नवसाहसाङ्कचरित · अध्याय 8
सापदे ऽथ भुजगेन्द्रकन्यका खे पयोदपतलैस् तिरोहिते
नर्मदापुलिनपल्लवस्थिता हंसपङ्क्तिर् इव कम्पम् आददे ॥
स्पर्धयेव निचयः पयोमुचां तारमन्द्रम् अनदद् यथा यथा
सा नरेन्द्रतिलकं तम् ऐक्षत मुग्धलोलनयना तथा तथा ॥
उल्लसन् नवपयोधरालसां द्यां च तां च सुमुखीं विलोकयन्
भूपतिः स नितराम् अभूद् वशो विस्मयस्य च मनोभवस्य च ॥
वामनत्वम् अलिनत्वम् अत्यजन् व्यञ्जितक्रम इव त्रिविक्रमः
क्रामति स्म सहसैव मेघभूर् अन्धकारनिकरो ऽथ रोदसी ॥
नेत्ररोधिनि तयोर् न केवलं मूर्च्छिते तमसि वैशसं हृदि
यावद् आस्यविगलद्बिसाङ्कुरे चक्रवाकमिथुने ऽप्य् अजृम्भत ॥
कर्णभूषणमणिप्रभालवैस् तोकलक्षितकपोलपत्रया
कृष्यमाणनयनो ऽथ पिप्रिये पन्नगेन्द्रसुतया तया नृपः ॥
तेजसि स्फुरति ताडिते मुहुर् बिभ्यती कनकभङ्गपिङ्गले
तं हृदिस्थितम् इवेशम् ईक्षितुं सापि मीलितविलोचनाभवत् ॥
एष ते न घटते मनोरथः पार्थिवाहिपतिकन्यकां प्रति
गच्छ विन्ध्यविपिनान्तदृष्टया वञ्चितो ऽसि मृगतृष्णयैतया ॥
साहसोदधिविलोडने स्वयं यो ऽंसम् अंसलतयार्पयिष्यति
श्रीर् इवोरसि मुरद्विषः पदं तस्य निश्चितम् इयं विधास्यति ॥
पश्य पश्य चपलेयम् अन्तिकात् नीयते तव यथोचितं कुरु
एवम् एव यद् इयं न लभ्यते जानकीव जनकप्रतिज्ञया ॥
कन्यकासि किम् इदं शशिप्रभे युक्तम् एहि पितुर् अन्तिकं व्रज
इत्य् अविग्रहवती नभस्तलात् उल्ललास सहसा सरस्वती ॥
तां निशम्य स निकामविस्मितः साचिकार्मुकलताम् अलोकत
इन्दुमौलिगलकन्दलासितं तत्क्षणाच् च तिमिरं न्यवर्तत ॥
साचिरांशुतपनीयमेखला शक्रचापमणिकुण्डला ततः
क्वापि मुद्रितमयूरताण्डवा संहतिर् जलमुचां तिरोदधे ॥
सा पुरातनपथेन पावनी सोमसूतिर् अपि निम्नगा वहत्
स्वादुनिर्मलरसोर्मिनिर्भरा भारतीव मसृणं महाकवेः ॥
अप्य् अपाकृतरयः स नर्मदा वीचिलास्यरचनाकुतूहली
आववौ शबरराजयोषितां नर्तितालकलतः समीरणः ॥
इत्य् अकालजलदादिवैकृते केन चिद् विरचिते गते शमम्
भूपतेः शशिमुखी सखीयुता नेत्रनिर्विषयताम् अवाप सा ॥
क्वापि नूनम् अपहृत्य तन्मनो नागराजदुहिता जगाम सा
उत्पलस्य सरसं लसत्स्पृहा चक्रवाकवनितेव केसरम् ॥
अग्रतः कृतपयोधरश्रिया धौततप्ततपनीयकान्तया
विद्युतेव सदृशा तयाकुलः स अभवज् झटिति दृष्टनष्टया ॥
सा पुरो मम हृतेति लज्जया चिन्तया किम् इव सा चरेद् इति
सा पुनो न सुलभेत्य् असौ शुचा तप्यते स्म तिसृभिः क्षितीश्वरः ॥
तस्य तापजननेन मानसं तेन बालविरहेण विव्यथे
केतकच्छदकदर्थने परं यत् कणो ऽपि शिशिरः प्रगल्भते ॥
जित्वरं जगति पुष्पकेतुना तद्विकृष्य तरसा शरासनम्
ताड्यते स्म हृदये पततृइणा सो ऽथ मालवकुरङ्गलाञ्छनः ॥
लज्जया वलितकण्ठकन्दलं लोचनाञ्चलमिलद्वतंसकम्
तस्य वर्तितम् इवाभवत् तदा तत् प्रियावदनम् उन्नसं हृदि ॥
म्लानिम् आप सस् तया विना नृपस् तत्र पन्नगपतेस् तनूजया
स्वां रुचिं न हि कदा चिद् अश्नुते शर्वरीविरहधूसरः शशी ॥
पाण्डुपक्ष्मलदृशः परिच्युतं सो ऽथ माल्यशकलं व्यलोकत
तादृशि व्यतिकरे विनिर्गतं हासलेशम् इव पुष्पधन्वनः ॥
शंसदुज्ज्वलकपोलसंगतं कुङ्कुमेन दलकोटिचुम्बिना
सम्भ्रमेण गलितं नतभ्रुवः कर्णतामरसम् आददे ऽथ स ॥
कार्मुके सति शरेषु सत्स्व् अपि प्रेयसी तव हृतान्तिकाद् इति
तेन सौरभहृतालिनिःस्वनैर् वाच्यतेव नृपतेर् व्यधीयत ॥
कोष्णनिःश्वसितवेपितच्छदं तन्निवेश्य वदने सः सादरः
अर्धनिमीलितलोचनोत्पलः पुस्तकल्पित इवाभवत् क्षणम् ॥
नर्मदोर्मिलुलिते तदंशुके पल्लवालिखितहंसहारिणि
आहृतस्तनविलेपने दृशा सो ऽकृतप्रणयम् इन्दुपाण्डुनि ॥
मा विषीद नवसाहसाङ्क, ते कान्तया गतम् अनेन वर्त्मना
पश्य तत्पदम् इतीव रेवया तस्य सारसरुतैर् असूच्यत ॥
किं निमग्नम् इह बालया तया भीतया भुजगराजकन्यया
नैवम् अत्र नियतं रसातले विद्यते विवरम् इत्यतर्कयत् ॥
सो ऽतिमात्रगहने ऽपि रंहसा पार्थिवः पतितुम् ऐच्छद् अम्भसि
जीवितं तृणम् इवावजानते साहसव्यसनिनो ऽपि तादृशाः ॥
तत् समीहितम् अवन्तिवासवस् तस्य नावदद् उपान्तवर्तिनः
एष विघ्नम् इह साहसोत्सवे कल्पयिष्यति ममेति शङ्कितः ॥
उज्झति स्म सः शनैः समुच्छ्वसन् पल्लवासनम् उपास्य शासनः
अग्रहीच् च सशरं करेण तद् व्यक्तराजककुदेन कार्मुकम् ॥
पन्नगेन्द्रदुहितुः करेण यः सख्यम् आपद् अरविन्दबन्धुना
अर्पितं प्रणयिना तम् अप्य् असौ सायकं कनकपुङ्खम् आददे ॥
सुभ्रुवः स्मरविलासदेशिकं तं शशंस सः शरम् पतत्रिषु
पीतशीतकरमूर्तितानवं भानुमान् इव मयूखम् अंशुषु ॥
व्यक्ततच्चरणलक्ष्मणा ततः स्रस्तकेशकुसुमाकुलालिना
मेघसिक्तसिकतेनवर्त्मना नर्मदाजलसमीपम् आप स ॥
एष जातु न विकत्थते क्व चिल् लक्ष्यते ऽस्य फलतः सदा क्रिया
तत् करिष्यति किम् अत्र साहसं चेतसीति विदधे रमाङ्गदः ॥
अक्षिपत् तटशिलाविटङ्कतः पार्थिवः स्वम् अथ नर्मदाम्भसि
वारिधेः पयसि विश्वदीपकः सायमद्रिशिखराद् इवार्यमा ॥
तत्र मीनमकराकुले पतन् आससाद स विलासम् इश्वरः
यामुनाम्भसि निपातिनः पुरा गोपताम् उपागतस्य शार्ङ्गिणः ॥
अम्भसस् तदवपातताडिताद् ऊर्ध्वम् एत्य निपतत्सु बिन्दुषु
साहसेन परितोषितैः सुरैर् मौक्तिकार्घ इव तस्य चिक्षिपे ॥
किं चिद् अन्तरितमूर्तिभिः क्षणाद् अन्वगच्छद् अथ तं रमाङ्गदः
येन यात्य् अरुणसारथिः पथा वासरस् तम् अवलम्बते न किम् ? ॥
कस् तुलाग्रम् अधिरोप्य जीवितं स्वामिनं त्वम् इव सेवताम् इति
तस्य हंसनिनादेन वल्गुना साधुवादम् इव नर्मदा ददौ ॥
तौ मुहुर् जलचरैर् अदृश्यताम् अग्रतश् चकितम् उक्तवर्त्मभिः
ध्वान्तसन्ततिभिदे रसातलं प्रस्तितौ रविनिशाकराव् इव ॥
आश्रयत्य् अवनिमेघवाहने वारिगर्भम् अभितो गरीयसि
प्राप मेकलसुता समानताम् अन्तराहितनिधानया भुवा ॥
उज्झिता झटिति कार्यगौरवाद् ईश्वरेण रुरुचे न मेदिनी
सोद्यमेन पुनो ऽप्य् अवैष्यता भानुनेव पदवी पयोमुचाम् ॥
आपपात सरमाङ्गदः क्षणात् सर्वतः सस् तमसाविले बिले
गूढमत्सरविषे विशेषवान् दुर्जनस्य मनसीव सद्गुणः ॥
यद् बभूव पुरतो ऽस्य भूपतेर् एककुण्डलपटासितं तमः
तस्य तद्दिनकरांशुभासुरैर् मौलिरत्नकिरणैर् अभज्यत ॥
सन्द्रहेमरजसा महौजसाम् अग्रणीर् अगरुधूपगन्धिना
सो ऽथ तेन बिलवर्त्मना शनैः क्रोशमात्रम् अगमन् नरेश्वरः ॥
लग्नसान्द्रगजशोणितच्छटैः शौर्यपावकशिखाङ्कुरैर् इव
केसरैर् अतिकरालकन्धरो मार्गम् अस्य रुरुधे ऽथ केसरी ॥
मुक्तघर्घररवः स रंहसा तं विशामधिपम् अभ्यधावत
व्यात्तदीर्घदशनास्यकन्दरः पूर्णम् इन्दुम् इव सिंहिकासुतः ॥
अर्धचन्द्रम् अथ तज्जिघांसया संदधे धनुषि यावद् ईश्वरः
तावद् अस्फुटितकोरकं पुरो बालकुन्दविटपं तम् ऐक्षत ॥
बिभ्रतो विकटदंष्ट्रम् आननं कालमेघशकलासितत्विषः
आयतो ऽभिमुखम् ईर्ष्यया जवात् तेन वर्त्म मुमुचे न पोत्रिणः ॥
किं चिद् अस्य पुरतो ऽथ गच्छतः कर्णतालविधुतालिपङ्क्तिना
रुद्ध्यते स्म समदेन पद्धतिर् दीर्घदन्तमुसलेन दन्तिना ॥
मन्द्रकण्ठनिनदो ऽतिवेगवान् ऊर्ध्ववालधिर् उदग्रलोचनः
कुण्डलीकृतकरस् तम् अभ्यगात् सः क्रुधा निभृतकर्णपल्लवः ॥
यावद् अङ्कुरितमत्सरो ऽभवत् तस्य संमुखम् अधिज्यकार्मुकः
तावद् ऐक्षत न सः क्व चिद् द्विपं राजगन्धमदगन्धकेसरी (\एद् एमेन्द्स् ? गन्धमद तो गन्धवह) ॥
उत्पतन् निपतद् अग्रतो मुहुर् मुञ्चद् अट्टहसितं सहार्चिषा
केवलं कपिलकुन्तलं शिरः पश्यतो ऽस्य न चमत्कृतं मनः ॥
एवमादि यद् अभून् महीपतेर् अद्भुतं पथि बिभीषिकावहम्
तद् बिभेद निजसत्त्वसम्पदा तिग्मदीधितिर् इव त्विषा तमः ॥
तां ददर्श सरितं सुदुस्तराम् अग्रतो ऽथ बिलकल्पविन् नृपः
स्पर्शतः किल यदम्भसां झटित्य् अश्मभावम् उपयान्त्य् असूरयः ॥
मारुतैर् अपरपारनुन्नया प्रांशु वंशलतया सः सानुगः
ताम् अलङ्घयद् अथोपगूढया जन्मभीतिम् इव योगविद्यया ॥
प्रस्थितस् तद् अनु सोद्यमं पुरः स अथ साहसवतां पुरःसरः
निर्मितं मणिमयूखपल्लवैर् बालम् आतपम् इव व्यलोकत ॥
इन्द्रनीलकपिशीर्षकं ततः स अभितः स्फटिकसालम् ऐक्षत
सावशेषजलनीलकोटिभिः शारदैर् घटितम् अम्बुदैर् इव ॥
उत्पताकमणितोरणाङ्कितं मण्दितं कनकपल्लवस्रजा
किं च काञ्चनकपाटसंपुटं तत्र गोपुरम् अपश्यद् ईश्वरः ॥
विस्मयेन विषयीकृतः पुरं तेन स अविशद् अवन्तिवासवः
निर्वृतैः पदम् इवोज्झितावनिः सूर्यमण्डलपथेन योगवान् ॥
तत्र वैद्रुमगवाक्षम् उच्छ्रितं हेमहर्म्यम् अवलोकते स्म स
मेरुशृङ्गम् इव धातुताम्रया सन्ध्यया कृतपदं क्व चित् क्व चित् ॥
अग्रतः सश् च यशोभटो ऽविशत् सो ऽथ कौतुकहृतस् तदङ्गणम्
इन्द्रनीलमणिकान्तिमेचकं व्योम सारुण इवोष्णदीधितिः ॥
पद्मरागरचितालवालका वेदिकामणिविटङ्कविस्तृता
तेन तत्र ददृशे कुतूहलाद् अन्तिके कनकमाधवीलता ॥
तत्तले स्थितिम् उपेयुषा शमात् तेन का चिद् अबला व्यलोकत
निर्गता झटिति हेमवेश्मतः श्रीः सुवर्णकमलोदराद् इव ॥
अंशुकेन शरदिन्दुबन्धुना त्यागितेव यशसावभासिता
कान्तिमत्यधरनीलवाससा यामुनेन पयसेव जाह्नवी ॥
बन्धुजीवकुमुदछवी मुखे बिभ्रतीव कुरुविन्दकुण्डले
शर्वरीव सितपक्षपर्वणः शीतदीधितिपतङ्गमण्डले ॥
शोभिता किम् अपि हारलेखया भिन्नखेललोलयोरसि
तत्क्षणस्फुटितकुन्दशुद्धया गन्धवाहपदवीव गङ्गया ॥
आननेन ललिताक्षिपक्ष्मणा निर्यदुज्ज्वलकपोलकान्तिना
कुर्वतीव फणिलोकम् अङ्कितं यामिनीतिलकबिन्दुनेन्दुना ॥
पुष्पदाम दधती सषट्पदं दक्षिणेन शशिपाण्डुपाणिना
साक्षतं सदधिदूर्वयाञ्चितं हेमपात्रम् इतरेण बिभ्रती ॥
तन्निरीक्षणसविस्मयं ततः पार्थिवं जनितकौतुकः शुकः
इत्य् उवाच मणिपञ्जरे स्थितो बालचूतविटपावलम्बिनि ॥
सत्क्रियां रचयितुं तवातिथेर् नर्मदा भगव्तीयम् उद्यता
श्लाघनीयचरितो जगत्त्रये कस्य नासि बहुमानभाजनम् ॥
देव पन्नगवधूभिर् उज्ज्वलं वल्लकीकलरवं प्रियैः सह
मल्लिकाधवलम् अत्र गीयते केलिरत्नभवनेषु ते यशः ॥
दुर्मना नृप, पथामुना गता सा विलासवसतिः शशिप्रभा
तत्सखीजनकथान्वयश्रुतेर् युष्मद् आगमनम् ऊहितं मया ॥
दुर्लभो ऽयम् अतिथिर् ममापि तद् गुह्यताम् उचितया सपर्यया
पार्थिवो हि नवसाहसाङ्क इत्य् एष सीयकनरेन्द्रनन्दनः ॥
पेशलोक्तिनिपुणस्य पक्षिणस् तस्य गाम् इति निशम्य सस्मितः
ताम् अथ प्रणमति स्म निम्नगाम् इन्दुसूतिम् अवनीन्दुर् आदृतः ॥
कारितासनपरिग्रहे पुरो भूपताव् अपचितिं विधाय सा
आस्त मौक्तिकशिलातले ततश् चेतसीव सुकवेः सरस्वती ॥
स्थित्वाथ किं चित् तम् अवन्तिनाथम् अपृच्छद् अच्छन्नकुतूहला सा
निवेद्यतां मानवदेव कस्माद् अलङ्कृता भूमिर् इयं त्वयेति ॥
तस्यै शशंस निजम् आ मृगयाविहाराद् वृत्तान्तम् अन्तविरसं स विशुद्धवृत्तिः
कान्तास्मृतिप्रसभकण्टकिताङ्गजात लज्जावनम्रवदनो नवसाहसाङ्कः ॥
मूल पाठ: Navasāhasāṅkacarita · Edition: Vamanasastri Islampurakara, Bombay : Govt. Central Book Depot (Bombay Sanskrit Series, 53) · Data entry Somadeva Vasudeva · GRETIL (Göttingen) · CC BY-NC-SA 4.0