न्यायसूत्र · अध्याय 3.2
कर्माकाशसाधर्म्यात् संशयः
{सिद्धान्त-सूत्र}
विषयप्रत्यभिज्ञानात्
{सिद्धान्त-सूत्र}
साध्यसमत्वात् अहेतुः
{सिद्धान्त-सूत्र}
न, युगपत् अग्रहणात्
{सिद्धान्त-सूत्र}
अप्रत्यभिज्ञाने च विनाशप्रसङ्गः
{सिद्धान्त-सूत्र}
क्रमवृत्तित्वात् अयुगपत् ग्रहणम्
{सिद्धान्त-सूत्र}
अप्रत्यभिज्ञानं च विषयान्तरव्यासङ्गात्
{सिद्धान्त-सूत्र}
न, गत्यभावात्
{सिद्धान्त-सूत्र}
स्फटिकान्यत्वाभिमानवत् तदन्यत्वाभिमानः
{सिद्धान्त-सूत्र}
[क्षणभङ्गपरीक्षाप्रकरणम्(10-17)]
स्फटिके अपि अपरापरोत्पत्तेः क्षणिकत्वात् व्यक्तीनाम् अहेतुः
{सिद्धान्त-सूत्र}
नियमहेत्वभावात् यथादर्शनम् अभ्यनुज्ञा
{सिद्धान्त-सूत्र}
न, उत्पत्तिविनाशकारणोपलब्धेः
{सिद्धान्त-सूत्र}
क्षीरविनाशे कारणानुपलब्धिवत् दध्युत्पत्तिवत् च तदुत्पत्तिः
{पूर्वपक्ष-सूत्र}
लिङ्गतः ग्रहणात् न अनुपलब्धिः
{सिद्धान्त-सूत्र}
न पयसः परिणाम-गुणान्तरप्रादुर्भावात्
{सिद्धान्त-सूत्र}
व्यूहान्तरात् द्रव्यान्तरोत्पत्तिदर्शनं पूर्वद्रव्यनिवृत्तेः अनुमानम्
{सिद्धान्त-सूत्र}
क्वचित् विनाशकारणानुपलब्धेः क्वचित् च उपलब्धेः अनेकान्तः
{सिद्धान्त-सूत्र}
[बुद्धेरात्मगुणत्वपरीक्षाप्रकरणाम्(18-41)]
न इन्द्रियार्थयोः, तद्विनाशे अपि ज्ञानावस्थानात्
{सिद्धान्त-सूत्र}
युगपत् ज्ञानानुपलब्धेः च न मनसः
{सिद्धान्त-सूत्र}
तत् आत्मगुणत्वे अपि तुल्यम्
{पूर्वपक्ष-सूत्र}
इन्द्रियैः मनसः सन्निकर्षाभावात् तदनुत्पत्तिः
{पूर्वपक्ष-सूत्र}
न, उत्पत्तिकारणानपदेशात्
{सिद्धान्त-सूत्र}
विनाशकारणानुपलब्धेः च अवस्थाने तन्नित्यत्वप्रसङ्गः
{पूर्वपक्ष-सूत्र}
अनित्यत्वग्रहात् बुद्धेः बुद्ध्यन्तरात् विनाशः शब्दवत्
{सिद्धान्त-सूत्र}
ज्ञानसमवेतात्मप्रदेशसन्निकर्षात् मनसः स्मृत्युत्पत्तेः न युगपत् उत्पत्तिः
{पूर्वपक्ष-सूत्र}
न, अन्तः-शरीरवृत्तित्वात् मनसः
{सिद्धान्त-सूत्र}
साध्यत्वात् अहेतुः
{पूर्वपक्ष-सूत्र}
स्मरतः शरीरधारणोपपत्तेः अप्रतिषेधः
{सिद्धान्त-सूत्र}
न, तदाशुगतित्वान्मनसः
{पूर्वपक्ष-सूत्र}
न, स्मरणकालानियमात्
{सिद्धान्त-सूत्र}
आत्मप्रेरण-यदृच्छा-ज्ञताभिः च न संयोगविशेषः
{पूर्वपक्ष-सूत्र}
व्यासक्तमनसः पादव्यथनेन संयोगविशेषेण समानम्
{सिद्धान्त-सूत्र}
प्रणिधानलिङ्गादिज्ञानानाम् अयुगपद्भावात् अयुगपत्स्मरणम्
{सिद्धान्त-सूत्र}
ज्ञस्य इच्छाद्वेषनिमित्तत्वात् आरम्भनिवृत्त्योः
{सिद्धान्त-सूत्र}
तल्लिङ्गत्वात् इच्छाद्वेषयोः पार्थिवाद्येषु अप्रतिषेधः
{पूर्वपक्ष-सूत्र}
परश्वादिषु आरम्भनिवृत्तिदर्शनात्
{सिद्धान्त-सूत्र}
नियमानियमौ तु तद्विशेषकौ
{सिद्धान्त-सूत्र}
यथोक्तहेतुत्वात् पारतन्त्र्यात् अकृताभ्यागमात् च न मनसः
{सिद्धान्त-सूत्र}
परिशेषात् यथोक्तहेतूपपत्तेः च
{सिद्धान्त-सूत्र}
स्मरणं तु आत्मनः ज्ञस्वाभाव्यात्
{सिद्धान्त-सूत्र}
प्रणिधान-निबन्धाभ्यास-लिङ्ग-लक्षण-सादृश्य-परिग्रहाश्रयाश्रित सम्बन्धानन्तर्य-वियोगैककार्य-विरोधातिशय-प्राप्ति-व्यवधान-सुख-दुःखेच्छा द्वेष-भयार्थित्व-क्रियाराग-धर्माधर्मनिमित्तेभ्यः
{सिद्धान्त-सूत्र}
[बुद्धेरुत्पन्नापवर्गित्वपरीक्षाप्रकरणम्(42-45)]
कर्मानवस्थायिग्रहणात्
{सिद्धान्त-सूत्र}
अव्यक्तग्रहणम् अनवस्थायित्वात् विद्युत्सम्पाते रूपाव्यक्तग्रहणवत्
{सिद्धान्त-सूत्र}
हेतूपादानात् प्रतिषेद्धव्याभ्यनुज्ञा
{सिद्धान्त-सूत्र}
न प्रदीपार्चिःसन्तत्यभिव्यक्तग्रहणवत् तद्ग्रहणम्
{सिद्धान्त-सूत्र}
[बुद्धेः शरीरगुणव्यतिरेकपरीक्षाप्रकरणम्(46-55)]
द्रव्ये स्वगुणपरगुणोपलब्धेः संशयः
{सिद्धान्त-सूत्र}
यावच्छरीरभावित्वात् रूपादीनाम्
{सिद्धान्त-सूत्र}
न, पाकजगुणान्तरोत्पत्तेः
{सिद्धान्त-सूत्र}
प्रतिद्वन्द्विसिद्धेः पाकजानाम् अप्रतिषेधः
{सिद्धान्त-सूत्र}
शरीरव्यापित्वात्
{सिद्धान्त-सूत्र}
न, केशनखादिषु अनुपलब्धेः
{पूर्वपक्ष-सूत्र}
त्वक्पर्यन्तत्वात् शरीरस्य केशनखादिषु अप्रसङ्गः
{सिद्धान्त-सूत्र}
शरीरगुणवैधर्म्यात्
{सिद्धान्त-सूत्र}
न, रूपादीनाम् इतरेतरवैधर्म्यात्
{पूर्वपक्ष-सूत्र}
ऐन्द्रियकत्वात् रूपादीनाम् अप्रतिषेधः
{सिद्धान्त-सूत्र}
[मनःपरीक्षाप्रकरणम्(56-59)]
ज्ञानायौगपद्यात् एकम् मनः
{सिद्धान्त-सूत्र}
न, युगपत् अनेकक्रियोपलब्धेः
{पूर्वपक्ष-सूत्र}
अलातचक्रदर्शनवत् तदुपलब्धिः आशुसञ्चारात्
{सिद्धान्त-सूत्र}
यथोक्तहेतुत्वात् च अणु
{सिद्धान्त-सूत्र}
[अदृष्टनिष्पाद्यत्वपरीक्षाप्रकरणम्(60-72)]
पूर्वकृतफलानुबन्धात् तदुत्पत्तिः
{सिद्धान्त-सूत्र}
भूतेभ्यः मूर्त्युपादानवत् तदुपादानम्
{पूर्वपक्ष-सूत्र}
न, साध्यसमत्वात्
{सिद्धान्त-सूत्र}
न, उत्पत्तिनिमित्तत्वात् मातापित्रोः
{सिद्धान्त-सूत्र}
तथा आहारस्य
{सिद्धान्त-सूत्र}
प्राप्तौ च अनियमात्
{सिद्धान्त-सूत्र}
शरीरोत्पत्तिनिमित्तवत् संयोगोत्पत्तिनिमित्तं कर्म
{सिद्धान्त-सूत्र}
एतेन अनियमः प्रत्युक्तः
{सिद्धान्त-सूत्र}
तत् अदृष्टकारितम् इति चेत् पुनः तत्प्रसङ्गः अपवर्गे
{सिद्धान्त-सूत्र}
मनःकर्मनिमित्तत्वात् च संयोगाव्युच्छेदः
{सिद्धान्त-सूत्र}
नित्यत्वप्रसङ्गः च प्रायणानुपपत्तेः
{सिद्धान्त-सूत्र}
अणुश्यामतानित्यत्ववत् एतत् स्यात्
{पूर्वपक्ष-सूत्र}
न, अकृताभ्यागमप्रसङ्गात्
{सिद्धान्त-सूत्र}
(इति न्यायसूत्रे तृतीयाध्यायस्य द्वितीयम् आह्निकम्)
(समाप्तः च अयम् तृतीयः अध्यायः)
(अथ चतुर्थः अध्यायः)
(प्रथमम् आह्निकम्)
[प्रवृत्तिदोषसामान्यपरीक्षाप्रकरणम्(1-2)]
मूल पाठ: Nyāyasūtra · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0