न्यायसूत्र · अध्याय 2.2
न चतुष्ट्वम्, ऐतिह्यार्थापत्तिसम्भवाभावप्रामाण्यात्
{पूर्वपक्ष-सूत्र}
शब्दे ऐतिह्यानर्थान्तरभावात् अनुमाने अर्थापत्तिसम्भवाभावानर्थान्तर भावात् च अप्रतिषेधः
{सिद्धान्त-सूत्र}
अर्थापत्तिः अप्रमाणम् अनैकान्तिकत्वात्
{अर्थापत्तिप्रामाण्यपरीक्षा}
अनर्थापत्तौ अर्थापत्त्यभिमानात्
{नानैकान्तिकत्वमर्थापत्तेः}
प्रतिषेधाप्रामाण्यं च अनैकान्तिकत्वात्
(-)
तत्प्रामाण्ये वा न अर्थापत्त्यप्रामाण्यम्
{सिद्धान्त-सूत्र}
[अभावप्रामाण्यसिद्धिः - अवान्तरप्रकरणम्]
न अभावप्रामाण्यं प्रमेयासिद्धेः
{पूर्वपक्ष-सूत्र}
लक्षितेष्वलक्षणलक्षितत्वात् अलक्षितानां तत्प्रमेयसिद्धेः
{उदाहरण सूत्र}
असति अर्थे न अभावः इति चेत् न, अन्यलक्षणोपपत्तेः
{सिद्धान्त-सूत्र}
तत्सिद्धेः अलक्षितेषु अहेतुः
{पूर्वपक्ष-सूत्र}
न, लक्षणावस्थितापेक्षसिद्धेः
{सिद्धान्त-सूत्र}
प्राक् उत्पत्तेः अभावोपपत्तेः च
{सिद्धान्त-सूत्र}
[शब्दानित्यत्वपरीक्षाप्रकरणम्(13-39)]
आदिमत्वात् ऐन्द्रियकत्वात् कृतकवत् उपचारात् च
{शब्दानित्यत्व-प्रतिपादन-सूत्र}
न, घटाभावसामान्यनित्यत्वात् नित्येषु अपि अनित्यवत् उपचारात् च
{सिद्धान्त-सूत्र}
तत्त्वभाक्तयोः नानात्वविभागात् अव्यभिचारः
{शब्दानित्यत्व-प्रतिपादन-सूत्र}
{सिद्धान्त-सूत्र}
सन्तानानुमानविशेषणात्
{शब्दानित्यत्व-प्रतिपादन-सूत्र}
{सिद्धान्त-सूत्र}
कारणद्रव्यस्य प्रदेशशब्देनाभिधानात्
{शब्दानित्यत्व-प्रतिपादन-सूत्र}
{सिद्धान्त-सूत्र}
प्राक् उच्चारणात् अनुपलब्धेः आवरणाद्यनुपलब्धेः च
{शब्दानित्यत्व-प्रतिपादन-सूत्र}
तदनुपलब्धेः अनुपलम्भात् आवरणोपपत्तिः
{शब्दानित्यत्व-प्रतिपादन-सूत्र}
अनुपलम्भात् अनुपलब्धिसद्भावात् न आवरणानुपपत्तिः अनुपलम्भात्
{सिद्धान्त-सूत्र}
अनुपलम्भात्मकत्वात् अनुपलब्धेः अहेतुः
{सिद्धान्त-सूत्र}
अस्पर्शत्वात्
{सिद्धान्त-सूत्र}
न, कर्मानित्यत्वात्
{सिद्धान्त-सूत्र}
न, अणुनित्यत्वात्
{सिद्धान्त-सूत्र}
सम्प्रदानात्
{सिद्धान्त-सूत्र}
तदन्तरालानुपलब्धेः अहेतुः
{सिद्धान्त-सूत्र}
अध्यापनात् अप्रतिषेधः
{सिद्धान्त-सूत्र}
उभयोः पक्षयोः अन्यतरस्य अध्यापनात् अप्रतिषेधः
{सिद्धान्त-सूत्र}
अभ्यासात्
{सिद्धान्त-सूत्र}
न अन्यत्वे अपि अभ्यासस्य उपचारात्
{सिद्धान्त-सूत्र}
अन्यत् अन्यस्मात् अनन्यत्वात् अनन्यत् इति अन्यताभावः
{सिद्धान्त-सूत्र}
तदभावे न अस्ति अनन्यता, तयोः इतरेतरापेक्षसिद्धेः
{सिद्धान्त-सूत्र}
विनाशकारणानुपलब्धेः
{सिद्धान्त-सूत्र}
अश्रवणकारणानुपलब्धेः सततश्रवणप्रसङ्गः
{सिद्धान्त-सूत्र}
उपलभ्यमाने च अनुपलब्धेः असत्त्वात् अनपदेशः
{सिद्धान्त-सूत्र}
पाणिनिमित्तप्रश्लेषात् शब्दाभावे न अनुपलब्धिः
{सिद्धान्त-सूत्र}
विनाशकारणानुपलब्धेः च अवस्थाने तन्नित्यत्वप्रसङ्गः
{सिद्धान्त-सूत्र}
अस्पर्शत्वात् अप्रतिषेधः
{सिद्धान्त-सूत्र}
विभक्त्यन्तरोपपत्तेः च समासे
{सिद्धान्त-सूत्र}
[शब्दपरिणामपरीक्षाप्रकरणम्(40-56)]
विकारादेशोपदेशात् संशयः
{पूर्वपक्ष-सूत्र}
प्रकृतिविवृद्धौ विकारविवृद्धेः
{सिद्धान्त-सूत्र}
न्यूनसमाधिकोपलब्धेः विकाराणाम् अहेतुः
{सिद्धान्त-सूत्र}
द्विविधस्य अपि हेतोः अभावात् असाधनं दृष्टान्तः
{उदाहरणसूत्र}
न, अतुल्यप्रकृतीनाम् विकारविकल्पात्
{सिद्धान्त-सूत्र}
द्रव्यविकारवैषम्यवत् वर्णविकारविकलः
{पूर्वपक्ष-सूत्र}
न, विकारधर्मानुपपत्तेः
{सिद्धान्त-सूत्र}
विकारप्राप्तानाम् अपुनरापत्तेः
{सिद्धान्त-सूत्र}
सुवर्णादीनां पुनरापत्तेः अहेतुः
{पूर्वपक्ष-सूत्र}
न, तद्विकाराणां सुवर्णभावाव्यतिरेकात्
{सिद्धान्त-सूत्र}
वर्णत्वाव्यतिरेकात् वर्णविकाराणाम् अप्रतिषेधः
{सिद्धान्त-सूत्र}
सामान्यवतो धर्मयोगो न सामान्यस्य
{सिद्धान्त-सूत्र}
नित्यत्वे अविकारात् अनित्यत्वे च अनवस्थानात्
{सिद्धान्त-सूत्र}
नित्यानाम् अतीन्द्रियत्वात् तद्धर्मविकल्पात् च वर्णविकाराणाम् अप्रतिषेधः
{पूर्वपक्ष-सूत्र}
अनवस्थायित्वे च वर्णोपलब्धिवत् तद्विकारोपपत्तिः
{पूर्वपक्ष-सूत्र}
विकारधर्मित्वे नित्यत्वाभावात् कालान्तरे विकारोपपत्तेः च अप्रतिषेधः
{सिद्धान्त-सूत्र}
प्रकृत्यनियमात्
{सिद्धान्त-सूत्र}
अनियमे नियमात् न अनियमः
{पूर्वपक्ष-सूत्र}
नियमानियमविरोधात् अनियमे नियमात् च अप्रतिषेधः
{सिद्धान्त-सूत्र}
गुणान्तरापत्त्युपमर्द-ह्रास-वृद्धि-श्लेषेभ्यः तु विकारोपपत्तेः वर्णविकाराः
{सिद्धान्त-सूत्र}
[शब्दशक्तिपरीक्षाप्रकरणम्]
ते विभक्त्यन्ताः पदम्
{पद-लक्षण-सूत्रम्}
व्यक्त्याकृतिजातिसन्निधौ उपचारात् संशयः
{पूर्वपक्ष-सूत्र}
[व्यक्तिवाद-अवान्तरप्रकरणम्]
याशब्द-समूह-त्याग-परिग्रह-सङ्ख्या-वृद्ध्यपचय-वर्ण-समासानुबन्धानाम् व्यक्तौ उपचारात् व्यक्तिः
{पूर्वपक्ष-सूत्र}
न, तत् अनवस्थानात्
{सिद्धान्त-सूत्र}
सहचरण-स्थान-तादर्थ्य-वृत्त-मान-धारण-सामीप्य-योग-साधनाधिपत्येभ्यः ब्राह्मण-मञ्च-कट-राज-सक्तु-चन्दन-गङ्गा-शाटकान्न-पुरुषेष्वतद्भावे अपि तदुपचारः
{सिद्धान्त-सूत्र}
[आकृतिवाद-अवान्तरप्रकरणम्]
आकृतिः, तदपेक्षत्वात् सत्त्वव्यवस्थानसिद्धेः
{पूर्वपक्ष-सूत्र}
[जातिवाद-अवान्तरप्रकरणम्]
व्यक्त्याकृतियुक्ते अपि अप्रसङ्गात् प्रोक्षणादिनां मृद्गवके जातिः
{पूर्वपक्ष-सूत्र}
न, आकृतिव्यक्त्यपेक्षत्वात् जात्यभिव्यक्तेः
{सिद्धान्त-सूत्र}
[सिद्धान्तवाद-अवान्तरप्रकरणम्]
व्यक्त्याकृतिजातयः तु पदार्थः
{सिद्धान्त-सूत्र}
व्यक्तिः गुणविशेषाश्रयः मूर्तिः
{सिद्धान्त-सूत्र}
आकृतिः जातिलिङ्गाख्या
{सिद्धान्त-सूत्र}
समानप्रसवात्मिका जातिः
{सिद्धान्त-सूत्र}
(इति न्यायसूत्रे द्वितीयाध्यायस्य द्वितीयम् आह्निकम्)
समाप्तः च अयम् द्वितीयाध्यायः
(अथ तृतीयः अध्यायः)
(प्रथमम् आह्निकम्)
[इन्द्रियव्यतिरिक्तात्मपरीक्षाप्रकरणं(1-3)]
मूल पाठ: Nyāyasūtra · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0