भाषा

ENहिગુ
ग्रंथ पाठ

न्यायबिन्दुप्रकरण (टीका सहित) · अध्याय 2

2.1

प्रदर्शकं प्रत्यक्षम् तस्माद् दृष्टतया ज्ञातः प्रत्यक्षदर्शितः । अनुमानं तु लिङ्गदर्शनान्निश्चिन्वत् प्रवृत्तिदिषयं दर्शयति ।
तथा च प्रत्यक्षं पर्तिभासमानं नियतमर्थदर्शयति । अनुमानं च लिङ्गसम्बद्धं नियतमर्थ दर्शयति । अत एते नियतस्यार्थस्य प्रदर्शके । तेन ते प्रमाए, नान्यद् विज्ञानम् ।
प्राप्तुं शक्यमर्थमादर्शयत् प्रापकम् । प्रापकत्वाच्च प्रमाणम् ।
आभ्यां प्रमाणाभ्यामन्येन च ज्ञानेन दर्शितो ऽर्थः कश्चिद् अत्यन्त विपर्त्यस्तः, यथा- मरीचिकासु जलम्ः स चासत्वात् प्राप्तुमशक्यः । कश्चिदनियतो भावाभावयोः, यथा- संशयार्थः । न च भावाभावाभ्यां युक्तो ऽर्थो जगत्यस्तिः ततः प्राप्तुमशक्यस्तादृशः ।
व्यापारः तवतैव पुरुषस्य प्रवृत्तेः । अतो द्वितीयादीनामत्रैवार्थे ऽधिको व्यापारो नास्तीति । अधिगतगन्तृत्वादप्रामाण्यमित्यर्थः । प्रवर्तितः पुरुष इति । प्रवर्तनयोग्यत्वात् प्रवर्तित इत्युच्यते । प्रापणयोग्यत्वात् प्रापितः । एवम् सामान्येन संवादकं सम्यग्ज्ञानं प्रतिपाद्य विशेषेण च प्रत्यक्षानुमाने स्वव्यापारं कुर्वती सम्यग्ज्ञाने भवत इति दर्शयन्नाह- तत्र यो ऽर्थ इत्यादिना । तत्र तयोर्मध्ये प्रत्यक्षस्य व्यापारं दर्शयति । दृष्टत्वेन ज्ञातो दृष्टत्वेन निश्चितः । विकल्पेनानुगम्यत इति । तत्पृष्ठभाविना विकल्पे नावसीयते । एतदुक्तं भवति- प्रतिभासमानार्थव्यवसायं कुर्वत् प्रत्यक्षं प्रमाणं सम्वादकनित्यर्थः । अनुमानं त्वित्यादिना अनुमानस्य प्रवृत्तिविषयं दर्शयति । लिङ्गदर्शनम्=लिङ्गज्ञानम् । तच्च वह्नयव्यभिवारिधूमनिश्चयनं सामान्येन साध्याबिनाभावि च स्मरणज्ञानम् । यथा धूमंप्रत्यक्षेण गृहीत्वा सर्वत्र अयं वह्निजः इति स्मरणम् । तस्माल्लिङ्गज्ञानान्निश्चिन्वत् प्रवृत्तिविषयं दर्शयति । तदनुमानं विशिष्टसम्बन्धेन यदुदेति ज्ञानम्, यथा अत्रत्यो धूमो वह्निजः इति जानम् । एतदुक्तं भवति- प्रत्यक्षस्यस्वविषयनिश्चयजननव्यापारो ऽभिन्नः, अनुमानस्य तुलिङ्गदर्शनात् स्वविषये निश्चयात्मनोत्पत्तिरेव निश्चयव्यापार इति ।
तथा चे यादिना अनयोर्दशितं व्यापारं स्पष्टयति । अत एते प्रमाणे नान्यद्विज्ञानम् इत्येवं ब्रुवता एते एव सम्यग्ज्ञाने नान्यानि शब्दादीनि । तेषां नियतार्थानुपदर्शकत्वा दिति सम्यग्ज्ञानस्य प्रवृत्तिर्दशिता । यथैते प्रमाणे, सशयादिज्ञानं न तथा प्रमाणम् ।
प्राप्तु शक्यम्त्यादिना दर्शयति । एतदुक्तं भवति- यथा प्रत्यक्षानुमाने स्वेनस्वेन प्रमाणेनोपदर्शितार्थस्य प्रापके, न तथा संशयविपर्ययज्ञानेः तथभूतस्यार्थस्या भावादिति । सर्वेण चालिङ्गजेन विकल्पेन विन्यामकमदृष्ट्वा प्रवृत्तेन भवाभावयो रनियत एवार्थो दर्शयितव्यः । स च प्राप्तुमशक्यः ।
तस्मादशक्यप्रापणम्- अत्यन्तविपरीतम्, भावाभावानियतं चार्थ दर्श यत् अप्रमाणम् अन्यद् विज्ञानम् ।
अर्थक्रियार्थिभिश्च अर्थक्रियासमर्थवस्तुप्राप्तिनिमित्तं ज्ञानं मृग्यते । यच्च तैर्मृग्यते तदेव शास्त्रे विचार्यते । ततो ऽर्थक्रियावस्तुप्रदर्शकं सम्यग्ज्ञानम् ।
यच्च तेन प्रदर्शितं यदेव प्रापणीयम् । अर्थाधिगमात्मकं हि प्रापकम्- इत्युक्तम् । तत्र प्रदर्शितादन्यद् वस्तु भिन्नाकारम्, भिन्नकालम्, भिन्नदेशं च । विरुद्धधर्मसंसर्गाद्धि अन्यद् वस्तु । देशकालाकारभेदस्च विरुद्धधर्मसंसर्गः ।
यस्मादन्याकारवद्वस्तुग्राहि नाकारान्तरवति वस्तुनि प्रमाणम् यथा प्रीतशङ्खग्राहि शुक्ले शङ्ख । देशान्तरस्थग्राहि च न देशान्तरस्थे प्रमाणम् यथा- कुञ्चिकाविवरदिशस्थायां मणिप्रभायां मणिग्राहि ज्ञानं नापवरकस्ये मणौ । कालान्तरय्युक्तग्राहि च न कालान्तरवर्ति वस्तुनि प्रमाणम् यथा अर्धरात्रे मध्याह्नकालवस्तुग्राहि स्वप्नज्ञानं अर्धरात्रकाले वस्तुनि प्रमाणम् ।
ननु च मा भूत् संशर्यावपर्यज्ञनयोः प्रामाण्यम्, तथाभूतस्यार्थस्यासत्त्वादितिः यत् पुनः इह कूपे जलम् इति ज्ञानं तत् प्रमाणान्तरं किमिति न भवति? न तावत् प्रत्यक्षम्, तत्र जलस्य परोक्षत्वात् नाप्यनुमानम्, लिङ्गाभावात् नापि संशयरूपम्, उभयांशाभावात् नापि विपरीतम्, विपरीतार्थाभावात्? इत्याशङ्कयाह- सर्वेण चालिङ्गजेनेत्यादि ।
एवं मन्यते- यदयपि साक्षात् संशयज्ञानं न प्रतीयते, यस्तु संशयविकल्पकस्य ज्ञानस्य इह कूपे जलम् इत्येवञ्जातीयस्यः तथापि नियामकं लिङ्गमन्तरेण तदप्रमाणम्, नियतार्थापरिच्चेदात् । ततश्चायमर्थः- स्यात् कदाचित् कूपे जलम् इति तच्चैवं स्वरूपम्, तत् संशयज्ञानमेवेत्यप्रमाणम् । यत् पुनस्तत्र प्रवृत्तेन कदाचिज्जलं लभयते तज्ज्ञानान्तरादिति विनिश्चयटीकायां प्रतिपादितम् ।
ननु च यदयपि संशयादीनामुपदर्शितस्यार्थस्य प्रापकत्वं नास्ति, किं तानि न व्युत्पादयन्ते? इत्याह- अर्थक्रियार्थिभिश्चेत्यादि । पुरुषार्थसिद्धावनुपयोगगादित्यभिप्रायः ।
ननु च यदप्युपदर्शितार्थप्रापणात् प्रमाणं सम्यग्ज्ञानम्, शुक्लशङ्खे पीतज्ञानम्, कुञ्चिकाविवरे मणिप्रभायां मणिज्ञानम्, अर्धरत्रे मध्याह्नकालवस्तुग्राहि स्वप्नज्ञानं
ननु च देशनियतम्, आकारनियतं च प्रापयितु शक्यम् यत्कालं तु परिच्चिन्नं तत्कालं न शक्यं प्रापयितुम्? नोच्यते- यस्मिन्नेव काले परिच्चिदयते तस्मिन्नेव काले प्रापयितव्यमिति, अयो हि दर्शनकालः, अन्यश्च प्राप्तिकालः, किन्तु यत्कालं परिच्चिन्नं तदेव तेन प्रापणीयम् । अभेदाध्यवसयाच्च सन्तानगतमेकत्वं द्रष्टव्यमिति ।
समयग्ज्ञानं पूर्व कारणं यस्याःसा यथोक्ता । कार्यात् पूर्व भवत् कारणं पूर्वमुक्तम् । कारणशब्दोपादाने तु प्रुषार्थसिद्धः साक्षात् कारणं गम्येत । पूर्वशब्दे पूर्वमात्रम् ।
द्विविधं च सम्यग्ज्ञानम्, अर्थक्रियानिर्भासम्, अर्थक्रियाअस्मर्थे च प्रवर्तकम् । तयोर्मध्ये यत् प्रवर्तकं तदिह परिक्षयते । तच्च पूर्वमात्रम्, न तु साक्षात् कारणम् । सम्यग्ज्ञाने हि सति पूर्वदृष्टस्मरणम्, स्मरणादभिलाषः अभिलाषात् प्रवृत्तिः, प्रवत्तेश्च प्राप्तिः । ततो न साक्षाद् हेतुः ।
च प्रमाणं प्राप्नोतीत्येभिरुपदशितस्यार्थमात्रस्य प्राप्तेः, ततश्च सम्यग्ज्ञानमित्याशङ्कयाह- अर्थाधिगमात्मकं हीत्यादि । एवं मन्यते- एभिरुपदर्शितस्यार्थस्य पीताकारस्य कुञ्जिकाविवरस्थस्य मणैर्नियतदेशस्य, नियतकालस्य चर्धरात्रे ऽप्रापणात्, देशकालव्यतिरिक्तस्यावयवादेरभावात् । अत एव तान्यप्रमाणान्येव, न सम्यग्ज्ञानानीति । यदयप्येतान्यभ्रान्तग्रहणस्य व्यावर्त्त्यानि तत्रैवाभ्रान्तग्रहणप्रस्तावे दर्शयितव्यानि, तथापीह सम्यज्ञानव्यावर्त्यप्रस्तावात् कथितानीत्यदोषः ।

ननु चेत्यादि । एवं मन्यते चोदकः- देशाक्राभ्यां नियतस्य प्राप्तुं शक्यत्वाद भवत्वन्याकारस्यान्यदेशस्य च प्राप्तावप्रमाणम्, न त्वन्यकालस्य, नियत कालस्य चाप्राप्तेः क्षणिकत्वाद भगवानाम् । ततश्च यथा सत्यनीले नीलज्ञानस्यान्यो ग्राह्यकालो ऽन्यश्च प्राप्यकालः, अथ च कालभेदे ऽपि प्रामाण्यम्, तथा स्वपनज्ञानस्यार्थरात्रोपदर्शितं मध्याह्नकालपुत्रप्रापणस्य प्रामाण्यं भविष्यतीति ।
नोच्यते इत्यादिना सिद्धान्तवादी त्वेवं मन्यते- सत्यं क्षणभेदेन वस्तुनो भेदो ऽस्त्येवः किन्तु क्षणापेक्षया न प्रामान्यलक्षणमुच्यते, अपि तु सन्तानापेक्षया । ततश्च नीलादो य एव सन्तानः परिच्चिन्नो नीलज्ञानेन, स एव तेन प्रापितः । तेन प्रमाणं नीलज्ञानम् । न तथा स्थूलकालभेदेन प्रदर्शितस्य पुत्रस्य स्वप्त्नज्ञानम् । न प्राप्तिकालभेदेनः, सन्तानैकाध्यवसायायोगात् । सन्तानगतमेकत्वं द्रष्टव्यमित्यनेन निश्चयप्रवृत्त्योर्हेतुहेतुमद्भावं दर्शयति । स च हेतुहेतुसद्भावः कथं भवति, यदि सन्तानापेक्षया प्रामाण्यमवतिष्ठते, न अल्क्षणापेक्षयेति
सम्यग्ज्ञानं पूर्वं कारणं यस्या इति । कथं पूर्वशब्दः कारणे वर्तते? इत्याह- कार्यादित्यादि । कारणशब्द एव कस्मान्नकृतः? इत्याह- कारणशब्द इत्यादि । किम अर्थक्रियानिर्भासं तु यद्यपि साक्षात्प्राप्तिः तथापि तन्न परीक्ष्यम् । यत्रैव हि प्रेक्षावन्तो ऽर्थिनः साशङ्काः, यत् परीक्ष्यते । अर्थक्रियानिर्भासे च ज्ञाते सति सिद्धः पुरुषार्थः, तेन तत्र न साशङ्का अर्थिनः । अतस्तन्न परीक्षणीयम् । तस्मात् परीक्षार्हमसाक्षात् कारणं सम्यग्ज्ञानमादर्शयितुं कारणशब्दं परित्यज्य पूर्वग्रहणं कृतम् ।
पुरुषस्यार्थः पुरुषार्थः । अर्थ्यते इति अर्थः, काम्यते इति यावत् । हेयो ऽर्थः, उपादेयो वा । हेयो ह्यर्थो हातुमिष्यते, उपादेयो ऽपि उपादातुम् । न च हेयोपादेयाभ्यामन्यो राशिरस्ति । उपेक्षणीयो ह्यनुपादेयत्वाद् हेय नन्तकारणं ज्ञानं भवति, यदपेक्षया व्यवहितस्य ग्रहणार्थ पूर्वशब्दग्रहण कृतम्? इत्याह- द्विविधानित्यादि ।
ननु किमुच्यते अर्थक्रियानिर्भासं ज्ञानमनन्तरं कारणम्, नहि तत् कारणज्ञानम्, एवंम् तुयुज्यते वक्तुम्- यत् साधननिर्भास्यनन्तरं ज्ञानमर्थक्रियानिर्भासज्ञानमुपजनयति, तत् साधनज्ञानमनन्तरकारणमित्युच्यते, तदेवात्राभिप्रेतमर्थक्रियानिर्भासशब्देन । कथम्? अर्थक्रियाया निर्भासः= प्रतिबिम्बनम्, तदाकारज्ञानोत्पत्तिर्यस्मादनन्तरज्ञानात् तत् साधनज्ञानम्, तदर्थक्रियानिर्भासं साधनज्ञानम् । एवमत्रापि समासः कर्तव्यः । अथवा- अर्थक्रियाज्ञानमेवानन्तरकारणम्, तत् प्रापितहेयोपादयानुष्ठाअन् व्यव्हारापेक्षया प्रवर्तकमिति व्यवहितं साधननिर्भासज्ञानम् ।
यद्येवम, अनन्तरमेव किमिति न परीक्षयते? इत्याह- अय्त्रैव हीत्यादि । यत्रैव ज्ञाने ऽर्थक्रियासमर्थवस्तुप्रवर्तक पुरुषस्य सन्देहः, तदेव परीक्ष्यते । न चानन्तरसाधनज्ञाने सन्देहः तदनन्तरं सुखःदुखप्रतिभासज्ञानोदयात् । तयोरनुभवे सति साधनज्ञानात् प्रवतितुं वा युज्यत इति न प्रैक्षार्हम् । यद्वा- अर्थक्रियानिर्भासस्यानया युक्त्या न परीक्षार्हत्वमिति ।
अर्थ्यत इत्यादि । अर्थ याच्ञायाम् इत्यस्य कर्मणि घञ् । अर्यते इत्यपि द्रष्टव्यम् । उपलक्षणत्वादस्यार्तेरौणादिकः स्थन्प्रत्ययः ।
हेयो ऽर्थ इत्यादिना विनीतदेवस्य व्याख्या दूषिता । तेन ह्य वं व्याकयातम् अर्थशब्देन प्रयोजनमुच्यते,पुरुषस्य प्रयोजनं दारुपाकादि, तस्य सिद्धिर्निष्पत्तिः इति । तच्चायुक्तम् यस्मादर्थस्य दारुपाकादेर्न सम्यग्ज्ञानान्निष्पत्तिः, किं तर्हि? स्वहेतोरेव वह्नयादेः धर्मोत्तरव्याख्याने तु हेयोपादेयार्थविषया या सिद्धिः= अनुष्ठितिः, सा सम्यग्ज्ञानपूर्विकेति न दोषः । अमुमेवार्थ दर्शयिष्यति हेयस्य च हानमनुष्थानम् इति ।
ननु च हेयोपादेयाग्भ्यामन्यो ऽप्युपेक्षणीऽस्ति, तस्य किमिति न कथनम्? एव । तस्य् असिद्धिः- हानम्, उपादानं च । हेतुनिबन्धना हि सिद्धिउत्पत्तिरुच्यते । ज्ञाननिबन्धना तु सिद्धिरनुष्थानम् । हेयस्य च हानमनुष्ठानम्, उपादेयस्य चोपादानम् । ततो हेयोपादेययोर्हानोपादानलक्षणानुष्ठितिः सिद्धिरुच्यते ।
सर्वा चासौ पुरुषार्थसिद्धिश्चेति । सर्वशब्द इह द्रव्यकार्त्स्न्ये वृत्तः, न तु प्रकारकात्स्न्र्ये । ततो नायमर्थः- द्विप्रकारापि सिद्धिः सम्यग्ज्ञाननिबन्धनैवेति । अपि त्वयमर्थः- या काचित् सिद्धिः सा सर्वा कृत्स्नैवासौ सम्यग्ज्ञाननिबन्धनेति । मिथ्याज्ञानाद्धि काकतालीयापि नार्स्त्यर्थसिद्धिः । तथा हि यदि प्रदर्शितमर्थ प्रापयति, एवं ततो भवत्यर्थसिद्धिः । प्रदर्शितं च प्रापयत् सम्यग्ज्ञानमेव । प्रदर्शितं चाप्रापयत् मिएथ्यज्ञानम् अप्रापकं च कथमर्थसिद्धिनिबन्धनं स्यात् तस्माद् यन्मिथ्याज्ञानं न ततो ऽर्थसिद्धिः । यतस्च्चार्थसिद्धिस्तत् सम्यग्ज्ञानमेव । अत एव सम्यग्ज्ञानं यत्नतो व्युत्पादनीयम् यतस्तदेव पुरुषार्थसिद्धिनिबन्धनम् ।
ततो यावदू ब्रूयात-या काचित् पुरुषार्थसिद्धिः सा सम्यग्ज्ञाननिबन्धनैवेति, तावदुक्तम्- सर्वा सा सम्यग्ज्ञानपूर्विकेति । इतिशब्दः तस्मादित्यस्मिन्नर्थ यत्तदोश्च नित्यमभिसम्बन्धः । तदयमर्थः- यस्मात् सम्यगित्याह- न च हेयेत्यादि । एवं मन्यते- सत्यमस्ति, किन्तु तस्यानुपादेयत्वाद् हेयत्वमेवेति न पृथक्कथनम् । तेन यदुक्तं कैश्चित्- हेयोपादेययोः पुरुषार्थोपयोगित्वात् कथनम्, उपेक्षणीयस्य तद्विपर्यमान्न कथनम् इति, तत् प्रत्युक्तम् । अम्य्मेवार्थ व्याचष्टे उत्तरेण ग्रन्थेन ।
सर्वशब्द इत्यादिना टीकाकृतां व्याख्यां दूषयति । विनीतदेव शान्तभद्राभ्यामेवमाशङ्कय व्याख्यातम् । कथमाशङ्कितम्? नतु सर्वा हानोपादानार्थसिद्धिः सम्यग्, ज्ञानादेव, अपि तु मिथ्याज्ञानादपिव् काकतालीयेत्याशङ्कय परिहुतम् । सत्यमस्ति किन्त्वेवं व्याख्यायते- सर्वशब्धो ऽयं प्रकारवाची । तेनायमर्थः- सर्वपुरुषार्थसिद्धिः द्विप्रकारा हानोपादानार्थसिद्धिलक्षणा, लौकिकलोकोत्तरार्थसिद्धिलक्षणा सम्यग्ज्ञाननिबन्धना बाहुल्येनेति । तद् दूषितम् यस्मात् सर्वशब्दो ऽत्र द्रष्टव्यः, कात्स्न्र्ये वरत्ते, सर्व ब्रह्मणा सृष्टम् इति, तेनायमर्थः- यवत्ती कृत्स्नार्थसिद्धिर्हानोपादानलक्षणा, सर्वा सम्यग्ज्ञानादेव, न मिथ्याज्ञानादप्रार्थप्त्यसिद्धेरिति ।
अमुमेवार्थमनन्तरेण ग्रन्थेन दर्शयति । द्विप्रकारापीत्यादिना परव्याख्यां दर्शयति । अपि त्वयमर्थ इत्यादिनात्मीयां व्याख्याम् ।
ततो यावद् ब्रूयादित्यादिनोपसंहारव्याजेनेवशब्देन प्रयुक्तेनावधारणार्थवाचिना यावानर्थस्तावानेव सर्वशब्देन प्रयुक्तेन कृत्स्नार्थवाचिना भवतीति दर्शयति ।
2 द्विविधं सम्यग्ज्ञानम् ॥
तच्च सम्यग्ज्ञानं विप्रतिपत्तिचतुष्टयनिराकरणेन यथार्थतो ज्ञायते । विप्रतिपत्तिचतुष्टयं तु- 1 संख्याविप्रतिपत्तिः, 2 स्वरूपविप्रतिपत्तिः, 3 विषयविप्रतिपत्तिः, 4 फलविप्रतिपत्तिश्चेति ।

तत्र संख्याविप्रतिपत्तिः- केषाञ्चिदेकमिति, यथा बार्हस्पत्यानाम् । केषाञ्चित् त्रीणोति, यथा साङ्खयानाम् । नैयायिकानां चत्वारि । मीमांसकानां च षडिति ।
ज्ञानपूर्विका सर्वपुरुषार्थसिद्धिः तस्मात् तत् सम्यग्ज्ञानं व्युपादयते ।
यदयपि च समासे गुणीभूतं सम्यग्ज्ञानम्, तथापीह प्रकरणे व्युत्पादयितव्यत्वात् प्रधानम्, ततस्तस्यैव तच्चब्देन सम्बन्धः ।
व्युत्पादयते इति । विप्रतिपत्तिनिराकरणेन प्रतिपादयते

मूल पाठ: Nyāyabinduprakaraṇa with Vinītadeva's Nyāyabinduvistaraṭīkā (Śiṣyahita) and Dharmottara's Nyāyabinduṭīkā · Edition: Swami Dwarikadas Shastri: Nyāyabindu Prakaraṇa of Ācārya Dharmakīrti, with Commentary of Ārya Vinītadeva and Dharmottara. Varanasi 1994 (Bauddha Bhārati Series, 18). · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc