न्यायसूत्र · अध्याय 4.1
प्रवृत्तिर्यथोक्ता
{सिद्धान्त-सूत्र}
तथा दोषाः
{सिद्धान्त-सूत्र}
[दोषत्रैराश्यपरीक्षाप्रकरणम्(3-8)]
त्रैराश्यं रागद्वेषमोहार्थान्तर्भावात्
{सिद्धान्त-सूत्र}
न, एकप्रत्यनीकभावात्
{पूर्वपक्ष-सूत्र}
व्यभिचारादहेतुः
{सिद्धान्त-सूत्र}
तेषां मोहः पापीयान्, नामूढस्येतरोत्पत्तेः
{सिद्धान्त-सूत्र}
निमित्तनैमित्तिकभावादर्थान्तरभावो दोषेभ्यः
{पूर्वपक्ष-सूत्र}
न दोषलक्षणावरोधान्मोहस्य
{सिद्धान्त-सूत्र}
निमित्तनैमित्तिकोपपत्तेश्च तुल्यजातीयानामप्रतिषेधः
{सिद्धान्त-सूत्र}
[प्रेत्यभावपरीक्षाप्रकरणम्(10-13)]
आत्मनित्यत्वे प्रेत्यभावसिद्धिः
{सिद्धान्त-सूत्र}
व्यक्ताद् व्यक्तानाम्, प्रत्यक्षप्रामाण्यात्
{सिद्धान्त-सूत्र}
न, घटाद् घटनिष्पत्तेः
{पूर्वपक्ष-सूत्र}
व्यक्ताद् घटनिष्पत्तेरप्रतिषेधः
{सिद्धान्त-सूत्र}
[शून्यतोपादाननिराकरणप्रकरणम्(14-18)]
अभावाद् भावोत्पत्तिः, नानुपमृद्य प्रादुर्भावात्
{पूर्वपक्ष-सूत्र}
व्याघातादप्रयोगः
{सिद्धान्त-सूत्र}
न, अतीतानागतयोः कारकशब्दप्रयोगात्
{पूर्वपक्ष-सूत्र}
न, विनष्टेभ्यो ऽनिष्पत्तेः
{सिद्धान्त-सूत्र}
क्रमनिर्देशादप्रतिषेधः
{सिद्धान्त-सूत्र}
[ईश्वरोपादानाताप्रकरणम्(19-21)]
ईश्वरः कारणम्, पुरुषकर्माफल्यदर्शनात्
{सिद्धान्त-सूत्र}
न, पुरुषकर्माभावे फ्लानिष्पत्तेः
{पूर्वपक्ष-सूत्र}
तत्कारितत्वाद् अहेतुः
{सिद्धान्त-सूत्र}
[आकस्मिकत्वनिराकरणप्रकरणम्(22-24)]
अनिमित्ततो भावोत्पत्तिः, कण्टकतैक्ष्ण्यादिदर्शनात्
{पूर्वपक्ष-सूत्र}
अनिमित्तनिमित्तत्वान्ननिमित्ततः
{सिद्धान्त-सूत्र}
निमित्तनिमित्तयोरर्थान्तरभावादप्रतिषेधः
{सिद्धान्त-सूत्र}
[सर्वानित्यत्वनिराकरणप्रकरणम्(25-28)]
सर्वम् अनित्यम्, उत्पत्तिविनाशधर्मकत्वात्
{पूर्वपक्ष-सूत्र}
न, अनित्यतानित्यत्वात्
{सिद्धान्त-सूत्र}
तदनित्यत्वमग्नेर्दाह्यं विनाश्यानुविनाशवत्
{सिद्धान्त-सूत्र}
नित्यस्याप्रत्याख्यानम्, यथोपलब्धि व्यवस्थानात्
{सिद्धान्त-सूत्र}
[सर्वनित्यत्वनिराकरणम्(29-33)]
सर्वं नित्यम्, पञ्चभूतनित्यत्वात्
{पूर्वपक्ष-सूत्र}
न, उत्पत्तिविनाशकारणोपलब्धेः
{सिद्धान्त-सूत्र}
तल्लक्षणावरोधादप्रतिषेधः
{पूर्वपक्ष-सूत्र}
न, उत्पत्तितत्कारणोपलब्धेः
{सिद्धान्त-सूत्र}
न, व्यवस्थानुपपत्तेः
{सिद्धान्त-सूत्र}
[सर्वपृथक्त्वनिराकरणप्रकरणम्(34-36)]
सर्वं पृथग्, भावलक्षणपृथक्त्वात्
{पूर्वपक्ष-सूत्र}
न, अनेकलक्षणैरेकभावनिष्पत्तेः
{सिद्धान्त-सूत्र}
लक्षणव्यवस्थानादेवाप्रतिषेधः
{सिद्धान्त-सूत्र}
[सर्वशून्यतानिराकरणप्रकरणम्(37-40)]
सर्वम् अभावो भावेष्वितरेतराभावसिद्धेः
{पूर्वपक्ष-सूत्र}
न, स्वभावसिद्धेर्भावानाम्
{सिद्धान्त-सूत्र}
न स्वभावसिद्धिः, आपेक्षिकत्वात्
{पूर्वपक्ष-सूत्र}
व्याहतत्वादयुक्तम्
{सिद्धान्त-सूत्र}
[संख्यैकान्तवादप्रकरणम्(41-43)]
संख्यैकान्तासिद्धिः, कारणानुपपत्त्युपपत्तिभ्याम्
{सिद्धान्त-सूत्र}
न, कारणवयवाभावात्
{पूर्वपक्ष-सूत्र}
निरवयवत्वादहेतुः
{सिद्धान्त-सूत्र}
[फलपरीक्षाप्रकरणम्(44-54)]
सद्यः कालान्तरे च फलनिष्पत्तेः संशयः
{सिद्धान्त-सूत्र}
न सद्यः, कालान्तरोपभोग्यत्वात्
{सिद्धान्त-सूत्र}
कालान्तरेणानिष्पत्तिहेतुर्विनाशात्
{पूर्वपक्ष-सूत्र}
प्राङ्निष्पत्तेर्वृक्षफलवत् तत्स्यात्
{सिद्धान्त-सूत्र}
नासन्न सन्न सदसत्, सदसतोर्वैधर्मयात्
{पूर्वपक्ष-सूत्र}
उत्पादव्ययदर्शनात्
{सिद्धान्त-सूत्र}
बुद्धिसिद्धं तु तदसत्
{सिद्धान्त-सूत्र}
आश्रयव्यतिरेकाद् वृक्षफलोत्पत्तिवद् इत्यहेतुः
{पूर्वपक्ष-सूत्र}
प्रीतेरात्माश्रयत्वादप्रतिषेधः
{सिद्धान्त-सूत्र}
न पुत्रपशुस्त्रीपरिच्छेदहिरण्यान्नादिफलनिर्द्देशात्
{पूर्वपक्ष-सूत्र}
तत्सम्बन्धात् फलनिष्पत्तेस्तेषु फलवदुपचारः
{सिद्धान्त-सूत्र}
[दुःखपरीक्षाप्रकरणम्(55-58)]
विविधवाधनायोगाद् दुःखमेव जन्मोत्पत्तिः
{सिद्धान्त-सूत्र}
न, सुखस्याप्यन्तरालनिष्पत्तेः
{सिद्धान्त-सूत्र}
भाधनानिवृत्तेर्वेदयतः प्र्येषणदोषादप्रतिषेधः
{सिद्धान्त-सूत्र}
दुःखविकल्पे सुखाभिमानाच्च
{सिद्धान्त-सूत्र}
[अपवर्गपरीक्षाप्रकरणम्(59-68)]
ऋणक्लेशप्रवृत्त्यनुब्न्धादपवर्गाभावः
{पूर्वपक्ष-सूत्र}
प्रधानशब्दानुपपत्तेर्गुणशब्देनानुवादो निन्दाप्रशंसोपपत्तेः
{सिद्धान्त-सूत्र}
समारोपणादात्मन्यप्रतिषेधः
{सिद्धान्त-सूत्र}
पात्रचयान्तानुपपत्तेश्च फलाभावः
{सिद्धान्त-सूत्र}
सुषुप्तस्य स्वप्नादर्शने क्लेशाभावादपवर्गः
{सिद्धान्त-सूत्र}
न प्रवृत्तिः प्रतिसन्धानाय हीनक्लेशस्य
{सिद्धान्त-सूत्र}
न, क्लेशसन्ततेः स्वाभाविकत्वात्
{पूर्वपक्ष-सूत्र}
प्रागुत्पत्तेरभावानित्यत्ववत् स्वाभाविके ऽप्यनित्यत्वम्
{सिद्धान्त-सूत्र}
अणुश्यामतानित्यत्ववद् वा
{सिद्धान्त-सूत्र}
न, सङ्कल्पनिमित्तत्वाच्च रागादीनाम्
{सिद्धान्त-सूत्र}
(इति न्यायसूत्रे चतुर्थाध्यायस्य प्रथमम् आह्निकम्)
(द्वितीयम् आह्निकम्)
[तत्त्वज्ञानोत्पत्तिप्रकरणम्(1-3)]
मूल पाठ: Nyāyasūtra · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0