न्यायबिन्दुप्रकरण (टीका सहित) · अध्याय 1
{...} = अक्षर उन्च्लेअर्
प्रथमः प्रत्यक्षपरिच्छेदः
आर्यविनीतदेवकृतिः
न्यायबिन्दुविस्तरटीका
(शिष्यहिता)
यस्य कुलप्रभावेण विशुद्धन्यायवर्त्मनि ।
सिद्धि प्राहुःपरां, तस्मै प्रवाचे मुनये नमः ॥
आचार्येधर्मोत्तरकृता
न्यायबिन्दुटीका
जयन्ति जातिव्यसनप्रबन्धप्रसूतिहेतोर्जगतो विजेतुः ।
रागादयरतेः सुगतस्य वाचो मनस्तमस्तानवमादधानाः ॥
आचार्यधर्मोत्तरकृताया न्यायबिन्दुटीकायाः
आज्ञातकर्तुः टिप्पणी
सर्व एव हि विशिष्टो जनः शास्त्रारम्भे स्वेष्ठदेवतास्तुतिं कृतवान् । तथायमपि आर्यधर्मोत्तरः सदाचारानुवृत्तिमात्मनः ख्यापयन्, स्वेष्टदेवतास्तुतेश्च पुण्योपचयम्, ततश्च शास्त्रस्याबिध्नेन परिसमाप्तिं व्याख्यायाः, श्रोतृणां स्तुतिपुरःसरया प्रवृत्त्या पुण्यातिशयोत्पादनात् पारार्थ्य चालोच्य बुद्धस्य भगवतः स्तुतिमारब्धवान्- जयन्तीत्यादि । अनेन श्लोकेन बुद्धस्य भगवत एव पूजा स्तोत्रतः, नान्येपाम् निर्दिष्टगुणोद्भवात् ।
स्तोत्रमपि स्व- परार्थसम्पत्त्यै सम्भाव्तीति पूर्व स्वार्थसम्पद भगवती दर्सह्यति जयन्ति जातिव्यसनेत्यादिना सुगतपर्यन्तेनः मनस्तमस्तानबेत्यादिना परार्थसम्पदम् ।
जयन्ति =जयं कुर्वन्ति । वाच इति सम्बन्धः । कस्य वाचः? इत्याह- सुगतस्ये ति । सुशब्दो ऽत्र शोभने, अतिशये, अपुनरावृतौ च वर्ततेः अनेकार्थत्वात् निपातानाम् । तदवमयंः-शोभनं गतः सुगतः सुचरितवत् । अतिशयेन गतः सुगतः सुपरिपूर्ण
1 सम्यग्ज्ञानपूर्विका सर्वपुरुषार्थसिद्धिरिति तद् व्युत्पादयते ॥
[न्या] अथ न्यायबिन्दुः प्रतिपदं विभज्यते- सम्यगिति ।
ऽसम्यग्ज्ञानपूर्विका सर्वप्रुषार्थसिद्धिरिति तद्वयुत्पादयतेऽ इति प्रथमवाक्येनास्य प्रकरणस्य सम्बन्ध-प्रयोजन-अभिवेयानि, तथा प्रयोजनस्य प्रयोजनमप्युपदिश्यन्ते । तथा हि सम्बन्ध प्रयोजन अभिधेयानामभावे प्रकरणशास्त्रर्मदं प्रेक्षापूर्व[ध] सम्यग्ज्ञानपूर्विकेत्यादिना अस्य प्रकरणस्याभिधेय- प्रयोजनमुच्यते ।
[टि] घटवत् । अपुनरावृत्त्या गत सुगतः, प्रदीपवत् । किविशिष्टस्य तस्य? इत्याह- रागादयरातेरिति । रागशक्तिरादौ । स आदिर्येषां द्वेषादीनां ते रागादयो भवन्ति क्लेशाः । तेषामरातिः = शत्रुः । यतो भगवता सर्वक्लेशाः निःशेष निर्दग्धाः, यत एव रागादयरातिर्भगवान्, अत एव जगतस्त्रैधातुकजीवलोकस्य विजेता । अनेन स्वार्थसम्पत् सोपाया दर्शिता ।
किंविशिष्टस्य जगतो विजेतुः? इत्याह- जातिव्यसनेत्यादि । व्यसनम्= अनर्थसजननम् । जातौ व्यसनमिति "सप्तमीऽ (पा सू 2 1 40) इति योगविभागात् समासः । तत्राभिलाष इति यावत् । ऽदेवाहं स्याम्ऽ, ऽमनुष्यो ऽहं स्याम्ऽ इत्यभिलाषः । यद्वा- विविधमनेकप्रकारेणास्यते क्सिप्यते इति व्यसनम् । सामान्यन कमसाधनम् । पश्चाज्जातिशब्दस्य विशेषणसमासः- जातिरेव व्यसनम् । जात्या व्यसनं विशिष्यते । तेन जातिशब्दस्य विशेषणत्वात् पूर्वनिपातः । जातिव्यसनस्य प्रबन्धः=प्रवाहः, तस्य प्रसूतिः= प्रसवः, उत्पत्तिः । तस्या हेतुः= कारणम्, जगत् तस्य जगतो विजेतुरिति । तत्रायं समुदायार्थः- यस्माच्चोभनादिना गतो भगवान्, अतएव रागादयरातिः, यत एव निर्दग्धक्लेशो ऽतो जगतो विजेतेति ।
किंविशिष्टा वाचो जयन्ति? इत्याह- मनस्तम इत्याद् । मनसः= विकल्पविज्ञानस्य । तृष्णा अविदया तम एव । तम इति कृत्वा न गमतया तमो ऽन्धकारी धटादिप्रतिबन्धं करोति । तनोर्भवस्तानवम् । "इगन्ताच्च लघुपूर्वात्" (पा सू 5 1 131) इत्यण् । मनस्तमसि तानवम्, षष्ठी- समासो वा वचन प्रमाथो द्रष्टव्यः । मनस्तमस्तानवमादधानाः=तनुत्वं कुर्वाणाः सकलजनस्य श्रुतिचिन्ताभावनाक्रमेण सुगतस्य वाचः सुत्र अभिधर्म विनयस्वभावाः जयन्ति । जयः पुनस्तासा तीर्थिकशास्त्राभिभवलक्षणः । यस्माद् भगवत्प्रवचने प्रमाणपरिचिन्न उपायो विमुक्ति लक्षणश्च उपायो निर्दिश्यते, तेषां चागम उपायोपेययोः प्रमाणरहितत्वात् ततो भगवत एव वाचो जयन्ति, नान्येषामिति भगवतः स्तुतिः ।
सम्यग्ज्ञानेत्यादिना विनीतदेवव्याख्या दूषयति । यतो ऽभिधेयस्यैव प्रयोजनम्, [न्या] गामिनामनुमर्त न स्यात् । ततश्च किमिह व्याख्येयम्?- इत्याशङ्कानिरासार्थम् अभिधेयमुक्तम् फलाभावशङ्कानिराकरणार्थ प्रयोजनमुक्तम् । उपायाभावशङ्कानिराकरणार्थ सम्बन्ध उक्तः । तेन श्रोत्रुत्साहविवर्धनार्थ सम्बन्धादिकमुक्तमिति ।
तत्र तद् व्युत्पादयते इत्यनेन अभिधेयं प्रयोजनं च साक्षादुक्ते । सम्बन्दस्तु सामर्थ्यात् प्रतिपादयते । एतच्च तत्र सामर्थ्यम्- सम्यग्ज्ञानप्रतिपादनार्थ प्रकरणारम्भाद् अर्थाद् प्रकरणमुपाय एवेति दर्शितम् अन्यथा यदि उपायो न स्यात्, किमर्थमारभ्येत । तस्मात् सम्बन्धो ऽर्थात् प्रतिपादयते ।
अत्र सम्यग्ज्ञानमित्येतदभिधेयम् । सम्यग्ज्ञानव्युत्पत्तिस्तु प्रयोजनम् । तच्च व्युत्पत्तयात्मकं सम्यग्ज्ञानप्रतिपादनमनेन क्रियत इति प्रकरणमिदं तस्यार्थस्य साधनं भवति । तेन प्रकरन प्रयोजनयोः साध्यसाधनलक्षणः सम्बन्धः । तथा च- एतत्प्रकरणश्रवणात् । सम्यग्ज्ञानस्वरूपमभ्रान्ततया ज्ञायते । तेन प्रकरणं साधनम्, सम्यग्ज्ञान परिज्ञानं च उपायसाध्यमिति स्थितिः । स च साध्य साधनलक्षणः सम्बन्धः कार्यकारणलक्षण एव । तथा च प्रकरणं साधनं, फलं च साध्यम्ः प्रकाणं कारणम्, फलं च कार्यमिति । तस्मात् सम्यग्ज्ञानपरिज्ञानहेतोरेतत्प्रकरणारम्भ इति स्थितिः ॥
अथैवं स्थिते ऽपि, यदि कश्चित् पृच्छति- को ऽर्थः सम्यग्ज्ञानब्युत्पादने? तदेव तावन्निष्प्रयोजनमिति । एतत् काकदन्ताप्रीक्षाकल्पम् ।
मा भूदुपदेशः, किमर्थमयं श्रम इति? तस्मादाह- सम्यग्ज्ञानपूर्विकां सर्वपुरुषार्थसिद्धिरिति । तेन प्रयोजनस्य प्रयोजनमुक्तम् । तत्रायं वाक्यार्थः- यस्मात् सर्वपुरुषार्थ द्विविधं हि प्रकरणशरीरम्- शब्दः अर्थश्च ।
तत्र शब्दस्य स्वाभिधेयप्रतिपादनमेव प्रयोजनम्, नान्यत् । अतस्तन्न निरूप्यते ।
न सम्यग्ज्ञानव्युत्पत्तेः शास्त्रप्रयोजनस्य प्रयोजनम् । सर्वपुरुषार्थसिद्धिर्ब्युत्पत्तेः सम्यग्ज्ञानपरिज्ञानस्यैव प्रयोजनम् । सर्वपुरुषार्थसिद्धिः प्रयोजनं येन स्यात् प्रयोजन प्रयोजनम्, तेन च प्रयोजन प्रयोजनमाख्यातमिति दूषितम् सामर्थ्यात् ।
अथ कस्मात् प्रकरणस्याभिधेयप्रयोजनमित्युक्तम्, न पुनः प्रकरणस्य शरीर प्रयोजनम्? इत्याह- द्विविधं हीत्यादि । यतो द्विविधं प्रकरणस्य शरीरं प्रकरणस्य स्वभावः । तस्मात् अभिधेयेति विशेषणं कृतम् ।
ननु यथाभिधेयस्य प्रयोजनं चिन्त्यते, तथा शब्दस्यापि किमिति न चिन्त्यते? इत्याह- तत्रेत्यादि ।
तत्प्रतिपत्तय इति । अभिधेयप्रतिपत्तये । सब्दर्भो रचनाविशेषः । अपिशब्दादर्थसम्बन्धो ऽपि गृह्यते । [न्या] सिद्धौ सम्यग्ज्ञानमावश्यकम्, तस्मादनुबद्धं पुरुषार्थसिद्धया । तच्च व्युत्पाद्दम् । तद्धि व्युत्पादनं प्रकरणाद् भवति । तेन आवश्यकसम्यग्ज्ञानव्युत्पत्तिहेतोः प्रकरणमिदमारब्धमिति । एष समासार्थः ॥
अवयवार्थस्तु- समय्ग्ज्ञानपूर्विका इति । अत्र अविसंवादकं ज्ञानं अस्म्यग्ज्ञानम् । अर्थक्रियायां यदविसंवादकं तदभ्रान्तम्, तदेव च सम्यग्ज्ञानम् । अन्यथा प्रकरणेन योगाचारनयनिरासः स्यात् । इष्टश्च प्रकरणारम्भः सौत्रान्तिकः योगाचारोभयनयानु अभिधेयं तु यदि निप्प्रयोजनं स्यात्, तदा तत्प्रतिपत्तये शब्दसन्दर्भो ऽपि नारम्भणीयः स्यात् । यथा काकदन्तप्रयोजनाभावात् न तत्परीक्षा आरम्भणीया प्रेक्षावता ।
तस्मादस्य प्रकरणस्यारम्भणीयत्वं दर्शयता अभिधेयप्रयोजनमनेनोच्यते । यस्मात् सम्यग्ज्ञानपूर्विका सर्वपुरुषार्थसिद्धिः, तस्मात् तत्प्रतिपत्तये इदमारभयते- इत्ययमत्र वाक्यार्थः ।
अत्र च प्रकरणाभिधेयस्य समय्ग्ज्ञानस्य सर्वपुरुषार्थसिद्धिहेतुत्वं प्रयोजनमुक्तम् ।
अस्मिंमश्चार्थ उच्यमाने सम्बन्धप्रयोजनाभिधेयानि उक्तानि भवन्ति ।
तथा हि- ऽपुरुषार्थोपयोगि सम्यग्ज्ञानं व्युत्पादयितव्यमनेन प्रकरणेनऽ इति ब्रुवता सम्यग्ज्ञानमरय शब्दसन्दर्भस्य अभिधेयम्, तद्वयुत्पादनं प्रयोजनम्, प्रकरणं चेदमुपायो व्युत्पादनस्य- इत्युक्त भवति ।
तस्मादभिधेयभागप्रयोजनाभिधानसामर्थ्यात् सम्बन्धादीनि उक्तानि भवन्ति । न त्विदमेकं वाकयं सम्बन्धम्, अभिधेयं, प्रयोजनं च वक्तुं साक्षात् समर्थम् । एकं तु वदत् त्रयं साक्षात् सामर्थ्याद् दर्शयति ।
परीक्षेति । परीक्ष्यते ऽनयेति परीक्षा, शास्त्रमुच्यते । अनेनेति । आदिवाक्येन । यस्मादित्यादिना समुदायार्थ दर्शयति । अत्रेति । आदिवाक्ये ।
ननु च यत्राभिधेयप्रयोजनं प्रेक्षावतां प्रवृत्तावङ्ग तथा सम्वन्धादीन्यपि, अतस्तानि किमिति न कथ्यन्ते? इत्याह- अस्मिन्निति । अस्मिन्नभिधेयप्रयोजने कथिते तान्यपि सामर्थ्यात् कथितानि भवन्तीत्यर्ह्तः । अभिधेय एव भागः= अंशः, सम्बन्धादिराशेः । तस्य प्रयोजनं कथयतीत्यर्थः । तद् दर्शयति । अभिधेयप्रयोजनमेव सक्षाद् वाच्यतया निर्दिश्यते, अभिधेयादीनि तु तद्विशेषणतया । चोदकेन प्रधानवाच्यतयाभिधेयादीन्यपश्यता चोदितम् । सामर्थ्यापाततया परिहृतं सिद्धान्तवादिना ।
न चैकेन वाक्येनार्थत्रयं साक्षाछक्यते दर्शयितुमिति दर्शयति- न त्विदमित्यादि ।
एकं त्वित्त्यादिवाक्यं प्राधान्येनैकं वददभिधेयव्युत्पत्तिप्रयोजनसम्बन्धार्थत्रयं प्रतिपदयति तत्र तदित्यादिना । अपोद्धारेणावयवार्थ दर्शयति तत्रेत्यादिवाक्ये । ननु च तद्धाअव्नार्थम् । तस्मादुभयनयसंग्रहादविसंवादक ज्ञानमेव सम्यग्ज्ञानमिति बोध्यम् ।
सम्यग्ज्ञानं पूर्व यस्याः सा सम्यग्ज्ञानपूर्विका । पूर्वशब्दो ऽयं कारणपरः । यस्मात् कारणं पूर्व कार्यस्य, तस्मात् तत् पूर्वमित्युच्यते । सम्यग्ज्ञानक्रणिकेति शेषः ।
सर्वपुरुषार्थसिद्धिरिति । पुरुषस्यार्थः पुरुषार्थः । अर्थशब्देन प्रयोजनमुक्यते । पुरुषप्रयोजनमिति शेषः । सर्वश्चासौ पुरुषार्थश्चेति सर्वप्रुषार्थः । सर्व इति सन्निकृष्टविप्रकृष्ट लौकिक लोकोत्तर हेयोपादेयोपेक्षणीयाः । तत्र समीपदेशवर्ती सन्निकृष्टः । दूरदेशवर्ती विप्रकृष्टः । लौकिकः संसारमध्यपर्यापन्नः । लोकोत्तरस्तु दुःखातीतः । हेयः अनिष्टः, अहि कण्टक विष शूलादिलक्षणः । उपादेय इष्टः, स्त्रक् चन्दन वसनाशन तत्र तद् इत्याभिधेयम्, व्युत्पाद्यते इति प्रयोजनपदम् । प्रयोजने चात्र वक्तुः प्रकरणकरणव्यापारस्य चिन्त्यते, श्रोतुश्च श्रवणव्यापारस्य ।
तथा हि- सर्वे प्रेक्षावन्तः प्रवृत्तिप्रयोजनमन्विष्य प्रवर्तन्ते । ततश्चाचार्येण प्रकरणे किमर्थ कृतम्, श्रोतृभिश्च किमर्थ श्रूयते?- इति संशये व्युत्पादनं प्रयोजनमभिधौयते । सम्यग्ज्ञानं व्युत्पद्यमानानामात्मानं व्युत्पादकं कर्तु प्रकरणमिदं कृतम् । शिष्यैश्चाचार्यप्रयुक्तामात्मनो व्युत्पत्तिमिच्चद्भिः प्रकरणमिदं श्रूयत इति प्रकरणकरण श्रवणयो प्रयोजनं व्युत्पादनम् ।
सम्बन्धप्रदर्शनपदं तु न बिद्यते । सामर्थ्यादेव तु स प्रतिपत्तव्यः ।
व्युत्पत्तिः क्रियत इत्येवं युज्यते वक्तुम् किमिति अत्द्वयुत्पाद्यते इति णिचा निर्देश इति । तत्फलमाह- प्रयोजनं चात्रेत्यादि । अत्रेति प्रकरणे । वक्तुरिति शास्त्रकर्तु श्रोतुश्च प्रकरणकरणश्रवणव्यापारस्य प्रयोजनं विन्त्यते ।
यस्माद् द्वयोरपि वक्तृश्रोत्रोस्तत्र प्रकरणे प्रकरणकरणश्रवणास्यो व्यापारौ स्तः, किमिति पुनस्तयोः करणश्रवणयोः प्रयोजनं चिन्त्यते? इत्याह- तथा हीत्यादि । तत आचार्येणेत्यादिना द्वयोर्व्यापारस्य प्रयोजनं दर्शयति । यस्मादनेन सम्यग्ज्ञानं व्युत्पादयते इत्यत्र वाक्ये व्युत्पत्तिक्रियानिष्पत्तौ करणश्रवणक्रियाद्वयकर्तव्यतया प्रविष्टम् । तच्च व्युत्पत्तिकरण शास्त्रकारस्यैव नान्यस्येति णिचा निदर्शितम् । यस्मात् सम्यग्ज्ञानं व्युत्पाद्यमानान् शिष्यान् प्रेरयति- व्युत्पादितं सम्यग्ज्ञानं व्युत्पद्यध्वम् इति । आत्मानं व्युत्पादकं कर्तुमारब्धं प्रकरणम् । तस्माद् वक्तुरेव करणव्यापारस्य प्रयोजन व्युत्पादनम्, न भाजनादीनाम् । यद्यपि तैर्विना व्युत्पादनं न बवति, तथापि न तानि व्युत्पादकानिः तेषां शिष्यविषये प्रेरकत्वाभावात् । शिष्यैश्चेत्यादि । यस्माछिष्या आचार्यप्रयुक्तां व्युत्पत्तिमात्मनः सम्बन्धिनी कर्तुमिछन्ति यतस्ते प्रचिद्याः । तस्मात् तत् प्रकरणं तैः श्रूयते इति श्रवणस्य प्रयोजनं व्युत्पादनम् । एतच्चार्थद्वयंणिचा प्रतिपादितम् । अन्यथा असाधारणव्यापारो वक्तुर्व्युत्पत्तौ न दर्शितः स्यात्, शिष्याणां श्रवणव्यापारश्च । यस्मात् सर्व एव प्रयोजकपरतन्त्रो पान शय्यासनलक्षणः । इष्टानिष्टयोरो विपरीतः स उपेक्षणौयः । सरस्यैतस्य उरुषार्थस्य कारणं सम्यग्ज्ञानम् । तथाहि- प्रत्यक्षादिज्ञानेन विर्धार्य शूल विष कण्ठ कादिकं परिहरति पुष्पमाल्यादिकमादत्ते, तद्भिन्नानन्याश्चोपेक्षते ।
प्रेक्षावता हि सम्यग्ज्ञानव्युत्पादनाय प्रकरणमिदमारब्धवता अयमेविपायो नान्य इति दर्शित एवोपायोपेयभावः प्रकरणप्रयोजनयोः सम्बन्ध इति ।
ननु च प्रकरणश्रवणात् प्रागुक्तान्यपि अभिधेयादीनि प्रमाणाभावात् प्रेक्षावद्भिर्न गृह्यन्ते, तत् किमेतैरारम्भप्रदेश उक्तैः?
सत्यम् अश्रुते प्रकरणे कथितान्यपि न निश्चौयन्ते । उक्तेषु त्वप्रमाणकेष्वपि अभिधेयादिषु संशय उत्पद्यते, संशयाच्च प्रवर्तन्ते । अर्थसंशयो ऽपि हि प्रवृत्यङ्ग प्रेक्षावताम् । अनर्थसंशयो ऽपि निवृत्त्यङ्गम् । अतएव शास्त्रकारेणव सम्बन्धादीनि युज्यन्ते वक्तुम् ।
भवति, असतिणिचि शिय्या अप्रयोज्याः । ये चाप्रयोज्यास्ते स्वतन्त्राः । स्वतन्त्राणां चाचार्यप्रयुक्त व्युत्पत्तिमनिच्चतां श्रवणाभावात् कथं श्रवणव्यापारस्य प्रयोजनं चिन्त्यते?- इति स्यितम् । ननु च यथाभिधेयव्युत्पादनप्रयोजनयोरपोद्धारेण प्रतिपादकपदं कथं सम्बन्धस्यापि किमीत् न कथितम्? इत्याह- सम्बन्धप्रदर्शनपदं त्वित्यादि । अयमेव प्रकरणविशेषो लघूपायतया वक्ष्यमाणय नीत्योपायः व्युत्पादनम्= उपेयम् । उपायोपेयसम्बन्धश्च कार्यकारणसम्बन्ध एव, स च प्रतीयत इति न पदान्तरेण कथितः । तथा चोक्तम्-
"शास्त्रं प्रयोजनं चैव सम्बन्धस्याश्रयादुभौ ।
तदुक्त्यन्तर्गतस्तेन भिन्नो नोक्तः प्रयोजनात्" इति ।
एवमादिवाक्येनाभिधेयप्रयोजनादौ कथिते सति प्रामाणिकानां प्रबृत्तौ तदसङ्गत एम्वेति मन्यमानश्चोदयति- नन्वित्यादिना । एवं मन्यते- यो हि प्रामाणिकः, स प्रमाणे प्रवर्तते । न चादिवाक्ये प्रयोजनादिना कथितेन शास्त्रश्रवणात् प्राग्वर्तते शास्त्रम्, आदिवाक्यस्याप्रामाण्यात् । अप्रामाण्यं चार्थेन सहासम्बन्धाच्चब्दस्य । एतैरिति । अभिधेयादिभिः । आरम्भप्रदेशोक्तैरिति प्रकरणस्यै कदेशोक्तैः, आदावुक्तै रित्यर्थः ।
उक्तेष्वित्यादि । एवं मन्यते- यद्यप्यस्याप्रमाणं प्रयोजनप्रतिपादकमादिवचनम्, तथापि शास्त्रादौ प्रतिपादनीयम् अर्थसंशयजननार्थम् । यो हि समय्ग्ज्ञानार्थी स तथाभुतं शास्त्रकर्तु रादिवाक्यं श्रुत्वातत्र संशेते, संशयाच्च प्रवर्तत इति तात्पर्यम् । अत एवेति । यत एवादिवाक्ये नार्थसंशयः, संशयाच्च प्रवृतिः, अतएव शास्त्रकारेणैव सर्वपुरुषार्थसिद्धिरिति सर्वपुरुषार्थसाधकम् । सिद्धिशब्देनात्र साधकमुच्यते । तेन सर्वपुरुषार्थसिद्धौ निश्चितमेव सम्यग्ज्ञानं कारणं भवतीति प्रदर्शितम् । इतिशब्दः व्याख्यातणां हि वचन क्रीडाद्यर्थमन्यथापि सम्भाव्यते । शस्त्रकृतां तु प्रकरणप्रारम्भे न विपरीतभिधेयाद्यभिधाने प्रयोजनमुत्पश्यामः, नापि प्रवृत्तिम् । अतस्तेषु संशयो युक्तः । अनुक्तेषु तु प्रतिपत्तृभिर्निष्प्रयोजनमभिधेयं सम्भाव्येतास्य प्रकरणस्य, काकदन्तपरीक्षाया इव । अशक्यानुष्ठानं वा, ज्वरहरतक्षकचूडारत्नालङ्कारोपदेशवत् । अनभिमतं वा प्रयोजनम्ः मातृविवाहक्रमोपदेशवत्, अतो वा प्रकरणाल्लघुतर उपायः प्रयोजनस्य, अनुपाय एव वा प्रकरणं सम्भाव्येत ।
एतासु चानर्थसम्भावनासु एकस्यामप्यनर्थसम्भवनायाम् न प्रेक्षावन्तः प्रवर्तन्ते । अभिधेयादिषु तूक्तेष्वथसम्भावना अनर्थसम्भावनाविरुद्धा उत्पद्यते, तथा प्रेक्षावन्तः प्रवर्तन्ते । इति प्रेक्षावतां प्रवृत्त्यङ्गमर्थसम्भावनां कर्तु सम्बन्धादीन्यभिधीयन्त इति स्थितम् ।
युज्यते वक्तुम्, नाख्यानकर्त्रेति । तेन यदुक्तं केनचिद्- ऽव्याख्यानकारा एव प्रयोजनादीनि प्रतिपादयैसय्न्तिऽ इति, तत् प्रत्युक्तम् ।
उत्पश्याम इत्यादिनैतद् दर्शयति- यद्यपि प्रमाणं नास्ति, महता प्रबन्धेन शास्त्रकरणात् सम्भाव्यत इत्यर्थः । ननु च वाधकसाधकप्रमाणाभावात् सम्यग्ज्ञानव्युत्पत्त्यर्थी विनापि आविदचनेन संशयानस्तत्र प्रवर्तते- इति किमादिवाक्येन तत्रोक्तेन? इत्याह- अनुक्तेष्वित्यादि । एवं मन्यते- यो ह्यमूढः, तं प्रति न कर्तव्यमेव । यो हि काकदन्तपरीक्षादिशास्त्रं दृष्ट्वा प्रयोजनादिरहितम्, अत्राप्यप्रयोजना दीन् सम्भावयन्ननर्थ संशेते, अनर्थसंशयाच्च प्रवर्त्तते, तं प्रत्येतत् कथनस्य प्रयोजनम् । कथिते च वचने शास्त्रकारेण तदनुरोधाद् वचनादर्थसंशयो जायते, ततः प्रवर्तत इत्यर्थः ।
अनर्थसंशयो यैः कारणैर्भवति तन्निदर्शयति- निष्प्रयोजननित्यादिना । अतो वा प्रकरणादन्यस्य प्रकरणस्य लघुतरोपायतां सम्भाव्यास्य प्रकरणस्यसारतया अनुपायता स्यादित्यर्थः ।
एवं समुदायेन वाक्यस्य तात्पर्य व्याख्यायावयवार्थ दर्शयितुमाह- अविसंवादकमित्यादि । ऽअविसंवादकं ज्ञानं सम्यग्ज्ञानंऽ इति ब्रुवता टीकाकृता अर्थावबोधकं ज्ञानं मीमांसकपरिकल्पितम्, अर्थदर्शनं च चार्वाकोपकल्पितम्, अथापि विपरीतं ज्ञानं कैश्चित् परिकल्पितं सम्यक्त्वेन, तन्निरस्तं सर्वम्, एतेषां सम्यग्ज्ञानलक्षणाभावात् । यथा न च तानि सम्यग्ज्ञानानि, तथा स्वयं टीकायामपहस्तितानि ।
तस्मादित्यर्थे । यत्तदो नित्यसंबन्धौ । तेन यस्मात् सर्वपुरुषार्थसिद्धौ सम्यग्ज्ञानं पूर्वभावि, तस्मादेव तद् व्युत्पाद्यत इत्युक्त भवति ।
अविसंवादकं ज्ञानं सम्यग्ज्ञानम् ।
लोके च पूर्वमुपदर्शितमर्थ प्रापयत् संवादकमुच्यते । प्रदर्शिते चार्थे प्रवर्तकत्वमेव प्रापकम्, नान्यत् । तथा हि- न ज्ञानं जनयद् अर्थ प्रापयति, अपि त्वर्थे पुरुषं प्रवर्तयत् प्रापयत्यर्थम् । प्रवर्तकत्वमपि प्रवृत्तिविषयप्रदर्शकत्वमेव । न हि पुरुषं हठात् प्रवर्तयितुं शक्नोति विज्ञानम् ।
अत एव चार्थाधिगतिरेव प्रमाणफलम् । अधिगते चार्थे प्रवर्तितः पुरुषः, प्रापितश्चर्थः । तथा च सति अर्थाधिगमात् समाप्तः प्रमाणव्यापारः । अत एव च अनधिगतविषयं प्रमाणम् । येनैव हि ज्ञानेन प्रथममधिगतो ऽर्थः, तेनैव प्रवर्तित प्रुरुषः, प्रापितश्चार्थः । तत्रेव च अर्थे किमन्येन ज्ञानेनाधिकं कार्यम् । अतो ऽधिगतविषयमप्रमाणम् ।
तत्र यो ऽर्थो दृष्टत्वेन ज्ञात्तः स प्रत्यक्षेण प्रवृत्तिविषयीकृतः । यस्माद् यस्मिन्नर्थे प्रत्यक्षस्य साक्षात्कारित्वव्यापारो विकल्पेनानुगम्यते, तस्य एकस्मिन्नेवार्थे त्रयाणां ज्ञानातां प्रदर्शक प्रवर्तक प्रापकभेदेन प्रामाण्यमिष्टं परेण, तन्निराकर्तु माह, प्रदर्शिते चार्थ इत्यादि । प्रदर्शिते चार्थे प्रथमेन दर्शकेन ज्ञानेन यद् द्वितीयं ज्ञानं तत्रैवार्थे पुरुषस्य प्रवर्त्तकम्, तृतीयमपि तत्रैवर्थे प्रापकम्, ततो नाद्यादधिकं प्रापणयोग्यीकरणेनेति तदेव प्रमाणम् । अमुमेवार्थ समर्थयति तथा ही त्यादिना । न जनयन् नोत्पादयदर्थम्ः स्वहेतोरेवार्थस्योत्पन्नत्वात् । अनेन प्रवर्तकात् प्रापकस्याभेदो दर्शितः । प्रवर्तकस्यापि प्रदर्शकादभेदं दर्शयितुमाह-3 प्रवृत्तीत्यादि । यत् प्रदर्शकमादावुत्पन्नमर्थे ज्ञानं तदेव प्रवृत्तिविषयं करोति, प्रवृत्तिविषययोग्यी करोतीत्यर्थः, न तु द्वितीयं ज्ञानम्, आदयेनैव प्रवृत्तिविषययोग्यीकृतत्वात् । अपिशब्दः पूर्वपेक्षः ।
अत एवेत्यादिना आचार्यग्रन्थे स्वमतं संवादयति । कुतो ऽयं लभ्यते यदा प्रथमं दर्शयत्येव, न प्रवर्तयति न प्रापयति, द्वितीयमपि प्रवर्त्तयत्येव, न प्रापयति । एवं सत्यन्यत् प्रदर्शकप्रमाणम्ः अन्यत् प्रवर्तनादिकफलम्? न चैवम्, तस्माद् युक्तमुक्तम् ।
ननु च यद्यप्यर्थाधिगतिरेव प्रमाणफलं तथापि यावदुत्तरे प्रवर्तक-प्रापकज्ञने न भवतः, तत्रार्थे तावन्न प्रमाणव्यापारपरिसमाप्तिरित्याह- अधिगत इत्यादि । एवं मन्यते- अधिगते चार्थे समाप्तः प्रमाणव्यापार इति तयोः प्रामाण्ये कर्त्तव्ये ऽनुपयोगित्वम्, अतो ऽप्रमाणे ते ।
कथं समाप्तः प्रमाणव्यापारः को वासौ? इत्याह- अत एवेति । स्वव्यापारः स्वविषयनिश्चयजनकर्त्व नाम । स च निश्चयः प्रथमया चार्थाधिगत्या कृत इति समाप्तो तद्वयुत्पाद्यत इति । अत्र तदिति सम्यग्ज्ञानं योजनीयम् नपुसंकलिङ्गेन स्वरुपनिर्देशात् । नतु अव्यवहिता सर्वपुरुषार्थसिद्धिः, अप्राधान्यात्
मूल पाठ: Nyāyabinduprakaraṇa with Vinītadeva's Nyāyabinduvistaraṭīkā (Śiṣyahita) and Dharmottara's Nyāyabinduṭīkā · Edition: Swami Dwarikadas Shastri: Nyāyabindu Prakaraṇa of Ācārya Dharmakīrti, with Commentary of Ārya Vinītadeva and Dharmottara. Varanasi 1994 (Bauddha Bhārati Series, 18). · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0