niruttaratantram · अध्याय p6
त्रयोदशः पटलः
श्रीदेव्युवाच -
तासां च सिद्धि-विद्यानां यस्या या याः प्रपूजिताः ।
तास्ताः शक्ति-विशेषेण कथयस्व मयि प्रभो ॥
श्रीशिव उवाच -
कुलं च सर्व-जातीनां कुलीनानां कुलार्चने ।
सिद्ध-विद्या-विशेषेण सिद्धिदा कुल-पूजने ॥
श्यामा-विद्या न सिद्धयन्ति नापिताङ्गनया विना ।
तारा-विद्या न सिद्धयन्ति चाण्डाली-गमनं विना ।
श्रीविद्या च न सिद्धयन्ति ब्राह्मणी-गमनं विना ।
छिन्नमस्ता न सिद्धयन्ति कापाली-गमनं विना ॥
सिद्ध-विद्या न सिद्धचन्ति भूमीन्द्र-तनयां विना।
जल-कान्त-गृहे देवि ! भैरवी च सुसिद्ध्यति।
मध्यमा रहिता प्रोक्ता विहिता द्रुत-सिद्धिदा ।
साधयेद् रजनीं सर्वां ब्राह्मणीं यवनीं विनां ।
सर्वावस्थां परित्यज्य साधयेद् द्विजजां द्विजः ।
राज-राजेश्वरी साक्षात् द्विजजा-रूप-धारिणी ॥
द्विजजा-तोषणादेव द्रुतं सिद्धयति सुन्दरि !
श्रेष्ठ-वर्णोद्भवां रम्भां साधने नैव साधयेत् ॥
साधयेत् सिद्धि-हानिः स्याद् रौरवं नरकं व्रजेत् ॥
अथान्यत् सम्प्रवक्ष्यामि रजनीं साधनान्तरां ।
यस्मिन् कृते भवेत् सिद्धिर्देवानामपि दुर्लभा ॥
रजनी-द्वि-गुणं वीक्ष्य सहस्रं यदि साधकः ।
पञ्चाशद्-दिवसं यावत् तावच्च प्रत्यहं जपेत् ॥
सम्पूज्य रजनीं भूमिं सङ्गम्य प्रजपेन्मनुं ।
तदा वादी सुसिद्धः स्याज्जपेत् क्षिति-तनुं विशेत् ॥
पर्वते हस्तमारोप्य शतशः शुद्ध-भावतः ।
कवितां लभते धीमान् देवी-लोकं मृते व्रजेत् ॥
पद्म-मध्यं तथा बिम्बं खञ्जनं शिखरं तथा ।
चामरं वारि-बिम्बं च तिल-पुष्पं सरोरुहं ॥
त्रि-सूत्रं वीक्ष्य सञ्जप्य शतशः शुद्ध-भावतः ।
स सर्व-रजनी-नाथः कलौ कल्प-लता भुवि ॥
सम्पूज्य रजनी-गेहं मनुं तत्रैव संलिखेत् ।
कलां वा कण-मात्रेण देवीं ध्यात्वा पुनर्यजेत् ॥
तदुद्भवेन पुष्पेण पूजयेद् भक्ति-भावतः ।
स याति शिवतां भूमौ कुल-द्रुम-गतः शुचिः ॥
ब्रह्म-तरौ महा-पद्ये ध्यात्वा देवीं प्रपूजयेत् ।
तत्सुधा-सार-सारेण तर्पयेन्मातृका-मुखे ॥
कला-पूजा-क्रमेणैव रजनी वेष्टिते यदि ।
महा-निशि जपेन्मन्त्रं ध्रुवं मोक्षं स चार्हति ॥
तिथि-क्रमेण कामेन रजनी-वेष्टिता जपेत् ।
तदा मासेन सिद्धिः स्यात् सहस्र-जप-मानतः ॥
अष्टम्यां च चतुर्दश्यां द्वि-गुणं- यदि दृश्यते ।
मन्त्रं कलान्तरे देवि ! लिखित्वा कुकुमेन च ॥
तत्पार्श्वे साध्यमालिख्य ताडयेत् सृष्टि-वृष्टिभिः ।
साध्य-सूक्त जपेत् तत्र कामार्ता तत्त्र लभ्यते ॥
तन पूजां चरेद् धोमान् महा-चोन-क्रमेण च ।
ग्रामे पातालके रम्ये श्मशाने प्रान्तरेऽपि वा ॥
विलिख्य यन्त्र-मन्त्रं च कामाख्यायां प्रपूजयेत् ।
तदा राज्यमवाप्नोति इहैव कुल-सुन्दरि ॥
मृते च मोक्षमाप्नोति सत्यं सत्यं न संशयः ।
रजो-मूले रजन्यां तु यो याति बिल्व-पत्रकैः ॥
देवीमभ्यर्च्य सहस्रं तु प्रजपेत् पितृ-कानने ।
तदा राज्यमवाप्नोति यदि वा न पलायते ॥
चितायां रजनी-गेहे सङ्गम्य च जपेन्मनुं ।
यं यं कामयते कामं तं तमेव ध्रुवं लभेत् ॥
पुनश्च तत्र सम्पूज्य स्वयम्भू-कुसुमेन च।
इहैव जायते सौख्यमन्ते च मोक्षमाप्नुयात् ॥
महा-भूतादिने नक्तं श्मशाने रजनी-युतः ।
सहस्त्रैक-प्रमाणेन किं न सिद्धयति भू-तले ॥
रजनी-रजसा देवि ! पिण्डं च परि-कल्पयेत् ।
यन्नाम्ना दीयते पिण्डं न गच्छेत् स यमालयं ॥
रजनी-वेष्टनादेव यत्फलं लभते प्रिये !
तस्यापि षोडशांशं च चरेन्मार्गेण लभ्यते ॥
शवासनाधिक-फलं लता-गेहे प्रवेशनं ।
तस्यापि षोडशांशं च कलां नार्हन्ति ते शवाः ॥
॥। इति श्रीनिरुत्तर-तन्त्र पार्वती-शिव-सम्वादे त्रयोदशः पटलः ॥
मूल पाठ: niruttaratantram · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0