भाषा

ENहिગુ
ग्रंथ पाठ

न्यायसूत्र · अध्याय 1.2

1.2.1

प्रमाणतर्कसाधनोपालम्भः सिद्धान्ताविरुद्धः पञ्चावयवोपपन्नः पक्षप्रतिपक्षपरिग्रहः वादः
{वाद-लक्षणम्}

1.2.2

यथोक्तोपपन्नः छलजातिनिग्रहस्थानसाधनोपालम्भः जल्पः
{जल्प-लक्षणम्}

1.2.3

सः प्रतिपक्षस्थापनाहीनः वितण्डा
{वितण्डा-लक्षणम्}
[हेत्वाभासप्रकरणम्]

1.2.4

सव्यभिचार-विरुद्ध-प्रकरणसम-साध्यसम-कालातीताः हेत्वाभासाः
{हेत्वाभास-उद्देश-सूत्रम्}

1.2.5

अनैकान्तिकः सव्यभिचारः
{सव्यभिचार-लक्षणम्}

1.2.6

सिद्धान्तम् अभ्युपेत्य तद्विरोधी विरुद्धः
{विरुद्ध-लक्षणम्}

1.2.7

यस्मात् प्रकरणचिन्ता सः निर्णयार्थमपदिष्टः प्रकरणसमः
{प्रकरणसम-लक्षणम्}

1.2.8

साध्याविशिष्टः साध्यत्वात् साध्यसमः
{साध्यसम-लक्षणम्}

1.2.9

कालात्ययापदिष्टः कालातीतः
{कालातीत-लक्षणम्}
[छलप्रकरणम्]

1.2.10

वचनविघातः अर्थविकल्पोपपत्त्या छलम्
{छल-लक्षणम्}

1.2.11

तत् त्रिविधम् - वाक्छलम् सामान्यच्छलम् उपचारच्छलम् च इति
{छल-भेद-उद्देश-सूत्रम्}

1.2.12

अविशेषाभिहिते अर्थे वक्तुः अभिप्रायात् अर्थान्तरकल्पना वाक्छलम्
{वाक्छल-लक्षणम्}

1.2.13

सम्भवतः अर्थस्य अतिसामान्ययोगात् असम्भूतार्थकल्पना सामान्यच्छलम्
{सामान्यच्छल-लक्षणम्}

1.2.14

धर्मविकल्पनिर्देशे अर्थसद्भावप्रतिषेधः उपचारच्छलम्
{उपचारच्छल-लक्षणम्}

1.2.15

वाक्छलम् एव उपचारच्छलम् तत् अविशेषात्
{उपचारच्छल-पूर्वपक्ष-लक्षणम्}

1.2.16

न तत् अर्थान्तरभावात्
{उपचारच्छल-लक्षणम्}

1.2.17

अविशेषे वा किञ्चित्साधर्म्यात् एकच्छलप्रसङ्गः
{उपचारच्छल-लक्षणम्}
[लिङ्गदोषसामान्यप्रकरणम्]

1.2.18

साधर्म्यवैधर्म्याभ्याम् प्रत्यवस्थानं जातिः
{जाति-लक्षणम्}

1.2.19

विप्रतिपत्तिः अप्रतिपत्तिः च निग्रहस्थानम्
{निग्रहस्थान-लक्षणम्}

1.2.20

तद्विकल्पात् जातिनिग्रहस्थानबहुत्वम्
{निग्रहस्थानबहुत्व-सूत्रम्}
(इति न्यायसूत्रे प्रथमाध्यायस्य द्वितीयम् आह्निकम्)
(समाप्तः च अयम् प्रथमः अध्यायः)
(अथ द्वितीयः अध्यायः)
(प्रथमम् आह्निकम्)
[संशयपरीक्षाप्रकरणम्]

मूल पाठ: Nyāyasūtra · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc