भाषा

ENहिગુ
ग्रंथ पाठ

न्यायसूत्र · अध्याय 2.1

2.1.1

समानानेकधर्माध्यवसायात् अन्यतरधर्माध्यवसायात् वा न संशयः
{संशय-}

2.1.2

विप्रत्तिपत्त्यव्यवस्थाध्यवसायात् च
{संशय-}

2.1.3

विप्रत्तिपत्तौ च संप्रत्तिपत्तेः
{संशय-}

2.1.4

अव्यवस्था आत्मनि व्यवस्थितत्वात् च अव्यवस्थायाः
{संशय-}

2.1.5

तथा अत्यन्तसंशयः तद्धर्मसातत्योपपत्तेः
{संशय-}

2.1.6

यथोक्ताध्यवसायात् एव तद्विशेषापेक्षात् संशये न असंशयः न अत्यन्तसंशयः वा
{संशय-}

2.1.7

यत्र संशयः तत्र एवम् उत्तरोत्तरप्रसङ्गः
{संशय-}
[प्रमाणसामान्यपरीक्षाप्रकरणम्]

2.1.8

प्रत्यक्षादीनाम् अप्रामाण्यं त्रैकाल्यासिद्धेः
{पूर्वपक्षसूत्रम्}

2.1.9

पूर्वं हि प्रमाणसिद्धौ न इन्द्रियार्थसन्निकर्षात् प्रत्यक्षोत्पत्तिः
{पूर्वपक्षसूत्रम्}

2.1.10

पश्चात्सिद्धौ न प्रमाणेभ्यः प्रमेयसिद्धिः
{पूर्वपक्षसूत्रम्}

2.1.11

युगपत्सिद्धौ प्रत्यर्थनियतत्वात् क्रमवृत्तित्वाभावः बुद्धीनाम्
{पूर्वपक्षसूत्रम्}

2.1.12

त्रैकाल्यासिद्धेः प्रतिषेधानुपपत्तिः
{पूर्वपक्षसूत्रम्}

2.1.13

सर्वप्रमाणप्रतिषेधात् च प्रतिषेधानुपपत्तिः
{पूर्वपक्षसूत्रम्}

2.1.14

तत्प्रामाण्ये वा न सर्वप्रमाणविप्रतिषेधः
{पूर्वपक्षसूत्रम्}

2.1.15

त्रैकाल्याप्रतिषेधः च शब्दात् आतोद्यसिद्धिवत् तत्सिद्धेः
{पूर्वपक्षसूत्रम्}

2.1.16

प्रमेया च तुलाप्रामाण्यवत्
{पूर्वपक्षसूत्रम्}

2.1.17

प्रमाणतः सिद्धेः प्रमाणानाम् प्रमाणान्तरसिद्धिप्रसङ्गः
{पूर्वपक्षसूत्रम्}

2.1.18

तद्विनिवृत्तेः वा प्रमाणसिद्धिवत् प्रमेयसिद्धिः
{पूर्वपक्षसूत्रम्}

2.1.19

न, प्रदीपप्रकाशसिद्धिवत् तत्सिद्धेः
{सिद्धान्तलक्षणम्}

2.1.20

क्वचित् निवृत्तिदर्शनात् अनिवृत्तिदर्शनात् च क्वचित् अनेकान्तः
{सिद्धान्तलक्षणम्}
[प्रत्यक्षपरीक्षाप्रकरणाम्]

2.1.21

प्रत्यक्षलक्षणानुपपत्तिः असमग्रवचनात्
{प्रत्यक्षलक्षण-}
{प्रत्यक्षलक्षणपरीक्षा}

2.1.22

न आत्ममनसोः सन्निकर्षाभावे प्रत्यक्षोत्पत्तिः
(दो)

2.1.23

दिग्देशकालाकाशेषु अपि एवं प्रसङ्गः
(दो)

2.1.24

ज्ञानलिङ्गत्वात् आत्मनः न अनवरोधः
{प्रत्यक्षलक्षण-सिद्धान्त-सूत्रम्}

2.1.25

तदयौगपद्यलिङ्गत्वात् च न मनसः
{प्रत्यक्षलक्षण-सिद्धान्त-सूत्र}

2.1.26

प्रत्यक्षनिमित्तत्वात् च इन्द्रियार्थयोः सन्निकर्षस्य स्वशब्देन वचनम्
{प्रत्यक्षलक्षण-सिद्धान्त-सूत्र}

2.1.27

सुप्तव्यासक्तमनसां च इन्द्रियार्थयोः सन्निकर्षनिमित्तत्वात्
{प्रत्यक्षलक्षण-सिद्धान्त-सूत्र}

2.1.28

तैः च अपदेशः ज्ञानविशेषाणाम्
{प्रत्यक्षलक्षण-सिद्धान्त-सूत्र}

2.1.29

व्याहतत्वात् अहेतुः
{प्रत्यक्षलक्षण-सिद्धान्त-सूत्र}

2.1.30

न अर्थविशेषप्राबल्यात्
{प्रत्यक्षलक्षण-सिद्धान्त-सूत्र}
[विषयपरीक्षा-प्रकरणाम्]

2.1.31

प्रत्यक्षम् अनुमानम् एकदेशग्रहणात् उपलब्धेः
{पूर्वपक्ष-सूत्र}

2.1.32

न, प्रत्यक्षेण यावत् तावत् अपि उपलम्भात्
{सिद्धान्त-सूत्र}

2.1.33

न चैकदेशोपलब्धिरवयविसद्भावात्
{सिद्धान्त-सूत्र}
[प्रसङ्गोपात्ता अवयविपरीक्षा]

2.1.34

साध्यत्वात् अवयविनि सन्देहः
{पूर्वपक्ष-सूत्र}

2.1.35

सर्वाग्रहणम् अवयव्यसिद्धेः
{सिद्धान्त-सूत्र}

2.1.36

धारणाकर्षणोपपत्तेः च
{सिद्धान्त-सूत्र}

2.1.37

सेनावनवत् ग्रहणम् इति चेत् न अतीन्द्रियत्वात् अणूनाम्
{सिद्धान्त-सूत्र}
[अनुमानपरीक्षाप्रकरणम्]

2.1.38

रोधोपघातसादृश्येभ्यः व्यभिचारात् अनुमानम् अप्रमाणम्
{पूर्वपक्ष-सूत्र}

2.1.39

न, एकदेशत्राससादृश्येभ्यः अर्थान्तरभावात्
{सिद्धान्त-सूत्र}
{वर्तमानकालपरीक्षा}

2.1.40

वर्तमानाभावः, पततः पतितपतितव्यकालोपपत्तेः
{पूर्वपक्ष-सूत्र}

2.1.41

तयोः अपि अभावः वर्तमानाभावे, तदपेक्षत्वात्
{सिद्धान्त-सूत्र}

2.1.42

न अतीतानागतयोः इतरेतरापेक्षा सिद्धिः
{सिद्धान्त-सूत्र}

2.1.43

वर्तमानाभावे सर्वाग्रहणं प्रत्यक्षानुपपत्तेः
{सिद्धान्त-सूत्र}

2.1.44

कृतताकर्त्तव्यतोपपत्तेः तु उभयथा ग्रहणम्
{सिद्धान्त-सूत्र}
[उपमानपरीक्षाप्रकरणम्]

2.1.45

अत्यन्तप्रायैकदेशसाधर्म्यात् उपमानासिद्धिः
{सिद्धान्त-सूत्र}

2.1.46

प्रसिद्धसाधर्म्यात् उपमानसिद्धेः यथोक्तदोषानुपपत्तिः
{पूर्वपक्ष-सूत्र}

2.1.47

प्रत्यक्षेण अप्रत्यक्षसिद्धेः
{सिद्धान्त-सूत्र}

2.1.48

न अप्रत्यक्षे गवये प्रमाणार्थम् उपमानस्य पश्यामः
{सिद्धान्त-सूत्र}

2.1.49

तथा इति उपसंहारात् उपमानसिद्धेः न अविशेषः
{सिद्धान्त-सूत्र}
[शब्दसामान्यपरीक्षाप्रकरणम्]

2.1.50

शब्दः अनुमानम् अर्थस्य अनुपलब्धेः अनुमेयत्वात्
{पूर्वपक्ष-सूत्र}

2.1.51

उपलब्धेः अद्विप्रवृत्तित्वात्
{पूर्वपक्ष-सूत्र}

2.1.52

सम्बन्धात् च
{पूर्वपक्ष-सूत्र}

2.1.53

आप्तोपदेशसामर्थ्यात् शब्दात् अर्थसम्प्रत्ययः
{सिद्धान्त-सूत्र}

2.1.54

पूरणप्रदाहपाटनानुपलब्धेः च सम्बन्धाभावः
{सिद्धान्त-सूत्र}

2.1.55

शब्दार्थव्यवस्थानात् अप्रतिषेधः
{सिद्धान्त-सूत्र}

2.1.56

न, सामयिकत्वात् शब्दार्थसम्प्रत्ययस्य
{सिद्धान्त-सूत्र}

2.1.57

जातिविशेषे च अनियमात्
{सिद्धान्त-सूत्र}
[शब्दविशेषपरीक्षाप्रकरणम्]

2.1.58

तदप्रामाण्यम् अनृतव्याघातपुनरुक्तदोषेभ्यः
{सिद्धान्त-सूत्र}

2.1.59

न, कर्मकर्तृसाधनवैगुण्यात्
{सिद्धान्त-सूत्र}

2.1.60

अभ्युपेत्य कालभेदे दोषवचनात्
{सिद्धान्त-सूत्र}

2.1.61

अनुवादोपपत्तेः च
{सिद्धान्त-सूत्र}

2.1.62

वाक्यविभागस्य च अर्थग्रहणात्
{सिद्धान्त-सूत्र}

2.1.63

विध्यर्थवादानुवादवचनविनियोगात्
{सिद्धान्त-सूत्र}

2.1.64

विधिः विधायकः
{सिद्धान्त-सूत्र}

2.1.65

स्तुतिः निन्दा परकृतिः पुराकल्पः इति अर्थवादः
{सिद्धान्त-सूत्र}
{अर्थवाद-भेदः}

2.1.66

विधिविहितस्य अनुवचनम् अनुवादः
{अर्थवाद-}

2.1.67

न अनुवादपुनरुक्तयोः विशेषः, शब्दाभ्यासोपपत्तेः
{सिद्धान्त-सूत्र}

2.1.68

शीघ्रतरगमनोपदेशवत् अभ्यासात् न अविशेषः
{सिद्धान्त-सूत्र}

2.1.69

मन्त्रायुर्वेदप्रामाण्यवत् च तत्प्रामाण्यम्, आप्तप्रामाण्यात्
{सिद्धान्त-सूत्र}
(इति न्यायसूत्रे द्वितीयाध्यायस्य प्रथमम् आह्निकम्)
(द्वितीयम् आह्निकम्)
[प्रमाणचतुष्ट्वपरीक्षाप्रकरणम्]

मूल पाठ: Nyāyasūtra · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc