भाषा

ENहिગુ
ग्रंथ पाठ

नवसाहसाङ्कचरित · अध्याय 10

10.1

अथ मेकलाचलसुतातिरोहितौ अतिमात्रविस्मयरसार्द्रमानसः
दशनच्छविच्छुरितपाटलाधरः स रमाङ्गदं नृपतिर् इत्य् अवोचत् ॥

10.2

अधिरोहति स्वयम् अचिन्तिताप्य् अहो शुभसम्पदङ्कम् अपराङ्मुखे विधौ
सवपुर् विलोचनपथं यदावयोर् अमृतांशुसूतिर् इयम् आपदापगा ॥

10.3

इदम् इन्द्रजालम् इति मे समुत्थिताम् मतिम् एतद् अर्पितम् उदारया तया
विकसन्मरीचिरचितेन्द्रकार्मुकं करवर्ति रत्नवलयं विलुम्पति ॥

10.4

अयि मेकलाद्रितनयापुरःकृते क्रियते किम् अत्र वद कृत्यवस्तुनि
तव यत् सदा नयरहस्यवेदिनो न धियश् चरन्त्य् अनयपांसुले पथि ॥

10.5

इति पार्थिवेन कथिते दधन् मनाक् पुलकेन चुम्बितकपोलम् आननम्
इदम् आत्तनीतिपथम् आददे वचः स्मितपुष्पिताधरदलो रमाङ्गदः ॥

10.6

इह किं प्रतिस्फुरति मे तवाग्रतो नयशास्त्रनीरनिधिपारदृश्वनः
अवलीढविश्वतमसः पुरो रवेर् न हि जातु दिपकशिखा प्रकाशते ॥

10.7

विषये ऽत्र मौनम् उचितं हि मादृशाम् अवशस् तथापि कथयामि किं चन
क्षितिपालमौलिमणिवेणिकातिथेस् तव केन शासनम् इदं विलङ्घ्यते ॥

10.8

प्रथमं हि मण्डलम् अखण्डशाक्तिभिर् विजिगीषुभिः स्वम् अभितः प्रसाध्यते
परमण्डले तद् अनु नीतिपारगैर् अवनीपुरन्दर, करः प्रसार्यते ॥

10.9

तद् अपास्यम् एवम् अवितर्कितोत्थिते परिपन्थिनाम् इह विधेयवस्तुनि
यदि नाभविष्यद् अभिमानशालिनस् तव राज्यम् उद्धृतसमस्तकण्टकम् ॥

10.10

श्रुतशक्तिसङ्कलितमन्त्रनिश्चयैर् उपलब्धषड्गुणविवेकवर्त्मभिः
तदुपायतत्त्वम् अधिगम्य धूः क्षितेस् तव मन्त्रिभिर् नृप दुरुद्वहोह्यते ॥

10.11

अतिसान्द्रकाञ्चनमरीचिपिङ्गलं दिगुपाहितप्रचुरपत्रशोभिनः
तव कोशम् उत्सृजति न क्षणं रमा परमारवंशसरसीसरोरुह ॥

10.12

प्रियकीर्तयो जयपवित्रिताशयास् तरसा तृणीकृतजगत्त्रया युधि
जगतीविशेषक तवानुजीविनो निवसन्त्य् अवन्तिविषये सहस्रशः ॥

10.13

पृथिवीभृतः प्रथितविक्रमेण ये गमितास् त्वया वशम् उपायसम्पदा
नयवर्त्मगाः क्षितिपते तवान्यथा न भवन्ति भाविसमराभिशङ्कया ॥

10.14

अपकर्तुम् अत्र समये तवात्तभीर् मनसापि हूणनृपतिर् न वाञ्छति
इभकुम्भभित्तिदलनोद्यमे हरेर् न कपिः कदा चन सटां विकऋषति ॥

10.15

असिकान्तिजालजटिलाग्रबाहुना रणसीम्नि नाथ निहतेषु भर्तृषु
भवतात्र वागडवधूजनः कृतो रतिसन्धिविग्रहकथापराङ्मुखः ॥

10.16

अधुनापि देव मुरलाङ्गनाजनैस् विजयप्रशस्तिर् इव लिख्यते तव
गलदञ्जनाश्रुपृषतावलिच्छलाल् लसदिन्दुपाण्डुषु कपोलभित्तिषु ॥

10.17

रभसाद् अपास्य मणिकङ्कणावलीः कनकारविन्दकतकेषु ते ऽसिना
न किम् अर्पितानि नृप लाटयोषिता स्फटिकाक्षसूत्रवलयानि पाणिषु ॥

10.18

नयनाम्बुभिः स्नपितधूसराधराः प्रतिबद्धरूक्षमलिनैकवेणयः
निहिता न किं महति शोकसागरे जगतीन्द्र कोसलपतेः पुरन्ध्रयः ॥

10.19

उदितेन वैरितिमिरद्रुहाभितस् तव नाथ विक्रममयूखमालिना
गमिताः प्रभावलयशून्यतां झटित्य् अपरान्तपार्थिववधूमुखेन्दवः ॥

10.20

अतिवेलम् उत्तरदिगन्तवर्तिना समरश्रमाभ्युदितघर्मबिन्दुना
शरदिन्दुनिर्मलम् अपायि भूभृताम् असिपत्रपात्रपतितं त्वया यशः ॥

10.21

निजरन्ध्रगोपनपटीयसाभितः पररन्ध्रदृष्टिपटुचारचक्षुषा
नयभिन्नसाहसभुवा भुवस्तले भवता समं कथय को विरुद्ध्यते ॥

10.22

नरदेव दैवम् अधिकृत्य या विपत् निपतत्य् अवन्तिविषये कथं चन
शिखिमुक्तमन्त्रहविषा विहन्यते तव सा वसिष्ठमहसा पुरोधसा ॥

10.23

नृप वासराणि निरुपप्लवाः प्रजाः सुखम् आत्मकर्मणि रता नयन्ति यत्
विजयं जयैकसुहृदो ऽस्य सर्वदा ननु कार्मुकस्य तव तद्विजृम्भितम् ॥

10.24

इति किं चिद् एव न तव स्वमण्डले नृप चिन्त्यम् अस्त्य् उदितशक्तिसम्पदः
अधुना तु नीतिनिहितेन चेतसा फणिलोककृत्यम् इदम् एव चिन्त्यताम् ॥

10.25

प्रभुशाक्तिर् उद्यमपरत्वम् अर्पित त्रिजगच्चमत्कृतिर् अहङ्कृतिश् च सा
असुरस्य तस्य कथिता नरेन्द्र ते नगरी च मेकलनगेन्द्रकन्यया ॥

10.26

अभिगम्य एव सस् तवाधुना रिपुर् मरुताम् उदारनिजकार्यसिद्धये
श्रुतिलग्नगन्धगजबृंहितः क्षणं नृप केसरी कथय किं विलम्बते ॥

10.27

नवसाहसाङ्क, न तवासुराद् अहं कलयामि सम्प्रति किम् अप्य् अतादृशम्
विधुतिः कदा चन विभो न भूभृतः कलविङ्कपक्षपवनेन शाङ्क्यते ॥

10.28

भवता यदोच्चलित एष दक्षिणश् चरणस् तदैव सुरवैरियोषिताम्
विगलन्ति देव नयनोदबिन्दवः शरदिन्दुपाण्डुनि कपोलमण्डले ॥

10.29

विजयैकसद्मनि गुणः शरासने तव यावद् अत्र न नृपाधिरोहति
तुहिनच्छटाधवलचामरस्मिता विलसन्ति तावद् असुरालये श्रियः ॥

10.30

कनकारविन्दम् अरविन्दलोचन प्रणयेन नैव सः समर्पयिष्यति
सुरनिर्जयार्जितमदावृते ऽन्तरं लभते न साम किल तादृशं हृदि ॥

10.31

भवतः कुतो ऽपि नृप यावद् आगमं न स वेत्ति तावद् अभियोक्तुम् अर्हसि
सहसान्यथा रहसि मन्त्रिबोधितः परितः स्वदुर्घटने यतिष्यते ॥

10.32

कृतनूतनार्गलकपाटसंपुटां सुभटैर् उदायुधकरैर् अधिष्ठिताम्
परितः सुखातपरिखां पुनः पुरीं रचितैकदुर्गम् अपथां विधास्यति ॥

10.33

वलिते ऽपि किं चन धनुःपरिग्रहे भुवनत्रयप्रथितसाहसे त्वयि
अपि जायते धृतिविपर्ययो हरेर् असुरेषु कैव गणना तपस्विषु ॥

10.34

नियतं, नरेन्द्र, विदत्फणामणि स्फुरदंशुसूत्रितनवातपं नभः
सुरवैरिवीर्यदृढमत्सरं पुरः फणिसैन्यम् आजिभुवि ते भविष्यति ॥

10.35

अधुनैव ते ऽत्र निजतां व्रजन्ति वा सुभटाः स्वयं विधिवशेन के चन
कपयः पुरा रघुपतेर् यथा वने हनुमत्पतङ्गतनयाङ्गदादयः ॥

10.36

यद् उदीरितश् च पुरुकुत्सकान्तया सरितासि वङ्कुमुनिदर्शनं प्रति
प्रतिभाति किं चन ममैव तत्र ते किम् उ निर्मुखेङ्गितविदस् तदिङ्गितम् ॥

10.37

अथवैक एव विभुर् अस्य् अरेर् वधे ननु धाम तत् स्फुरति शार्ङ्गिणस् त्वयि
उदितक्रुधस् त्रिपुरदाहडम्बरे शरताम् अवाप किल यत् पिनाकिनः ॥

10.38

अवलोकयामि शकुनं यथा तथा तद् अवैमि पक्ष्मलदृशः सभान्तरे
न चिराद् उपोड्ःअपुलकेन पाणिना कनकारविन्दम् अवतंसयिष्यसि ॥

10.39

त्वम् इहैव नाथ मणिधाम्नि तिष्ठ वा न हि नाम तादृशम् इदं प्रयोजनम्
असुरं निहत्य सहसैव तत्क्षणाद् अहम् आनयामि तपनीयपङ्कजम् ॥

10.40

विजयी यद् अस्मि स्मरेषु जित्वराः प्रभवन्ति तत्र तव पादपांसवः
अरुणो यद् अन्धतमसं निषेधति स्फुरितं नराधिप तद् अर्कतेजसाम् ॥

10.41

मसृणोक्तिपल्लवितनीतिविक्रम क्रमम् इत्य् उदीर्य विरते रमाङ्गदे
सः सरस्वतीमुखररत्ननूपुर ध्वनिपेशलं नृपतिर् आददे वचः ॥

10.42

त्वदृते मुखात् सुखनिरस्तसंशय प्रसरेयं भारती उल्लसति कस्य भारती
शशलक्ष्मणः परमखर्वशर्वरी तिमिरछिदुच्छलति कान्तिकन्दलि ॥

10.43

तव वेद्मि पौरुषम् अहं त्वया विना न वपुःस्थितिं क्व चन कर्तुम् उत्सहे
धनुषीव दीर्घगुणसङ्गते यतस् त्वयि मे दृढप्रणयवासितं मनः ॥

10.44

गमने तद् एहि सहितौ यतावहे झटिति त्रिविष्टपरिपोः पुरीं प्रति
अपदे यद् उद्यमकथाविरोधिनी न हि सिद्धये भवति दीर्घसूत्रता ॥

10.45

इति पार्श्ववर्तिनम् उदीर्य मौनवान् अभवत् स मालवकुरङ्गलाञ्छनः
त्वरयावतीर्य सश् च रत्नपञ्जरात् पुरतः शुको ऽस्य पुन इत्य् अभाषत ॥

10.46

शृणु शङ्खचूडशुचिवंशभूर् अहं नृप, रत्नचूड इति नागरकः
उदपादि कण्वमुनिशिष्यशापतः शुकता ममेयम् अनिमीलितस्मृतिः ॥

10.47

प्रणयोक्तिभिर् मुनिर् अथ प्रसेदिवान् इति मे सः शापतिमिरावधिं व्यधात्
वशिनां रुषो मतिषु नासते चिरं जलविपुषश् च, नृप, सस्यसूचिषु ॥

10.48

त्वम् अफल्गु नेष्यसि शशिप्रभान्तिकं नवसाहसाङ्कनृपतेर् यदा वचः
नियतं भविष्यति तदा कुमार ते शुकरूपरूपपरिवर्तनोत्सवः ॥

10.49

तद् अनङ्गषष्ठशरं संदिश स्वयं शनकैः किम् अप्य् उरगबालिकां प्रति
हृदि यन् निधाय सहसैव याम्य् अहं फणिनाम् अनम्रमणितोरणां पुरीम् ॥

10.50

अयि मौनम् एतद् अवनीन्द्र, मुच्यतां द्रुतम् उच्यतां च किम् इयं मयि त्रपा
पृथग् अस्मि देव न हि ते परिच्छदात् उचितं न तन् मयि रहस्यगोपनम् ॥

10.51

इति वल्गु जल्पति शुके ऽथ विस्मयाद् अपि विस्मयं परम् अवाप पार्थिवः
अवदच् च पञ्जरम् इवास्य कल्पयन् दशनांशुभिः स्फटिकसूचिकोमलैः ॥

10.52

विपदं विलोक्य तव दुःसहाम् इमाम् अयि रत्नचूड मम दूयते मनः
पतितं कुकूलदहने न कस्य वा मृदुमालतीमुकुलमाल्यमाधये ॥

10.53

घटितं विधेर् इदम् अजर्यम् आवयोर् न रमाङ्गदान् मम सखे ऽतिरिच्यसे
इदम् आर्य तत् त्वयि विमुक्तयन्त्रणो ननु संदिशामि हरिणीदृशां प्रति ॥

10.54

विरते ऽपि मेघतिमिरे नताङ्गि मे न गतासि लोचनपथं यदा तदा
फणिलोकभूमिम् अतिदुर्गमाम् इमाम् अविशं तव अनुपदम् एव सुद्नरि ॥

10.55

नगरीं त्वदात्तहृदयो ऽपि भोगिनाम् अहम् आगतो न मृगदीर्घलोचने
श्रुतयेन्दुसूतिसरितान्यतो हृतः सहसैव हेमशतपत्रवार्तया ॥

10.56

अतिपाटलाधरम् अवाञ्चितं ह्रिया स्मितकान्तिमत् स्तिमितरत्नकुण्डलम्
तदपाङ्गसङ्कलितलोचनोत्पलं फणिलोककौमुदि मुखं स्मरामि ते ॥

10.57

द्वितये द्वयेन सहसोज्झितस् तदा शशिसूतिसिन्धुपुलिनोदरे शरः
जगदेकविभ्रमभ्वा भुवस्तले सुतनु त्वया मयि च पुष्पधन्वना ॥

10.58

धृतम् ऊर्मिहस्तनिवहेन रेवया ननु फेनकान्ति करभोरु मे पतत्
विषये दृशोर् उपदशं मनःशिला लिखितैकहंसमिथुनं तवांशुकम् ॥

10.59

मणिकान्तिलुप्ततिमिरे रसातले भवतीम् इहानुसरता तनूदरि
अवलोकितान्य् अथ मया पदानि ते सहसा सुवर्णसिकताङ्किते पथि ॥

10.60

सरले जठित्य् उदितकार्श्यदोर्लता गैल्तानि रत्नवलयानि ते मया
कथम् अप्य् उदश्रुपृषतं पदे पदे चकितेन चन्द्रमुखि वीक्षितानि च ॥

10.61

मनसा किम् आलिखति किं समाचरत्य् अधुना किम् इन्दुवदना च वक्ति सा
इति मे ऽपदिश्य भवतीं प्रवृत्तया हृदयं सशल्यम् इव हन्त चिन्तया ॥

10.62

परितापवत्यविरलोच्छलत्प्रभा तुहिनच्छटाभिर् असिताब्जलोचने
शरदिन्दुदीधितिकलापसुन्दरस् तव हार एष हृदि सिञ्चतीव माम् ॥

10.63

कथय प्रिये निहितसान्द्रचन्दन द्रवशीतलोज्ज्वलकरा कुचद्वये
मम हारयष्टिर् अपि सा सखीव किं मदनाभितापम् अपटूकरोति ते ॥

10.64

क्षणम् अप्य् अहो पतसि मे शुचिस्मिते न समुत्सुकस्य तव विस्मृतेः पथि
झटिति प्रविश्य हृदये ममात्र किं लिखितासि पद्ममुखि पुष्पकेतुना ॥

10.65

समुद्वहन्ती स्रवदञ्जनाश्रु घोरोत्करश्यामितकङ्कणेन
करारविन्देन मुखेन्दुबिम्बम् आपाण्डुरक्षामकपोलभित्ति ॥

10.66

नवे नवे पङ्कजिनीपलाश मृणालहारादिसनाथपार्श्वे
प्रवाललीलास्तरणे निषण्णा सिंहासने मन्मथपार्थिवस्य ॥

10.67

बालप्रवालाङ्कुरपाटलस्य लावण्यरत्नाकरकौस्तुभस्य
उदूष्मणा निःश्वसितेन कान्तिं कदर्थयन्ती दशनच्छदस्य ॥

10.68

अनल्पसङ्कल्पविकल्पजाल विलोडनैर् न स्वम् अपि स्मरन्ती
ससाध्वसेनाविरतं मया त्वम् उत्प्रेक्ष्यसे पन्नगराजपुत्रि ॥

10.69

ब्रूमः कियन् नय कथं चन कालम् अल्पम् अत्राब्जपत्रनयने नयने निमील्य
हेमाम्बुजं तरुणि तत् तरसापहृत्य देवद्विषो ऽयम् अहम् आगत इत्य् अवेहि ॥

10.70

भद्रैतद् व्रज रत्नचूडनिबिडप्रेमार्द्रम् अस्मद्वचस् तस्यास् तत्र कुरङ्गशावकदृशः कर्णावतंसीकुरु
शापान्ते बत विस्मरिष्यसि भ्रातस् तद् एकं किम् अप्य् आदाय स्वयम् एव तत्प्रतिवचः पार्श्वं ममाभ्येष्यसि ॥

10.71

इति नृपतेः स्वान्ते कृत्वा मनोमृगवागुरां गिरम् उदकमन्निस्त्रिंशाभे नभस्य् अशनैः शुकः
चिरविनिहितां दृष्टिं तस्मान् निवर्त्य तथोत्सुको झटिति गमने देवो ऽप्य् असीत् सः साहसलाञ्छनः ॥

मूल पाठ: Navasāhasāṅkacarita · Edition: Vamanasastri Islampurakara, Bombay : Govt. Central Book Depot (Bombay Sanskrit Series, 53) · Data entry Somadeva Vasudeva · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc