भाषा

ENहिગુ
ग्रंथ पाठ

नवसाहसाङ्कचरित · अध्याय 7

7.1

ततः स दूराद् अहिराजकन्यकां जवैकमित्रेणा युतां पतत्रिणा
विशाम्पतिदीर्घगुणानुषङ्गिणीम् अनङ्गकोदण्डलताम् इवैक्षत ॥

7.2

उपोढलावण्यतरङ्गभङ्गया सरागबिम्बौष्ठगलत्प्रवालया
अहारि लोलं नृपतेस् तया बलात् अनङ्गरत्नाकरवेलया मनः ॥

7.3

सविस्मयो लोचनमार्गम् आप्तया तया सः पातालतलेन्दुलेखया
अथेत्थम् अम्लानमनोरथोद्गमो रमाङ्गदेनाभिदधे नराधिपः ॥

7.4

अवैमि सैवेयम् अमोघम् आयुधं मनोभुवः पन्नगराजकन्यका
उदंशुलेखेन मुखेन कुर्वती जगद् विलीनेन्दुविलोकनस्पृहम् ॥

7.5

नरेन्द्र सत्यं सः कुतूहली भवेद् अलौकिकं रूपम् अवेक्षितुं रतेः
इयं न यस्यातिथितां गता दृशोर् अगाधलावण्यसरित् सुमध्यमा ॥

7.6

इयं सुधा मुग्धविलासजन्मभूर् इयं भुजङ्गालयरत्नदीपिका
इयं जगन्नेत्रचकोरचन्द्रिका पुरः पताकेयम् अयुग्मपत्रिणः ॥

7.7

इयत्तया मुक्तम् अवैमि नैपुणं प्रजापतेर् अद्भुतशिल्पकर्मणि
नृपोपमानाम् उपमानतां गतं विनिर्मितं येन हि रत्नम् ईदृशम् ॥

7.8

इयं तवानेन विराजतेतरां करस्थितेनावनिपालपत्रिणा
उपेयुषा काञ्चनपद्मम् अंशुना हिमेतरांशोर् इव जह्नुकन्यका ॥

7.9

अरालकेशीयम् अनेन भाति ते शरेण कार्तस्वरपुङ्खशोभिना
निसर्गगौरेण नरेन्द्ररश्मिना सकज्जला दीपशिखेव शार्वरी ॥

7.10

इयं विलासोर्मिनिमग्नशैशवं स्विभाव्यमानस्तनकुड्मलोद्गमम्
मदैकविस्रम्भगृहं विगाहते वयो विभक्ताङ्गम् अनङ्गदोहदम् ॥

7.11

इयं नताङ्गी जगदेकसुन्दरे निदेशिते पाटलया नृप त्वयि
दृशौ नवेन्दीवरपत्रपेशले विमुञ्चति श्रीर् इव शार्ङ्गधन्वनि ॥

7.12

अनङ्गसाम्राज्यविलासचामरे वनानिलव्याकुलिते ऽंसुचुम्बिनि
परिश्लथे संयमनार्थम् एतया सलीलम् अस्तः कबरीभरे करः ॥

7.13

विलोकयन्ती कुसुमं कचाग्रतश् च्युतं कुचस्पर्शधियेव वक्षसि
इयं कृशाङ्गी कुसुमास्त्रशङ्कया कृतप्रणामेव तवावलोक्यते ॥

7.14

विलोकयास्याः क्षितिपाल बिभ्रतीं प्रदीपशोभां कबरीं निशामुखे
अमी मुहुः कुङ्कुमकेसरारुणा लसन्ति सीमन्तमणेर् मरीचयः ॥

7.15

विराजते ऽस्यास् तिलको ऽयम् अञ्चितो विकुञ्चितभ्रूलतिकान्तरे नृप
विजित्य लोकद्वितयं दिवं प्रति स्मरेण बाणो धनुषीव संहितः ॥

7.16

अपाङ्गसंवर्धितशोणकान्तिना सुकृष्णतारेण तुषारपाण्डुना
इयं प्रवालासितरत्नमौक्तिकैर् विनिर्मितेनेव चकास्ति चक्षुषा ॥

7.17

इयं पुरो निर्यतिदूरम् आयते कपोलतः काञ्चनकुण्डलार्चिषि
इषुं रुषेव प्रतिभोक्तुम् उद्यता मनोभुवे मुक्तशिलीमुखे हृदि ॥

7.18

इयं त्रियामापतिकान्तिपेशलं विबुद्धबन्धूकदलाधिकत्विषा
बिभर्ति बिम्बाधरमुद्रया मुखं मनोभिरामं रजनीव सन्ध्यया ॥

7.19

उपोढतारापतितारहारयोर् इयं युगेन स्तनयोर् विराजते
द्वयेन देव उषसि चक्रवाकयोः सरिद्गृहीतैकमृणालयोर् इव ॥

7.20

सुरापगावीचिविपाण्डुर् एष ते चिरेण हारश् चरितार्थतां गतः
धृतः क्षितीश प्रणयार्द्रयानया सलीलम् उत्कम्पिनि यत् कुचद्वये ॥

7.21

इयं महीपाल विलोकितेन ते विगाहते कान्तम् इदं दशान्तरम्
भवत्य् अनारूढविकासविभ्रमा किम् उद्गमे चन्द्रमसः कुमुद्वती ॥

7.22

किम् अन्यद् उक्तं सुधयेव सान्द्रया तद् अन्यथा नाथ न पाटलवचः
स्फुटेयम् अस्याः कुरुते यद् अङ्गके बलात् परिष्वङ्गम् अनङ्गविक्रिया ॥

7.23

इतीङ्गितज्ञे वदति प्रियंवदे रमाङ्गदेन स्मितम् उद्गतस्मितः
अवाप पर्याप्तशशाङ्कदर्शनः फनीन्द्रकन्यासविधं नराधिपः ॥

7.24

उवाह लज्जानतम् अञ्चितालकं ततो भुजङ्गाधिपतेः सुतामुखं
अवाञ्चितं किं चन मातरिश्वना सषट्पदं पद्मम् इवारविन्दिनी ॥

7.25

पतत्य् अधः कुङ्कुमपङ्कपाटले मयूखलेखापटले शिखामणेः
ह्रियेव रक्तांशुकपल्लवस् तया पिधातुम् आलेख्यनृपे न्यधीयत ॥

7.26

नृपस्य चित्रे मधुरेयम् आकृतिर् न भिद्यते चन्द्रमसो यथाम्भसि
सखीजनस् ताम् इति नर्मपेशलः शनैस् त्रपानम्रमुखीम् अभाषत ॥

7.27

यथास्मि वक्तासि तथास्य भूपतेर् यदा पुनः कर्णसमीपम् आप्स्यसि
इतीव निर्व्याजम् उदीर्य तत्यजे तयायताक्ष्या स नरेन्द्रसायकः ॥

7.28

अलं ह्रियैवं समुपेक्ष्य गृह्यताम् अयं हि पाणिग्रहणोचितस् तव
इतीरयन्त्याः कुटिलं वचः कराद् अनङ्गवत्याः कमलं जहार सा ॥

7.29

अथ स्वबिम्बाधरपाटलच्छदं करेण तत्तत्सदृशेन बिभ्रती
निषेवितुम् भूपतिम् अभ्युपागता रमेव राजीवमुखी रराज सा ॥

7.30

दृशस् ततस् तत्परिवारयोषितां नेत्राञ्जनश्यामलपक्ष्मराजयः
शशिप्रभे भूमिपतौ सकौतुकाः समापतन् कुन्द इवालिपङ्क्तयः ॥

7.31

निपीयमानस्य तया शनैःशनैर् अपाङ्गसञ्चारितदीर्घनेत्रया
उपात्तपुष्पः क्षितिभर्तुर् अर्हणां चकार तस्याश् चतुरः सखीजनः ॥

7.32

पुरः शिरस्य् आहितमन्मथाज्ञया तया कटाक्षैः कुटजैर् इवार्चितः
नृपः सपर्यां पुनरुक्तसंविदां सस् तद्वयस्यानिहिताव् अमन्यत ॥

7.33

सरागवत्य् उत्कलिकाभिर् आकुले मृदुन्य् अलं पाटलया समर्पिते
अथ न्यषीदन्नवपल्लवासने फनीन्द्रकन्यामनसीव पार्थिवः ॥

7.34

अनु क्षितीशं नलिनीदलासने कया चिद् आस्ते परिवारयोषिता
रमाङ्गदो ऽप्य् आसनबन्धम् आददे वसुन्धरायां विनयैकबन्धुः ॥

7.35

श्रमानुरोधाद् उपविश्यताम् इतः क्षणं कृशाङ्गीति सखीभिर् अर्थिता
उपाविशद् वेपितवामनस्तनी ततः समं ताभिर् अहीन्द्रकन्यका ॥

7.36

विवर्तयन्ती वदनेन्दुमण्डलं विशालनेत्रान्तनिषक्ततारकम्
द्वयेन सा कृष्यत सुन्दरी समं ह्रिया नृपालोकनकौतुकेन च ॥

7.37

अथावतंसीकृतलोचनोत्पलं कपोलदोलायितरत्नकुण्डलम्
चिरं पपौ सः स्तिमितेन चक्षुषा तदाननं मालवमीनकेतनः ॥

7.38

कृती दृशास्याः सुदृशः पिबत्य् अयं कपोललावण्यसुधां नराधिपः
मिथः सखीनाम् इति सस्मितं वचो निशम्य साभूद् अधिकाधिकत्रपा ॥

7.39

मनाग् इवांसाद् अपवर्तितानना निरीक्ष्य तं भूपतिम् अर्पितेक्षणम्
विहस्य लज्जामुकुले चकर्ष सा बलाद् अपाङ्गप्रसृते विलोचने ॥

7.40

यशोभटे रूपम् अवन्तिशसितुः कृतस्मिते चित्रगतं प्रशंसति
करस्थितं सा झटिति न्यधात् ततः शिलातले तामरसं त्रपावती ॥

7.41

निकामम् उक्तं सुकुमारम् अङ्गना विलासिनस् तस्य जहार सा मनः
स्मरैकदूतीसहकारशाखिनो लसन्मधाव् अन्यभृतेव पल्लवम् ॥

7.42

तदीयम् उद्दामरसोर्मिनिर्भरं स राजहंसो ऽपि विवेश मानसम्
कृतप्रवेशश् च सलीलम् अच्छिनन् मनाङ् मृणालीम् इव धीरताम् अतः ॥

7.43

क्षणाद् अपाङ्गस्तिमितायताक्षयोः सकम्पयोः कण्टकिताङ्गलेखयोः
अवापद् अन्योन्यनिबद्धभावयोस् तयोः प्ररोहं हृदि बालमन्मथः ॥

7.44

असूययेवाथ विमुञ्चती दृशं सखीषु सा सूत्रितनर्मसूक्तिषु
इति स्मितक्षालितदन्तवाससा नृपेण नागेन्द्रसुताभ्यधीयत ॥

7.45

वदानवद्याङ्गि सखीजनादृतः किम् एष नाम व्यतिरिच्यते जनः
विहाय विस्रम्भविशेषम् एतया यद् अङ्गम् अन्तो विशतीव लज्जया ॥

7.46

सदा सदाचारपरेति वार्तया वयं हृताः पन्नगराजपुत्रि ते
अतः किम् एवं प्रतिपत्तिमूढतां विगाहसे ऽस्मासु विमुच्यताम् इयम् ॥

7.47

अनेन ते सुन्दरि दर्शनेन वा कृतोपचारो ऽस्मि कियत् कदर्थ्यसे
न वीक्षते वल्गु न मञ्जु भाषते गता क्वचिल् लोचनवर्त्ममालती ॥

7.48

अधःकृताः सत्यम् अधीरलोचने रसातलेन त्रिदिवस्य भूमयः
अनङ्गदुर्वारशराधिदैवतं भवद्विधं रत्नम् अवाप्यते ऽत्र यत् ॥

7.49

कुतूहलाध्यासितमध्यलोकया त्वया मुहूर्तं फणिलोककौमुदि
अवैमि पातालम् अवाप्तसन्धिना विलङ्घ्यते सन्तमसेन सम्प्रति ॥

7.50

इदं मृणालद् अपि कोमलं वपुस् तवैष दूराद् अरविन्दिनीपतिः
पुनः पुनः संस्पृशतीव कौतुकात् तमालगुल्मान्तरपातिभिः करैः ॥

7.51

अनेन ते सश्रमवारिबिन्दुना नवीनपीयूषतुषारदन्तुरः
शिरीषमृद्वङ्गि तुषारपाण्डुना कपोलबिम्बेन विडम्ब्यते शाशी ॥

7.52

इदं वदाशिक्षत कैतवं कुतस् तवैष मुग्धे सरलाङ्गुलिः करः
इहैतद् आलिख्य शिलातले शनैर् अनेन लीलाकमलं यद् उज्झितम् ॥

7.53

न चित्रम् एवं क्व चिद् अस्ति भूतले ममात्र तेनास्ति कुतूहलं महत्
अतः किम् एतत् पिहितं प्रकाश्यताम् अहेतुकस् तन्वि क एष मत्सरः ॥

7.54

अदृश्यम् एतद् यदि मन्यसे ततः किम् अर्थ्यसे किं त्व् इयद् एव शंसो नः
कृती त्वयायं भुजगाम्बरौकसाम् अलेखि चित्रे कतमः कृशोदरि ॥

7.55

लतेव सम्मीलितषट्पदस्वना कियच् चिरं निर्वचनैव तिष्ठसि
इतश् चकोराक्षि विचिन्त्य सूनृतं ममोत्तरं किं चन दातुम् अर्हसि ॥

7.56

यथातिजिह्रेषि यथातिवेपसे यथा कपोले पुलकं बिभर्षि च
तथात्र मन्ये तव पक्षपातवन् नितान्तम् अन्तःकरणं कृशोदरि ॥

7.57

ह्रिये तवेयं यदि कल्पते कथा किम् एतया नः प्रकृते यतामहे
यद् अर्थम् एते वयम् आगताः स्वयं स नार्प्यते किं करभोरु सायकः ॥

7.58

सलीलम् एवं वदति स्मितानने नृपे नवप्रेमसार्द्रचेतसि
विवर्तयन्ती मणिकङ्कणं करे मुमोच मौनं न फणीन्द्रकन्यका ॥

7.59

तया तथा दृष्टम् अथान्तरान्तरा कटाक्षकान्तिः स्नपितावतंसया
इति स्मिताप्य् आयितदन्तदीधितिर् जगाद तं माल्यवाती विशाम्पतिम् ॥

7.60

तवैतया सत्कृतिपात्र सत्कृतं स्वयं न यत् कल्पितम् अल्पमध्यया
न स अवलेपो न च सा प्रमादिता न च त्रपा तत्र नृपो ऽपराद्ध्यति ॥

7.61

कृतीति वार्ता तव वेत्सि वाञ्छितं त्वम् अन्तरात्मेव न कस्य वा भुवि
अतः सखीभावगतस्य गोपनं न युज्यते नस् त्वयि तन् निशाम्यताम् ॥

7.62

शिलीमुखे ऽस्मिंस् तव नामलाञ्छिते मृगोपनीते मृगशावलोचना
प्रमोदम् आप्तेयम् इतो विलोकिते करे चकोरीव तुषारदीधितेः ॥

7.63

क एष राजेति मुहुः कुतूहलाद् इयं यदा पृष्टवती सखीजनम्
अतस् तदास्यै कथितः सविस्तरं मया त्वम् उर्वीतलमीनलाञ्छानः ॥

7.64

करेण सासूयम् अपास्य कर्णतः क्वणद्द्विरेफावलि नीलम् उत्पलम्
तदैतयाभ्युद्गतपक्षपातया श्रुता गुणाढ्यस्य बृहत्कथा तव ॥

7.65

इमां त्वदाकारनिरूपिणे सखीम् अवेत्य पर्युत्सुकलोचनाम् इव
ततो मया विश्वविलोचनोत्सवस् त्वम् एव चित्रे लिखितो ऽसि पार्थिव ! ॥

7.66

उदञ्चितव्यायतपक्ष्मणा ततः सखीसमक्षं निभृतेन चक्षुषा
चिरं निपीतसतृषेव मुग्धया त्वयैतया मध्यमलोकवाससः ॥

7.67

अतो वरो ऽयं युवयोः समागमः कुमुद्वतीचन्द्रमसोर् इवोचितः
इयं हि बालोच्छ्वसितो मनोभुवस् त्वम् अत्र लोकत्रितयैकसुन्दरः ॥

7.68

नृप गृहीतुं नयम् अत्र को ऽप्य् अलं सुरेषु वा पन्नगपुङ्गवेषु वा
स एष पङ्केरुहकर्णिकामृदुस् त्वया शयो ऽस्याः क्रियते सकौतुकः ॥

7.69

अयाचितो ऽप्य् अर्पित एव ते शरः क्षितेर् अयं न्यायविदां वरैतया
तद् एनम् अभ्यर्थयसे कथं पुनः कलत्रम् एषा हि वसुन्धरा तव ॥

7.70

इतीतिवृत्तं तदुपाश्रयं तथा प्रकाशयन्ती पृथिवीपतिं प्रति
छलाद् अलीकभृकुटिं विधाय सा तयालुलोके फणिराजकन्यया ॥

7.71

अथ द्विरेफस्य मुखाब्जपातिनो निवारणयोरगराजकन्यका
शिलातलात् संभ्रममीलितस्मृतिस् तदाशु लीलाशतपत्रम् आददे ॥

7.72

ततः स रोमञ्चनिपीडिताङ्गदो रमाङ्गदं व्यक्तशशिप्रभेङ्गितः
अपश्यद् इन्दीवरदामदीर्घया प्रमोदविस्तरितया दृशा नृपः ॥

7.73

समर्पिता पार्थिव पुष्पकेतुना तवेयम् आर्द्रप्रणया मनस्विनी
असीमसौन्दर्यसुधाविलासभूर् उदन्वतेवेन्दुकला पिनाकिनः ॥

7.74

किम् अन्यद् अत्रोल्लसितं जगत्त्रये तवैव सौभाग्यपताकया नृप
यद् आगता मन्मथपत्रिणाम् इयं शरव्यताम् एवम् अपि श्रुते त्वयि ॥

7.75

वधूर् दिलीपस्य सुदक्षिणा यथा यथा सुनन्दा भरतस्य भूपतेः
रघूद्वहस्यावनिकन्यका यथा तथा तवेयं विधिना उपपादिता ॥

7.76

किम् अन्यद् अस्याः कृतपाणिपीडनः पदं निधत्से गृहमेधिनां धुरि
इति प्रसर्पत्स्मितचन्द्रिकः शनैर् अभाषतोर्वीतिलकं रमाङ्गदः ॥

7.77

विलोकितं चित्रम् अलीकभाषिणी भवत्सखीयं प्रतिभासते मम
उदीरितैवं किल पार्थिवेन सा भृशम् ललज्जे निभृतं जहास च ॥

7.78

विलोकयन्ती तम् अपाङ्गलोचना समुल्लसत्स्वेदलवाङ्कितस्तनी
ततः सुजातस्तबकास्तमौक्तिका लतेव सा हेममयी व्यकम्पत ॥

7.79

मुखे तवासक्तम् इदं शशिप्रभे दृशावतंसागतयैतदीयया
सखीजनः सस्मितम् इत्य् उवाच ताम् अवन्तिनाथं च मिथो रमाङ्गदः ॥

7.80

अत्रान्तरे झटिति चित्तम् इवाच्छम् अम्भः क्षोभं जगाम सरितस् तुहिनांशुसूतेः
वाति स्म च प्रसभभग्नतमालताल हिन्तालसालसरलः सहसा समीरः ॥

7.81

उदनमद् अथ तत्क्षणाद् उदञ्चत् कनकपिशङ्गतडिल्लतः पयोदः
अधरितमुरजध्वनीनि मुञ्चन् विधुरितकर्णतलानि गर्जितानि ॥

7.82

अथ समुदितत्रासा मेघस्वनान् ननु भूपतेर् भुजपरिघयोर् अन्तो बाला प्रवेष्टुम् इयेष सा
किम् असि चकिता मा त्वं भैषीर् इतो भव लज्जया कृतम् इति च ताम् ऊचे देवः स साहसलाञ्चनः ॥

मूल पाठ: Navasāhasāṅkacarita · Edition: Vamanasastri Islampurakara, Bombay : Govt. Central Book Depot (Bombay Sanskrit Series, 53) · Data entry Somadeva Vasudeva · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc