भाषा

ENहिગુ
ग्रंथ पाठ

niruttaratantram · अध्याय p5

तृतीयः पटलः
श्रीदेव्युवाच -
भगवन् ! सर्व-देवेश ! सर्व-भूत-नमस्कृत ।
सर्व से कथितं देव! कवचं न प्रकाशितं ॥
कथयस्व सुर-श्रेष्ठ ! यदि स्नेहोऽस्ति मां प्रति ॥
श्रीशिव उवाच-
सिद्ध-काली शिरः पातु ललाटं पातु दक्षिणा ।
काली मुखं सदा पातु कपाली पातु चक्षुषी ॥
कुल्ला गण्डौ सदा पातु वदनं कुरु-कुल्लिका ।
विरोधिन्यधरं पातु चिबुकं विप्र-चित्तिका ॥
उग्रा करणों सदा पातु नासामुग्र-प्रभा तथा ।
कण्ठं दीप्ता सदा पातु ग्रीवां नीला प्रभावतु ॥
वक्षः-स्थलं पातु घना पृष्ठं मात्रा सदावतु ॥
मुद्रा नाभि सदा पातु मिता लिङ्ग सदावतु ।
रति-प्रिया लिङ्ग-मूलं गुह्यं शिव-प्रियावतु ।
अरुणा तालु-मूलं हि रसनां तरुणा तथा ॥
महा-काल-प्रिया जानु विकटा पातु जङ्घयोः ।
श्मशान-वासिनी भार्यां पुत्त्रं पातु दिगम्बरी ॥
भवनं मत्त-हासा च मातरं मे सुरेश्वरी ।
राज-स्थानं घोर-रावा सततं पातु कालिका ॥
धर्म पातु घोर-रूपा श्रधर्म मुण्ड-मालिनी ।
कर-काञ्ची पातु नित्यं कालिका सर्वदावतु ॥
काम-वीज-त्रयं पातु नाभितः पादमेव च ।
कूर्च-बीज-युगं पातु सदा से नाभि-देशतः ॥
शक्ति-वीज-द्वयं पातु ब्रह्मरन्ध्राननं पुनः ।
काम-बीज-द्वयं पातु पूर्वस्यां दिशि सर्वदा ॥
कूर्च-वीज-युगं पातु दक्षिणस्यां सदावतु ।
शक्ति-बीज-युगं पातु प्रतीच्यां सर्वदा शुभा ॥
वह्नि-जाया चोत्तरस्यां दिशि पातु च मां सदा ।
विद्या-राज्ञो च सर्वासामनिरुद्ध-सरस्वती ॥
कालिका-कवचं दिव्यं यः पठेद् यत्नतः सुधीः ।
भूत-प्रेत-पिशाचाद्याः कूष्माण्डा राक्षसा ग्रहाः ।
तस्य दूरात् पलायन्ते सत्यं सत्यं न संशयः ॥
श्रीदेव्युवाच -
शङ्करो यां स्तुति कृत्वा सर्व-सिद्धोश्वरोऽभवत् ।
तां मे कथय देवेशि ! यदि स्नेहोऽस्ति मां प्रति ॥
श्रीशिव उवाच-
हुँ हुँ कारे शवारूढे नील-नीरज-लोचने !
त्रैलोक्यक-मुखे दिव्ये कालिकायै नमोऽस्तु ते ॥
प्रत्यालीढ-पदे घोरे मुण्ड-माला-प्रलम्बिते !
खर्वे लम्बोदरे भोमे कालिकायै नमोऽस्तु ते ॥
नव-यौवन-सम्पन्ने गज-कुम्भापम-स्तनि !
वानीश्वरि शिवे शान्ते कालिकायै नमोऽस्तु ते ॥
ललज्जिह्व हरालोके नेत्र-त्रितय-भूषिते !
घोर-हास्योत्करे देवि कालिकायै नमोऽस्तु ते ॥
व्याघ्र-चर्माम्बर-धरे खङ्ग-कर्ची-करे धरे !
कपालेन्दोवरे वामे कालिकायै नमोस्तु ते ॥
नीलोत्पल-जटा-भारे सिन्दूरेन्दु-मुखोद्वये !
स्फुरद्-चक्त्रोष्ठ-दशने कालिकायै नमोऽस्तु ते ॥
प्रलयानला-धूत्राभे चन्द्र-सूर्याग्नि-लोचने !
शैल-वासे शुभे मातः कालिकायै नमोस्तु ते ॥
ब्रह्म-शम्भु-जलौघे च शव-मध्य-प्रसंस्थिते !
प्रेत-कोटि-समायुक्ते कालिकाये नमोऽस्तु ते ॥
कृपा-मयि हरे मातः सर्वाशा-परिपूरिते !
वरदे भोगदे मोक्षे कालिकायै नमोऽस्तु ते ॥
इत्येतत् कालिका-स्तोत्रं यः पठेद् भक्ति-संयुतः ।
कृत-कृत्यो भवेन्मन्त्री नात्र कार्या विचारणा ॥
॥ इति श्रीनिरुत्तर-तन्त्रे शिव-पार्वती-सम्वादे तृतीय पटलः ॥

मूल पाठ: niruttaratantram · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc