न्यायसूत्र · अध्याय 4.2
दोषनिमित्तानां तत्त्वज्ञानादहङ्कारनिवृत्तिः
{सिद्धान्त-सूत्र}
दोषनिमित्तं रूपादयो विषयः सङ्कल्पकृताः
{सिद्धान्त-सूत्र}
तन्निमित्तं त्ववयव्यभिमानः
{सिद्धान्त-सूत्र}
[प्रासङ्गिकम् अवयविप्रकरणम्(4-17)]
विद्याविद्याद्वैविध्यात् संशयः
{पूर्वपक्ष-सूत्र}
तदसंशयः, पूर्वहेतुप्रसिद्धत्वात्
{सिद्धान्त-सूत्र}
वृत्त्यनुपपत्तेरपि तर्हि न संशयः
{पूर्वपक्ष-सूत्र}
कृत्स्नैकदेशावृत्तित्वादवयवानामवयव्यभावः
{पूर्वपक्ष-सूत्र}
तेषु चावृत्तेरवयव्यभावः
{पूर्वपक्ष-सूत्र}
पृथक् चावयवेभ्यो ऽवृत्तेः
{सिद्धान्त-सूत्र}
न चावयव्यवयवाः
{पूर्वपक्ष-सूत्र}
एकस्मिन् भेदाभावाद् भेदशब्दप्रयोगानुपपत्तेरप्रश्नः
{सिद्धान्त-सूत्र}
अवयवान्तरभावे ऽप्यवृत्तेरहेतुः
{सिद्धान्त-सूत्र}
केशसमूहे तैमिरिकोपलब्धिवत् तदुपलब्धिः
{पूर्वपक्ष-सूत्र}
स्वविषयानतिक्रमेणेन्द्रियस्य पटुमन्दभावाद्विषयग्रहणस्य तथाभाबो नाविषये प्रवृत्तिः
{सिद्धान्त-सूत्र}
अवयवावयविप्रसङ्गश्चैवमाप्रलयात्
{सिद्धान्त-सूत्र}
न प्रलयो ऽणुसद्भावात्
{सिद्धान्त-सूत्र}
परं वा त्रुटेः
{सिद्धान्त-सूत्र}
[औपोद्घातिकं निरवयवप्रकरणम्(18-25)]
आकाशव्यतिभेदात् तदनुपपत्तिः
{सिद्धान्त-सूत्र}
आकाशासर्वगतत्वं वा
{पूर्वपक्ष-सूत्र}
अन्तर्बहिश्च कार्यद्रव्यस्य कारणान्तरवचनादकार्ये तदभावः
{सिद्धान्त-सूत्र}
शब्दसंयोगविभावाच्च सर्वगतम्
{सिद्धान्त-सूत्र}
अव्यूहाविष्टम्भविभुत्वानि चाकाशधर्माः
{सिद्धान्त-सूत्र}
मूर्तिमतां च संस्थानोपपत्तेरवयवसद्भावः
{पूर्वपक्ष-सूत्र}
संयोगोपपत्तेश्च
{पूर्वपक्ष-सूत्र}
अनवस्थाकारित्वादनवस्थानुपपत्तेश्चाप्रतिषेधः
{सिद्धान्त-सूत्र}
[बाह्यार्थभङ्गनिराकरणप्रकरणम्(26-37)]
बुद्ध्या विवेचनात्तु भावानां याथात्म्यानुपलब्धिस्तन्त्वपकर्षणे पटसद्भावानुपलब्धिवत् तदनुपलब्धिः
{पूर्वपक्ष-सूत्र}
व्याहतत्वादहेतुः
{सिद्धान्त-सूत्र}
तदाश्रयत्वादपृथग्ग्रहणम्
{सिद्धान्त-सूत्र}
प्रमाणतश्चार्थप्रतिपत्तेः
{सिद्धान्त-सूत्र}
प्रमाणानुपपत्त्युपपत्तिभ्याम्
{सिद्धान्त-सूत्र}
स्वप्नविषयाभिमानवदयं प्रमाणप्रमेयाभिमानः
{पूर्वपक्ष-सूत्र}
मायागन्धर्वनगरमृगतृष्णिकावद्वा
{पूर्वपक्ष-सूत्र}
हेत्वभावादसिद्धिः
{सिद्धान्त-सूत्र}
स्मृतिसंकल्पवच्च स्वप्नविषयाभिमानः
{सिद्धान्त-सूत्र}
मिथ्योपलब्धेर्विनाशस्तत्त्वज्ञानात्स्वप्नविषयाभिमानप्रणाशवत् प्रतिबोधे
{सिद्धान्त-सूत्र}
बुद्धेश्चैवं निमित्तसद्भावोपलम्भात्
{सिद्धान्त-सूत्र}
तत्त्वप्रधानभेदाच्च मिथ्याबुद्धेर्द्वैविध्योपपत्तिः
{सिद्धान्त-सूत्र}
[तत्त्वज्ञानविवृद्धिप्रकरणम्(38-49)]
समाधिविशेषाभ्यासात्
{सिद्धान्त-सूत्र}
न, अर्थविशेषप्रावल्यात्
{पूर्वपक्ष-सूत्र}
क्षुदादिभिः प्रवर्तनाच्च
{पूर्वपक्ष-सूत्र}
पूर्वकृतफलानुबन्धात् तदुत्पत्तिः
{सिद्धान्त-सूत्र}
अरण्यगुहापुलिनादिषु योगाभ्यासोपदेशः
{सिद्धान्त-सूत्र}
अपवर्गे ऽप्येवं प्रसङ्गः
{पूर्वपक्ष-सूत्र}
न, निष्पन्नावश्यम्भावित्वात्
{सिद्धान्त-सूत्र}
तदभावश्चापवर्गे
{सिद्धान्त-सूत्र}
तदर्थं यमनियमाभ्यासात्मसंस्कारो योगाच्चाध्यात्मविध्युपायैः
{सिद्धान्त-सूत्र}
ज्ञानग्रहणाभ्यासस्तद्विद्यैश्च सह संवादः
{सिद्धान्त-सूत्र}
तं शिष्यगुरुसब्रह्मचारिविशिष्टश्रेयो ऽर्थिभिरनसूयिभिरभ्युपेयात्
{सिद्धान्त-सूत्र}
प्रतिपक्षहीनम् अपि वा प्रयोजनार्थमर्थित्वे
[तत्त्वज्ञानपरिपालनप्रकरणम्(50-51)]
तत्त्वाध्यवसायसंरक्षणार्थं जल्पवितण्डे, बीजप्ररोहसंरक्ष्णार्थं कण्टकशाखावरणवत्
{सिद्धान्त-सूत्र}
ताभ्यां विगृह्यकथनम्
{सिद्धान्त-सूत्र}
(इति न्यायसूत्रे चतुर्थाध्यायस्य द्वितीयम् आह्निकम्)
(समाप्तश्च चतुर्थः अध्यायः)
(अथ पञ्चमः अध्यायः)
(प्रथमम् आह्निकम्)
[सत्प्रतिपक्षदेशनाभासप्रकर्णम्(1-3)]
मूल पाठ: Nyāyasūtra · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0