकल्पविज्ञानं हीत्यादिना । एव मन्यते- अय्द्यपि मनोविज्ञानं वाच्य वाचकसंसृष्टिप्रतिभासि, तथापि स्फुटाभत्वावस्थायां तदलीकाकारं वाच्यवाचकरूपमपैति । वित्तिरूपं तु तस्य निजम् । अतस्तदेव चिद्रूपं ज्ञानं स्फुटं भवति, न वाच्य वाचकाकारतयाः तयोरारपितरूपत्वात् । आरोपितरूपग्रहणस्फुटत्वमेव न स्यादिति नानेकान्तिकत्वं हेतोः, स्फुटाभत्वादित्यस्य । यदा तु विकल्पविज्ञानं शब्दसंसर्गयोग्यवस्तु गृह्णति, तदा संकेतकालदृष्टत्वेन तद्वस्तु गृह्णाति । तदसन्निहितम् तदा विविधवस्तुविषयाणि अविभ्रमाण्युत्पद्यन्ते, तथैव योगबलेन ध्येयानां ज्ञानमतीतानागत दूर सान्तर अणुभूतविषयाणा प्रकाशकं ज्योतीरूपमुत्पद्यते । तस्मात् प्रत्यक्षप्रमाणत्वमिषय्ते ।
अत्र प्रयोगः- योगीश्वराणामेकाग्रचित्तानां ज्ञानं भूत भावि वस्तुविषयकं प्रमाणम् अमेयभूत भाविवस्तुजातस्य अभ्रान्तोपदर्शनहेतुत्वाद्, भूतग्रहविशेषाविष्टुज्ञानवत् । यन्न प्रामाणिकं तन्न अमेयभूतभावि वस्तुजातस्याभ्रान्तोपदर्शनहेतु, यथाउन्मत्तज्ञानम् । अप्रापकस्यापि अमेय भूत भाविवस्तुजातस्य अभ्रान्तोपदर्शनहेतवे ऽयोग्यमपकारकमपि प्रमाणं ष्यात् । दम्भमात्रेणामेयस्य पदार्थस्य अभ्रान्तोपदर्शनं हि न सम्भवति ।
तस्य व्याख्यानम्- यथा ग्रहविशेषावेशे भूत भाविवस्तुसमूहानुशासनम्, तथा योगिष्वपि भूतभावि वस्तु अनुशासनमभ्रान्तमुपलभ्यते । यथा हरीतक्यादि भाविरोगनिर्{आअ}रणसमर्थमिति चरकादिमिनीनामभ्रान्तमनुशासनमुपलभ्यते । यथा वा भगवत शाक्यमुनेरुपदेशे भाविदेशनिमित्त सत्योपलब्धि मातृचेट कालक्षय राजाशोकादि आशावन कश्मीरादेशागमा अविपरीता उपलभ्यन्ते

5.11

स्फुटाभत्वादेव च निर्विकल्पकम् । विकल्पविज्ञानं हि संकेतकालदृष्टत्वेन वस्तु गृह्णत् शब्दसंसर्गयोग्यं गृह्णीयात् । संकेतकालदृष्टत्वं च संकेतकालोत्पन्नज्ञानविषयत्वम् । यथा च पूर्वोत्पन्नं विनष्टं ज्ञानं सम्प्रति असत्, तद्वत् पूर्वविनष्टज्ञानमपि सम्प्रति नास्ति वस्तुनः । तदसद्रूपं वस्तुनो गृह्णद्, असन्निहितार्थग्राहित्वाद् अस्फुटाभं विकल्पकम् । ततः स्फुटाभत्वान्नि विकल्पकम् ।
प्रमाणशुद्धार्थग्राहित्वाच्च संवादकम् । अतः प्रत्यक्षम्, इतरप्रत्यक्षवत् ।
योगः= समाधिः, स यस्यास्तीति योगी, तस्य ज्ञानं प्रत्यक्षम् । इति शब्दः परिसमाप्तिवचनः । इयदेव प्रत्यक्षमिति

5.11

तस्य संकेताभावात् । तच्च पूर्वदृष्टं पूर्वविज्ञानस्य विषयः । तच्च पूर्वविज्ञानं संप्रति शब्दसंसर्गयोग्यवस्तुग्रहणकाले नास्ति, क्षणिकत्वाज्ज्ञानस्य । तद्वत् पूर्वविज्ञानविषय त्वमपि सम्प्रतिनास्ति, विषयिणो ज्ञानस्याभावे विषयस्याप्यर्थस्य संकेतकालभावि नो ऽभाव इत्यसन्निहितं संकेतकालभावि तद् वस्त्वारोप्य गृह्णद् विकल्पविज्ञानमस्फुटं भवतीति । स्फुटत्वं ततो निवृत्तं निर्विकल्पे ऽवत्तिष्ठते इति व्याप्तिः सिध्यति । ततः स्फुटत्वान्निर्विकल्पकं योगिज्ञानमभ्रान्तं च प्रमाणेन शुद्धार्थग्राहित्वात् संवादकम् ।
इयदेवेति । इन्द्रियविज्ञानादारभ्य योगिज्ञानपर्यन्तं नैकमेवेन्द्रियप्रत्यक्षमित्यर्थः । नाप्यधिकम्ः अधिकस्यानुपलभ्यात्

5.12

12 तस्य विषयः स्वलक्षणम् ॥
विषयविप्रतिपत्तिनिरासार्थमाह- तस्य विषयः स्वलक्षणमिति । प्रत्यक्षं प्रमाणं यदुक्तम्- तस्य विषयः स्वलक्षणमेव इति द्रष्टव्यम्, न तु सामान्यलक्षणम् सामान्यस्यावस्तुत्वात्, प्रत्यक्षेण च वस्तुस्वरूपोपलम्भात्

5.12

तदेवं प्रत्यक्षस्य कल्पनापोढत्वाभ्रान्तत्वयुक्तस्य प्रकारभेदं प्रतिपादय विषयविप्रतिपत्ति निराकतुकाम आह- तस्येत्यादि ।
तस्य चतुविधस्य प्रत्यक्षस्य विषयो बोद्धव्यः स्वलक्षणम् । स्वम्= असाधारणं लक्षणं तत्त्वं स्वलक्षणम् । वस्तुनो ह्यसाधारणं च तत्त्वमस्ति सामान्यं च । तत्र यदसाधारणं तत् प्रत्यक्षस्य ग्राह्यम् ।
द्विविधो हि विषयः प्रमाणस्य- ग्राह्यश्च यदाकारमुत्पद्यते, प्रापणीयश्च यमध्यवस्यति । अन्यो हि ग्राह्यः, अन्यश्चाध्यवसेयः । प्रत्यक्षस्य हि क्षण एको ग्राह्यः । अध्यवसेयस्तु प्रत्यक्षबलोत्पन्नेनन् निश्चयेन सन्तान एव ।
सन्तान एव च प्रत्यक्षस्य प्रापणीयः, क्षणस्य प्रापयितुमशक्यत्वात् ।
तथानुमानमपि स्वप्रतिभासे ऽनर्थे ऽर्थाध्यवसायेन प्रवृत्तेरनर्थग्राहि ।
प्रकारभेदमिति । प्रत्यक्षं सामान्यं निर्विकल्पकमभ्रान्ताम् । तस्य प्रकारभेद इन्द्रियज्ञानादिः । तं प्रतिपाद्येत्यर्थः । विषयविप्रतिपत्तिमिति । इह कैश्चिन्मीमांसकाबिधिः प्रत्यक्षस्य सामान्यविशेषो द्वावपि विषयकल्पितौ । अनुमानस्य सामान्यमेव विषयः, न विशेषः । साङ्खयेन द्वयोरपि विशेषो विषय इष्टः सामान्यस्याभावात् । वेदान्तवादिना च सामान्यमेव विषयो द्वयोः, आत्मार्द्वततया सर्वस्यैकत्वाद विशेषे भ्रान्तत्वाद द्वयोरिति विप्रतिपत्तिः प्रत्यक्षादिविषये ।
स्वलक्षणमिति । अनेनेष्टं विषायं दर्शयति । तत्त्वमिति । अर्थक्रियाकारि । अनेन लक्षणशब्दो विवृतः । लक्ष्यते दाहाद्यर्थक्रिया येन तत्लक्षणम् । एतद् दर्शयति असाधरणमेव तत्त्वं वस्तुनो रूपम् । साधारणं तु तत्त्वमारोपितं रूपम् पूर्वापरक्षणा नामभेदाव्यवसायात् । अतो वस्तुनो रूपद्वयम्- असाधारणं, सामान्यं च । तत्रा साधारणतत्त्वं प्रत्यक्षस्य ग्राहविषय इति दर्शयति- यदसाधारणमित्यादिना । ननु किमुच्यते ग्राह्यविषय इति, यावता किमन्यो विषयो ऽस्ति प्रत्यक्षस्य? अस्तीत्याह- द्विविध इत्यादि । य्मध्यवस्यतीति । यं सन्तानरूपेण स्थितमर्थ तत् पृष्ठ भाविन विकल्पेन विन्श्चिनोति । ननु च कथं प्रत्यक्षस्य सन्तानो विषयः, यतो विकल्पस्यासौ विषयः? उच्यते उपचारात् । प्रत्यक्षव्यापारेण विकल्पेनाध्यवसेयतया विषयीकृतत्वात् प्रत्यक्षविषय इत्युच्यते उपचारादित्यदोषः । द्वैविध्यमेव स्फुटयतिअन्यो हीत्यादिना ।
13 यस्यार्थस्य सन्निधानासन्निधानाभ्यां ज्ञानप्रतिभासभेदस्तत् स्वलक्षणम् ॥
स्वलक्षणं च कीदृशमवगन्तव्यमिति चेत्? तत्राह- यस्येति ।
सन्निधानम्= योग्यदेशे स्थितिः । असनिधानम्= अयोग्यदेशे स्थितिः, सर्वथा सर्वत्राभावश्च । सन्निधानं च असन्निधानं चेति सन्निधानासन्निधाने, ताभ्यां हि ज्ञाने विस्फुटत्वास्फुटत्वविशेषः क्रियते । सन्निधाने स्फुटप्रतिभासं ज्ञानमुत्पद्यते । असन्निधाने स पुनरारोपितो ऽर्थो गृह्यमाणः स्वलक्षणेत्वेनावसीयते यतः, ततः स्वलक्षणमवसितं प्रवृत्तिविषयो ऽनुमानस्य । अनर्थस्तु ग्राह्यः । तदत्र प्रमाणस्य ग्राह्य विषयं दर्शयता प्रत्यक्षस्य स्वलक्षणं विषय उक्तः

5.12

कः पुनरसौ विषयो ज्ञानस्य यः स्वलक्षणं प्रतिपत्तव्यः? इत्याहयस्यार्थस्येत्यादि । अर्थशब्दो विषयपर्यायः । यस्य ज्ञानविषयस्य । सन्निधानम् निकटदेशावस्थानम्, असन्निधानम् दूरदेशावस्थानम्, तस्मात् सन्निधानादसन्निधानाच्च ज्ञानप्रतिभासस्य ग्राह्यकारस्य भेदः स्फुटत्वास्फुटत्वाभ्याम् ।
तथानुमानमित्यादिना प्रसंगेनानुमानस्यापि विषयद्वैविध्य दर्शयति ।
स्वलक्षणत्वेनावसीयत इति । दाहाद्यर्थक्रियासमर्थत्वेनावसीयत इत्यर्थः । तदनेत्यादिना प्रमाणचिन्तायां ग्राह्याविषयदर्शनो ऽयम्, न प्राप्यं विषयमिति दर्शयति, ग्राह्य एव विषये सर्वेषां विप्रतिपत्तेः

5.13

कः पुनरसौ विषय इत्यादि । एवं मन्यते- ननु प्रत्यक्षस्य स्वलक्षणं विषयः इत्युक्ते सामान्यमपि तस्य विषय इति तदप् स्वलक्षणं प्राप्नोतीति प्रश्नः । असन्निधानं दूरदेशावस्थानमिति ब्रुवता विनीतदेव स्य व्याख्या दूषिता । तेन ह्येवैव्याख्यातम्- सर्वेण रूपेण वस्तुनो ऽभावो ऽसन्निधानम् इति । एतदसङ्गतम् यस्माद् वस्तुनस्तत्राभावे ज्ञानमेव ह भवति । ततश्च ज्ञानप्रतिभासभेद इति न घटते ।
यो हीत्यादिनेतद् दर्शयति । अर्थक्रियासमर्थस्यैव सन्निधानासन्निधानाभ्यां स्फुटास्फुटप्रतिभासभेदः, न सामान्यस्येति । न सामान्यं स्वलक्षणम् आरोपितरूपस्य दूरासन्नाभ्यां सर्वदवाद्फुटत्वादिति । ननु सामान्यमेव दूरे गृह्यमाणमस्फुटप्रतिभासं न स्वलक्षणम्? इत्याह- सर्वाण्येवेत्याहि । सामान्यस्याविद्यमानत्वादिति प्रश्नः । अतस्तान्येव स्वलक्षणानि स्फुटास्फुटप्रतिभासीनि,न सामान्यम् ।
ननु यदि दूरासन्नाभ्यां स्वलक्षणं स्पष्टास्पष्टप्रतिभासं रूपद्वयं तस्य स्यात्, ततश्च निकटस्थितस्य प्रतिभासद्वयं स्यात् न च नियमः- दूरे ऽस्पष्टम्, निकटे स्पष्टमिति? उच्यते न हि नोलं वस्तु स्पष्टरूपमस्पष्टं च, अपितु नीलं साध्यार्थक्रियासमर्थ
14 तदेव परमार्थसत् ॥
च अस्फुटं ज्ञानमुत्पद्यते । ज्ञाने यो ऽर्थः प्रतिभासवैलक्षण्यं करोति स एव स्वलक्षणम्

5.14

अस्तु परमार्थदेव वस्तु प्रत्यक्षस्य विषयः, कस्मात् स्वलक्षणं विषय इति चेत्? तत्राह- तदेवेति ।
परमश्चासावर्थश्चेति परमार्थः । परम इति अकृत्रिमः । आरोपशून्य इति शेषः । परमार्थः सदिति परमार्थसत् । स्वलक्षणमेव हि परमार्थसत् । तेन न यथोक्तदोषः

5.13

यो हि ज्ञानविषयः सन्निहितः सन् स्फुटाभासं ज्ञानस्य करोति, असन्निहितस्तु योग्यदेशस्थ एवास्फुटं करोति, तत् स्वलक्षणम् । सर्वाण्येव हि वस्तूनि दूरास्फुटानि दृश्यन्ते, समीपे स्फुटानि । तान्येव स्वलक्षणानि

5.14

कस्मात् पुनः प्रत्यक्षविषय एव स्वलक्षणम्, तथाहि विकल्पविषयो ऽपि वह्निर्दृश्यात्मक एवावसीयते? इत्याह- तदेव परमार्थसदिति । परमो ऽर्थः अकृत्रिममनारोपितं रूपम्, तेनास्तीति परमार्थसत् । य एवार्थः सन्निघानासन्निधानाभ्यां स्फुटमस्फुटं च प्रतिभासं करोति परमार्थसन् स एव । स च प्रत्यक्षस्य विषयो यतः, तस्मात् तदेव स्वलक्षणम्

5.13

नीलपरमाणुद्वयम् । स्पष्टास्पष्टाकारौ चोपाधिकृतौ । यदा दूरे नीलं पश्यति तदालोकपरमाणूनां च रजःपरमाणुभिरभिभूतत्वात् स्पष्टप्रतिभासं ज्ञान भवति । निकटे तु आलोकपरमाणूनां बहुत्वान्न ते रजःपरमाणुभिरभिभूता इति स्पष्टप्रतिभासं ज्ञानं जायते । ज्ञानस्य स्पष्टाद्वारेणार्थस्य स्पष्टास्पष्टरूपे भवतः, न परमार्थत इति । सामान्यस्य तु ज्ञानद्वारेण न स्पष्टास्पष्टरूपे, तेन न तत् स्वलक्षणम्

5.15

ननु तस्य विषयः स्वलक्षणम् इत्युक्तम्, तत्र यदि प्रत्यक्षस्यैव विषयो भवति स्वलक्षणम्, नान्यस्येति, तदानुमानादेनं स्वलक्षणविषयः, किन्तु प्रत्यक्षस्यान्यो विषयस्यात् । अथ प्रत्यक्षस्य स्वलक्षणं विषयो नान्यः, तदानुमानस्य स्वलक्षणं विषयो न विषिद्ध इति स्वलक्षणविषयमनुमानं स्यादिति मन्यमानः पृच्छति- कस्मात् पुनरित्यादिना । नानुमानस्य । विकल्पस्य विषयो वास्तवो न भवति । कथं स्वलक्षणं भवति? इत्याह- तथा हीत्यादि । यद्यपि विकल्पस्य विषयो वस्तु न भवति, तथापि स एव स्वलक्षणम्, दाहाद्यर्थक्रियारूपेण व्यवसायादित्यभिप्रायः ।
तदेव परमार्थसदिति । एवं मन्यते- न ह्यारोपबलादवस्तु वस्तु भवति,
15 अर्थक्रियः सामर्थ्यलक्षणत्वाद् वस्तुनः ॥
16 अन्यत् सामान्यलक्षणम् ॥
कस्मात् स्वलक्षणमेव परमार्थसदिति चेत्? तत्राह अर्थेति ।
अर्थः= प्रयोजनम् । क्रिया= निष्पत्तिः । अर्थस्य क्रिया अर्थक्रिया । प्रयोजन निष्पत्तिरिति शेषः । तस्यां सामर्थ्यम् अर्थक्रियासामर्थ्यम् । अर्थक्रियासामर्थ्य लक्षणं= स्वभावो यस्य वस्तुनस्तद् अर्थक्रियासामर्थ्यलक्षणम् । तस्य भावः अर्थक्रियासामर्थ्य लक्षणत्वम्, तस्मात् अर्थक्रियासामर्थ्यलक्षणत्वात् ।
एवं यदर्थक्रियासमर्थ तदेव वस्तु इति स्वलक्षणेनैवार्थक्रिया- इत्युपदर्शितं भवति । तस्मात् स्वलक्षणमेव परमार्थसत्

5.15

कस्मात् पुनस्तदेव परमार्थसत्? इत्याह- अर्थेत्यादि । अर्थ्यत इति अर्थः हेय उपादेयश्च । हेयो हि हातुमिष्यते, उपादेयश्चोपादातुम् । अर्थस्य प्रत्योजनस्य, क्रिया निष्पत्तिः, तस्यां सामर्थ्य शक्तिः, तदेव लक्षणं रूपं यस्य वस्तुनः, तद् अर्थक्रियासामर्थ्यलक्षणम्, तस्य भावस्तस्मात् ।
वस्तुशब्दः परमार्थपर्यायः । तदयमर्थः- यस्मादर्थक्रियासमर्थः परमार्थसदुच्यते, सन्निधानासन्निधानाभ्यां च ज्ञानप्रतिभासस्य भेदको ऽर्थो ऽर्थक्रियासमर्थः, तस्मात् स एव परमार्थसत् । तत एव हि प्रत्यक्षविषयादर्थ क्रिया प्राप्यते, न विकल्पविषयात् । अत एव यदयपि विकल्पविषयो दृश्य इवावसीयते, तथापि न स दृश्य एव ततो ऽर्तह्क्रियाया अभावात्, दृश्याच्च भावात् । अतस्तदेव स्वलक्षणम्, न विकल्पविषयः

5.14

अन्यदित्यादि । एतस्मात् स्वलक्षणात् यदन्यत्-स्वलक्षणं यो न सर्वस्य शशविषाणादेर्वस्तुत्वप्रसङ्गात् । वस्तु तदवानुपचरितस्वरूपम्, अतस्तदेव वलक्षणम्

5.15

ननु विकल्पविषयो ऽप्यर्थः परमार्थसन्नेव । इदमेव परमार्थसत्त्वं यदुत ज्ञाने प्रतिभासनम् । सामान्यपि ज्ञाने प्रतिभासते, तदपि परमार्थसदिति मःयमानः पृच्चति- कस्मात् पुनस्तदेव परमार्थसदिति । अर्थ्यत इत्यादिना अर्थक्रियासामर्थ्य लक्षणत्वपदस्यार्थ विवृणोति । तदयमथ इत्यादिना समुदायस्य पदानां तात्पर्य दर्शयति । एवं मन्यते- यस्मादर्शक्रियासमर्थ परमार्थसत्, तस्मान्न सामान्यं परमार्थसत्, दाहादयर्थक्रियायामनुपयोगात् । न च प्रतिभासवलात् तत्त्वम् असद्रूपस्या प्यविदयाबलप्रतिभासनात् । न च ज्ञानजनकत्वेनार्थक्रियाकारित्वम्, तस्य ज्ञानस्य विनापि सामान्येन वासनाबलात् सामान्यैषयोत्पत्तेरिति

5.16

एतस्मादित्यादिना अनुमानविषयं दर्शयति । तथा हीत्यादिना प्रत्यक्षविषक्येण
17 सो ऽनुमानस्य विषयः ॥
अन्यत् सामान्यलक्षणमिति । उक्तस्वलक्षणस्वभावाद् यदन्यत् प्रमेयं तदेव सामान्यलक्षणम् । यस्यार्यस्य सन्निधाने ऽपि च ज्ञानमेकरूअमेव भवति इति

5.16

सो ऽनुमानस्य विषय इति । सामान्यलक्षणमनुमन्नस्यैव विषयः, अन्वयव्यतिरेकवत्त्वेन व्याप्तत्वात् ।
अन्नानवसरे ऽपि वचनबाहुल्यं स्यात्? इत्यासह्ङ्कया सामान्यलक्षणमुक्तम् । तथा हि- अन्न स्वलक्षणाभिधानावसरे अवतरणेन तद्विपरीतलक्षणस्य ज्ञानं सुकरमिति सामान्यलक्षणमुक्तम् ।
भवति ज्ञानविषयः, तत् सामान्यलक्षणम् । विकल्पज्ञानेनावसीयमानो सन्निधानासन्निधाभ्यां ज्ञानप्रतिभासमात्रं न भिनत्ति । तथाहि- आरोप्यमाणो वह्निरारोपादस्ति । आरोपाच्च दूरस्थो निकटस्थश्च । तस्य समारोपितस्य सन्निधानादसन्निधानाच्च ज्ञानप्रतिभासस्य न भेदः स्फुटत्वेन, अस्फुटत्वेन वा । ततः स्वलक्षणादन्य उच्यते । सामान्येन लक्षणं सामान्यलक्षणम् । साधारणं रूपमित्यर्थः । समारोप्यमाणं हि रूपं सकलवह्निसाधारणम् । ततः सामान्यलक्षणम्

5.17

तच्चानुमानस्य ग्राह्यं दर्शयितुमाह- सो ऽनुमानस्येत्यादि । सो ऽनुमानस्य विषयो ग्राह्यरूपः । सर्वनाम्नो ऽभिधेयवत् लिङ्गपरिग्रहः ।
सामान्यलक्षणमनुमानस्य विषयं व्यख्यातुकामेनायं स्वलक्षणस्वरूपाख्यानग्रन्थः आवतनीयः स्यात् । ततो लाघवार्थ प्रत्यक्षपरिच्चेद एवानुमानविषय उक्तः

5.16

सह विकल्पविषयस्य सामान्यस्य विसदृशत्वं दर्शयति । कथं पुनर्विकल्पस्य विषयो भवति सामान्यम्? इत्याह- समारोप्यमाणमिति । सकलवह्निसाधारणतया सामान्याकारस्य संवेदयत्वादित्यभिर्पायः

5.17

सो ऽनुमानस्य विषयो ग्राह्यरूप इति । ग्राह्यं रूपमस्येति बहुवीहिः । अत्रापि ग्राह्यापेक्षया विषयो व्यवस्थापितः, न प्राप्यापेक्षया तत्राविप्रत्तिपत्तेः । ननु सामान्यमिति न्पुंसकलिङ्गं प्रस्तुत्य स इत्यनेन पुंल्लिगे परामर्शः कथम्? इत्याह- सर्वनाम्न इत्यादि ।
कस्मात् पुनः प्रत्यक्षपरिच्चेद अनुमानस्य विषयविप्रतिपत्तिनिराकृता वार्तिककारेण, नानुमानपरिच्चेदे? इत्याह- सामान्यलक्षणमित्यादि । एवं मन्यते-
18 तदेव च प्रत्यक्षं ज्ञानं प्रमाणफलम् ॥
सो ऽनुमानस्य विषय इति हि स्वल्पवचनेनोपन्यासः । अन्यथा अनुमानविषय प्रदर्शनार्थ सर्वस्याप्येतद्वचनस्योच्चारणमावश्यकं स्यात्

5.18

फलविप्रतिपत्तिनिरासार्थमाह- तदेव चेति ।
अयं चास्य सम्बन्धः- यदि प्रत्यक्षस्य प्रमाणत्वमिष्टं तर्हि रूपादिप्रमेयपरीक्षणलक्षणेन प्रमाणफलेन भवितव्यम् । यथा कुठारिकया वृक्षादिचेदने द्विखण्डीकरणं फलं दृश्यते, इत्यत आह- तदेव प्रत्यक्षज्ञानं प्रमाणफलमिति । तदेव प्रत्यक्षज्ञानं प्रमाणफलम्, प्रत्यक्षात् प्रत्यक्षज्ञानादतिरिकतं फलं नास्तीति

5.18

विषयविप्रतिपत्ति निराकृत्य फलविप्रतिपत्ति निराकर्तुमाह- तदेवेति । यदेवानन्तरमुक्तं प्रत्यक्षं ज्ञानं तदेव प्रमाणस्य फलम्

5.17

यदयनुमानपरिच्चेदे ऽनुमानस्य विषयो व्यवस्थाप्येत तदा तत्रैवं ग्रन्थः कर्तव्यः स्यात् । को ऽसावनुमानस्य विषयः? प्रत्यक्षविषयादन्यः । प्रत्यक्षस्यैव को ऽसौ विषयः? यदतेक्षयायमन्यः । पुनर्वक्तव्यं स्वलक्षणमित्येवमावत्त्यमाने गौरवं स्यात् । ततो लाघवार्थमत्रैव कथितमिति

5.18

फलविप्रतिपत्ति निराकर्तुमाहेति । कथं प्रमाणस्य फले विप्रतिपत्तिः । तथा हि- प्रमाणं कारणं प्रमितिक्रियां विना न भवति, यथा- चित्तिं विना न परशुः । ततश्च प्रमाणात् कारणात् पृथक फलेनार्थसम्प्रवृत्तिलक्षणेन भवितव्यम् स्वात्मनि क्रियाकरणत्वविरोधात् । न हि परशुरेव चित्तिरिति । अतो मीमांसकेन इन्द्रियं प्रमाणमिन्द्रियार्थसन्निकर्षः, मन इन्द्रियसन्निकर्षः, आत्मन सन्निकर्षश्चेष्टः । सर्वे सन्निकर्षाश्चेति । तदुक्तम्-
यद्वेन्द्रियं प्रमाणं स्यात् तस्य चार्थेन सङ्गतिः ।
मनसो विन्द्रियैर्योग आत्मना सर्व एव वा ॥
इत्यर्थावबोधः फलम्, तत्र व्यापाराच्च प्रमाणतेति ।
तदा ज्ञान फलं तत्र व्यापाराच्च प्रमाणता ।
व्यापारो न यदा तेषां तदा नोत्पदयते फलम् ॥
था पूर्व पूर्व प्रमाणम्, उत्तरमुत्तरं फलमिति चोक्तम् ।
तत्रापि बुद्धिजन्म प्रमाणम्, प्रवृत्यादिकं फलमिति ॥
तथा नैयायिकादयो प्येवभूतमेव प्रमाणफलभिच्चन्ति, इदं त्वधिकम्- विशेषण
19 अर्थप्रतीतिरूपत्व त् ॥
प्रत्यक्षस्यैव फलरूपत्वं कस्मात्? इत्याशङ्कायामाह- अर्थप्रतीतिरूपत्वादिति । प्रतीतिः=निश्चयः । रूपम्=स्वभावः । तदस्ति यस्य प्रत्यक्षस्य तदेव अर्थप्रतीतिरूपम्, तस्य भावः अर्थप्रतीतिरूपत्वम्, तस्मात् अर्थप्रतीतिरूपत्वात् ।
कथं प्रमाणफलम्? इत्याह- अर्थप्रतीतीत्यादि । अर्थस्य प्रतीतिः अवगमः, सैव रूप यस्य प्रत्यक्षज्ञानस्य तदर्थप्रतीतिरूपम्, तस्य भावस्तस्मात् ।
एतदुक्तं भवति- प्रापकं ज्ञानं प्रमाणम् । प्रापणशक्तिश्च न केवला दर्थाविनाभावित्वाद् भवतिः बीजादयविनाभाविनो ऽप्यंकुराद्रप्रापकत्वात् ।
तस्मात् प्राप्यादर्थाद् उत्पत्तावप्यस्य ज्ञानस्यास्ति कश्चिदवश्यकर्तव्यः प्रापकव्यापारो येन कृतेनार्थः प्रापितो भवति ।
स एव च प्रमाणफलम् यदनुष्ठानात् प्रापकं भवति ज्ञानम् । उक्तं च पुरस्तात्- प्रवृत्तिविषयप्रदर्शनमेव प्रापकस्य व्यापारो नाम ।
ज्ञानं प्रमाणम्, विशेष्यज्ञानं फलमिति । यथोक्तं कुमारिलेन-
प्रमाणफलते बुद्धयोर्विशेषणविशेष्ययोः ।
यदा तदापि पूर्विक्ता भिन्नार्थत्वनिवारणा ॥ इति ॥
तदेवा विप्रतिपत्तिः, तां निराकर्तुमाह- तदेवेति

5.19

कथं पुनरर्थपरिचित्तिरूपं प्रमाणस्य फलम्, नार्थप्रवर्तकादि विज्ञानम्? इत्याह- अर्थस्येत्यादि । एवं मन्यते- येन फलेन निष्पन्नेनानन्तरेण प्रमाणस्य करणत्वव्यपदेशो भवति तदेव फलम्, नान्यत् । अर्थपरिच्चेदकत्वेन विज्ञान उत्पन्ने स्वविषयनिश्चयजनकत्वे सति समाप्तो ज्ञानस्य पर्माणव्यापार इति । अर्थपरिच्चित्तिरेव फलम्, न प्रवर्तकादिकम् । अमुमेवार्थ दर्शयति- एतदुक्तमित्यादिना ।
प्रमाणादर्शपरिच्चित्तिरूपस्य फलस्य भिन्नत्वं दर्शयितुं प्रमाणज्ञानस्य स्वरूपं प्राग्दशितमपि पुनरपि दर्शयति- प्रापकं ज्ञानमित्यादिना । एवं मन्यते- यस्मात् प्रापकं विज्ञानं प्रमाणमिष्टमस्माभिः, तस्मात् सा च प्रापणशक्तिरर्थपरिच्चित्तिरेव, नार्थादुत्पत्त्यादिकमिति । एतदेव दर्शयति- प्रापणशक्तिरित्यादिना । कस्मादर्थाविनाभावित्वमेव प्रापणशक्तिर्न भवति? इत्याह- बीजादित्यादि । यतो बीजादेः सकाशादकुरस्यार्थावभासित्वोत्पत्तिरस्ति, न च बीजादिकं प्रापयति, खलबिलान्तर्गतस्यापि बीज्स्यांकुरोत्पादक्त्वादित्यभिप्रायः । तस्मादित्यादिना ज्ञानस्यार्थावसायात् प्राप्यादुत्पत्तावित्युक्तम् ।
20 अर्थसारूप्यमस्य प्रमाणम् ॥
21 तद्वशादर्शप्रतीतिसिद्धेरिति ॥
तदेवं प्रमाणप्रमेयव्यवहारारोपे ऽर्थनिश्चयलक्षणं फलं भवति । ज्ञानमर्थविनिश्चयनस्वभावम् । प्रत्यक्षमेव फलस्वभावमिष्टम् । तस्मात् प्रत्यक्षस्यार्थनिश्चयस्वभवत्वात् प्रत्यक्षमेव फलस्वभावं स्यादिति वेदितव्यमित्युक्तं भवति

5.20

यदि प्रत्यक्षमेव फलस्वभावम्, तर्हि प्रमाणं नाम किं वेदितव्यम्? इत्याशङ्कायामाह- अर्थेत्यादि ।
सारूप्यम्= सादृश्यम् । अस्येति प्रत्यक्षस्य । अर्थाकारं यत् प्रत्यक्षं तदेव प्रमाणमिति शेषः

5.19

अर्थसारूप्यमेव कथं प्रमाणम्? इत्याशङ्कयाह- तद्वशादर्तप्रतीतिसिद्धेरिति ।
तदेव च प्रत्यक्षम् अर्थप्रतीतिरूपम् अर्थप्रदर्शनरूपम् । अतरतदेव प्रमाणफलम्

5.20

यदि तर्हि ज्ञानं प्रमितिरूपत्वात् प्रमाणफलम्, कि तर्हि प्रमाणफलम्? इत्याह- अर्थेत्यादि । अर्थेन सह यत् सारूप्यं सादृश्यम् अस्य ज्ञानस्य तत् प्रमाणम् । इह यस्माद् विषयात् विषयात् विज्ञानमुदेति तद्विषयसदृशं तद् भवति यथा- नीलादुत्पदयमानं नीलसदृशम् । तच्च सारूप्यम्= सादृश्यम्, आकार इति, आभास इत्यपि व्यपदिश्यते

5.19

ननु च ज्ञानादव्यतिरिक्तं सादृश्यम्, तथा च सति तदेव ज्ञानं प्रमाणं स एवेति । प्रमाणव्यापारः । यद्येवम् प्रापणशक्तिः फलम्, तर्हि नार्थपरिच्चित्तिरूपं फलम्, प्रापकत्वाद्, अर्थपरिच्चित्तेरन्यत्वादित्याह- उक्तं च पुरस्तादियादि । यदेव प्रापकं ज्ञानं तदेव प्रवर्तकम्, अर्थप्रदर्शकं च तदेवेति पुरस्तात् संवर्णितं प्रमाणस्वरूपचिन्तायाम् । ततश्च अर्थप्रदशेकमेव प्रापकम्, तस्य च प्रापणशक्तिरर्थपरिच्चित्तिरेव तावता परिसमाप्तत्वात् प्रमाणव्यापारस्येति स्थितम् । प्रमाणस्य फलमर्थपरिच्चित्तिरूपमेव, नान्यदिति

5.20

यदि ज्ञानस्य प्रमितिरूपं फलम्, ज्ञानात् तर्हि प्रमाणेन भिन्नेन भवितव्यमिति मन्यमानः पृच्चति- यदि तर्हीत्यादिना । अर्थसारूप्यमस्य प्रमाणमिति । एतस्य विवरणम्- अर्थेन यत् सारूप्यमित्यादि । एवं मन्यते- अर्थसारूप्यं विज्ञानस्य प्रमाणम्, नैन्द्रियादिकमिति । विषयादुत्पद्यमानं विषयसदृशं भवतीति तदेव सारूप्यं सादृश्यमुक्तमिति दर्शयति- इह यस्मादित्यादिना

5.21

ननु चेत्यादि । एवं मन्यते परः- इन्द्रियादिकं प्रमाणमुक्तमस्माभिः, तदेव किं यस्मादर्थमारूप्यवशाद् निश्चयः, तस्मात् तत् सारूप्यमेव प्रमाणम् । एवं हि नीलस्य प्रतीतिरियम् न पातस्य इति व्यवस्थाप्यते । तत्र च यो हेतुः स एव प्रमाणत्वेनेष्ठः ।
इन्द्रियस्य त्वेतद्वयवस्थितिकरणे नास्ति सामर्थ्यम् । तथा हि तच्चेन्द्रियं सर्वस्यैव ज्ञानस्य साधारणं कारणमिति प्रत्येकनिश्चयव्यवस्थितौ कथं समर्थ स्यात् । यदि तदेव च प्रमाणफलम्, न चैकं वस्तु साध्यं साधनं चोपपद्यते, तत् कथं सारूप्यं प्रमाणम्? इत्याह- तद्वशादिति । तदिति सारूप्यम्, तस्य वसात् सारूप्य समर्थ्यात् । अर्थस्य प्रतीतिः अवबोधः, तस्याः सिद्धिः । तत्सिद्धेः कारणात् । अर्थस्य प्रतीतिरूपं प्रत्यक्षं विज्ञानं सारूप्यवशात् सिध्यति, प्रतीतं भवती त्यर्थः । नीलानिर्भासं हि विज्ञानं यतः तस्मात् नीलस्य प्रतीतिरवसीयते । येभ्यो हि चक्षुरादिभ्यो विज्ञानमुत्पद्यते, न तद्वशात् तज्ज्ञानं नौलस्य संवेदनं शक्यते ऽवस्थापयितुम् । नीलसदृशं त्वनुभूयमानं नीलस्य संवेदनमवस्थाप्यते ।
न चात्र जन्यजनकभावनिबन्धनह् साध्यसाधनभावः, येनैकस्मिन् वस्तुनि विरोधः स्यात् । अपितु व्यवस्थप्य-व्यवस्थापकभावेन । तत एकस्य वस्तुनः बौद्धेनापि नेष्यते, येनार्थसारूप्यं प्रमाणमितिप्यते । किञ्चि- अर्थसारूप्ये प्रमाणे ऽङ्गी क्रियमाणे प्रमाणफलयोरैक्यान्नैकं कर्म करणं भवतीति यच्चोदितं तत् तदवस्थमेवेति । तद्वशादित्यादि । एवं मन्यते- प्रमाणं करणं च साधकतमं कारकाणाम् । प्रकृष्टोपकारकं ज्ञानस्य सारूप्यमेव तद्वशादर्थाधिगतिसिद्धेः, नेन्द्रियादिकम्, अर्थसारूप्याभावे ऽर्थप्रतीतेरभावादिति । अमुमेवार्थ दर्शयति- अर्थस्य प्रतीतिरवबोध इत्यादिना । नीलनिर्भासं हीत्यादिना । नीलाकारं नीलविज्ञानस्य नीलावगमव्यवस्थाया निमित्तं दर्शयति । यस्मान्नीलाकारे विज्ञानस्यावगते नीलप्रतीतिअर्वगम्यते, तस्मादर्थाकारः प्रमाणम् करणधर्मत्वादस्येति । ननु च चक्षुरादिभ्यो विज्ञानमुत्पद्यते विशिष्टार्थ मवगच्चत्येव तत् कथमर्थाकारस्य प्रकृष्टोपकारकत्वम्? इत्याह- येभ्यो हीत्यादि । तत् कथयति- चक्षुरादीनामपि विज्ञानोत्पत्तौ निमित्ताभावो ऽस्ति, किन्तु तेषां सर्वज्ञानोत्पत्ति प्रति निमित्तत्वान्न प्रतिनियतार्थव्यवस्थापनस्य निमित्तत्वम् । अर्थाकारस्य त्वसाधारणत्वात् प्रतिनियतार्थव्यवस्थापनं प्रति निमित्तत्वमिति तदेव प्रमाणम् ।
यत् तत् परेण चोदितम्- प्रमाणफलयोरैक्यात्र चैकं साध्यं साधन वा स्यादिति?तत् परिहरति- न चात्र जन्यजनकेत्यादिना । द्यादयमेकस्य विरोधो यद्ययं जन्यजनकभावः प्रमाणफलयोः साध्यसाधनभावः, कि तर्हि? व्यवस्थाप्यव्यवस्थापकभावः । कुतः? ज्ञानाधिकारात् ।यस्माज्ज्ञाने विशिष्ट उत्पन्ने प्रतिपत्त्रा विशिष्ठो ऽर्थो ज्ञापय्ते,
अत्दिन्द्रियं नीलज्ञानस्यैव जनकं स्यात्, पीतादिज्ञानं च न जनयेत् तदैव व्यवस्थाय समर्थ स्यात् । सन्निधानमपि साधारणत्वादिन्द्रियवन्न व्यवस्थितिहेतुः ।
किञ्चिद् रूपं प्रमानम्, किञ्चित् प्रमणफलं न विरुध्यते ।
व्यवस्थापनहेतुर्हि सारूप्यं तस्य ज्ञानस्य । व्यवस्थाप्यं च नीलसंवेदनम् ।
व्यवस्थाप्य- व्यवस्थापकभावो ऽपि कथमेकस्य ज्ञानस्य इति चेत्? उच्यते नीलसदृशमनुभूय तद्विज्ञानं यतो नीलस्य ग्राहकमवस्थाप्यते निश्चय प्रत्ययेन, तस्मात् सारूप्यमनुभूतं व्यवस्थापनहेतुः । निश्चयप्रत्ययेन च तज्ज्ञानं नीलसंवेदनमवस्थाप्यमानं व्यवस्थाप्यम् । तस्मादसारूप्यवव्यावृत्त्या सारूप्यं ज्ञानस्य व्यवस्थापनहेतुः । अनीलबोधवृत्त्या च नीलबोधरूपत्वं व्यवस्थाप्यम् ।
व्यवस्थापकश्च विकल्पप्रत्ययः प्रत्यक्षबलोत्पन्नो द्रष्टव्यः । न तु निर्विकल्पकत्वात् प्रत्यक्समेव नीलवोधरूपत्वेनात्मानमवस्थपयितुं शक्नोति । निश्चयप्रत्ययेनाव्यवस्थापितं सदपि नीलबोधरूपं विज्ञानमसत्कल्पमेव । तस्मान्निश्चयेन नीलबोधरूपं व्यवस्थापितं विज्ञानं नीलबोधात्मना सद् भवति ।
तस्मादश्यवसायं कुर्वदेव प्रत्यक्षं प्रमाणं भवति । अकृते त्वध्यवसाये नीलबोधरूपत्वेनाव्यवस्थापितं भवति विज्ञानम् । तथा च प्रमाणफलमर्था न त्वर्थ उत्पाद्यते । तथाहि- नीलाकारे विज्ञान उत्पन्न विशिष्टज्ञानं व्यवस्थापयति, नीलज्ञानमनुभूतमिति न ज्ञानमुत्पादयति । किञ्चिदित्यादिनैकस्यैव विज्ञानस्यांशाशितया व्यवस्थाप्यव्यवस्थापकत्वं दशयति ।
ननु च निर्विकल्पकं ज्ञानं विशिष्टाकारमुत्पन्नं कथं तस्य समानकाल एवांशांशितया व्यवस्थाप्य व्यवस्थापकभावो भवतीति मन्यमानः पृच्चति- व्यवस्थाप्यव्यवस्थापकेत्यादिना । सदृशमिति । एवं मन्यते- न विज्ञानमेव निर्विकल्पकमात्मानं व्यवस्थापयति, किन्तु प्रत्यक्षपृष्ठभाविना निश्चयप्रत्ययेन व्यवस्थाप्यते । तत्र चार्थाकारस्य व्यवस्थापनहेतुत्वमसारूप्यव्यावृत्तिभेदेनार्थबोधतया व्यवस्थाप्यस्योत्पादेन वेदनस्य तु व्यवस्थाप्यत्वम् निश्चयप्रत्ययतु व्यवस्थापक इति । अमुमेवार्थ दर्शयति- तस्मादि त्यादिना । ननु नीलज्ञानम्त्पन्न स्वसंवेदनप्रत्यक्षसिद्धं यदि निश्चयवशात् प्रमाणव्यवस्था लभ्यते, तदा युप्यते वक्तुम्- निश्चयप्रत्ययेन व्यवस्थाप्यते इति, यावता निश्चयप्रत्ययं विनापिप्रमाणं भवत्येव? इत्याह- निश्चयप्रत्यसेनाव्यवस्थापितमित्यादि सारूप्यं तु असाधारणत्वात् प्रत्येकनिश्चयव्यवस्थितिहेतुर्भवति । तथाहि नीलविज्ञानस्य यो नीलाकारः स पीतादिज्ञाने नास्तीति व्यवस्था स्यात् । यस्माद् नीलाकारत्वाद् अयं नीलः इत्ययेव प्रतीतिः न तु पीतः इति बुद्धिः, तस्माद् अर्थसारूपमेव प्रमाणमिति

5.21

इति न्यायबिन्दुविस्तरटीकायां शिष्यहितायां प्रथमः प्रत्यक्षपरिच्छेदः ॥
धिगमरूपमनिष्पन्नम् । अतः साधकतमत्वाभावात् प्रमाणमेव न स्याज्ज्ञानम् ।
हनितेन त्वध्यवसायेन सारूप्यवशान्नीलबोधरूपे ज्ञाने व्यवस्थाप्यमाने सारूप्यव्यवस्थापनहेतुत्वात् प्रमाणं सिद्धं भवति ।
यद्यवम्, अध्यवसायसहितमेव प्रत्यक्षं प्रमाणं स्यात्, न केवलम्- इति चेत्? नैतदेवम् यस्मात् प्रत्यक्षबलोत्पन्नेनाध्यसायेन दृश्यत्वेनार्थो ऽवसीयते, न उत्परेक्षितत्वेन । दर्शनं च अर्थसाक्षात्करणाख्यं प्रत्यक्षव्यापारः । उत्प्रेक्षणं तु विकल्पव्यापारः । तथाहि- परोक्षमर्थ विकल्पयन्त उत्प्रेक्षामहे, न तु पश्याम इति उत्प्रेक्षात्मकं विकल्पव्यापारमनुभवादू अध्यवस्यन्ति । तस्मात् स्वव्यापारं तिरस्कृत्य प्रत्यक्षव्यापारमादर्शयति- यत्रार्थ प्रत्यक्षपूर्वको ऽध्यवसायः, तत्र प्रत्यक्षं केवलमेव प्रमाणमिति

मूल पाठ: Nyāyabinduprakaraṇa with Vinītadeva's Nyāyabinduvistaraṭīkā (Śiṣyahita) and Dharmottara's Nyāyabinduṭīkā · Edition: Swami Dwarikadas Shastri: Nyāyabindu Prakaraṇa of Ācārya Dharmakīrti, with Commentary of Ārya Vinītadeva and Dharmottara. Varanasi 1994 (Bauddha Bhārati Series, 18). · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc