नवसाहसाङ्कचरित · अध्याय 5
अथ सा वदने नवेन्दुकान्ति स्मितम् अङ्के विनिवेश्य चामरं च
जगतीपतिम् एवम् आ बभाषे मसृणं मूर्तिमती विदग्धतेव ॥
त्वयि पुण्यवशेन दृष्तिम् आप्ते लभते शर्म गतश्रमो ममात्मा
उदिते हि विरोचने नलिन्या वितमस्तामरसं विकासम् एति ॥
अतिमात्रम् उपोढसौकुमार्ये वचसि श्रोत्रम् उपेयुषि त्वदीये
झटिति प्रतिभासते ममायं कठिनश् चन्दनपल्लवावतंसः ॥
किम् अयं मयि संभ्रमो ऽयम् आस्तां किम् अयं न एव जनः परिच्छदस् ते
उपचारविशेषसंविधाने प्रतिपच्चन्द्र इव उदितस् त्वम् एव ॥
भवदिङ्गितवेदिनैव पृष्टा यद् अनेनाहम् उपान्तवर्तिना ते
किम् उ तत् कथयामि सम्मतं चेत् क्रियतां मे स्वयम् आज्ञया प्रसादः ॥
अभिधेहि लवः कुतूहलस्य त्वदुदन्तश्रवणे ममापि जातः
इति सा वसुधापतेर् निदेशाद् अथ पातालविलासिनी जगाद ॥
स तव श्रुतिम् आप्त एव तावत् स्मरलीलाभवनं भुजङ्गलोकः
उपयाति यद् एकदेशसाम्यं न मही नापि पुरी पुरन्दरस्य ॥
अतिदुर्लभसूर्यभासि यस्मिंस् तमसाम् उल्लसतां तिरस्क्रियायै
फणिनो ऽरुणकान्तिभिः शिरस्थैर् मणिभिर् बालम् इवातपं वहन्ति ॥
अनुलिम्पति रोदसी यथेन्दुः प्रभया मां न तथेत्य् असूययेव
पटु यः प्रमादाविलासहास स्तबकैर् इन्दुपरम्पराः प्रसूते ॥
सविलासम् उदस्तहस्तमुक्तैर् निकरैर् दिग्द्विरदेन्द्रशीकराणाम्
परितो निचिताः सदैव यस्मिन् ककुभस् तारिका इवावभान्ति ॥
प्रतिभाति दधन् फणाकलापे पृथिवीं यत्र सः शेषनागराजः
नभसो निपतञ् जवेन भित्त्वा जगतीं गाङ्ग इव च्युतः प्रवाहः ॥
विदिता खलु वासुकेस् त्रिलोक्यां हरकण्ठाभरणस्य भोगिभर्तुः
ललिताद्भुतभूमिर् अस्ति तस्मिन् नगरी भोगवतीति राजधानी ॥
मणिहर्म्यतलानि रत्नदीपाः फणिकान्तार्धविलोकितानि वीणाः
ऋतवो ऽप्य् अखिलाः समेत्य यत्र स्मरसाम्राज्यमहाधुरं वहन्ति ॥
अनुपाधिर् उपाहृतो विकासः कमलैर् यत्र विलासदीर्घिकासु
अपि यत्र कुमुद्वतीभिर् अस्तः सहजश् चन्द्रमरीचिपक्षपातः ॥
अभिकान् अभिसर्तुम् उद्यतः सन् सपदि व्यालविलासिनीसमूहः
भवति स्वफणामणिप्रदीपे तिमिरोत्सारिणि यत्र साभ्यसूयः ॥
अधिरोहति यत्र वंशमुक्ता पटलस्मेरतटा सुरस्रवन्ती
सरितः श्रियम् ईर्ष्ययेव तस्याः सुवते मौक्तिकम् एव यत् पयांसि ॥
अतिकान्तगुणाभिराममूर्तिर् मधुरेण ध्वनिना मनोहरन्ती
विदधाति सदैव यत्र यूनां पदम् अङ्के वनिता च वल्लकी च ॥
शतशो विलसन्त्य् उदंशुरत्न स्तबकाः कल्पलता यद् अङ्गणेषु
प्रतिमन्द्रिरम् एवम् एव यस्याम् अपि चिन्तामणयः पदे लुठन्ति ॥
अपि दत्तकुतूहलाः सुराणाम् अपि वाञ्च्छापदम् एकपिङ्गलस्य
अपि निर्विषया मनोरथानाम् उरगान् यत्र विभूतयः श्रयन्ते ॥
वसति स्वयम् एव यत्र देवः सदा कल्पितहाटकेश्वराख्यः
स्मरम् ऊर्ध्वविलोचनार्चिषीव त्रिपुरं यः शरपावके जुहाव ॥
निजवंशविशेषको ऽस्ति तस्याम् उरगाणाम् अधिपः सः शङ्खपालः
स्रग् असाव् इति यत् फणासु धत्ते वसुधां वासुकिना समानसारः ॥
जगदेकललाम तस्य कन्या गुणवत्य् अस्ति शशिप्रभा नाम्ना
सहसैव फणभृतां प्रविष्टा भुवने राहुभयाद् इवेन्दुलेखा ॥
न कयाप्य् अतिशय्यते ऽतिशीघ्रं यद् इयं कन्दुककेलिषु भ्रमन्ती
अपरं कृतम् अर्थवत् तद् अस्याः सुतरां नाम सखीभिर् आशुगेति ॥
स्फुरदद्भुतरूपसम्पदां ताम् अनुकर्तुं कलयापि धार्ष्ट्यम् एति
न रतिर् न शची न चित्रलेखा न घृताची न तिलोत्तमा न रम्भा ॥
सुरकिन्नरसिद्धकन्यकाभिः स्वकलाभ्यासवतीभिर् आप्तसख्या
निखिलासु गता परं प्रकर्षं शितधीः शैशवस् एव या कलासु ॥
अनिवारितकेलिकौतुका सा सुतनुः स्नेहवंशवदेन पित्रा
विहरत्य् अपचीयमानबाल्या हरशैले मलये हिमालये च ॥
अधुना पुनो ऽत्र विन्ध्यपदे विहरन्त्याः कुसुमावचूडनाम्नि
क्वचिद् अप्य् अगमत् पलाय्य तस्याश् चपलः केलिमृगो मृगायताक्ष्याः ॥
अतिवत्सलया समं सखीभिर् विपिने तं परितस् तया विचित्य
पुलिने सरितः शशाङ्कसूतेः श्रमवत्येयम् अनीयत त्रियामा ॥
कलहंसकलस्वनैर् विबुद्धा परिवारप्रमदानिदेशितं सा
निकषा निचुलप्रवालशय्यां तम् अथ प्रेक्षितवत्य् आप्तनिद्रम् ॥
तपनीयशिलीमुखस् तदङ्गे चकितं चित्ररुचौ तया च दृष्टः
जलदे ललितेन्द्रचापभक्तौ अहिमांशोर् इव भासुरो मयूखः ॥
अरविन्ददलत्विषा करेण स्वयम् उत्पाट्य सकौतुकं गृहीते
अवलोकितम् एतयाथ तस्मिन् विजयाङ्के नवसाहसाङ्कनाम ॥
अविशन् नरनाथ नाम पूर्वं हृदये ऽस्याः सहसाथ पुष्पकेतुः
अमृतांशुमरीचिलुप्तनिद्रे लभते यत् कुमुदे ऽन्तरं द्विरेफः ॥
नवमेघमलीमसाद् युगान्ते वसुधाम् उद्धरतो रथाङ्गपाणेः
परितः श्रमवारिबिन्दवो ये निरपीयन्त पयोधशुक्तियूथैः ॥
प्रकृतिः किल यस्य ते परीता परिणामेन तदन्तरे ऽत्र हंसः
शयनान्तगतं मृणालशङ्कि स्हृतवान् हारम् अधीरलोचनायाः ॥
उदडीयत खे मुखेन बिभ्रद् भुजगेन्द्रप्रतिमं तम् अञ्जसा स
अपदार्पितवैतनेयशङ्कः फणिकन्यासु मुहूर्तविक्लवासु ॥
स च विन्ध्यवनान्तराजिम् एताम् अविशन् मारुतपीतपद्मगन्धाम्
अतिदूरविकृष्टनागकन्या चकितोदञ्चितदीर्घनेत्रमालः ॥
अहिराजसुतानिदेशतो ऽस्मिन् असमाप्तेषुविलोकनोत्सवो ऽपि
अथ हंसम् इतस् ततो विचेतुं विजने नागवधूजनः प्रवृत्तः ॥
शबलास्व् इह कृष्णसारयूथैः समदक्रोडसनाथपल्वलासु
गहनास्व् अपि तद्गवेषणायै वनलेखासु मम त्वयं प्रयत्नः ॥
स मया न तटेषु निर्झराणां सरसां नाप्सु न पुण्डरीकषण्डे
सरसीष्व् अपि नायतोर्मिलेखा न्तरपारिप्लवसारसासु दृष्टः ॥
सितचामरधारणे नियुक्तां दुहितस् तेन भुजङ्गमाधिपेन
अवधारय पाटलेति नाम्ना तनयां माम् उरगस्य हेमनाम्नः ॥
अचले विचयः पतत्रिणो ऽयं फलितः साधु ममाहितश्रमो ऽपि
यद् इतः पुरुषोत्तमो ऽसि दृष्टो वनमध्ये निबिडश्रियोपगूढः ॥
उपरोधम् इमं न मन्यसे चेद् यदि वास्मासु तवास्ति पक्षपातः
वद तच् चरता क्वचिद् वने ऽस्मिन् सः सहारो विहगस् त्वया नु दृष्टः ॥
न स दृष्टिम् इतस् तवापि मन्ये तद् अहं तद्विचयाद् इतो निवर्ते
ननु ताम्यति कामम् आत्तचिन्ता चिरयन्त्यां मयि साहिराजकन्या ॥
अथ वा मृगभङ्गिनोपनीते विधिना सा नवसाहसाङ्कबाणे
प्रणयार्पितलोचना सनामन्य् अधुनाप्य् आलिखितेव नूनम् आस्ते ॥
इति सा समुदीर्य तत्पृषत्कान् अवलोक्यैव पुनश् चमत्कृता इव
स्फुटकेलिमृगोपनीतबाण स्मरणस्मेरमुखी पुनो जगाद ॥
सो नृलोकशशी त्वम् एव मन्ये मृगयाबद्धरुचिः स यत्पृषत्कः
भुवनाभयदायिनाम् अमीषां भवतः संवदतीव सायकानाम् ॥
स्थितम् एतद् अयोमुखेष्व् अमीषु स्फुतवर्णं तव नामधेयलक्ष्म
अवनीतिलक त्वयि प्ररूढं मम सन्देहलवं बलात् प्रमार्ष्टि ॥
समुपैति सनाथतां किम् अन्यत् त्रितयेन त्रितयं नरेन्द्रचन्द्र
त्रिदिवं नमुचिद्विषा त्वयेयं वसुधा वासुकिना रसातलं च ॥
सनये नृपताव् अखण्डिताज्ञे त्वयि शासत्य् अवनीं दिलीपकल्पे
विदधीत पदं सुदुर्नये कस् तम् ऋते हारमलिम्लुचं विहङ्गम् ॥
असताम् असुहृन् न लज्जते ऽयं किम् इति ज्याकिणलाञ्छितो भुजस् ते
अवनौ यद् अनेन रक्षितायां वयम् अस्यां मूषिताः पतत्रिणापि ॥
अपयातु खगः सस् तेन कृत्यं न हि मे हारम् इह त्वम् एव याच्यः
न दिशन्ति किम् अत्र चोरलुप्तं बत षष्टांशभुजो वसुन्धरायाः ॥
पथि चेद् अवतिष्ठसे प्रणीते मनुना नाथ तद् अर्प्यतां स हारः
न नरेन्द्र भवादृशाः कदाचित् पदवीं न्यायविदां विलङ्घयन्ति ॥
निजम् अर्थयसे शिलीमुखं चेद् भवता यत्नवतापि किं न लभ्यः?
त्वम् अनागसि यच् छशिप्रभायाः प्रहरन् केलिमृगे कृतव्यालीकः ॥
अथ वा मृगयिष्यते न हारं विशिखं दास्यति चोरगेन्द्रकन्या
त्वयि नेत्रपथातिथित्वम् आप्ते सुलभो ऽस्या हि महाजनोपरोधः ॥
अतिदूरतो दृश्यते ऽयं त्वम् इवाभ्युन्नतिमानिनो नगेन्द्रः
वहति प्रणयोपरुद्धकूला कलहंसैर् अमुम् अन्तरेण रेवा ॥
अमृतेन्दुकलासहोदरास्याः सुतनुस् तीरतले ऽवतिष्ठते सा
उरसीव पयोधिराजकन्या वनमालाभरणे रथाङ्गपाणेः ॥
तद् इतः स्वयम् एव देव गत्वा पुलिनं सोमभुवस् तरङ्गवत्याः
खगलुप्तविभूषणं क्षितौ ते फणिराजेन्द्रसुतां विबोधयेहि ॥
इति तद्वचसा स्मरैकदूत प्रसवोल्लासवसन्तवासरेण
सो नृपः कम् अपि प्रमोदम् आपत् घनराजिध्वनिनेव नीलकण्ठः ॥
अवदच् च विहस्य पार्थिवेन्द्रः फणिराजेन्द्रसुताविलासिनीं ताम्
वचसोत्कयता मयूरशावान् नवजीमूतनिनादसोदरेण ॥
अपि नाम मृदूनि वेत्सि वक्तुं निपुनं न्यायम् अनुज्झती वचांसि
प्रसभं विहितास् त्वया यद् एते वयम् आत्मस्खलिते ऽपि सापराधाः ॥
इदम् ओम् इति गृह्यते वचस् ते सह मेधाविनि कस् त्वया विवादः
यद् इमा विशदोद्गमा गिरस् ते पथि सिद्धान्तसमीक्षिते चरन्ति ॥
तद् अनेन विनोदयाशु तावन् मम हारेण मनः शशिप्रभायाः
इह पल्वलसैकतेषु यावत् तदलङ्कारम् अवेक्षितुं यतिष्यते ॥
अथ हारम् अनादरेण कण्ठात् स्वयम् आकृष्य सः कृष्टचन्द्रशोभम्
विहसन्न् अरविन्दकोशताम्रे निददे पाणितले विलासवत्याः ॥
अपि कोशगृहोदरे दुरापं फणिनां भर्तुर् उपोढविस्मया सा
तम् उदञ्चितपक्ष्मणा मृगाक्षी लिखितेनैव ददर्श लोचनेन ॥
अवकृष्य सलीलम् उत्तरीयात् सितमेघाद् इव तारकावितानम्
उरसा स बभार हारम् ईशः स्तनपर्यङ्कशयं शशिप्रभायाः ॥
वदति स्म हसन् रमाङ्गदस् ताम् उरगस्त्रीम् अतह् भर्तुर् इङ्गितज्ञः
यदि कौतुकवत्य् अमत्सरस् ते तद् इतः किं चिद् इतो ऽवलोकयेति ॥
अथ हारलताविकृष्टदृष्टिः सहसा वारिविहङ्गमावलुप्तम्
उरगेन्द्रसुताविभूषणं तन् नृपतेर् वक्षसि पाटला ददर्शः ॥
दशनच्छदम् आत्तबिम्बशोभं स्नपयन्ती सुधयेव हासकान्त्या
अवदच् च वाचांसि पार्थिवं सा चतुरैवं परिहासपेशलानि ॥
अपहर्तुम् अगास् त्वम् एव हारं किम् इतः कल्पितराजहंसरूपः
विदितो ऽसि घना तवोरगाणां नगरे ऽस्त्य् एव हि कामरूपवार्ता ॥
परवञ्चनपण्डिता मतिस् ते यदि नैवं कथम् अन्यथा नरेन्द्र
इदम् आभरणं हरस्य् अरण्ये हरहासैकसितं शशिप्रभायाः ॥
अवनीवलये त्वम् आत्तदण्डः सहसे नाविनयांशम् इत्य् अवैमि
अथ च स्थितिम् आत्मना विधत्से विषये दस्युनिषेविते किम् एतत् ॥
72 क्षितिप स्मयसे किम् एष केलिर् न भवत्य् अर्पय हारम् अस्मदीयम्
नयवर्त्मजुषो भवादृशाः किं न परस्वग्रहणाद् इह त्रपन्ते ॥
अथवा परतो ऽस्तु नर्म नास्यां भुवि देवेन समो ऽस्ति पार्थिवो ऽन्यः
अपविद्धनया न यस्य दृष्टेर् अपसर्पन्त्य् अथ खेचराः किम् अन्ये ॥
अनयोः किम् अपि त्वया विलासिन् परिवर्तो ऽयम् अकारि हारयोर् यः
वचसाम् अवकाशम् ईश दत्ते स न कस्यानृजुचेतसो जनः? ॥
विहितो न हि वक्षसि त्वयायं नृप हारः फणिराजकन्यकायाः
किम् अपीप्सितम् आत्मनो विधातुर् विहितं सूत्रम् इदं मनोभवेन ॥
ननु याम्य् अमुना शशिप्रभायास् तव हारेण मनो विनोदयामि
त्वयि साप्य् अलम् एव सान्द्रचेतः सुतनुः स्नेहरसार्द्रताम् उपैतु ॥
उचितं निजसायकानुरोधाद् अहिराजेन्द्रसुतोपसर्पणं ते
परतो ऽस्तु शरस् त्वदर्थिता सा किम् उ न त्यागवशंवदा ददाति ॥
सरसो ऽस्य विमुञ्च तीरलेखाम् अनुरेवा पुलिनं गृहाण यात्राम्
उरगाधिपरूपपक्षपातं शमय व्यालवधूविलोचनानाम् ॥
इति वल्गु वचो निशम्य तस्याः स नृपः पन्नगवामलोचनायाः
स्थितम् अत्र वचस्य् अलङ्घनीये तव कल्याणि मयेति ताम् उवाच ॥
अथ सानृजुवादिनी विधाय क्षितिपालं पुरतश् चचाल बाला
हृदयेन पराममर्श चैवं विलसन्मांसलविस्मयो नरेन्द्रः ॥
अरण्यानी क्वेयं धृतकनसूत्रः क्व स मृगः क्व मुक्ताहारो ऽयं क्व च सः पतगः क्वेयम् अबला
क्व तत् कन्यारत्नं ललितम् अहिभर्तुः क्व च वयम् स्वम् आकूतं धाता किम् अपि निभृतं पल्लवयति ॥
अथ मदगजलीलाखेलगामी सः कृत्वा कनकविशिखयाच्ञाव्याजम् अव्याजकान्तः
अवनिहरिणलक्ष्मा साहसोपार्जितश्रीर् अहिपरिवृढकन्यालोकनाय प्रतस्थे ॥
मूल पाठ: Navasāhasāṅkacarita · Edition: Vamanasastri Islampurakara, Bombay : Govt. Central Book Depot (Bombay Sanskrit Series, 53) · Data entry Somadeva Vasudeva · GRETIL (Göttingen) · CC BY-NC-SA 4.0