भाषा

ENहिગુ
ग्रंथ पाठ

नवसाहसाङ्कचरित · अध्याय 6

6.1

तदा फणीन्द्रकन्यापि बाणनामाङ्कसूचिते
नरेन्द्रतिलके तस्मिन्न् अभिलाषं बबन्ध सा ॥

6.2

सहसा हृदये तस्या निदधे मन्मथः पदम्
अशोकयष्टिस्तबके सराग इव षट्पदः ॥

6.3

अवशा साभवच् चित्रं नाम्नापि पृथिवीपतेः
न तद् अस्त्य् अत्र यन् नास्त्रं सन्नद्धस्य मनोभुवः ॥

6.4

स्मराग्निकणमेणाक्ष्यास् तस्याः समुददीपयत्
मकरध्वजसाम्राज्य सचिवो मलयानिलः ॥

6.5

सोल्लसत्स्मरलीलेन नवेन वयसा बभौ
उन्मिषन्मधुलेखेन मुकुलेनेव मालती ॥

6.6

सातनुश्वसनस्पृष्ट पाटलाधरपल्लवम्
उवाह मुखम् उज्जृम्भम् अम्भोजम् इव पद्मिनी ॥

6.7

निकामसरले तस्मिन् सा मुहुस् तरलेदृशौ
शरे नरेन्द्रचन्द्रस्य चिक्षेप न सखीजने ॥

6.8

नरेन्द्रनामाङ्कलिपिस् ताम् आनन्दयति स्म सा
कुमुद्वतीम् इवोदञ्चत् बालेन्दुकिरणच्छटा ॥

6.9

हेमपुङ्खाङ्किते तस्मिन् शरे करम् उपेयुषि
बलाद् विवेश सा बाला दीक्षां वैवाहिकीम् इव ॥

6.10

तेनावाप्ततदाताम्र पाणिस्पर्शेण पत्रिणा
स्फुरत्कान्तिचयव्याजाद् अमुच्यन्तेव पल्लवाः ॥

6.11

नवीनसाहसाङ्कस्य कामदेवाकृतेर् अयम्
मालवैकमृगाङ्कस्य सिन्धुराजस्य सायकः ॥

6.12

पुनःपुन इति स्वादु नृपतेर् नामलक्ष्म सा
अपठच् चारुबिम्बौष्ठ लुठद्दशनचन्द्रिका ॥

6.13

अधीत्य कौतुकेनाथ कृतपञ्चममूर्च्छनाः
तदग्रे नृपनामाङ्कं जगुः पातालकन्यकाः ॥

6.14

अदृष्टे ऽप्य् उत्सुका राज्ञि तद्गीतेन बभूव सा
प्रबोधे यदनङ्गाग्नेः पञ्चमः प्रथामा समित् ॥

6.15

अवेपत समुन्मीलत् विलासकुसुमान्न्चिता
मनोभवानिलस्पर्श वशाद् वनलतेव सा ॥

6.16

नवानुरागम् अङ्गेन व्यक्ततच्चिह्नचुम्बिना
विनावचनम् आचख्यौ सखीषु चतुरासु सा ॥

6.17

सावहित्थम् अथेत्थं सा सखीजनम् अभाषत
सुधानिष्यन्दजडया शरदिन्दुमुखी गिरा ॥

6.18

अभेदम् इन्दुना नीतः साचिव्यं मेनकेतुना
सख्यः कः सिन्धुराजो ऽयं साहसाङ्कनिरूप्यते ॥

6.19

किम् एवम् अवतिष्ठध्वै मौनं मुञ्चत शंसत
उन्मीलति यद् अन्तर् मे बलात् कौतुककन्दली ॥

6.20

अथ माल्यवती नाम तत्सखी सिद्धकन्यका
इति स्मितसुधार्द्रेण वचसा ताम् अवोचत ॥

6.21

सखि साहासिकः स अयम् अवन्तितिलको नृपः
गीयते केतकापाण्डु यस्योरगपुरे यशः ॥

6.22

तं काश्यपीसहस्राक्षम् अद्रक्षम् अहम् एकदा
गता श्रीमन्महाकाल पर्वण्य् उज्जयिनीं पुरीं ॥

6.23

तन्वि तिग्मांशुनेव द्यौर् निशेव शशलक्ष्मणा
सा सनाथा पुरी तेन वज्रिणेवामरावती ॥

6.24

रम्भा त्वयेव यत् सत्यं तेनालि नलकूबरः
त्याजितो रूपजं गर्वम् उर्वीमकरकेतुना ॥

6.25

अकलङ्काकृतेस् तस्य चतुःषष्ठिकलावतः
तुलाधिरोहहेवाके कः षोडशकलः शशी ॥

6.26

तस्यावनिप्रदीपस्य ते ते नैसर्गिका गुणाः
क्व नाम न प्रकाशन्ते रवेर् इव मरीचयः ॥

6.27

न नागेषु न सिद्धेषु न नरेष्व् अमरेष्व् अथ
अवापि क्वापि संवादस् तद्रूपोल्लेखलेखया ॥

6.28

सो हि केनापि कृत्येन गां गतः श्रूयते पुनः
निह्नुतैकभुजद्वन्द्वो देवः श्रीवत्सलाञ्छनः ॥

6.29

किम् अन्यत् तव संतुष्ट्यै पश्य चित्रे लिखाम्य् अहम्
चिरस्य दीर्घनयने तवास्तु नयनोत्सवः ॥

6.30

अथ सा सिद्धतनया तं लिलेख शिलातले
हृदि तूरगराजेन्द्र दुहितुर् मीनकेतनः ॥

6.31

तदालिखितभूपालं तया चिन्तितकामदम्
चिन्तामणेर् अप्य् अधिकं शिलातलम् अमांस्त सा ॥

6.32

ततश् चित्रगते तस्मिन् महीपालो मदालसाः
समम् एवाहिकन्यानां पेतुर् नेत्रपरम्पराः ॥

6.33

पपौ शशिप्रभाप्य् एनं चिरम् उत्पक्ष्मलेखया
पुनरुक्तीकृतोन्निद्र कर्णेन्दीवरया दृशा ॥

6.34

रूपम् आस्वादयाम् आस तस्यालेख्यगतस्य सा
भ्रमरीवारविन्दस्य सुधासहचरम् मधु ॥

6.35

आनीयताकुलत्वं सा त्रितीयेन तनूदरी
विस्मयेनातिसान्द्रेण मदेन मदनेन च ॥

6.36

विवेश हृदये तस्याः स चित्रलिखितो नृपः
शरत्प्रसन्ने सरितः प्रतिमेन्दुर् इव अम्भसि ॥

6.37

स्तनपत्रलतां तस्या बिभेद पुलकोद्गमः
सत्यं यदन्तरङ्गेण बहिरङ्गो निरस्यते ॥

6.38

तस्याः कुचयुगे किंचिन् निश्वासः कम्पम् आदधे
रथाङ्गनाममिथुने सायन्तन इवानिलः ॥

6.39

तस्याः स्वेदलवश्रेणि च्छद्मना वदनश्रिया
विशतो ऽन्तर् अनङ्गस्य लाजाञ्जलिर् इवोज्झितः ॥

6.40

शङ्के शरम् ऋजूकुर्वन् ददृशे मन्मथस् तया
यत् सा मृदुक्वणत्काञ्चि किङ्किणीकम् अकम्पत ॥

6.41

एष दृष्टस् त्वयेत्य् उक्ता सख्या सा साध्वसाकुला
गद्गदाक्षरम् अव्यक्तं कृच्छ्रात् प्रतिवचो ददौ ॥

6.42

चित्रवर्तिन्य् अपि नृपे तत्त्वावेशेन चेतसि
व्रीडार्धवलितं चक्रे मुखेन्दुम् अवशैव सा ॥

6.43

दृष्टा सखीभिः साकूतं सा बालाधरपल्लवे
दधौ वैलक्ष्यहसितं प्रसूनम् इव माधवी ॥

6.44

नवं प्रेम नवोत्कण्ठा नवास् ते ते मनोरथाः
इति तस्यास् तथैवाभूद् अन्तरङ्गः परिच्छदः ॥

6.45

किंचित् त्रपानुविद्धेन पुण्डरीकदलत्विषा
तम् आनर्चेव राजेन्दुम् अनिमित्तस्मितेन सा ॥

6.46

सा च दोःशयितभुवा नृपेणाद्ध्यासिता हृदि
कृताङ्गभङ्गवलना झटित्य् आलस्यम् आययौ ॥

6.47

तत्क्षणेनैव सा चित्रं तन्वी तन्मयतां ययौ
कं न प्रतारयत्य् एष कितवः कुसुमायुधः ॥

6.48

स्तिमितेवावतस्थे सा सारङ्गायतलोचना
अचेतनेव शून्येव सुप्तेवालिखितेव च ॥

6.49

स्मरेण मर्मणि क्वापि साविध्यत सुमध्यमा
अनिद्रितापि यत् साभूत् क्षणं मुकुलितेक्षणा ॥

6.50

व्यञ्चितानङ्गलीलेन शृङ्गाररसबन्धुना
तन्वी नवानुरागेण सान्यैव घटिताभवत् ॥

6.51

ऋजुना ऐक्षत यच् चित्रं यद् अभूच् च त्रपावती
तेनातिगूढभावापि सा सखीभिर् अलक्ष्यत ॥

6.52

अथानङ्गवती नाम सखी ताम् इत्य् अवोचत
दशनज्योत्स्नयारण्यं सुधयेव निषिञ्चती ॥

6.53

कच् चिद् अस्य प्रमोदाय कुमुदस्येव चक्षुषः
अयं मध्यमलोकेन्दुः पातालेन्दुकले तव ॥

6.54

वनानिलाहृतोन्निद्र पद्मकेसरशालिना
रोमोद्गम इवानेन धृतस् त्वदवलोकनात् ॥

6.55

अद्य नः सफलं चक्षुश् चित्रे यद् अवलोकितः
कन्दर्पाधिककान्तो ऽयम् अवन्तिमृगलाञ्छनः ॥

6.56

त्वाम् अप्य् अवाञ्चितां मन्ये यत् त्वयैतस्य वक्षसि
एते सविभ्रमं न्यस्ते दृशौ मुक्तालते इव ॥

6.57

जितम् एतेन को ऽप्य् एष सत्यं कामो ऽस्य किङ्करः
आरोहति परां कोटिम् अत्र यत् तव सम्भ्रमः ॥

6.58

त्वम् अत्र बद्धभावेव किम् इन्दुमुखि लज्जसे
विलङ्घयत्य् अलङ्घ्यानि स्मरदुर्ललितानि कः ॥

6.59

को ऽन्यः सखि नृशंसो ऽस्ति कामं विषमबाणतः
सुकुमारे तवाप्य् अङ्गे येन व्यापारितः शरः ॥

6.60

बिम्बौष्ठे एव रागस् ते तन्वि पूर्वम् अदृश्यत
अधुना हृदये ऽप्य् एष मृगशावाक्षि लक्ष्यते ॥

6.61

एकेन राजहंसेन हृतो हारस् तनूदरि
अनेन तु द्वितीयेन लिखितेनापि ते मनः ॥

6.62

कुतस् त्रपा तवालीषु किंचिद् उन्नमयाननम्
अहो बत त्वम् एतस्मिन्न् अत्यायतकुतूहला ॥

6.63

एतत् कर्णोत्पलं लोलम् अपाङ्गप्रतिवेशितम्
त्वद् उदन्तम् इवैतस्य कथयत्य् अलिकूजितैः ॥

6.64

अहो दूरस्थितेनापि हृदि स्पृष्टा नृपेन्दुना
इन्दुकान्तशिलेव त्वम् आर्द्रताम् अवगाहसे ॥

6.65

निपुणे निःश्वसिष्य् एवम् अतिगूढं यथा यथा
तथा तथा तव व्यक्तम् अयम् उच्छ्वसति स्मरः ॥

6.66

स्मितम् एतद् अलोलाक्षि लज्जासंवलितं तव
इदं निर्जितबाल्यस्य यौवनस्योदितं यशः ॥

6.67

यथा तवेयम् अरतिर् यथा सुतनु वेपसे
तथा कवचितः शङ्के निःशङ्कं मदनस् त्वयि ॥

6.68

किम् अत्र करवै गाढम् आकल्पकम् इदं तव
इयं च मन्मथस्यास्त्रं निर्गता चूतमञ्जरी ॥

6.69

सुरतक्लान्तशबरी कबरीमाल्यचुम्बिनः
कथम् एते त्वया तन्वि सह्या मलयवायवः ॥

6.70

किं ताम्यसि तवोपान्तम् आनयाम्य् अधुनैव तम्
इत्य् आश्वासयतीव त्वाम् कोकिलो ऽयं कलस्वनः ॥

6.71

कूजन्ती कोकिलवधूर् इयम् आधिं धुनोति ते
अनङ्गनृपसाम्राज्य लीलामङ्गलगायिनी ॥

6.72

वनान्तदेवतावाप्त पादन्यासोत्सवः स्फुटम्
एष स्तबकितो ऽशोकः सुहृत् कामस्य का गतिः ॥

6.73

अत्रोर्वीतिलके दृष्टिम् अस्यन्तीं तिलकः क्रुधा
अयं तर्जयतीव त्वां वाताधूतलताङ्गुलिः ॥

6.74

पथि स्मरस्य विषमे स्खलितायाम् इतस् त्वयि
स्मितच्छटेव निर्याति सिन्दुवारस्य मञ्जरी ॥

6.75

द्राघयत्य् अस्तबिम्बौष्ठ रुचिनिःश्वसितानि ते
अयं मुकुलितः किंचिद् बकुलो मुकुलस्तनि ॥

6.76

लतया कर्णिकारस्य पुरः पुष्पितयानया
अनङ्गस्यैकराज्ये ऽस्मिन् हेमवेत्रलतायितम् ॥

6.77

अहो न कस्य भिन्दन्ति हृदयं वीक्षिता अपि
निसर्गमृदवो ऽप्य् एते सहकारनवाङ्कुराः ॥

6.78

चतुरां कोकिलाम् एष कृत्वा कुरबको मुखे
दुर्लभं याचतीव त्वां लीलालिङ्गनदोहदम् ॥

6.79

अशोकस्कन्धलग्नेयं कुसुमैर् नवमाधवी
प्रार्थनीयप्रियस्पर्शां हसति त्वाम् इवोत्सुकाम् ॥

6.80

भूपताव् अनुरक्तायास् तव सन्तापदीपनम्
स्थलारविन्दं सेर्ष्येव सूते सखि वसुन्धरा ॥

6.81

अमीष्व् अङ्कस्थकन्दर्प जगद्विजगयसिद्धिषु
दृष्टिर् उद्विजते तन्वि पाटलाकुड्मलेषु ते ॥

6.82

सुन्दरि द्वितयस्यात्र क्रशिमा भूषणायते
राजन्याबद्धभावायास् तव रात्रेश् च सम्प्रति ॥

6.83

एष चैत्रोत्सवश् चित्रे नृपो ऽयं नूतनं वयः
प्राप्तावकाशः कामो ऽपि पतितास्यतिसङ्कटे ॥

6.84

किम् आलिखितवत्य् एषा चित्रे माल्यवती नृपम्
द्वारीकृतेयम् अथवा वामेन विधिना तव ॥

6.85

बहुना किं चकोराक्षि छलितासि मनोभुवा
सर्वथा ते करिष्यन्ति कुशलं कुलदेवताः ॥

6.86

इत्यादि व्याहरन्ती सा कृतभ्रूभङ्गया तया
नरेन्द्रबाणपुङ्खेन कुचे किं चिद् अतुद्यत ॥

6.87

अथ किन्नरराजेन्द्र कन्या नाम्ना कलावती
एवं वचः स्मितसुधा निषिक्ताक्षरम् आददे ॥

6.88

कामं दुर्लभम् एवैतच् चैत्रश् चन्द्राङ्किता निशाः
प्रेयान् विपञ्चीरणितं पञ्चबाणाङ्कितं वयः ॥

6.89

अयि त्वां म्लापयत्य् एष कालः कमललोचने
जगदाह्लादजनकः सुधासूतिर् इवाब्जिनीम् ॥

6.90

स्थाने तवानुरागो ऽयम् अनङ्गस्यायम् उत्सवः
सखि स्निह्यति निर्व्याजम् इन्दाव् एव कुमुद्वती ॥

6.91

नृपस्यारण्यसञ्चारः शरेणानेन सूच्यते
मरुता द्विरदस्येव मदनिष्यन्दगन्धिना ॥

6.92

अवश्यं तन्वि चिन्वाना वने हंसम् इतस् ततः
क्वचिद् विलोकयिष्यन्ति तं त्वत्परिजनस्त्रियः ॥

6.93

ज्ञातत्वदिङ्गितैवात्र तं चेद् द्रक्ष्यति पाटला
ततो ऽस्य षट्पदस्येव बलाच् चेतो हरिष्यति ॥

6.94

स्थिरा भव नृपेन त्वम् इह संयोगम् आप्स्यसि
यथा कण्वाश्रमे पूर्वं दुष्यन्तेन शकुन्तला ॥

6.95

इति तद्वचसः सीम्नि मसृणोत्कम्पितस्तनी
व्याजसाचीकृतमुखं निशश्वास शशिप्रभा ॥

6.96

वनश्रीरत्नमञ्जीरो लताकुञ्जोदरे ततः
चुकूज मञ्जुकण्ठस् तां दक्षिणेन कपिञ्जलः ॥

6.97

हर्षाश्रुलवकीर्णेन सत्पत्रावलिचारुणा
वामेन पस्फुरे तस्याश् चक्षुषा च स्तनेन च ॥

6.98

अत्रान्तरे समायान्ती ददृशे दूरतस् तया
नरेन्द्रसवितुस् तस्य पुरः सन्ध्येव पाटला ॥

6.99

तस्यास् त्रये च त्रितयम् अपश्यत् फणिकन्यका
मुखे स्मितं करे हारं सितम् अंसे च चामरम् ॥

6.100

सा हारहस्ता रुरुचे धृतस्तिमितचामरा
सरसी सुप्तहंसेव फेनाध्यासितपङ्कजा ॥

6.101

दृष्टिः फनीन्द्रदुहितुर् अतिक्रम्यैव पाटलाम्
भृङ्गश्रेणिर् इवाशोके पपातावन्तिभर्तरि ॥

6.102

प्रियं नः स अयम् आयाति पश्य पश्य शशिप्रभे
परमारान्वयोदार हारमध्यमणिर् नृपस् ॥

6.103

इति प्रियसखीसूक्ति सुधानिष्यन्दलेखया
सिक्ते तदाभवत् तस्याः स्मरः पल्लवितो हृदि ॥

6.104

सुधारस इवोर्वीभृत् तया संमुखम् आपतन्
दृशा स्फटिकशुक्त्येव वारंवारम् अपीयत ॥

6.105

वितेने ऽप्य् अहिकन्याभिः कौतुकेनातनीयसा
तस्याग्रे राजहंसस्य नेत्रेन्दीवरवागुरा ॥

6.106

अवन्तितिलकोदन्तम् उपसृत्याथ पाटला
अनङ्गदीपनं तस्यै जगादेङ्गितवेदिनी ॥

6.107

देव पश्चात्स्थितो ऽप्य् अग्रे प्राप्तः पर्युत्सुको भवान्
इत्य् अभाष्यत भूपालः चित्रे चतुरया तया ॥

6.108

अभूत् पर्याकुला सा च मुहूर्तम् असितेक्षणा
पश्चाद् अलज्जतालीभिस् तथा सस्मितम् ईक्षिता ॥

6.109

तस्यै हारं महीभर्तुर् अर्पयाम् आस पाटला
आकृष्य भर्तुम् आनीतम् अतिशुद्धम् इव आशयम् ॥

6.110

सखीनाम् अनुरोधेन सा किलानङ्गमोहिता
हृदि दीर्घगुणं दध्रे हारं प्रियम् इवापरम् ॥

6.111

तुषारपाण्डुना तेन ववृधे ऽस्या मनोभवः
दिगन्तवान्तज्योत्स्नेन महोदधिर् इवेन्दुना ॥

6.112

पुष्पोद्गमेनेव लता प्रसादेनेव भारती
सा तेन रेजे हारेण यशसेव नरेन्द्रता ॥

6.113

ततः शिथिलपर्यस्त विलोलकबरीलता
केतुयष्टिर् इव श्याम पताकाङ्गा हिरण्मयी ॥

6.114

वसंतकमलोल्लासि मत्तभ्रमरनिःस्वना
दीपमानोपदेशेव स्वरहस्ये मनोभुवः ॥

6.115

उल्लसत्कुटजाच्छाच्छ विलासहसितच्छविः
झटित्य् उअदधिवेलेव निर्गच्छद् अमृतच्छटा ॥

6.116

सरोजिनीव हंसीभिर् भृङ्गीभिर् इव मालती
शशिलेखेव ताराभिः सखीभिर् अभितो वृता ॥

6.117

दृष्ट्वा नरन्द्रम् आयान्तम् उदस्थाद् उत्सुकाथ सा
दधती नूतनप्रेम परिणीताम् अधीरताम् ॥

6.118

अथ सुतनुर् अलोलतारके सा सुचिरम् उदञ्चितदीर्घपक्ष्ममाले
शशिन इव नवोद्गतस्य दूरात् अवनिपतेः पथि लोचने मुमोच ॥

6.119

आसन्नानुचरधृतेन पङ्कजिन्याः पत्रेण स्फुटघटितातपत्रलीलः
सश् च्छायाम् अथ महसा हसन् हिमांशोः क्ष्मापालः पुलिनम् अवाप नर्मदायास् ॥

मूल पाठ: Navasāhasāṅkacarita · Edition: Vamanasastri Islampurakara, Bombay : Govt. Central Book Depot (Bombay Sanskrit Series, 53) · Data entry Somadeva Vasudeva · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc