नवसाहसाङ्कचरित · अध्याय 3
अथ बहु चरतो ऽस्य चापपाणेश् चकितवलन्मृगयूथवीक्षितस्य
वनभुवि सुलभः परिश्रमो ऽभून् न तु हरिणः स हृतेन्द्रचापशोभः ॥
धनुषि तनुभरं निधाय किंचित् तरुणतमालवने विनीतखेदः
मृगरुधिरकलङ्कितेन देवः समविषमेण पथा पुरः प्रतस्थे ॥
अथ स चटुलषट्पदोपगीतं वनगजदानसुगन्धिगन्धवाहम्
परिसरम् अभिनृत्तनीलकण्ठं न्यविशत विन्ध्यनगेन्द्रकन्दरस्य ॥
चटुलकृतकचग्रहः स गच्छन् वनलतया परिहासलोलयेव
नरपतिर् अवशः कृतः स कामं वियति मुखेन्दुम् उदञ्चयां चकार ॥
नमद् अवनिपतिः पतिः प्रजानाम् अयि! चपले नु विकृष्यते कचेषु
विरम मुहुर् इतीव मन्युगुञ्जद् ध्वनिभिर् असाव् अलिभिर् लताभ्यधायि ॥
कतिचिदलिनिपीतधूपगन्धान् अनतिविलम्बिपरार्ध्यमौलिरत्नान्
त्वरितम् अथ रमाङ्गदो ऽस्य केशान् विपिनलताविटपान्तराच् चकर्ष ॥
नृपतिर् अथ तदोन्मुखश् चरन्तं झटिति सितच्छदम् अम्बरे ददर्श
दधतम् अधिगतां कुतो ऽपि चञ्च्वा बिसलतिकाम् इव तारहारलेखाम् ॥
विकसितकुमुदच्छदावदाते ततनिभृते पततां तती दधानम्
विरचयितुम् उपायनं नृपेन्दोर् नवघटिते इव दन्तपत्रलेखे ॥
चितम् अतनु विसर्पता समन्तात् किरणलतानिकरेण हारयष्टेः
सितमणिमयसूचिनिर्मितस्य स्थितम् इव जङ्गमपञ्जरस्य मध्ये ॥
तरलमणिरुचावृतं प्रकृत्या विदलितविद्रुमकन्दकाञ्चितुण्डम्
प्रणयनिहितपादयावकाङ्कं कमलवनस्थितिलोलयेव लक्ष्म्या ॥
चरणयुगतले विभातकाल स्फुटितजपाकुसुमाभिताम्रभासि
स्वयम् इव नलिनीवनप्रसूतेः परिचयतः कृतकान्तिसंविभागम् ॥
प्रतिपदम् अतिदीर्घहारभारात् अवनमदुन्नमयन्तम् उत्तमाङ्गम्
शिरसि निपततो निकामम् उष्णान् अहिमरुचः किरणान् इवोत्क्षिपन्तम् ॥
विवृतमुखधृतस्य निष्पतद्भिस् तरलमणेर् अरुणस्य कान्तिलेशैः
अविरतम् अरविन्दवृन्दपीतान् मधुपृषतान् इव भूयसोद्वमन्तम् ॥
परिखचितम् अयत्नपूरिताशैर् अविरलमौक्तिकदामरश्मिजालैः
यश इव परभूतभृतां निरुद्ध्य प्रसभम् उपाहृतम् आत्मनो यशोभिः ॥
अभिनवबिसशङ्कयापहृत्य स्फटिकमयीम् असमक्षम् अक्षमालाम्
विहगम् इव विमानहंसपङ्क्तेर् विघटितम् एकतरं चतुर्मुखस्य ॥
च्युतम् इव सितचामरं मघोनेः श्रमजडवारविलासिनीकराग्रात्
अपहृतम् इव लोलपत्रजालं सुरसरितः पवनेन पुण्डरीकम् ॥
हरहसितसितं दिवापि कान्ति स्तबकम् इवापतितम् सुधाकरस्य
अपि पतितम् इवान्तरिक्षपीलोर् मघवदिभस्य विलासकर्णशङ्खम् ॥
स च परिणतलोध्रधूलिशुक्लस् तरलम् अवन्तिपतेश् चकार चेतः
किसलयम् इव बालचन्दनस्य स्तिमितगतिर् मलयाचलेन्द्रवातः ॥
अवदद् अथ विबुद्धपुण्डरीक प्रतिमम् उपान्तचरे निधाय चक्षुः
दशनमणिमयूखभिन्नवर्णां गिरिम् इति मालवराजपूर्णचन्द्रः ॥
सुरभिकुसुमचुम्बिनावनम्राम् अलिपटलेन लताम् इमां विना मे
खगम् अमुम् उपदर्शयेत् क एवं गगनरमापतिपाञ्चजन्यम् अन्यः ॥
स्मरवरकरिहस्तशीकराणाम् विदधति रुचयो नवहारमौक्तिकानाम्
विदधति रुचयो ऽस्य चन्न्चुकोटौ कवलितबालमृणालसूत्रलीलाम् ॥
अयि! कथय सितच्छदः क्व चायं वननलिनीपुलिनान्तबद्धवासः
अवनिपतिकलत्रकण्ठयोग्यः क्व च शशिबन्धुर् अनर्घ एष हारः ॥
वनभुविपतितः कुतो ऽयम् अस्यां कथम् अयम् अस्य मुखातिथित्वम् आप्तः?
गुरुविभवपदस्य कस्य वा स्याद् अयम् इति मे न परिच्छिनत्ति चेतः ॥
अयम् उचिततरः फणिस्त्रियो वा कुचकलशान्तरमर्त्ययोषितो वा ?
नियतम् उदधिम् उद्रम् ईदृशानि क्षितितलम् आभरणानि न स्पृशन्ति ॥
किम् अपरम् अनुगम्य एष हंसः श्रमजडपक्षतिरावयोर् वनान्ते
अयि! यद् अयम् अवामनस्य भूमिर् मुखधृतहारलतः कुतूहलस्य् ॥
इति विरतवचस्य् उदीर्य तस्मिन् कृतिनि नृपे परमारवंशकेतौ
स्फुरदधरविकीर्णदन्तकान्ति प्रसरम् इदं जगदे रमाङ्गदेन ॥
जडरुचिर् अपि रोचते न कस्मै कथम् अपि दीर्घगुणेन लब्धसङ्गः
नरवर यद् अनेन हारदाम्ना तव पतगः स्पृहणीय एष जातः ॥
उपवन इव सम्भवः कदाचिन् नृप घटते विपिने ऽपि हारयष्टेः
यद् असुरसुरनागराजकन्या इह विहरन्ति नगेन्द्रकन्दरेषु ॥
शकुनिर् अयम् इतो दिगन्तलग्नैर् अनुपममौक्तिकनिर्गतैर् मयूखैः
तव विरचयतीव सूत्रपातं सुकृतनिधान! भविष्यतः शुभस्य ॥
द्रुतम् अयम् अनुगम्यताम् इदानीम् अनुगमनेन यतो ऽस्य हारलाभः
फलम् अधिकम् अतो ऽपि नः कदाचित् किम् अपि भवेद् अयम् अस्य हेतुः ॥
तरुविटपलतान्तरेण गच्छन् भुवम् अभजन् बहुमुक्तमेघवर्त्मा
अयम् अतिगुरुहारभारजातां श्रमजडतामलम् आत्मनो व्यनक्ति ॥
नयनपथम् अयं यथा तवारात् त्वम् अपि तथास्य सितच्छदस्य यातः
अवनितलमृगाङ्क! यद् वनान्तश् चकितम् इवायम् इतस् ततः प्रयाति ॥
निचुलवनम् अतीत्य वर्तते ऽयम् पुरत इमाम् अयम् अब्जिनीम् उपेतः
नवजलधरशङ्कयेव शङ्के तरुणतमालवनादितो निवृत्तः ॥
किसलयकलिताञ्जलिं त्वरावान् अयम् उपसर्पति नीलसिन्दुवारम्
क्षणम् अयम् इह बालचूतमौलौ विचकिलमाल्यविलासम् आदधाति ॥
अयम् अभिनवकर्णिकारयष्टिं झटिति घनस्तबकस्तनीम् उपैति
अयम् अतिचपलो निसर्गरक्तां स्थलनलिनीम् अवधीर्य देव! यातः ॥
अयम् इह हि लताम् उपैति कौन्दीं कुसुमवतीं नवमाधवीं विलङ्घ्य
क्वणदलिवलयासु नासु तेन स्खलितम् इतः सहकारमञ्जरीषु ॥
अभिसरति वनस्थलीम् इवैतां मदनवतीमयमूढकामिलीलः
स्फुरदतनुशिलीमुखस्य चाग्रे विचरति कर्णे इवायम् अर्जुनस्य ॥
श्रमम् अपहरतस् तनूर्मिवातैर् अयम् अतिथिर् वनपल्वलस्य जातः
तरुततिषु तिरोहितो ऽयम् एतास्व् अयम् अरविन्दवनाद् इवोज्जिहीते ॥
कुरबकवनतः कदम्बराजिं व्रजति ततो मुचकुन्दकाननानि
इति नगम् अवगाहते सहारस् त्वम् इव ध्र्तक्लम एष राजहंसः ॥
कुरु विजयम् इतो ममार्प्य एतद् धनुर् अधुना ससुवर्णपुङ्खबाणम्
यद् अयम् इतगतिर् गतो ऽतिदूरं जलपतगः सह नः कुतूहलेन ॥
इति कथयति चापम् अर्पयित्वा समम् इषुभिः स रमाङ्गदे नरेन्द्रस्
पतगम् अनु तम् आत्तहारं हरति न कं नववस्तुसंप्रयोगः ॥
ऋजु तम् अथ विहायसा व्रजन्तम् रभसवशाद् अनुगच्छतो नृपस्य
समजनि भृशम् आयतो ऽस्य पन्थास् तरुविटपावटवर्जनेन वक्रः ॥
नृपतिर् अनुययौ वने विहङ्गं नृपतिम् अभि प्रणयी रमाङ्गदो ऽपि
श्रुतम् इव विशदं शुचिर् विवेकः कृतिनि विवेकम् इवान्तरः प्रसादः ॥
अथ कमलसरस्तरङ्गदोला चलयविलोलरथाङ्गनामयुग्मम्
मदकलकलहंसनादकृष्टः श्रमविवेशः सः सितच्छदः प्रपेदे ॥
विलुलितकबरीकलापमाल्या मृदुनवशैवलमेखला वहन्त्यः
रतिरणम् अवसाय यत्र नित्यं सह रमणैर् अमराङ्गना रमन्ते ॥
सलिलगतधियाथ तेन दूरात् स गुरुर् अमुच्यत निःसहेन हारः
जडहृतहृदयाः कियच् चिरं वा गुणमहताम् इह भारम् उद्वहन्ति ॥
स च विततमरीचिचञ्चुलेखो विगलितहारलतामिषेण हंसः
परिणतबिसकाण्डभङ्गपीतं पय इव विस्तृतधारम् उज्जगार ॥
अथ कनकमृणालिकायुगस्य द्युतिनिचयेन चितं विसर्पताधः
अशिशिरमहसो विसारिणा खे वलयितम् अंशुलताकदम्बकेन ॥
तटभुवि तम् अपश्यद् आपतन्तं पतिर् अवने रवतंसितायताक्षः
सितम् अभिनवहेमदण्डशोभि स्फटिकशलाकम् इवातपत्रम् ऐन्द्रम् ॥
सरसि धवलिते ततः समन्ताद् अमृतमरीचिरुचेव तस्य कान्त्या
व्यधित बलवती वियोगपीडा पदम् अपदे हृदयेषु चक्रनाम्नाम् ॥
अतिविततगुणैकधाम्नि तस्मिन् विधुरम् अधःपतिते विशुद्धिभाजि
कथम् अपि वसुधाधिपः प्रमोदं झटिति जगाम गुणिष्व् अमत्सरो हि ॥
अथ नभसि पिशङ्गसान्ध्यराग च्छुरित इवाम्बरनिम्नगातरङ्गम्
कियद् अपि सरसस् तटे स गत्वा कमलरजःकपिशे ददर्श हारम् ॥
स च सपदि रमाङ्गदोपनीतं कनकसरोरुहकान्तिना करेण
निजयश इव मूर्तम् आददे तं भुवनतलाभयदानदीक्षितेन ॥
सुजनम् इव गुणैर् उपोढशोभं शुचितरबालमृणालसूत्रदीर्घैः
अहमहमिकया कृतप्रवेशं तरणिकरग्लपितैर् इवेन्दुपादैः ॥
दधतम् अरुणम् अङ्गरागशेषं क्वचिद् अपि यष्टिषु तारमौक्तिकासु
घटितम् इव नवातपेन किंचिद् बहुनवया शशलक्ष्मणस् त्विषा च ॥
अतिविततरुचिं वहन्तम् अन्तस् तरलमणिं तरुणेन्द्रगोपश्र्भम्
अविरलम् असकृन्निवासलग्नं ललितवधूहृदयाद् इवानुरागम् ॥
कतिचिद् अपि लतान्तरे दधानं मृगमदलिप्ततलानि मौक्तिकानि
शबलजललवैर् इवात्तजन्मान्य् अयम् अरनदीयमुनातिथेर् घनस्य ॥
अनुगुणपदवीविनिर्गतासु प्रतिलतम् आयतमौक्तिकप्रभासु
रजनिकरमरीचिसूचिदीर्घैर् बहुभिर् इव ग्रथितं मृणालसूत्रैः ॥
अतिदृढम् अनुरक्तया वितीर्णं मुखरमहोदधिमेखलां वहन्त्या
उरसि निहितबन्धुजीवम् उर्व्या विचकिलमाल्यम् इव स्वयंवराय ॥
अरुचद् अथ करे स तस्य बिभ्रद् युवतिरदच्छदकान्तिमध्यरत्नम्
किम् अपि मनसिजेन शासनाङ्कः प्रहितनिजायुधचित्रपुष्पमुद्रः ॥
शशिकररुचा स तेन रेजे मृदुकरपुष्करवर्तिना नरेन्द्रः
अमरपुरधुनीसमुद्धृतेन त्रिदशकरीव मृणालकन्दलेन ॥
उरसि नरपतेः पतंश् चकाशे कनकशिलाविपुले तदंशुपूरः
अखिलभुवनकोशराजलक्ष्म्या निहित इवाधिकम् उत्क्या कटाक्षः ॥
विकृतिर् उदधिशुक्तिएषु च्युतानां ध्रुवम् इयम् इन्दुकलासुधालवानाम्
जलदजलकणोद्भवेषु कामं निवसति कान्तिर् इयं न मौक्तिकेषु ॥
न किम् अयम् उडुमण्डलापवादः कुमुदवनानि पुरो ऽस्य न त्रपन्ते
कथम् अयम् अवधिर् न मुक्तिभाजाम् इति तम् अवेक्ष्य स चिन्तयां चकार ॥
स्फुरदुदरनिवेशितेन्द्रनीलां मदजलराजिम् इव स्मरद्विपस्य
अवनिपतिर् अपश्यद् अक्षराणां ततिम् अथ हारमृणालिकान्तराले ॥
अभिनवलिखिताम् इव प्रशतिं मदनमहानृपतेः स पार्थिवेन्द्रः
इति निबिडकुतूहलाकुलस् तां ललितपदाभरणाम् अवाचयच् च ॥
``मनसिजवरवीरवैजन्त्यास् त्रिभुवनदुर्लभविभ्रमैकभूमेः
कुचमुकुलविचित्रपत्रवल्ली परिचित एष सदा शशिप्रभायाःऽऽ ॥
किम् उ विपुलम् इमं मनुष्यलोकं पुरम् उत पर्वतपक्षशातनस्य
किम् उ युवतिर् इयं भुजङ्गभर्तुर् भुवनम् अलङ्कुरुते शशिप्रभेति ॥
वदति शशिमुखीम् इतस् न दूरे तरुणविलेपनभिन्न एष हारः
सरितम् इव वनान्तरे समीरः स्फुतितसरोरुहरेणुना पिशङ्गः ॥
कुसुमशरसखस्य कस्य चित् किं समजनि नाकतलाधिदेवतेयम्
उत मुकुलितमन्मथावतारे पथि विचरे ऽधिनाककन्यकानाम् ॥
अपि कृतनयनोत्सवेन तन्वी तरुणसुधामधुरेण दर्शनेन
मुदम् उपजनेद् वने किम् एषा ? मम शरदिन्दुकलेव कैरवस्य ॥
इति कियद् अपि यावद् एव चिन्ता वशम् अगमत् स मनुष्यलोकपालः
धनुर् अपि निचुलं विधाय तावत् कुसुमशरो ऽस्य बभूव पार्श्ववर्ती ॥
अथ सम्भ्रमाद् अनुचरेण निहिततमालपल्लवे
आस्त तरुकुसुमसंवलिते सरसः सः सैकतशिलातले नृपः ॥
आलक्ष्य स्तनसख्यलक्ष्मणि ततस् तस्मिन् कुरङ्गीदृशो मुक्तादाम्नि करोदरप्रणयिताम् आप्ते तुषारत्विषि
विस्मृत्या सहसा हृतं चतुरया क्रोडीकृतं चिन्तया चेतः श्रीनवसाहसाङ्कनृपतेर् उत्कण्ठयाकृष्यत ॥
मूल पाठ: Navasāhasāṅkacarita · Edition: Vamanasastri Islampurakara, Bombay : Govt. Central Book Depot (Bombay Sanskrit Series, 53) · Data entry Somadeva Vasudeva · GRETIL (Göttingen) · CC BY-NC-SA 4.0