भाषा

ENहिગુ
ग्रंथ पाठ

न्यायबिन्दुप्रकरण (टीका सहित) · अध्याय 3

3.1

चतुर्विधा चात्र विप्रतिपत्तिः संख्या लक्षण गोचर फलविषया । तत्र संख्याविप्रतिपत्ति निराकर्तुमाह- द्विविधमिति । द्वौ विधौ= प्रकारावस्येति द्विविधम् । संख्याप्रदर्शनद्वारेण च व्यक्तिभेदो दर्शितो भवति ।
नन् बहुब्रीहिणा पुरुषार्थसिद्धिरुच्यते, तस्याः प्राधान्यात् तच्चब्देन सम्बन्धो युक्तो न सम्यग्ज्ञनस्य? इत्याह- यदयपीत्यादि । एवं मन्यते- शब्दार्थी हि द्विविधः शाब्दः, प्रतिपादयश्च । शब्दापेक्षया चोदयं प्रतिपादयापेक्षया परिहृतम्, स्म्यग्ज्ञानस्यैव व्युत्पादयतया प्रस्तुतत्वादितरस्याः सिद्धस्तद्विपर्ययादिति । ननु च किमिदं ज्ञानस्य व्युत्पादनम्? कि ज्ञानस्योत्पादनम्, उतदोषापनयनम्, अथ स्वरूपकथनमिति? न तावदुत्पाद्नमनेन प्रकरणेन क्रियते, स्वहेतोरेवोत्पत्तेः । नापि दोषापनयनम्, न हयनेन प्रकरणेन दोषो ऽपनेतु शक्यते, अकारकत्वादस्य । नापि ज्ञापयितुम्, अविदयमानत्वाद दोषास्य । नापि स्वरूपकथनं युज्यते, निष्प्रयोजनत्वात् प्रकरणस्य? इत्याशङ्कयाह- व्युत्पादयत इति विप्रतिपत्तिनिराकरणेनेति ।
एवं मन्यते- विप्रतिपत्तिनिराकरणद्वारेण सम्यग्ज्ञानस्वरूपं ज्ञाप्यते ऽनेन प्रकरणेनेति

3.2

वक्ष्यमाणलक्षणयुक्तं सम्यग्ज्ञानं नान्यलक्षणयुक्तम् इति स्वरूपकथनम् । तामेव विप्रतिपत्ति क्रमेण दर्शयति- चतुर्विधेति । चतुःप्रकारा संख्यालक्षणेत्यदिना । तत्रेत्यादिना संख्याप्रतिपत्त्तिनिराकरणं दर्शयति । अनेकप्रकारा पुनः सम्यग्ज्ञानस्य विप्रतिपत्तिः ।
तथाहि- मीमासकाः प्रत्यक्षानुमानशब्दोपमानार्थापत्त्यभावलक्षणं पदव्याख्यायुक्तं सम्यग्ज्ञानं मन्यन्ते । नैयायिकाश्चतुःसंख्यायुक्तं प्रत्यक्षानुमानशब्दोपमानलक्षणं मन्यन्ते । चार्वाकास्तु केचित् प्रत्यक्षमेवैकमिति । तन्निरासेन दर्शयति- द्विविधमिति ।
स्वरूपविप्रतिपत्तिर्यथा- केषाञ्चित् प्रत्यक्षं सविकल्पकम् । केषाञ्चित् निर्विकल्पकमीति ।
विषायविप्रतिपत्तिर्यथा- केचिदाहुः- प्रत्यक्षस्य विषयः स्वलक्षणमेव, अनुमानस्य विषयः सामान्यलक्षणमेवेति । अन्यैस्तु अन्ये उक्ताः ।
फलविप्रतिपत्तिर्यथा- केचित् प्रमाणपहल्योभेदभ्युपगच्चन्ति, केचित् पुनरभेदमभ्युपगच्चन्तीति । तस्मात् तादृशविप्रतिपत्तिचतुष्ठयनिराकरणेन स्र्वथा अभान्ततया सम्यग्ज्ञनस्वरूपं प्रतिपादितं भवति ।
तत्र च प्रथममेव सङ्खयाविप्रतिपत्तिनिराकरणार्थमुक्तम्- द्विविधं सम्यग्ज्ञानमिति । द्वे विधे अस्य इति द्विविधम् । सङ्खयाशब्दकथनं तु द्विविधमेवेति स्पष्टप्रतिपाद्नार्थम् । तेन त्रिविधत्वैकविधतादीनं निरासः । सङ्खयाया द्वैविध्यमात्रं प्रतिपादितम्

मूल पाठ: Nyāyabinduprakaraṇa with Vinītadeva's Nyāyabinduvistaraṭīkā (Śiṣyahita) and Dharmottara's Nyāyabinduṭīkā · Edition: Swami Dwarikadas Shastri: Nyāyabindu Prakaraṇa of Ācārya Dharmakīrti, with Commentary of Ārya Vinītadeva and Dharmottara. Varanasi 1994 (Bauddha Bhārati Series, 18). · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc