niruttaratantram · अध्याय p7
दशमः पटलः
श्रीदेव्युवाच -
शक्तिर्नाना विद्या प्राक्ता संशयो जायते सदा ।
कुलीनां कीदृशीं देवीं ब्राह्मणः पूजयेत् सदा ॥
श्रीशिव उवाच --
सर्व-जात्युद्भवा शक्तिर्योगिभिः पूज्यते सदा ।
यां यां पश्यति योगोन्द्रस्तां तामेव प्रपूजयेत् ॥
वीर-शक्तिविशेषेण शृणुष्व वर-र्वाणनि !
पुरश्चर्या कृता वोराः प्रशस्ता वीर-साधने ॥
पुरश्वर्या-विहीनाश्चेन्न योज्याः कुल-साधने ।
योज्यश्चेत् सिद्धि-हानिः स्याद् रौरवं नरकं व्रजेत् ॥
वीर-र्शाक्त विना देवि ! न कुर्यात् कुल-साधनं ।
तदभावे होन-जातौ प्रशस्ता वीर-साधने ॥
पञ्च-चक्रे प्रशस्ता यास्ताः शृणुष्व वरानने !
चक्रं पञ्च-विधं प्रोक्तं तत्र र्शाक्त प्रपूजयेत् ॥
राज-चक्रं महा-चक्र देव-चक्रं तृतीयकं ।
वोर-चक्रं चतुर्थ च पशु-चक्रं च पञ्चमं ॥
ब्रह्मचारो गृहस्थश्च पञ्च-चक्रे प्रपूजयेत् ॥
वलीयसी च देवेशि ! वोर-चक्रे प्रपूजयेत् ।
ब्रह्मचारी गृहस्थश्च वीर-चक्रेण पूजयेत् ॥
योगिभिः पूज्यते देवि ! सर्व-चक्रेषु कामिनी ।
माता च भगिनी चैव दुहिता च स्नुषा तथा ॥
गुरु-पत्नी च पञ्चैता राज-चक्रे प्रपूजयेत् ।
गौरी वाप्यथवा साध्वी सुरा शस्ता कुलेश्वरी ॥
शुद्धिश्छागोद्भवा शस्ता तृतीया बेद-सम्भवा ।
मुद्रा गोधूमजा शस्ता स्वयम्भू-कुसुमस्तथा ॥
कुण्ड-गोलोद्भवं द्रव्यं अनुकल्पं नियोजयेत् ।
रक्त-चन्दनं तथा श्वेतमनुकल्पं च चन्दनं ॥
वस्त्रालङ्कार-भूषाद्यैर्गन्ध-माल्यानुलेपनं।
पूजयेत् परया भक्त्या देवताभ्यो निवेदयेत् ॥
भक्ष्यं नाना-विधं द्रव्यं नाना-वस्त्र-समन्वितं ।
आसवं शुद्धि-संयुक्तं ताभ्यो दद्यात् पुनः पुनः ॥।
प्रणम्य प्रजपेन्मन्त्रं दृष्ट्वा ताश्च सहस्रकं ।
अङ्ग नैव स्पृशेत् तासां स्पृशेच्च नरकं व्रजेत् ॥
मधु-मत्ता यदा तास्तु न स्वपन्ति सुसम्पदः ।
तत्तदैवं भवेत् सर्वं सत्यं सत्यं न संशयः ॥।
महीयते । षष्टि-वर्ष-सहस्राणि ब्रह्म-लोके
माता भग्नी स्नुषा कन्या वोर-पत्नी कुलेश्वरि ॥
महा-चक्रे यजेदेताः पञ्च-शक्तीः पुनः पुनः ।
द्रव्या-दाने तु सम्पूज्या न शक्तौ शिव-योजनं ॥।
योजयेत सिद्धि-हानिः स्याद् रौरवं नरकं व्रजेत् ।
महा-व्याधिर्भवेद् देवि ! धन-हानिः प्रजायते ॥
सदैव दुःखमाप्नोति सर्वं तस्य विनश्यति ।
आद्यं च गौडिकं प्रोक्तं द्वितीयं कुक्कुटोद्भवं ।
तृतीयं रोहितं प्रोक्तं चतुर्थं माष-सम्भवं ।
करवोरोद्भवं पुष्पं चन्दनं रक्त-चन्दनं ॥
पूजयेत् परया भक्त्या शिव-लोके महीयते ।
षष्टि-वर्ष-सहस्राणि तत्र देवीं प्रपूजयेत् ॥
अष्टम्यां च चतुर्दश्यां अमायां च कुजेऽहनि ।
राज-चक्रे महा-चक्रे भक्त्या शक्तीः प्रपूजयेत् ॥
शुक्ल-पक्षे गुरोर्वारे चतुर्थी-सप्तमी तिथौ ।
महा-चक्रे यजेद् भक्त्या सर्व-कामार्थ-सिद्धये ॥
देव-चक्रं प्रवक्ष्यामि शृणुष्व वर-र्वाणनि !
विदग्धा सर्व-जातीनां पञ्च-कन्याः प्रकीर्तिताः ॥
गौडिकं फलजं रम्यं द्वितीयं पक्षि-सम्भवं ।
तृतीयं शाल-मत्स्यं तु चतुर्थ धान्य-सम्भवं ॥
सुगन्धि-गन्ध-पुष्पं च देव-चक्रे नियोजयेत् ।
देव-चक्रे यजेच्छुक्त देव-लोके महीयते ॥
षष्टि-वर्ष-सहस्राणि देव-कन्याः प्रपूजयेत् ।
कदाचन ॥ पञ्च-कन्या यजेच्चक्रे नातिरिक्तां
लोभाद्वा कामतो वापि छलाद्वा वर-र्वाणनि !
यदि स्यात् सङ्गमं तासां रौरवं नरकं व्रजेत् ॥
अष्टम्यां च चतुर्दश्यां पक्षयोरुभयोरपि ।
पितृ-भूमि समागम्य वीर-चक्रे प्रपूजयेत् ॥
दिव्य-वीरान्वितो मन्त्रो यजेच्छक्ति बलीयसीं ।
श्रीदेव्युवाच -
मात्रादयः पञ्च-कन्या यतीनां च कथं प्रभो ?
श्रीशिव उवाच-
मात्रादयः पञ्च-कन्या होन-जातायते प्रिये !
चतुर्वर्णोद्भवां वेश्यां विशेषेण बलीयसीं ॥
भूमीन्द्र-कन्यका माता दुहिता रजकी-सुता ।
श्वपची च स्वसा ज्ञेया कापाली च स्नुषा स्मृता ॥
योगिनी निज-र्शाक्तः स्यात् पञ्च-कन्याः प्रकीर्तिताः ।
गुरोः समीपे कतव्यमथवा भ्रातृभिः सह ॥
सिद्ध-मन्त्री भवेद् वोरो न वीरो मद्य-पानतः ।
अभिषिक्तो भवेद् वीरो अभिषिक्ता च कौलिको ॥
एवं च वीर-शक्ति च बोर-चक्रे नियोजयेत् ।
क्रम-सङ्केतकं चैव पूजा-सङ्घ तमेव च ॥
मन्त्र-सङ्केतकं चैव यन्त्र-सद्धू तकं तथा ।
लिखनं मन्त्र-यन्त्राणां सङ्कतं गुरु-मार्गतः ॥
सङ्केतज्ञं विना वीरं यदि चक्रे नियोजयेत् ।
निष्फलं पूजनं देवि ! दुःखं तस्य पदे पदे ॥
सङ्केतहोनो यो वोरो नाभिषेकी गुरुः क्रमात् ।
कुल-भ्रष्टः स पापिष्ठस्तं त्यजेद् वीर-चक्रके ॥
नाभिषिक्तो वसेच्चक्रे नाभिषिक्ता च कौलिकी ।
वसेच्च रौरवं याति सत्यं सत्यं न संशयः ॥
एवं क्रमं विना देवि ! वीर-चक्रे वसेद् यदि ।
सिद्धि-हानिं सिद्धि-हानि रौरवं नरकं व्रजेत् ॥
सर्व-मद्यं सर्व-शुद्धिं सर्व-मीनं कुलेश्वरि !
सर्व-मुद्रां सर्व-पुष्प स्वयम्भू-कुसुमं तथा ॥
कुण्ड-गोलोद्भवं द्रव्यं नाना-रस-समन्वितं ॥
प्रदद्यात् साधक-श्रेष्ठो वोर-चक्रे पुनः पुनः ॥
स्व-शक्ति पूजयेत् तत्र तदुच्छिष्टं पिबेत् प्रिये !
चव्यं च ज्येष्ठतो ग्राह्य कनिष्ठाय निवेदयेत् ॥
एकासने न भुञ्जीत भोजनं नैक-भाजने ।
परस्परमुप-स्पर्श न कर्तव्यं कदाचन ॥
एवं क्रमेण देवेशि ! वीर-चक्रं समाचरेत् ।
आनीय हीनजां देवीं शक्ति-मन्त्रेण शोधयेत् ॥
संशोध्य हीनजां पूजां वीर-शक्तिं निवेदयेत् ।
मधु-सक्ताय वीराय यो दद्याद् हीनजां सुतां ॥
वक्त्र-कोटि-सहस्रेण तस्य पुण्यं न गद्यते ।
वीराय शक्ति-दानं तु वीर-चक्रे विधीयते ॥
चक्र-भिन्ने चरेद् दानं रौरवं नरकं व्रजेत् ।
घातयेद् गोपयेद्वापि न निन्देन्न निरीक्षयेत् ॥
कामं क्रोधं च मात्सर्य विकारं लोभमेव च ।
कुत्सा निन्दा दुरालापं गोपयेदष्टकं प्रिये ॥
मन्त्रं मुद्रामक्ष-मालां योनि च वीर-सङ्गमं ।
मण्डलं च घटं पीठं सिद्धि-द्रव्याणि गोपयेत् ॥
पण्डितं वोर-सन्तानं क्षेत्रं देवीं च योगिनीं ।
कुलाचारं गुरु-दूतीं मनसापि न निन्दयेत् ॥
मातृ-योनि पशु-क्रीडां नग्नां स्त्रीमुन्नत स्तनीं ।
कान्तेन क्षोभितां कान्तां कामतो नावलोकयेत् ॥
देवीं गुरुं, सुधां विद्यां श्रेष्ठां शक्तिं क्रियात्मजां ।
योगिनों भैरवी-तत्त्वं अष्ट तत्त्वं प्रपूजयेत् ॥
विमाता दुहिता भग्नी स्नुषा पत्नी च पञ्चमी ।
पशु-चक्रे यजेद् धीमान् पशुवत् तोषणं चरेत् ॥
गन्ध-पुष्पं च माल्यं च वस्त्राद्याभरणानि च ।
सिन्दूरागुरु-कस्तूरी नाना पुष्पाणि सुन्दरि ॥
भक्ष्यं नाना-विधं द्रव्यं फलं नाना-विधं प्रिये !
एतद्-द्रव्य-गणं यस्तु भक्त्या ताभ्यो निवेदयेत् ॥
षष्टि-वर्ष-सहस्राणि क्षितौ राजा भवेद् ध्रुवं ।
बीर-चक्रे मन्त्र-सिद्धिर्भवत्येव न संशयः ।
अमावास्यां चतुर्दश्यां पक्षयोरुभयोरपि ।
श्मशानेन गतेनार्चेत् सूचितं न प्रकाशितं ॥
॥ इति श्रीनिरुत्तर-तन्त्रे शिव-पार्वती-सम्वादे दशमः पटलः ॥
मूल पाठ: niruttaratantram · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0