नवसाहसाङ्कचरित · अध्याय 4
ततः सश् चेतस्य् अवनीपतिर् दधे शशिप्रभालोकमहोत्सवस्पृहाम्
उपोढरागाम् उदधिस् तटोदरे नवोद्गतां विद्रुमकन्दलीम् इव ॥
शशिप्रभाशानलिनीमृणालताम् उपागते मौक्तिकदाम्नि सादरः
तदागते दूत इव न्यवेशयत् स दर्शितप्रेमलवे विलोचने ॥
पुनः पुनः षट्पदराजिमेचकां तदिन्द्रनीलाक्षरपङ्क्तिम् ऐक्षत
स तत्क्षनान् मन्मथजातवेदसं तनीयसीं धूमलताम् इवोद्गताम् ॥
सुगन्धिहाराद् अनुलेपनं करे समुन्मिषत्स्वेदलवे विलुम्पति
असङ्गताया अपि दीर्घचक्षुषः पयोधरस्पृशम् इवाससाद स ॥
तदीयनामाङ्कलिपिं शनैः शनैः सलीलम् आवर्तयितुं प्रचक्रमे
परिस्फुरत्पल्लवपाटलाधरो रहस्यविद्याम् इव मन्मथस्य स ॥
अनेकरूपालिखनप्रगल्भया सुतीक्ष्णया वर्तिकयेव चिन्तया
सस् ताम् अनाप्तेक्षणसंस्तवां पुरा लिलेख चित्ते मुहुर् अन्यथान्यथा ॥
अनङ्गचण्डातपतप्तयोस् तदा शशिप्रभाविभ्रमदर्शनं प्रति
द्वयोर् अभूद् उत्सुकता वनान्तरे विलासिनस् तस्य च कैरवस्य च ॥
उदग्रदिग्वारणहस्तहारिणा स दक्षिणेन स्फुरता च बहुना
स्थिरीकृताशो मनासापि दुर्लभाम् अदुर्लभाम् इन्दुमुखीम् अमन्यत ॥
पुरो विमुञ्चन्नयने यदृच्छया नृपस् तमालद्रुमकाननोदरे
अपश्यद् अत्रवासरे विलासिनीं पयोधमध्ये शशिनः कलाम् इव ॥
अथैष दीर्घा दर्शनार्चिषः किरन् मुखामृतांशोः किरणच्छटा इव
निरीक्ष्य ताम् उन्मदहंसगामिनीं रमाङ्गदं सस्मितम् इत्य् अवोचत् ॥
शनैश् चरन्ती विपिने तव स्थिता नितम्बिनी कच्चिद् इयं दृशः पथि?
अधीरतां दक्षिणमातरिश्वना लतेव नीता मसृणेन माधवी ॥
युता सिताभैः सुमनोभिर् एतया परिश्लथेयं कबरी नियम्यते
उदस्तभास्वत्करकान्तया श्रिया दिनस्य ताराशबलेव शर्वरी ॥
असत्कवेर् वाग् इव वीतसौष्ठवं निवेशयन्ती पदम् अव्यवस्थया
असाव् अनेकस्खलितैः समाकुला विमुच्य मार्गं किम् इतः प्रतिष्ठते ॥
हठेन नेतुं वशताम् इवात्मनो मनोऽभिरामासु विलासभङ्गिषु
धृतांशुका ताभिर् इयं पदे पदे लताभिर् अम्भोजमुखी निरुद्ध्यते ॥
विचिन्वती किं चिद् इवेयम् आदराद् अपक्षमपातस्तिमिते विलोचने
गते ऽवतंसोत्पलपत्रबन्धुताम् इतस् ततः पद्मवने विमुञ्चति ॥
मृदु प्रयान्तीयम् अनिम्ननिम्नयोः सितांशुका काम् अपि कान्तिम् अश्नुते
जले कला इव प्रतिबिम्बितैन्दवी वनानिलोदञ्चदवाञ्चदूर्मिणि ॥
प्रसादम् अस्माकम् अरण्यदुर्लभैर् विधेहि सालक्तकपादताडनैः
असाव् अशोकैः क्षणम् आश्रितैः श्रमात् इतीव मत्तालिरुतेन याच्यते ॥
अभेदमूढस्तबकाभिर् आवृता लताभिर् ईषल् लुलितालिपङ्क्तिभिः
इयं पुरो मारुतनर्तितालका न लक्ष्यते व्यक्तम् अवामनस्तनी ॥
ऋजु क्वचित् क्वापि अनृजु प्रवर्तते क्वचित् स्खलत्य् उच्चशिलातले पथि
इयं शनैः शैलनदीव च क्वचित् विनम्रवानीरतलेन गच्छति ॥
स्थिते परिष्वज्य सरोजिनीम् इमां वने घने ऽस्मिन् कुसुमोन्मदालिनि
प्रयाति सासूयम् इयं कथंचन स्वहस्तसीमन्तितमार्गवीरुधि ॥
क्वचित् क्वचित् स्वेदलवोद्गमो मुखे समाहृतेयं कबरी यथा तथा
सयं च कम्पः कुचयोर् वधूर् इयं रतिश्रमव्याकुलितेव लक्ष्यते ॥
अनेन रूपातिशयेन लीलया विविक्तनेपथ्यपरिग्रहेण च
अरण्यसञ्चारपरा इयम् एकिका कुतूहलं मे हृदये निषिञ्चति ॥
असौ पराधीनतयास्पदीकृता न बालिका न प्रतिभासते न मम
अयं स्फुरत्काञ्चनपद्मसोदरः सचामरो ऽस्याः कथमन्यथा करः ॥
इयं किम् उ स्याद् वनदेवतागता ? गता धरां व्योमवधूर् इयं किम् उ ?
अवेक्षितुं हारम् इहेयम् आगता शशिप्रभावारविलासिनी किम् उ ? ॥
इतः सश् चित्राकृतिर् ईक्षतो मृगः सितच्छदादाप्तम् इतो विभूषणम्
इतश् च दृष्टेयम् इति स्प्रसूयते प्रसक्तम् आश्चर्यम् इयं वनस्थली ॥
इति प्रकृत्या मधुरोक्तिर् उक्तवान् तयायताक्ष्या ददृशे विशाम्पतिः
तमालपत्रापिहिते शिलातले कुमुद्वतीकान्त इवाम्बरे स्थितः ॥
ततस् तदालोकनकौतुकेन सा स्थिता निमेषोज्झितपक्ष्मलेक्षणम्
विनिद्रसत्केसरपङ्कजा बभौ वने निवातस्तिमितेव पद्मिनी ॥
अचिन्तयत् सेति च पाटलाधरः सितारविन्दच्छददीर्घलोचनः
मुखं सुधादीधितिसुन्दरं दधन् वने गतः को ऽयम् अनङ्गविभ्रमः ॥
व्यनक्ति कल्याणमयीयम् आकृतिर् महीयसीमस्य महानुभवताम्
असत्यम् एतासु रुचा वितन्वती लतासु कार्तस्वरपल्लवोद्गमम् ॥
भुजेन चित्राङ्गदरत्नशोभिना सतारहारेण भुजान्तरेण च
वदत्य् अयं मध्यमलोकपालतां परार्ध्यचूडामणिना च मौलिना ॥
अनातपत्रो ऽयम् अत्र लक्ष्यते सितातपत्रैर् इव सर्वतो वृतः
अचामरो ऽप्य् एष सतेव वीज्यते विलासवालव्यजनेन को ऽपि अयम् ॥
प्रिया इयम् आरूढगुणा सुवंशभूर् न चान्तिकं चापलतास्य मुञ्चति
इमे पृषत्का अपि पार्थिवश्रियो विलासकर्णोत्पलपल्लवा इव ॥
इतः शिलोत्सङ्गतले निषेदुषा दिवश्च्युतेनेव कुरङ्गलक्ष्मणा
अधस् तरुणाम् अमुना विनीयते क्षणं मृगव्योपनतः परिश्रमः ॥
अयं स न स्यान् नवसाहसाङ्क इत्य् अनङ्गलीलासु कृती भुवःपतिः
स येन मुक्तो निजनामलाञ्छितः शशिप्रभाकेलिकुरङ्गके शरः ॥
अयं स नो हार इवास्य दृश्यते करोदरे पल्लवपाटलत्विषि
इतः किम् एतस्य न सैकते सः किं सितच्छदो लोचनगोचरं गतः ॥
सुवर्णपुङ्खे लिखितं शिलीमुखे तद् अस्य नामास्ति समानम् आकृतेः
यद् अद्भुताम् एकपदे पृषत्कताम् अगाद् अनङ्गस्य शशिप्राभां प्रति ॥
अनेन चेद् योगम् उपैति दैवतः फनीन्द्रकन्या शशिनेव रोहिणी
अनल्पलावण्यतिरस्कृतोपमं वपुस् तद् अस्याः सफलत्वम् एष्यति ॥
विधातुम् एनाम् अहम् एव वा क्षमा मितोदरीम् अङ्कतले ऽस्य को विधिः
ममेदृशे यद्विषये विमत्सराः स्तुवन्ति सख्यो मसृणोक्तिसौष्ठवम् ॥
सहामुना किंचिदुपान्तवर्तिना वदत्य् असऊद्गतदन्तदीधितिः
कुतूहलाक्षिप्तनिमेषलास्यया विलोकयन् माम् इव दीर्घया दृशा ॥
अथाधिगन्तुं किल तस्य पत्रिणो गतिं वनान्ते कथम् अप्य् अलक्षिताम्
तम् अभ्यगात् सा नृपतिं सचामरा सरित् सफेना निधिम् अम्भसाम् इव ॥
समुच्चरन् नूपुरसिन्न्चितैः पदैर् यथा यथा संमुखम् आजगाम सा
तयायताक्ष्येव तथातथेरिता दृग् अस्य पश्चाद् अपसारम् आददे ॥
शनैस् ततस् तां सविधोपसर्पणीं निरीक्ष्य हारं पिदधे नराधिपः
निजोत्तरीयेण सितेन मारुतः शरद्धनेनेव शशाङ्कमण्डलम् ॥
पयोधरोत्सङ्गनिवासलालितं व्यधाद् इमं पन्नगराजकन्यका
इति प्ररोहद्बहुमानमन्थरो बभूव तस्मिन्न् अवनीपुरन्दरः ॥
अनल्पलावण्यविलासजन्मभूर् विचित्ररत्नद्युतिभास्वरोर्मिका
तमिद्धमुक्ताभरणं भुवःपतिं पयोधिवेलेव सुवेलम् आप सा ॥
अवाप देवः श्रियम् अन्तिकस्थया तया स वालव्यजनाङ्कहस्तया
निषेव्यमाणः स्फुटलक्ष्यदेहया नरेन्द्रलक्ष्म्येव यशःसमेतया ॥
विभिन्नचूर्णालकभक्ति कुर्वती विकीर्णचूडामणिचन्द्रिकं शिरः
अथानुभवेन निदेशितेव सा ननाम मानिन्यवशा विशांपतिम् ॥
दृशा नरेन्द्रेण निदेशिते स्वयं शिलातले नातिविदूरवर्तिनि
उपाविशत् सा रशनामणित्विषा निषिच्यमाने ऽमरचापशोभिनि ॥
तयातिदीर्घैर् दशनानुपातिभिर् विकृष्यमाणाम् इव भूषणांशुभिः
इति क्षितीशेङ्गितवर्त्मदीपिकाम् उदीरयाम् आस गिरं रमाङ्गदः ॥
अनेन विन्ध्याद्रिविहारजन्मना श्रमेण कामं भवती कदर्थिता
प्रसुप्तजूटाहिमुखानिलोष्मणा जटाविटङ्केन्दुकलेव शूलिनः ॥
अमी सरोजप्रतिमे मुखे मुहुस् तवातपाताम्रकपोलभित्तिनि
समुन्मिषन्ति श्रमवारिबिन्दवो नताङ्गि लावण्यसुधालवास् इव ॥
इतो ऽवतंसोत्पललास्यदेशिके निरन्तरं गन्धवहे वहत्य् अपि
न घूर्णते खिन्नललाटसङ्गिनी तवालकश्रेणिर् इयं मनाग् अपि ॥
अनेन पीनस्तनकम्पदायिना निरायतेनोद्वहता कदुष्णताम्
अथ प्रवालाद् अपि पाटलच्छविर् न दूयते निःश्वसितेन ते ऽधरः ॥
उदित्य पङ्क्त्या श्रमवारिविप्रुषां निरन्तराध्यासितरेखयानया
तवैष कण्ठः कुटजावदातया विलासमुक्तालततयेव भूष्यते ॥
इदं महच् चित्रम् अमानुषं त्वया विगाह्यते यद् वनम् अद्वितीयया
इमाः क्व विन्ध्यस्य भुवो ऽतिदुर्गमाः क्व राजवेश्माभरणं भवादृशी ॥
नवोद्गताशोकपलाशकान्तिना निकामनिर्यन्नखचन्द्रिकेण च
बिभर्षि कस्येदम् अनेन पाणिना वदावधूतेन्दुमरीचि चामरम् ॥
नृपस्य कस्यापि परिच्छदाङ्गना यदि त्वम् उच्चैर् विभवो हि को ऽपि स
मरुत्पतिर् मेनकयेव तन्वि यस् त्वयापि वालव्यजनेन वीज्यते ॥
अथ र्धिमत्या परवत्य् असि स्त्रिया कयापि कासौ जगदेकसुन्दरी
नतभ्रु यस्याः स्मरचापयष्टयो विधेयतां यान्ति भवद्विधा अपि ॥
परस्परस्पर्धि विलाससम्पदां त्रयं भवत्स्वामितया विकल्प्यते
मरुत्वतो वा रमणी रमाथ वा कलत्रम् अर्धेन्दुविभूषणस्य वा ? ॥
इयं परिभ्रान्तिर् अगेन्द्रकन्दरे सखीव ते शंसति कार्यगौरवम्
भवादृशः श्वापददूषिते ऽन्यथा चरन्त्य् अरण्ये किम् अधीननीतयः ॥
अनेन खेलन्मददन्तिना वद त्वम् आगता चण्डि कुतो दुरध्वना
विधाय विश्लेषविषादम् आवयोः स्वकार्यनिष्ठे कथय क्व यास्यसि ? ॥
इति साभिहिता मृगायताक्षी समुपोढप्रणयं यशोभटेन
सहसा न जगाद लज्जया नु श्रमतः किं तु नृपस् तु ताम् अवोचत् ॥
श्रान्तासि कौतुकहृतेन कदर्थितासि प्रश्नैर् अनेन विहितो न तवोपचारः
आतिथ्यम् एष कुरुते परम् अङ्गलेखा संवाहनैकचतुरो निचुलानिलस् ते ॥
एवं निसर्गमधुरेण सुधारसैक निष्यन्दिना फणिवधूर् अथ सा हसन्ती
चन्द्रांशुना कुमुदिनीव दिनोष्मतप्ता वीतक्लमा नरपतेर् वचसा बभूव ॥
मूल पाठ: Navasāhasāṅkacarita · Edition: Vamanasastri Islampurakara, Bombay : Govt. Central Book Depot (Bombay Sanskrit Series, 53) · Data entry Somadeva Vasudeva · GRETIL (Göttingen) · CC BY-NC-SA 4.0