भाषा

ENहिગુ
ग्रंथ पाठ

नवसाहसाङ्कचरित · अध्याय 9

9.1

अथ स्वरेणाङ्गणदीर्घिकाणां संवाहयन्ती कलहंसनादम्
तम् इत्य् अवन्तीश्वरम् आ बभाषे सा मेकलक्ष्माधरराजकन्या ॥

9.2

नास्य क्षितीशोपकृतं जनस्य कियत् तया पन्नगराजपुत्र्या
यस्याः कृते सम्प्रति भूषितेयं भूमिस् त्वया भूशशलाञ्छनेन ॥

9.3

इदं नृप त्वाम् अवलोक्य जातं मनः प्रमोदेन ममास्वतन्त्रम्
नो कस्य लोकत्रयसंमतानां भवेत् सतां सङ्गतम् उत्सवाय ॥

9.4

अद्यैष कस्यापि मया शुभस्य त्वद्दर्शनेनानुमितो विपाकः
आतिथ्यम् अक्ष्णोः कथम् अन्यथैवम् आयान्ति रत्नानि भवद्विधानि ॥

9.5

सो वत्स, जाते जनकः कृतात्मा सा पुण्यमूर्तिजननी जगत्सु
महीकलापोद्वहनादिपात्रः पुत्रो ययोस् त्वं नरलोकपालः ॥

9.6

रूपेण तेजस्वितयार्जवेन प्रियंवदत्वेन तवामुना च
दिलीपदुष्यन्तभगीरथादीन् तान् आदिराजान् झटिति स्मरामि ॥

9.7

समानभावैस् त्रिभिर् एव मन्ये समुद्रनेमिवसुधा धृतेयम्
भुजङ्गमेन्द्रेण च मेरुणा च दोष्णा च मौर्वीकिणशोभिना ते ॥

9.8

त्वयि स्थिते सम्प्रति जागरूके जगद्विधेयेषु विधूतचिन्तः
करोति नेत्रे भगवान् अवैमि स योगनिद्रामुकुले मुकुन्दः ॥

9.9

न किं चिद् इक्ष्वाकुकुलावतीर्णाद् रथाङ्गपाणेः परिहीयते ते
अजायताम्भोजदृशा वियोगो वने यथा तस्य तथा तवापि ॥

9.10

अकृत्रिमो ऽयं गुणवत्सु जाने जात्यैव ते पार्थिव पक्षपातः
यत् प्रौढलावण्यसुधास्रवन्त्या तया विना चेतसि ताम्यसीव ॥

9.11

अलं विषादेन घनाधिरूढा ललामभूता जगतो ऽखिलस्य
तवाङ्कम् अभ्येष्यति साचिरेण शशिप्रभा पार्थिवकैरवस्य ॥

9.12

इतो ऽद्य यान्ती पुरतो मया सा दृष्टा भुजङ्गाधिपतेस् तनूजा
उदग्रभोगैर् अहिभिः परीता लतेव तन्वी हरिचन्दनस्य ॥

9.13

उद्दण्डहेमाम्बुरुहासु खेलद् एतासु लीलागृहदीर्घिकासु
समुत्कयन्ती कलहंसयूथम् आमञ्जुना नूपुरसिञ्जितेन ॥

9.14

व्यापारयन्ती वलिताननेन्दुः पश्चाद् दृशौ केतकपत्रदीर्घे
इतस् ततः शून्यतया स्खलन्ती समे ऽपि मार्गे ददती पदानि ॥

9.15

विस्रस्तमाल्यः श्लथबन्धनत्वाद् अंसावकीर्णां कबरीं वहन्ती
कलिन्दकन्यामसृणोर्मिनीलां निस्तृंशलेखाम् इव मन्मथस्य ॥

9.16

मुखं निशाघ्रातम् इवारविन्दं विषदवीतप्रभम् उद्वहन्ती
विलुम्पती निःश्वसितेन कान्तिम् आपाटलस्याधरपल्लवस्य ॥

9.17

उन्मोचयन्तीम् अलकाग्रम् एत्य लग्नं चलत्कुण्डलरत्नकोटौ
किम् अप्य् उदञ्चद्दशनांशुलेखा सखीं शनैः सस्मितम् आलपन्ती ॥

9.18

सुधासितं क्षौमम् इवास्तृतं तं नखांशुरेखावलयच्छलेन
कृतं दधानोपरि पाणिपद्मम् उदग्रकम्पस्य कुचद्वयस्य ॥

9.19

गतानि सद्यः श्लथतां सखीभिर् विहस्य साकूतविलोकितानि
क्रमेण किं चित् प्रतिसारयन्ती विलज्जमाना मणिकङ्कणानि ॥

9.20

अशोकपुष्पग्रथितां दधाना प्रालम्बमालाम् अवलग्नमध्या
आरोपितज्येव जगज्जयाय स्वचापलेखा मकरध्वजेन ॥

9.21

आर्द्रव्रणाङ्कस्य कृपार्द्रचित्ता केलीमृगस्य स्वयम् एव तस्य
आचुम्बती पाण्डुकपोललेखं वतंसदूर्ध्वाङ्कुरम् अर्पयन्ती ॥

9.22

मार्गेषु रूढासु निरूढभावात् द्विरेफसम्पातसमाकुलापि
लतासु पुष्पावच्छयच्छलेन पदे पदे वत्स विलम्बमाना ॥

9.23

त्वदीयविश्लेषम् अवाप्य बाला सा लक्ष्यते किं चिद् अनिर्वृतेव
भवादृशाम् एकपदे वियोगो न कस्य, राजेन्द्र, मनो दुनोति ॥

9.24

पृथुप्रतापः सविता यथैव यथा कलानां निधिर् ओषधीशः
यथा वसन्तः सुमनो ऽनुकूलस् तथासि भूमिः स्पृहणीयतायाः ॥

9.25

इति क्षितीशश्रुतिशुक्तिपेयाम् उदीर्य वाचं विरराम रेवा
स च स्मितद्योतितदन्तम् एवम् उवाच तां मध्यमलोकपालः ॥

9.26

स्थाने यद् आह्लादयसि प्रपन्नं पीयूषधारामधुरैर् वचोभिस्
सुधैकसूतिः स यदाकरस् ते चण्डीशचूडाभरणं शशाङ्कः ॥

9.27

ऋजुः प्रकृत्यासि परं तद् अम्ब वीचीशु पर्याप्तम् अनार्जवं ते
न केवलं सा पयसि प्रसक्तिर् आलक्ष्यते ते बत मानसे ऽपि ॥

9.28

या जूटमध्ये च शशाङ्कमौलेर् उन्निद्रकुन्दस्रग् इवावभाति
ताम् अप्यतीव त्रिजगत्प्रतीक्ष्यां त्रिःस्रोतसं पुण्यतयातिशेषे ॥

9.29

या सास्य शक्तिः प्रसराम्बुपङ्के त्वया वृता धर्मविहारवीथिः
सलीलम् उद्धूलकुलाचलेयं मही महासूकरदंष्ट्र एव ॥

9.30

भवादृशीनां महतां नदीनाम् अद्भिर् जगत्यस्तमितोपसर्गे
सुखं सदैवासुरजित् समुद्रे निद्राति पर्यङ्कितपन्नगेन्द्रः ॥

9.31

असन्तम् अप्य् अम्ब मयि प्रसन्ना सम्भावनाभारमहो निधत्से
अस्त्य् एव भक्तेष्व् अतिवत्सलत्वात् बलाद् गुणारोपणकौतुकं ते ॥

9.32

अनेन मे को ऽपि हृदि प्रहर्षस् तव प्रसादातिशयेन जातः
अनार्द्रताम् इन्दुमरीचिसख्ये कियच् चिरं चन्द्रमणिर् बिभर्ति ॥

9.33

विधाय तत्तादृशम् इन्द्रजालं सा केन नीता फणिराजकन्या
अपश्यतो हेतुम् इहोपपन्नं किम् अप्य् अहो विस्मयते मनो मे ॥

9.34

अज्ञानम् अस्मिन् विषये किम् अन्यत् ममैतद् अर्हस्य् अपनेतुम् अम्ब
दिनान्तसम्मूर्च्छितम् अन्धकारं निशामुखस्येव शशाङ्कलेखा ॥

9.35

उक्त्वेति तूष्णीम् अभवन् नृसोमः सा सोमसूतिः सरिद् इत्य् उवाच
अत्रेतिवृत्तं कथयाम्य् अशेषं निशम्यतां मालवलोकपालः ॥

9.36

यदैव सा तर्जितचन्द्रकान्तिर् अजायतेन्दीवरपत्रनेत्रा
चित्रस्थितानां गृहदेवतानाम् इति स्फुरन्ति स्म तदैव वाचः ॥

9.37

रत्नाकरत्वं, भुजगेन्द्र जातं कन्या तव श्रीः शुभलक्षणेयम्
वक्षःस्थलं मध्यमलोकभर्तुर् विभूषयित्री पुरुषोत्तमस्य ॥

9.38

भुजङ्गवंशार्णवकौमुदीयम् इयं पताकास्य रसातलस्य
उपागतेयं निधनाग्रदूती वज्राङ्कुशस्यासुरपुङ्गवस्य ॥

9.39

स्ववीर्यपर्यस्तपुरन्दरेण तेनासुरेन्द्रेण कदर्थितस्य
तेजश् चिराद् उच्छ्वसितं तदाभूद् इति श्रुते भोगभृतां कुलस्य ॥

9.40

तद्देहकान्तिस् तिमिरं व्यनैषीत् यद् अत्र मोघीकृतरत्नदीपा
पित्रा तद् अस्याः कृतम् अर्थयुक्तम् आह्लादनं नाम शशिप्रभेति ॥

9.41

ततः सुधासूतिकराभिरामैर् गुणैः परीता सहजन्मभिः सा
शनैः शनैर् वृद्धिम् अवापद् अत्र रसातले बालमृणालोकेव ॥

9.42

यद् अर्थिताभूद् अनुबद्धमानसैः सुरैश् च सिद्धैश् च महोरगैश् च
तेषां पुरस्ताद् अकृतव्यवस्थाम् इत्य् एकदा संसदि पन्नगेन्द्रः ॥

9.43

गुप्ताभिहितो यत् त्रिदशारिवीरैर् वज्राङ्कुशाख्यस्य महासुरस्य
असूत लीलागृहदीर्घिकेह हैमं हरेर् नाभिर् इवारविन्दम् ॥

9.44

आनीय तद् यो दुहितुर् ममास्याः कर्णावतंसप्रणयीकरोति
तस्येयम् इष्वासभृतः कलत्रं पार्थस्य पाञ्चालनृपात्मजेव ॥

9.45

तेनैवम् उक्ते च तदा परेषु तम् अर्थम् अङ्गीकृतवान् न को ऽपि
वन्यद्विपाद् उद्गतदानराजेः कः कुम्भमुक्ताफलम् आददीत ॥

9.46

ततः प्रभृत्यद्भुतरूपरेखा सा बालिकाभूद् अवरा वरापि
चित्ते वचस् तत् कुलदेवतानां कृत्वापि तस्याः सश् च नान्वशेत ॥

9.47

सम्प्रत्य् अवैमि प्रथिता यदातः स्वर्गे च भूमौ च भुवस्तले च
नीतो ऽसि नेत्रातिथितां त्वम् अस्याः पुण्येन जन्मान्तरसम्भृतेन ॥

9.48

आनेतुकामेन भवन्तम् अत्र निजं वचस् तन्नयता प्रतिष्ठाम्
आप्तप्रयत्नेन तथा स मन्ये फणीश्वरेणोपकृतः प्रपञ्चः ॥

9.49

एकः क्षितौ साहसिकस् त्वम् एव नान्यो ऽस्ति राजन् नवसाहसाङ्कः
निसर्गदुर्गाम् अपि भूमिम् एतां स्वोद्यानवीथीम् इव यः प्रविष्टः ॥

9.50

तद् अस्य कार्यस्य पुरस्कृतस्य यतस्व सीमान्तविलोकनाय
विगाहमानो ऽम्बरम् अर्धमार्गं निवर्तते जातु किम् उष्णराश्मिः ॥

9.51

इतो ऽस्ति गव्यूतिशतार्धमात्रं गत्वा पुरी रत्नवतीति नाम्ना
विनिर्मिता शिल्पिकलामयेन मयेन या नाकजिगीषयेन ॥

9.52

तस्यासुरेन्द्रस्य नराधिपेन्द्र जगद्द्रुहः सा किल राजधानी
समेधितस्याब्जभुवा वरेण रणेष्व् अवध्यो मरुतां भवेति ॥

9.53

सो मौलिरत्नानि महोरगाणाम् उत्ख्याय चोत्खाय च कौतुकेन
करोति निर्वासितनायकेषु निजाङ्गनाहारलतान्तरेषु ॥

9.54

सो बाष्पपर्याकुललोचनानि निःश्वासभिन्नाधरपल्लवानि
करोति वक्त्राण्य् अमराङ्गनानाम् उत्सन्नलीलास्मितचन्द्रिकानि ॥

9.55

कृताङ्गदः कम्बलकालियाभ्यां यज्ञोपवीतीकृतशङ्खचूडः
सस् तक्षकापादितकण्ठभूषो बिभर्ति लीलाम् अशिवः शिवस्य ॥

9.56

आस्तां किम् अन्यैः फणिभिः सश् चिन्त्यस् तस्यापि शेषस्य च वासुकेश् च
राहुर् यथा विश्वभयैकहेतुस् ताराधिपस्याहिमदीधितेश् च ॥

9.57

खगेन्द्रभङ्गेन तथा तथा च न सर्पयज्ञे जनमेजयस्य
निधानम् आतङ्कपरम्पराणां जातो यथा सम्प्रति नागलोकः ॥

9.58

हरेस् त्वम् अंशो ऽत्र कृतावतारस् तस्यासुरेन्द्रस्य निबर्हणाय
अवैमि लोकत्रयकण्टकस्य लङ्काधिपस्येव स मैथिलीशः ॥

9.59

श्रीकण्ठवैकुण्ठपुरन्दराद्यैर् उपेक्षितं यत् त्रिदशैर् अशक्त्या
कृतस्य तस्यास्य भरं विसोढुं सम्भाव्यसे मे नृपते त्वम् एव ॥

9.60

किम् अन्यद् उत्तिष्ठ गृहाण यात्रां वज्राङ्कुशं प्रत्यमितप्रताप
तच् चावतंसीकुरु हेमपद्मम् आनीय, भूशक्र, शशिप्रभायाः ॥

9.61

सा ते समाप्ताद्भुतसाहसस्य वत्साङ्कम् अभ्येतु फणीन्द्रकन्या
सीता यथा दशरथेः सलीलम् आरोपितत्र्यम्बककार्मुकस्य ॥

9.62

अगाधपातालतलोद्गतानि विनिद्रकुन्दच्छदसुन्दरानि
लोकद्वये सम्प्रति ते यशांसि आकल्पपल्लवीफलवच् चरन्तु ॥

9.63

प्रसादम् आप्तेन चिराद् विलीने तस्मिन् सुरारातिघनोपरोधे
मुखेन्दुना पन्नगसुन्दरीणां पुनः समागच्छतु पत्रलेखा ॥

9.64

आसीत् पुरस्तात् त्रिपुरावभङ्गे यन् मण्डलं बालमृगाङ्कमौलेः
महासुरैर् भाविनि साम्पराये तवास्तु तत् संयुगजामदग्न्य ॥

9.65

पन्थाः शिवो ऽयं पुरतो ऽत्र गन्ता वङ्कुर्मुनिर् लोचनगोचरं ते
उपाचरेस् तं च तथाविधानां भक्तिं हि गां कामदुहाम् उशन्ति ॥

9.66

इत्य् उदीर्य मणिकान्तिकन्दलीः कल्पितं त्रिदशचापम् अस्य सा
आ मुमोच निजकण्कणं भुजे ज्याकिणाङ्ककठिणीकृतत्वचि ॥

9.67

अवदद् अथ सः साहसोन्मुखस् ताम् इह हि वयं वचसि स्थितास् तवेति
तडिद् इव न चिराद् उदीरिताशीः सरिद् अपि सास्य पुरस् तिरोबभूव ॥

मूल पाठ: Navasāhasāṅkacarita · Edition: Vamanasastri Islampurakara, Bombay : Govt. Central Book Depot (Bombay Sanskrit Series, 53) · Data entry Somadeva Vasudeva · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc