भाषा

ENहिગુ
ग्रंथ पाठ

नवसाहसाङ्कचरित · अध्याय 2

2.1

कदा चिल् लोचनातिथ्यम् आप्तेनालेख्यवेश्मनि
स मृगव्याविनोदेन पस्पृशे पार्थिवो भृशम् ॥

2.2

उदग्रतुरगारूढः स समं राजसूनुभिः
गिरेर् अगच्छद् विपिनम् विन्ध्यस्यावन्ध्यशसनः ॥

2.3

हारेणामलकस्थूल मुक्तेनामुक्तकुन्तलः
फणीन्द्रबद्धजूटस्य श्रियम् आप स धूर्जटेः ॥

2.4

देवः स वारबाणेन नलिनीपत्रबन्धुना
श्यामजीमूतसन्नद्धः काञ्चनाद्रिर् इवाबभौ ॥

2.5

तस्योपरि विभो नीलम् आतपत्रं व्यराजत
वारिधेर् इव पीताम्भश् श्यामलं मेघमण्डलम् ॥

2.6

व्याधूतिमुक्तमरुता व्यरुचच् चामरेण सः
बन्दिगृहान् निःश्वसता यशसेवादिभूभुजाम् ॥

2.7

व्यधाद् इवोद्गतैर् दूरं चूडारत्नरश्मिभिः
निशाकरकुरङ्गस्य पाशम् आकाशवर्त्मनि ॥

2.8

तस्यांसयोर् नृसिंहस्य हारकान्तिसटाभरः
उवाह कण्ठलग्नश्री विलासहसितश्रियम् ॥

2.9

पुरः पदे पदे तस्य नानारत्नाङ्गदत्विषः
रचयन्ति स्म सञ्चारि चापं प्राचीनबर्हिषः ॥

2.10

भाति स्म कण्ठाभरण पद्मरागप्रभावृतः
राजन्यास्रसरःस्नातः स भार्गव इवापरः ॥

2.11

रुरुचे स पुरस्त्वङ्गत् सितच्छत्रपरम्परः
वेलानिलसमुद्धूत फेणः पतिर् इवार्णसाम् ॥

2.12

उपायनीकृतोन्निद्र पद्मकिञ्जल्कसौरभः
तम् असेवत सम्राजं विन्ध्यदूत इवानिलः ॥

2.13

तदश्वीयखुरोत्खातैः पांसुकूटैर् अजायत
पुनः प्रसभवर्धिष्णु विन्ध्यशङ्काकुलं जगत् ॥

2.14

सहेमशृङ्खलाः श्वानः श्वेतास् तस्याग्रतो ययुः
वहन्तः सतडिद्दाम शारदाम्बुधरश्रियम् ॥

2.15

ततस् तुरगहेषाभिः पत्तिकोलाहलेन च
अजायन्त भयोद्भ्रान्त श्वापदा विन्ध्यभूमयः ॥

2.16

रभसाकृष्टकोदण्डं कर्णपूरीकृतेक्षणाः
तम् अनङ्गम् इवापश्यन् वनान्ते वनदेवताः ॥

2.17

मयि गोप्तरि चोरो ऽयम् अबलालोचनश्रियः
इतीव मुमुचे तेन कृष्णसारे शिलीमुखः ॥

2.18

स चित्रवर्णविच्छित्ति हारिणोर् अवनीपतिः
श्रीहर्ष इव संघट्टं चक्रे बाणमयूरयोः ॥

2.19

चमरीणां शरोत्कृत्तैः स वालधिभिर् उज्ज्वलम्
परितो व्यधितारण्यं स्वयशःस्तबकैर् इव ॥

2.20

आहुत इव साटोपं लाङ्गूलस्फोटनिःस्वनैः
अभ्यधावद् अभिव्याघ्रान् आग्रतः कौतुकेन स ॥

2.21

विधित्सुर् आत्मनः शौर्यम् असामान्यम् इवादधे
स शरान् पुण्डरीकेषु पुण्डरीकायतेक्षणः ॥

2.22

तैस् तस्य बाहुवीर्येण दृष्टेन व्रीडितैर् इव
तत्यजे विक्रमस्पर्धा पुरः पश्चात् तु जीवितम् ॥

2.23

क्षितेर् एकातपत्रायाः स पतिर् मत्सराद् इव
उदग्रपुण्डरीकत्वं न सेहे विन्ध्यभूभृतः ॥

2.24

अरण्यमहिषैर् दूरं तस्मात् सायकवर्षिणः
अपसस्रे विकीर्णांशोस् तमोभिर् इव भास्वतः ॥

2.25

महामहिषनिष्पेषकेलिः पारम् अगाद् द्वयोः
राज्ञस् तस्यातिचण्डस्य चण्डिकाचरणस्य च ॥

2.26

शरदीव प्रसर्पन्त्यां तस्य कोदण्डटाङ्कृतौ
विनिद्रजृम्भितहरिर् विन्ध्योदधिर् अजायत ॥

2.27

अशेषभुवनख्यात विक्रमे ऽव्यक्तविक्रमैः
दर्पान् मुमुचिरे तस्मिन् तिर्यक्केसरिभिर् दृशः ॥

2.28

स तेषां सहजोदग्र शौर्यसञ्चारवीथिषु
मत्तेभमौक्तिकोत्तंसान् न सेहे नखशुक्तिषु ॥

2.29

यूथे महावराहाणां गते तद्बाणगोचरम्
चिरात् पल्वलमुस्तानां सन्तानः स्वस्तिमान् अभूत् ॥

2.30

समदक्रोडदंष्ट्राभिः कृत्ताभिः कौतुकेन स
स्थलीर् व्यधित विन्ध्यस्य विकीर्णेन्दुकला इव ॥

2.31

असैरिभम् असारङ्गम् अवाराहम् अकेसरि
क्षणाद् वनम् अशार्दूलम् आत्तचापश् चकार स ॥

2.32

अलं प्रहृत्य भूपाल सत्त्वेष्व् अनपराधिषु
इतीव सः खगारावैर् न्यषेधि वनराजिभिः ॥

2.33

असेवन्त समीरास् तम् अनस्तमृगयाश्रमम्
सुरतश्रान्तशबरी कबरीमाल्यचुम्बिनः ॥

2.34

अथेन्द्रचापललितं सञ्चरन्तम् इतस् ततः
अमन्दमृगयासङ्गः सः कुरङ्गम् अलोकत ॥

2.35

सो ऽपि तं वलितग्रीवः क्षणं स्थित्वा ददर्श च
निरन्तरलतापुञ्जं विन्ध्यकुञ्जं विवेश च ॥

2.36

ततस् तुरगम् उत्सृज्य विसृज्यानुप्लवान् अपि
तम् अन्वियाय सारङ्गं सारङ्गायतलोचनः ॥

2.37

देवो रमाङ्गदेनाथ सः श्रियेवान्वगम्यत
छाया निवर्तते जातु न तु तस्यैष भूपतेः ॥

2.38

मृगानुसारी विचरन्न् आत्तचापो वने वने
लीलां किरातवेषस्य सः प्रपेदे पिनाकिनः ॥

2.39

दूराद् एव स तेनाथ शरव्यत्वम् अनीयत
स्वनामधेयस्य चिह्नस्य हेमपुङ्खस्य पत्रिणः ॥

2.40

शिलाभेदक्षमेनापि किम् अपि श्लथमुष्टिना
अभूद् विद्धः सः सारङ्गस् तेन त्वचि च मर्मणि ॥

2.41

सः शरापातभीतेन मनसो ऽप्य् अतिरंहसा
अतिदूरं कुरङ्गेण निन्ये राम इवापरः ॥

2.42

तेन विन्ध्याटवीमध्ये धावन् नीरन्ध्रवीरुधि
उत्पतन्न् उत्पतन्न् एव स केवलम् अलक्ष्यत ॥

2.43

दृशा वनस्थलीः कुर्वन् विकीर्णेन्दीवरा इव
जवाद् दूरम् अतिक्रान्तं तं क्षितीशस् तदैक्षत ॥

2.44

ततस् तिरोहिते तस्मिन्न् असमाप्तकुतूहलः
स्वबाण इव स प्राप पृथिवीं दुर्विलक्षताम् ॥

2.45

दशनज्योत्स्नया कुर्वन् लताः स्तबकिता इव
इति पार्श्वगतं स्मित्वा स जगाद रमाङ्गदम् ॥

2.46

अयं तुलितपौलोमी कान्तकामुकविग्रहः
मृगो दृग्गोचरं कच्चित् गतस् तव रमाङ्गद! ॥

2.47

तद्वधूस्वकरन्यस्त चित्रपत्रलताङ्कितः
असौ विहारहरिणः किं स्याद् अनलसारथेः ॥

2.48

अपि दृष्टा त्वयैतस्य कण्ठे कनकशृङ्खला?
छुरितस्येन्द्रचापेन मेघस्येव तडिल्लता ॥

2.49

मृगजातिर् अपूर्वेयं सर्वथा वसुधातले
सम्भवत्य् अमराद्रौ वा भुवने वा फणाभृताम् ॥

2.50

अस्याखण्डलकोदण्ड कान्ति चर्मातिपावनम्
गजपृष्ठे निधास्यामि महासमरपर्वसु ॥

2.51

यन् निमज्जति मच्चेतः कुतूहलरसोर्मिषु
मार्गम् अन्वेष्टुम् एतस्य तद् एहि प्रयतावहे ॥

2.52

इत्य् उक्त्वा विरते तस्मिन् परमारमहीभृति
ऊचे रमाङ्गदेनैवम् अवाप्यावसरं वचः ॥

2.53

क्रुधेवाधिज्यचापेन वर्णसङ्करदर्शिना
त्वयैष चित्रसारङ्गो देव दूरम् अनुद्रुत ॥

2.54

अशून्याः सुरगन्धर्व सिद्धविद्याधरोरगैः
इमा नवनवाश्चर्य निधयो विन्ध्यभूमयः ॥

2.55

विरमात्यादरः को ऽयं कुरङ्गान्वेषणे तव
न धावन्त्य् अर्थरिक्तासु क्रियासु त्वादृशां धियः ॥

2.56

मृगयासक्तचित्तस्य तवात्र विचरिष्यतः
पथि लोचनयोर् एष पुनो ऽप्य् आपतिष्यति ॥

2.57

शरः संह्रियताम् एष धनुर् अप्य् अवतार्यताम्
शेषा च स्वस्तिमत्य् अस्तु देव श्वापदसन्ततिः ॥

2.58

दशा दिनस्य तीव्रेयं यद् अयं भगवान् रविः
कृष्णस्योरसि पुष्णाति नभसः कौस्तुभश्रियम् ॥

2.59

निहतेषु त्वया देव सत्त्वेषु व्यथिता इव
एता वहन्ति सन्तापम् अतीवारण्यभूमयः ॥

2.60

अमीभिर् बालवानीर विटपेष्व् अगतक्लमैः
कपिञ्जलैर् इतः पश्य सहसैव निलीयते ॥

2.61

अर्कांशुग्लपितैर् एभिर् इतो ऽप्य् आलिखितैर् इव
राजजम्बूनिकुञ्जेषु पश्य पुंस्कोकिलैः स्थितम् ॥

2.62

आह्लादहेतुः स्निग्धेयम् इतो वन्येन दन्तिना
पश्य नीपतरोश् छाया सवशेन निषेव्यते ॥

2.63

नवाम्बुधरनीलो ऽयं दावधूमलतोद्गमः
नीलकण्ठैर् इतस् तर्षात् सोत्कण्ठैर् अवलोक्यते ॥

2.64

अनया विद्रुमस्तम्ब भङ्गपिङ्गलया दृशा
इतः पल्वलपङ्कान्तो व्यक्तिम् अभ्येति सैरिभः ॥

2.65

कठोरातपतप्तस्य राजहंसस्य सम्प्रति
नरेन्द्र नलिनीपत्रम् आतपत्रीभवत्य् अदः ॥

2.66

मुखम् अश्वरजछन्न कपोलफलकद्युति
देव दन्तुरयन्त्य् एते तवापि स्वेदबिन्दवः ॥

2.67

तद् अत्र कुसुमस्मेरे निःस्वनत्समदालिनि
विनीयतां लताकुञ्जे त्वयैष मृगयाश्रमः ॥

2.68

अपि स्वच्छजला देव कलहंसाङ्कसैकता
वराहोत्खातमृत्स्नेयं पुरः पुष्करिणी तव ॥

2.69

त्वाम् इवार्ककरक्लान्तम् आकारयितुम् एतया
अयम् आधूतकह्लार कलिकः प्रेषितो ऽनिलः ॥

2.70

लतापुष्पोत्करैः कीर्णो मार्गो ऽयम् अवगाह्यताम्
इतो वन्येभमुक्ताभिर् इमाः शर्करिला भुवः ॥

2.71

इत्य् उक्ते मसृणं तेन नृपस्य पदम् आदधे
स्मितं सरस्वतीरत्न पर्यङ्के दन्तवाससि ॥

2.72

यशोभटोपदिष्टेन गत्वा किञ्चिद् इवाध्वना
प्राप पुष्करिणीतीरम् अवन्तितिलको ऽथ सः ॥

2.73

कराद् अनुचरस् तस्य सान्द्रस्वेदजलाङ्गुलेः
मधुर् मनोभवस्येव सशरं चापम् आददे ॥

2.74

ततः स्नानेच्छया स्पृष्टो विसृष्टश्यामकञ्चुकः
स रेजे मेघनिर्मुक्तः पर्याप्त इव चन्द्रमः ॥

2.75

प्रमृष्तमृगयारेणु तन्मुखं पार्श्ववर्तिना
रुरुचे मारुताक्षिप्त परागम् इव पङ्कजम् ॥

2.76

निसर्गललिता तस्य विमुक्तालङ्कृतिस् तनुः
लतेव पारिजातस्य पर्यस्तस्तबकाभवत् ॥

2.77

स्वेदनुन्नाङ्गवर्णस्य सरसीम् अवगाहतः
वन्यस्येवाभवत् तस्य श्रीः पर्यन्तविसर्पिणी ॥

2.78

स तस्यां दूरविक्षिप्त विहगश्रेणिमेखलः
विजहार यथाकामं विलासकुसुमायुधः ॥

2.79

उवाह विस्फुरन्नाल कण्टकच्छद्मनापि सा
तदङ्गयष्टिस्पर्शेन रोमञ्चम् इव पद्मिनी ॥

2.80

ततस् तरङ्गनिर्धौतम् अध्यास्य स शिलातलम्
यशःस्नपितदिक्सीमा देवः सस्नौ यथाविधि ॥

2.81

तस्या-विरलमत्तालि निःस्वनच्छद्मना वने
अगीयतेव देवस्य लताभिः स्नानकौतुकम् ॥

2.82

सो दूरोदस्तपर्यस्त सपुष्पसलिलाञ्जलिः
जगत्तमोऽपहं ज्योतिस् त्रयीमयम् उपस्थितः ॥

2.83

तम् आनर्च स राजेन्दुर् मौलौ यस्येन्दुलेखया
क्रियते स्वर्धुनीबाल मृणालशकलभ्रमः ॥

2.84

धन्या हि ता वनलता यत्फलान्य् अजहार स
कार्यतः सदृशी तासां समुद्ररशना मही ॥

2.85

निपीय निखिलव्यक्त राजचिह्नेन पाणिना
उपास्पृशत् स चाम्भोज किञ्जल्ककपिशं पयः ॥

2.86

नीलातपत्रमित्रेण पत्रेणाम्बुजिनीभुवा
निवारितोष्णः सश्रीकं लताकुञ्जं जगाम स ॥

2.87

सपरागे विशश्राम कुसुमप्रस्तरे च स
लक्ष्मीकुचाङ्गरागेण भिन्ने शेष इवाच्युतः ॥

2.88

रमाङ्गदो ऽपि निर्वर्त्य त्वरया किं चिद् आह्निकम्
अवाप्तसेवावसरः पर्युपास्त विशाम्पतिम् ॥

2.89

सो भृङ्गध्वनिना सुप्तो विपञ्चीनादबन्धुना
तमालपल्लवैस् तेन किं चित् किं चिद् अवीज्यत ॥

2.90

निद्रागृहीतनिर्मुक्त लोचनो ऽथ जहार स
घनछायावृतव्यक्त भास्वतो नभसः श्रियम् ॥

2.91

पीनांसतटसंश्लिष्ट पुष्पकेसरशोभिना
उषःसाकल्पकेनेव शयनीयम् अमुच्यते ॥

2.92

चकार च पदं चित्रः स मृगस् तस्य चेतसि
लग्नं हि किम् अपि क्वापि कृच्छ्राद् आकृष्यते मनः ॥

2.93

प्रसादहृद्यालङ्कारैस् तेन मूर्तिर् अभूष्यत
अत्युज्ज्वलैः कवीन्द्रेण कालिदासेन वाग् इव ॥

2.94

जगाहे स महारण्यम् अंसासक्तधनुर्लतः
उपोढशशभृल्लेखः सायम् अब्धिम् इवार्यमा ॥

2.95

तस्मिन् कुसुमकिर्मीर तले च विचचार स
स्फुरन्नक्षत्रशबले नभसीव निशाकरः ॥

2.96

मृगानुगमनिर्बन्धो न जगामास्य मन्दताम्
मैथिलीरमणस्येव विपिने पृथिवीपतेः ॥

2.97

ततः पपात जलधौ विरोचनफणामणिः
दिनाहेर् नीयमानस्य बलात्कारगरुत्मता ॥

2.98

शनैः शनैर् अथ व्योम्नि मृगाङ्कः पदम् आदधे
सशङ्क इव भूपालान् मृगयासक्तचेतसः ॥

2.99

रमाङ्गदास्तृतस्निग्ध पल्लवप्रस्तरे ततः
वने राजेन्दुना निन्ये तेनेन्दुतिलका निशा ॥

2.100

अथ मुखरखगापनीतनिद्रः क्वचिद् अपि पद्मसरस्य् उपास्य सन्ध्याम्
पुनो ऽपि तम् अवेक्षितुं निशान्ते नृपतिर् इयेष्ट मृगं मृगेन्द्रकल्पः ॥

2.101

पञ्चैकेन स्मर इव शरान् पाणिना हेमपुङ्खान् अन्येनोर्वीविजयि च धनुः साहसाङ्कं दधानः
देवः स अथ व्यवहरद् अरिषु न्यस्तपादः पिकाली नीडन्यञ्चन्निचुलनिचयश्यामलासु स्थलीषु ॥

मूल पाठ: Navasāhasāṅkacarita · Edition: Vamanasastri Islampurakara, Bombay : Govt. Central Book Depot (Bombay Sanskrit Series, 53) · Data entry Somadeva Vasudeva · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc