न्यायसूत्र · अध्याय 3.1
दर्शनस्पर्शनाभ्याम् एकार्थग्रहणात्
{पूर्वपक्ष-सूत्र}
न, विषयव्यवस्थानात्
{पूर्वपक्ष-सूत्र}
तद्व्यवस्थानात् एव आत्मसद्भावात् अप्रतिषेधः
{सिद्धान्त-सूत्र}
[शरीरव्यतिरिक्तात्मपरीक्षाप्रकरणम्]
शरीरदाहे पातकाभावात्
{सिद्धान्त-सूत्र}
तदभावः सात्मकप्रदाहे अपि, तन्नित्यत्वात्
{पूर्वपक्ष-सूत्र}
न, कार्याश्रयकर्तृवधात्
{सिद्धान्त-सूत्र}
[प्रासङ्गिकं चक्षुरद्वैतपरीक्षाप्रकरणम्(7-14)]
सव्यदृष्टस्य इतरेण प्रत्यभिज्ञानात्
{सिद्धान्त-सूत्र}
न एकस्मिन् नासास्थिव्यवहिते द्वित्वाभिमानात्
{पूर्वपक्ष-सूत्र}
एकविनाशे द्वितीयाविनाशात् न एकत्वम्
{सिद्धान्त-सूत्र}
अवयवनाशे अपि अवयव्युपलब्धेः अहेतुः
{पूर्वपक्ष-सूत्र}
दृष्टान्तविरोधात् अप्रतिषेधः
{सिद्धान्त-सूत्र}
इन्द्रियान्तरविकारात्
{सिद्धान्त-सूत्र}
न, स्मृतेः स्मर्त्तव्यविषयत्वात्
{पूर्वपक्ष-सूत्र}
तदात्मगुणसद्भावात् अप्रतिषेधः
{सिद्धान्त-सूत्र}
[आत्ममनोभेदपरीक्षाप्रकरणम्(15-17)]
न, आत्मप्रतिपत्तिहेतूनां मनसि सम्भवात्
{पूर्वपक्ष-सूत्र}
ज्ञातुः ज्ञानसाधनोपपत्तेः संज्ञाभेदमात्रम्
{सिद्धान्त-सूत्र}
नियमः च निरनुमानः
{सिद्धान्त-सूत्र}
[आत्मनित्यत्वपरीक्षाप्रकरणम्(18-26)]
पूर्वाभ्यस्तस्मृत्यनुबन्धात् जातस्य हर्षभयशोकसम्प्रतिपत्तेः
{सिद्धान्त-सूत्र}
पद्मादिषु प्रबोधसम्मीलनविकारवत् तद्विकारः
{पूर्वपक्ष-सूत्र}
न, उष्णशीतवर्षाकालनिमित्तत्वात् पञ्चात्मकविकाराणाम्
{सिद्धान्त-सूत्र}
प्रेत्याहाराभ्यासकृतात् स्तन्याभिलाषात्
{सिद्धान्त-सूत्र}
अयसः अयस्कान्ताभिगमनवत् तदुपसर्पणम्
{पूर्वपक्ष-सूत्र}
न, अन्यत्र प्रवृत्त्यभावात्
{सिद्धान्त-सूत्र}
वीतरागजन्मादर्शनात्
{सिद्धान्त-सूत्र}
सगुणद्रव्योत्पत्तिवत् तदुत्पत्तिः
{पूर्वपक्ष-सूत्र}
न, सङ्कल्पनिमित्तत्वात् रागादीनाम्
{सिद्धान्त-सूत्र}
[शरीरपरीक्षाप्रकरणम्(27-31)]
पार्थिवं गुणान्तरोपलब्धेः
{सिद्धान्त-सूत्र}
पार्थिवाप्यतैजसं तद्गुणोपलब्धेः
{सिद्धान्त-सूत्र}
निःश्वासोच्छ्वासोपलब्धेः चातुर्भौन्तिकम्
{पूर्वपक्ष-सूत्र}
गन्धक्लेदपाकव्यूहावकाशदानेभ्यः पाञ्चभौतिकम्
{पूर्वपक्ष-सूत्र}
श्रुतिप्रामाण्यात् च
{सिद्धान्त-सूत्र}
[इन्द्रियपरीक्षाप्रकरणम्(32-51)]
कृष्णसारे सति उपलम्भात् व्यतिरिच्य च उपलम्भात् संशयः
{सिद्धान्त-सूत्र}
महदणुग्रहणात्
{साङ्ख्यमतखण्डनम्}
रश्म्यर्थसन्निकर्षविशेषात् तद्ग्रहणम्
{सिद्धान्त-सूत्र}
तदनुपलब्धेः अहेतुः
{सिद्धान्त-सूत्र}
न अनुमीयमानस्य प्रत्यक्षतः अनुपलब्धिः अभावहेतुः
{सिद्धान्त-सूत्र}
द्रव्यगुणधर्मभेदात् च उपलब्धिनियमः
{सिद्धान्त-सूत्र}
अनेकद्रव्यसमवायात् रूपविशेषात् च रूपोपलब्धिः
{सिद्धान्त-सूत्र}
कर्मकारितः च इन्द्रियाणां व्यूहः पुरुषार्थतन्त्रः
{सिद्धान्त-सूत्र}
मध्यन्दिनोल्काप्रकाशानुपलब्धिवत् तदनुपलब्धिः
{सिद्धान्त-सूत्र}
न, रात्रौ अपि अनुपलब्धेः
{सिद्धान्त-सूत्र}
बाह्यप्रकाशानुग्रहात् विषयोपलब्धेः अनभिव्यक्तितः अनुपलब्धिः
{सिद्धान्त-सूत्र}
अभिव्यक्तौ च अभिभवात्
{सिद्धान्त-सूत्र}
नक्तञ्चरनयनरश्मिदर्शनात् च
{सिद्धान्त-सूत्र}
अप्राप्यग्रहणं काचाभ्रपटलस्फटिकान्तरितोपलब्धेः
{पूर्वपक्ष-सूत्र}
कुड्यान्तरितानुपलब्धेः अप्रतिषेधः
{सिद्धान्त-सूत्र}
अप्रतीघातात् सन्निकर्षोपपत्तिः
{सिद्धान्त-सूत्र}
आदित्यरश्मेः स्फटिकान्तरिते अपि दाह्ये अविघातात्
{सिद्धान्त-सूत्र}
न इतरेतरधर्मप्रसङ्गात्
{पूर्वपक्ष-सूत्र}
आदर्शोदकयोः प्रसादस्वाभाव्यात् रूपोपलब्धिः
{सिद्धान्त-सूत्र}
दृष्टानुमितानां हि नियोगप्रतिषेधानुपपत्तिः
{सिद्धान्त-सूत्र}
[इन्द्रियनानात्वपरीक्षाप्रकरणम्(52-62)]
स्थानान्यत्वे नानात्वात् अवयविनानास्थानत्वात् च संशयः
{सिद्धान्त-सूत्र}
त्वक् अव्यतिरेकात्
{पूर्वपक्ष-सूत्र}
न युगपत् अर्थानुपलब्धेः
{सिद्धान्त-सूत्र}
विप्रतिषेधात् च न त्वक् एका
{सिद्धान्त-सूत्र}
इन्द्रियार्थपञ्चत्वात्
{सिद्धान्त-सूत्र}
न, तदर्थबहुत्वात्
{पूर्वपक्ष-सूत्र}
गन्धत्वाद्यव्यतिरेकात् गन्धादीनामप्रतिषेधः
{सिद्धान्त-सूत्र}
विषयत्वाव्यतिरेकात् एकत्वम्
{सिद्धान्त-सूत्र}
न, बुद्धिलक्षणाधिष्ठान-गत्याकृति-जातिपञ्चत्वेभ्यः
{सिद्धान्त-सूत्र}
भूतगुणविशेषोपलब्धेः तादात्म्यम्
{सिद्धान्त-सूत्र}
[अर्थपरीक्षाप्रकरणम्(62-74)]
गन्ध-रस-रूप-स्पर्श-शब्दानां स्पर्शपर्यन्ताः पृथिव्याः
{सिद्धान्त-सूत्र}
अप्-तेजो-वायूनां पूर्वं पूर्वम् अपोह्य आकाशस्य उत्तरः
{पूर्वपक्ष-सूत्र}
न, सर्वगुणानुपलब्धेः
{सिद्धान्त-सूत्र}
एकैकश्येन उत्तरगुणासद्भावात् उत्तरोत्तराणां तदनुपलब्धिः
{पूर्वपक्ष-सूत्र}
विष्टं हि अपरं परेण
{पूर्वपक्ष-सूत्र}
न, पार्थिवाप्ययोः प्रत्यक्षत्वात्
{सिद्धान्त-सूत्र}
पूर्वपूर्वगुणोत्कर्षात् तत्तत् प्रधानम्
{सिद्धान्त-सूत्र}
तद्ध्यवस्थानं तु भूयस्त्वात्
{सिद्धान्त-सूत्र}
सगुणानाम् इन्द्रियभावात्
{सिद्धान्त-सूत्र}
तेन एव तस्य अग्रहणात् च
{सिद्धान्त-सूत्र}
न, शब्दगुणोपलब्धेः
{पूर्वपक्ष-सूत्र}
तदुपलब्धिः इतरेतरद्रव्यगुणवैधर्म्यात्
{सिद्धान्त-सूत्र}
(इति न्यायसूत्रे तृतीयाध्यायस्य प्रथमम् आह्निकम्)
(द्वितीयम् आह्निकम्)
[बुद्धेरनित्यत्वपरीक्षाप्रकरणम्(1-9)]
मूल पाठ: Nyāyasūtra · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0