भाषा

ENहिગુ
ग्रंथ पाठ

नवसाहसाङ्कचरित · अध्याय 18

18.1

तं विष्टपत्रितयकण्टकदृष्टसारम् अभ्यागतं नृपतिम् उद्गतगाढहर्षः
प्रत्युद्ययाव् अधिपतिः फणिनाम् अनर्घ रत्नार्घपाणिरशनैर् अथ शङ्खपालः ॥

18.2

आदाय सादरफणीश्वरदत्तम् अर्घ्यम् अर्घ्यः सतां स बहिर् एव निवेश्य सैन्यम्
देवो ऽविशद् विनयवान् पुरम् अग्रयायि विद्याधराधिपरमाङ्गदरत्नचूडः ॥

18.3

उत्सृज्य गीतम् असमाप्य विलासलास्यम् अङ्काद् अपास्य सहसा मणिवल्लकीं च
अत्युन्मनास् तदवलोकनकौतुकेन वातायनान्य् अधिरुरोह पुरन्ध्रिलोकः ॥

18.4

उत्क्षिप्य वेपथुमता करपल्लवेन वातायनाग्रमणिमौक्तिकलाजकानि
स्मित्वैकया स विलसन् मकरावचूल लीलालवाञ्चितविलोचनम् आलुलोके ॥

18.5

उद्यद्विवृत्तकरवेणिकया नृपेन्दौ तस्मिन् स्मरोल्लसितजृम्भिकया कया चित्
मुक्ता मुहुर् विबुधसिन्धुकलिन्दकन्या किर्मीरवारिलहरीसुहृदः कटाक्षाः ॥

18.6

वाचालरत्नवलया सविलासम् अस्मिन् निक्षिप्य कापि नवमौक्तिकलाजमुष्टिम्
तत्ताडितांसतटपार्थिवदत्तदृष्टिर् दीर्घेक्षणा किम् इव न त्रपया चकार ॥

18.7

वक्षो दधानम् अमराद्रिशिलाविशालम् आजानुबाहुम् अवलोक्य नरेन्द्रचन्द्रम्
चित्तोपनीतपरिरम्भसुखातिसान्द्रम् अन्या पयोधरभरे पुलकं बभार ॥

18.8

आलोक्य दर्पणतले प्रतिमागतं तम् `आत्तो मयैषऽ इति कापि कृतोत्सवाभूत्
मुग्धा गते ऽथ पुरतो ऽत्र तदीयबिम्बे शून्यात्मदर्शविधुरेन्दुमुखी बभूव ॥

18.9

इत्य् आपतन् मदनबाणपरम्पराणाम् उन्मीलिताङ्गवलनश्लथमेखलानाम्
एणीदृशां विचरति स्म स राजहंसः पारोल्लसन्नवरसोर्मिषु मानसेषु ॥

18.10

सङ्गीतवेश्मनि फणीश्वरचारणानां गीतेष्व् अजस्रम् इह शुश्रुम यद् यशांसि
यातः स एव नयनातिथिताम् अयं नः पुण्यैर् अहो बत नृपो नवसाहसाङ्कः ॥

18.11

कान्तिछटाछुरितदिक्तट एष देवो जीयाज्जगन्ति परमारकुलप्रदीपः
उन्मूल्य संप्रति सुरारितमः समूलं येनाहिविष्टपतले विहितः प्रकाशः ॥

18.12

हन्तैष पन्नगपतेर् अतुलप्रतिज्ञा प्राग्भारसागरसमुत्तरणैकपोतः
उत्पाकम् एष च फलं फणिराजकन्या चित्ते चिरं कृतपदस्य मनोरथस्य ॥

18.13

एतद् यशोभटकरे कनकाम्बुजं तल् लीलावतंसम् अचिराद् विरचय्य येन
प्रत्युप्तकल्पतरुपल्लवम् एष पाणिम् आदास्यते नृपतिर् अद्य शशिप्रभायाः ॥

18.14

सान्द्रानुरागपिशुनाः परशुः परेषाम् आकर्णयन्न् इति सः पौरजनस्य वाचः
श्रीहाटकेश्वर इति प्रथितस्य तुङ्गम् अग्रे ददर्श मणिमन्दिरम् इन्दुमौलेः ॥

18.15

तत्र प्रविश्य सकृतानतिर् आदिदेवम् आनर्च कल्पविटपिप्रभवैः प्रसूनैः
स्तोतुं कृताञ्जलिपुटः कुटजावदात दन्तांशुपल्लवितवाग् उपचक्रमे च ॥

18.16

अन्तर्जतापिहितसोमसुरापगाय प्रच्छन्नशरशासनलोचनाय
तीव्रव्रतग्लपितशैलसुतास्वरूप विज्ञाननर्मपटवे बटवे नमस् ते ॥

18.17

अत्यादरानतसुरासुरमौलिरत्न नानामरीचिखचिताङ्घ्रिसरोरुहाय
देहार्धवर्तिगिरिजाविहिताभ्यसूय सन्ध्याप्रणामविषमाञ्जलये नमस् ते ॥

18.18

नीरन्ध्रसिन्धुजलसिक्तकपालमुक्त रत्नाङ्कुरस्य करणीं विधुरातनोति
मौलौ सदैव भवतो भवभेदकर्तुर् निर्दग्धभास्करमहाय नमो ऽस्तु तस्मै ॥

18.19

कन्दर्पदर्पशमनाय कृतान्तहर्त्रे कर्त्रे शुभस्य भुजगाधिपवेष्टनाय
उर्वीमरुद्रविनिशाकरवह्नितोय याज्याम्बरोच्चवपुषे सुपुषे नमस् ते ॥

18.20

नीरन्ध्रभूतिधवलाय गजेन्द्रकृत्ति संवीतदेहकवलीकृतपन्नगाय
निर्दग्धदानवकुलाय विपत्क्षयैक कार्याय कारणनुताय नमो ऽस्तु तुभ्यम् ॥

18.21

ते ते यम् एव किल वाङ्मयसागरस्य पारं गताः प्रणवम् आत्मविदो वदन्ति
तस्मै समाहितमहर्षिविनिद्रहृद्य हृत्पुण्डरीकविहितस्थितये नमस् ते ॥

18.22

उत्तंसितेन्दुशकलाय कपालजूट सङ्घट्टितोर्मिमुखराम्बरनिर्झराय
भस्माङ्गरागशुचये विकचोपवीत व्यालेन्दुमौलिमणिदीधितये नमस् ते ॥

18.23

नास्त्रं न भस्म न जटा न कपालदाम नेन्दुः सिद्धतटिनी न फणीन्द्रहारः
नोक्षा विषं न दयितापि न यत्र रूपम् अव्यक्तम् ईश किल तद् दधते नमस् ते ॥

18.24

स्तुत्वेत्य् अवन्तिपतिर् इन्दुकुलावतंसं तन्मन्दिरात् सहचरैः सह निर्जगाम
अन्तर्निवेशितहरिन्मणिवेदि वल्गन् नागाङ्गनं सः फणिराजगृहं जगाम ॥

18.25

तत्रावतीर्य रथतः स रमाङ्गदात्त पाणिः समुच्छलितमङ्गलतूर्यघोषे
उन्निद्रसान्द्रकुसुमप्रकरावकीर्ण माणिक्यकुट्टिमतले मसृणम् विवेश ॥

18.26

अन्योन्यपल्लविततद्विजयप्रशंसः प्राप्तस्थितिर् विकटकाञ्चनविष्टरेषु
पद्मछदायतदृशा ददृशे ऽथ तस्मिन्न् एकत्र तेन मिलितः फणिराजलोकः ॥

18.27

तस्मिन् गते नयनगोचरम् उद्धृतारौ बद्धाञ्जलिर् झटिति पन्नगराजसंसत्
मन्दाकिनीव परितो हरिणावचूड व्यालोककुड्मलितकाञ्चनपङ्कजाभूत् ॥

18.28

न्यञ्चच्छिखाभरणभासुरपद्मराग रोचिछटाघटिततत्फणरत्नकान्तिः
राजन्यमौलिमणिचुम्बितपादपीठस् तस्मै चकार स महाभिजनः प्रणामम् ॥

18.29

प्रत्युप्तरत्नम् अभितः प्रमदावकीर्णं मुक्त्वा चतुष्कम् उरगेन्द्रनिदेशितं स
अध्यास्त सादरजरत्फणिकल्पिताशीस् तन्मध्यवर्तिकनकासनम् उन्नतांसः ॥

18.30

वत्सां व्रजनाय ममेति शनैर् विसृज्य नेपथ्यनीलमणिवेश्मनि रत्नचूडम्
तत्रासनद्वयम् अदापयद् अस्य पार्श्वे विद्याधराधिपयशोभटयोः फणीन्द्रः ॥

18.31

स्वर्णासने स्वयम् अथाच्छफणातपत्र रत्नप्रदीपशतजर्जरितान्धकारः
लोकत्रयैकतिलकस्य स नातिदूरे देवस्य दारितमहेन्द्ररिपोर् न्यषीदत् ॥

18.32

स्थित्वैकतो युवतिमङ्गलगीतिम् अत्र शृण्वन् स विन्ध्यतटदृष्टचरः कुरङ्गः
चित्रे निवेशित इवाथ यशोभटेन स्मित्वा सविस्मयम् असूच्यत पार्थिवाय ॥

18.33

अत्रान्तरे प्रमदलोलदृशा नृपेण दूराद् अदर्शि फणिराजसुताभियान्ती
तन्वी शिरीशसुमनःसुकुमारमूर्तिर् देवस्य कार्मुकलतेव मनोभवस्य ॥

18.34

ज्योत्स्नासिताम्बररुचिस्नपिताननेन्दुर् मात्राचिरोद्गतयवाङ्कुरकर्णपूरम्
मुक्त्वोज्ज्वलं ललितकौतुककङ्कणं च वेषं विवाहसमयोचितम् उद्वहन्ती ॥

18.35

सख्या कयापि लिखितं मदनानलैक धूमावलीवलयसंशयम् अर्पयन्तम्
एकान्तकान्तम् असितागरुपत्रभङ्गम् आबिभ्रती लवलिपाण्डुतले कपोले ॥

18.36

आत्तप्रसाधनम् अनङ्गविलासवेश्म लीलाविधानम् अवधिर् नयनोत्सवस्य
लावण्यसंवलितम् अङ्गकम् उद्वहन्ती शृङ्गारदुग्धजलधेर् अधिदेवतेव ॥

18.37

सा पाटलाविधुतचामरमारुतेषत् व्यानर्तितालकलता सहिता सखीभिः
नातिस्फुटक्वणितनूपुरम् आकुलानि किंचिद् विलम्ब्य दधती त्रपया पदानि ॥

18.38

उत्पक्ष्मणा निरुपमोल्लसितप्रमोद विस्तारलङ्घितविलाससरोरुहेण
सान्द्रस्मरज्वरपिपासितया तयापि दूराद् अपायि नयनाञ्जलिना नरेन्द्रः ॥

18.39

व्रीडावनम्रमुखपद्मम् उपागतायां तस्यां पितुः कनकविष्टरभागभाजि
माल्यादिकल्पितयथोचितसत्क्रियान्ते तं मालवेन्द्रम् इति माल्यवती जगाद ॥

18.40

राजन्! महीतलमृगाङ्ग! विलम्बसे किम्? अद्यापि तूर्णम् अमुना स्वभुजार्जितेन
हेमाम्बुजेन विरचय्य वतंसम् अस्याः पूर्णप्रतिज्ञम् उरगाधिपतिं विधेहि ॥

18.41

उक्ते तयेत्य् अकृत काञ्चनपुष्करं तद् यावत् सः कर्णशिखरे फणिराजपुत्र्याः
तावद् विहाय मृगरूपम् उदारमूर्तिर् अग्रे बभूव पुरुषो ऽस्य सहेमवेत्रः ॥

18.42

कस् त्वं मृगः कथम् अभूर् इति पार्थिवेन पृष्टः स विस्मयसमुत्सुकमानसेन
इत्य् अब्रवीद् उरगनेत्रपरम्पराभिर् आपीयमानवपुर् उक्तिम् अवन्तिनाथम् ॥

18.43

कैलासशैलवसतेर् गिरिशोपरोधाद् द्वारप्रवेशविनिषेधकषायितेन
शप्तो ऽस्मि कण्वमुनिनायम् अहं पितुस् ते श्रीहर्षदेवनृपतेः प्रतिहारपालस् ॥

18.44

राजा फणीन्द्रदुहितुः कनकारविन्दं कर्णे करिष्यति यदा नवसाहसाङ्कः
स्वं रूपम् आप्स्यसि तदेति समादिदेश शापान्तम् एष विहितानुनयो महर्षिः ॥

18.45

तद् वासवारिविजयोत्थम् इदं यशस् ते गत्वैकपिङ्गलगिरेर् अवतंसयामि
उक्त्वेति दिव्यकुसुमैर् अवकीर्य मौलौ पातालमल्लम् अनिलस्य पथा जगाम ॥

18.46

तूर्यस्वनेषु विलसत्सु पठत्स्व् अमन्दं बन्दिष्व् अनीयत फणीन्द्रपुरोधसा च
कोणावसक्तजलपूरितरत्नकुम्भां वेदिं तया सह स मध्यमलोकपालः ॥

18.47

अभ्युद्गतार्चिर् अनलोज्झितधूमराजि श्यामीभवत् कनकतामरसावतंसाम्
तस्यां यथाविधि स मालवपुष्पकेतुः कन्याम् अहेः कुवलयाश्व इव उपयेमे ॥

18.48

आनीतया झटिति रूपम् अदृष्टपूर्वम् अङ्गेन पुष्पशरभङ्गितरङ्गितेन
भाति स्म शन्तनुर् इव त्रिदिवस्रवन्त्या पातालचन्द्रकलया सस् तया समेत्य ॥

18.49

निर्गच्छदच्छरुचिनिर्भरम् अंशुकेन संछादितं किम् अपि पाणितले दधानः
ऊचे तम् इत्य् अधिपतिः फणिनाम् उदञ्चत् दन्तांशुशारितरदछदरत्नकान्तिः ॥

18.50

यद् दीयते तव न तादृशम् अस्ति किंचिद् गेहे ममात्र नृपते नवसाहसाङ्क !
कोशप्रतिष्ठितनिधानशतं यतस् त्वाम् ऐश्वर्यनिर्जितपुरन्दरम् आमनन्ति ॥

18.51

तत् स्फाटिकं स्वम् इव शुद्धम् इदं गृहाण त्वष्टृप्रयत्नघटितं शिवलिङ्गम् एकम्
आकारम् अर्धवनितावपुषः पुरारेर् यस्यान्तरे सुकृतिनो हि विलोकयन्ति ॥

18.52

व्यासः पुरा किल पुराणमुनेः प्रपेदे तस्मात् किलादिकविपाणितलं जगाम
लेभे ततो ऽपि भगवान् कपिलो महर्षिः सानुग्रहेण मम चेदम् अदायि तेन ॥

18.53

उक्त्वेत्य् अनर्घम् अतिपावनम् अर्पितं तद् अन्तःस्फुटैकशिवरूपम् अहीश्वरेण
पूर्णेन्दुकान्ति सहसा निगृहीतशत्रुर् जग्राह पिण्डितम् इव स्वयशो नरेन्द्रः ॥

18.54

तत्राथ दिक्तटपरिस्खलितप्रवृत्त सीमन्तिनीचटुलनूपुरकाञ्चिनादः
को ऽप्य् उच्छलत्पटहवंशहुड्डुक्कशङ्ख वीणामृदङ्गमुरजध्वनिर् उत्सवो ऽभूत् ॥

18.55

वृत्ते वधूम् अथ विवाहमहोत्सवे ताम् आदाय निष्प्रतिमपौरुषवैजयन्तीम्
अन्वागतादरनिवर्तितपन्नगेन्द्रः पर्युत्सुकः स्वनगरीं स नृपः प्रतस्थे ॥

18.56

गत्वाथ दूरम् अहिविष्टपतः सहेलम् अंशः पुराणपुरुषस्य स निर्जगाम
शिप्रार्पितेन सहसा पुरतः प्रभाव सीमन्तिताम्बुपटलेन पथा ससैन्यः ॥

18.57

तस्याः स्वहस्तमुनिसंहतिकल्पितार्घः सिन्धोस् तटे सः पदम् एकपदे चकार
शृङ्गे तदा च भगवान् अरविन्दबन्धुर् बन्धूकपाटलरुचिः कनकाचलस्य ॥

18.58

बालातपछुरितहर्म्यविटङ्कवर्ति पारावतातिमधुरध्वनितछलेन
सम्भाषणं विदधतीम् इव पौरमुक्त पुष्पाञ्जलिः सः पुरम् उज्जयिनीं विवेश ॥

18.59

कान्तायशोभटयुतं कृशताम् अवाप्तास् तच्चिन्तयैव सचिवास् तम् अथ प्रणेमुः
काकुत्स्थम् आहतसुरारिम् इवानुयान्तं सौमित्रिणा जनकराजतनूजया च ॥

18.60

आनन्दबाष्पसलिलार्द्रदृशो ऽर्धमार्गे सम्भाष्य तान् स्मितमुखः सह तैर् जगाम
विद्याधरोरगकराहतहेमघण्टा टाङ्कारहारि भवनं त्रिपुरान्तकस्य ॥

18.61

तस्मिंश् चराचरगुरोर् हरिणावचूल चूडामणेर् अपचितिं विधिवद् विधाय
साकं फणीन्द्रसुतयाम्बररोधिकम्बु तूर्यस्वनोर्मि सश् च राजकुलं विवेश ॥

18.62

तत्रार्णवध्वनिघनोत्सवतूर्यघोषे स्थित्वा दिनानि कतिचित् स नरेन्द्रचन्द्रः
याति स्म भूषितकुलः कुलराजधानीं धाराम् अमात्यकथितामृगयेतिवृत्तः ॥

18.63

उद्घाटितेष्व् अथ विलोकनकौतुकेन वातायनेषु परितः पुरसुन्दरीभिः
तस्मिंश् चिराद् विशति जीव इवेश्वरे सा प्रोन्मीलितोरुनयनेव पुरी बभूव ॥

18.64

तत् साध्व् अकारयद् अथाधिगतप्रतिष्ठं तत्राच्छरत्नशिवलिङ्गम् अनर्घशीलः
तस्य प्रभावघटितैर् व्यधुर् अर्हणां च विद्याधरा विकचकल्पतरुप्रसूनैः ॥

18.65

कृत्वा यथोचितम् अकृत्रिमम् उत्सवान्ते सत्कारम् आयतननिश्लथमौलिरत्नौ
दत्ताङ्कपाणिर् उभयोः प्रजिघाय स अथ विद्याधराधिपफणीन्द्रसूतौ स्वदेशम् ॥

18.66

एकस् तयोर् अगमद् अम्बरगामिसैन्य सीमन्तिताभ्रपटलः शशिकान्तशैलम्
अन्यो ऽप्य् अगाधजलमालवजह्नुकन्या विश्राणितोरुसरणिर् निजराजधानीम् ॥

18.67

माभूः कदापि विमुखी रमेण यद् अस्य छन्दानुवृत्तिरतिसंवननं मदस्य
उक्त्वेति ताम् अहिसुताम् अगमन् गृहाणि गन्धर्वकिन्नरमहोरगसिद्धकन्याः ॥

18.68

नीलछत्रावतंसा भुजगपतिसुतापाण्डुगण्डस्थलान्तः कस्तूरीपङ्कपत्रव्यतिकरशबलव्यायतांसे सलीलम्
देवेनाथ स्वमन्त्रिप्रवरचिरधृता साहसाङ्केन दीर्घे रोहज्ज्याघातरेखे पुनो ऽपि निदधे दोष्णि साम्राज्यलक्ष्मीः ॥

मूल पाठ: Navasāhasāṅkacarita · Edition: Vamanasastri Islampurakara, Bombay : Govt. Central Book Depot (Bombay Sanskrit Series, 53) · Data entry Somadeva Vasudeva · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc