नवसाहसाङ्कचरित · अध्याय 17
अथाहिविद्याधरराजसैन्यैर् निपीडितायां पुरि रत्नवत्याम्
भटाः सकोपं भुजदर्पभाजो निर्जग्मुर् आकृष्टकृपाणपट्टाः ॥
अन्योन्यसङ्घट्टवशेन तेषाम् उदञ्चिताः काञ्चनकङ्कटेभ्यः
युगान्तकालानलबीजशङ्कां न कस्य चक्रुः शिखिनः स्फुल्लिङ्गाः ॥
भालेषु भीमा भृकुटीर् वहन्तो भृङ्गत्विषश् चासिलताः करेषु
खुराग्ररुग्णावनिभिः सरोषं निरीयुर् अन्ये चतुरैस् तुरङ्गैः ॥
न्यभाद् अनीकं करिणां च सान्द्र सिन्दूरपूरारुणगण्डभित्ति
प्रत्यग्रदावानललीढकोटि कुलाचलेन्द्रप्रचयोपमेयम् ॥
पुरो रणोत्सेकभृतां निरुद्धम् ओघेन विद्याधरवाहिनीनाम्
तत् पुञ्जितं सैन्यम् अमर्त्यशत्रोर् बभूव मूले मणितोरणस्य ॥
साटोपम् आरोपितचापयाष्टिर् निबद्धतूणीरयुगो गजस्थः
सो निर्जगामाथ महासुरेन्द्रो वेगाद् अहंकार इवात्तदेहः ॥
युगात्ययाम्भोधरनादधीरस् तस्योद्गतः सङ्गरतूर्यघोषः
बद्धप्रतिश्रुन्ति नितान्तभीमश् चकार पातालबिलोदराणि ॥
सत्पुष्करानञ्जनपुञ्जभासस् पथो जयस्याथ गजान् असींश् च
व्यापारयन्ति स्म रयेण वीरास् तत्प्रेरिता वैरिवरूथिनीषु ॥
परस्परापातिकृपाणनिर्यत् ज्वालावलीपल्लवितान्तरिक्षः
अभूत् प्रवृत्तः समरो महाहि विद्याधरेन्द्रासुरपुङ्गवानाम् ॥
वीरेषु धावत्सु चरत्स्व् अमन्दं गजेषु वल्गत्सु तुरङ्गमेषु
अकालकल्पात्यययशाङ्कितानि चकम्पिरे सप्त रसातलान् ॥
प्रकाशयन्तः करणप्रपन्न्चं सुराङ्गनाभिः स्पृहयेक्ष्यमाणाः
अत्यद्भुतं नृत्तम् इवारभन्त भटा रणप्राङ्गणरङ्गमध्ये ॥
उत्प्लुत्य वेगात् पवमानमार्गं विद्याधरैर् दानजलाविलानि
पटु व्यपाट्यन्त मतङ्गजानां तीक्ष्णासिपत्रक्रकचैः शिरांसि ॥
निपत्य कुम्भेषु महागजानां नीरन्ध्रमुक्तेषु पटु क्वणन्तः
भान्ति स्म विद्याधरपुङ्गवानां मुक्ताट्टहासा इव खड्गपट्टाः ॥
आवर्तताम् ऊर्मिलतायमान निस्त्रिंशवल्लीवलयाकुलासु
प्रपेदिरे पूर्वसुरोज्झितानि चक्राणि विद्याधरवाहिनीषु ॥
फणावलीष्व् आपतितोरगाणाम् अफल्गुरत्नोपलकर्कशासु
कृपाणधरा मसृणीबभूव महासुराणां न तु सङ्गरेच्छा ॥
अमान्ति पातालतले प्रसस्रुः क्षितौ बिलद्वारविनिर्गतानि
ज्याशब्दहृष्टासुरसिंहनाद तुरङ्गहेषागजबृंहितानि ॥
प्रधावदश्वीयखुराहतानाम् अभ्युद्गतो रत्नभुवां परागः
गीर्वाणचापच्छविलाञ्छितानि कृत्स्नानि चक्रे ककुभां मुखानि ॥
भटास्त्रपूर्णैः परितो गजानां स्वदानपङ्कोपचितैः पदाङ्कैः
भयङ्कराभूत् तरुणार्कबिम्ब सहस्रकीर्णेव रणाङ्गणोर्वी ॥
लूनाः समूलं सुभटासिपत्रैः सहस्रशः शोणितशीकरार्द्राः
उत्तालवैवस्वततालवृन्त विच्छित्तिमूहुः करिकर्णतालाः ॥
अन्योन्यकृत्तास्तरसा भटानां नवातपाताम्रनखत्विषो ऽग्रे
भुजा निपेतुः समम् ईक्षणेन समौलिरत्ना इव पन्नगेन्द्राः ॥
अङ्गाद् असिप्रासपृषत्कभिन्नात् असृक्प्रवाहेषु भृशं वहत्सु
लीलागलद्गैरिकनिर्झराणां गजैर् जगाहे कुलपर्वतानाम् ॥
क्ष्मायां बभुःखड्गपृथक्कृतानि सहस्रशः शस्त्रभृतां शिरांसि
कालेन सङ्ग्रामसरोन्तरालाद् उत्खण्डितानीव सरोरुहाणि ॥
कबन्धकण्ठोच्छलदस्रवन्तः समीपम् एत्योपरि कङ्कयूथम्
मुहूर्तम् इद्धारुणरत्नदण्डम् अदृश्यत च्छत्रम् इवान्तकस्य ॥
मुक्तैः समूहेन नभश्चराणां कुम्भेषु चक्रैः करिणां पतद्भिः
अस्ताचलव्यायतवप्रपाति पतङ्गबिम्बानुकृतिर् वितेने ॥
पतद्भटं निर्दलिताश्ववारं निकृत्तमत्तेभकरं क्षणेन
व्यधायि विद्याधरसैनिकैस् तत् सनागवीरैर् असुरेन्द्रसैन्यम् ॥
हंसैर् इव स्मेरतटाःसमन्तात् परिच्युतैः कुञ्जरकर्णशङ्खैः
वोढुं प्रवृत्ता भवदुत्तरङ्गा झटित्य् अगाधा रुधिरस्रवन्ती ॥
विद्याधरव्यालभटावलुप्त धैर्येषु नश्यत्सु महासुरेषु
विश्वाङ्कुशो नाम सुरारिसूनुर् अथो रथेनाजिमहीं विवेश ॥
आकर्णकृष्ताद् धनुषः पतद्भिर् बालेन्दुलेखाकृतिभिः पृषत्कैः
अरातिसैन्ये रणधीरवीरान् भीरूनिवैको विमुखीचकार ॥
तद्वीर्यनिर्वासितसौष्ठवानां विद्याधराणाम् अपतन् करेभ्यः
धाराग्रलग्नद्विपकुम्भमुक्ताः सबाष्पलेशा इव खड्गलेखाः ॥
क्षणाद् वलन्ति स्म तदा हतानि बलानि विद्याधरपन्नगानाम्
सरित्पयांसीव निशकरांशु पूरप्रवृद्धार्णवपीडितानि ॥
न शेकतुस् तस्य गतिं निरोद्धुं विद्याधरेन्द्रोरगराजपुत्रौ
रत्नाकरस्येव महेन्द्रसह्या वसह्यवेगं प्रलयोत्थितस्य ॥
दोर्दण्डकण्डूतिम् अथास्य हर्तुम् उद्भ्रूलतं भूपतिना नियुक्तः
जवाज् जगामाजिपथं रथेन रमाङ्गदःकुण्डलितो ऽग्रचापः ॥
तथोपलेभे समरोन्मुखस्य नादेन वृद्धिः शरजन्मनास्य
चक्रे पदं बाष्पकणोत्करेण यथा कपोलेष्व् असुराङ्गनानाम् ॥
दूरात् सुपर्वारिसुतं रथेन स रंहसा संमुखम् आपतन्तम्
रुरोध तं बाणपरंपराभिर् यशोभटः कर्णम् इवेन्द्रसूनुस् ॥
विश्वाङ्कुशः सत्कवचे मुमोच वक्षःस्थले हैमम् अथास्य बाणम्
तटे ऽञ्जनश्यामतनौ महाद्रेः शातह्रदं ज्योतिर् इवाम्बुवाहः ॥
अलक्ष्यसंधानविमोक्षपातान् यशोभटस्यात्तरुषो ऽपि रोपान्
मूर्च्छालुठत्सारथिर् आहताश्वो रथः शशंसासुरनन्दनस्य ॥
विलासकाञ्चीम् अथ कालरात्रेर् उद्यत्क्रुधः पद्धतिम् अन्तकस्य
मौर्वीं पृषत्केण रमाङ्गदस्य चिच्छेद गीर्वाणरिपोस् तनूजः ॥
सन्नाभिबिम्बेन महाजिलक्ष्म्या वीरश्रियो विभ्रमनूपुरेण
संरभ्य राहोर् इव चक्रपाणिः स अप्य् अस्य चक्रेण शिरश् चकर्त ॥
ननर्त विद्याधरसुन्दरीणां गणो नदन्नूपुरम् अम्बरे ऽथ
मौलौ शरक्षुण्णशिरस्त्ररत्ने चिक्षेप चास्याम् अरपुष्पवृष्टिम् ॥
दृष्टे शिरस्य् उत्फलिते स्वसूनोर् दिङ्मुललीनासु पताकिनीषु
वज्राङ्कुशाः संमुखम् आपपात पत्युर् विशाम् अस्तगिरेर् इवार्कः ॥
मदाम्बुवर्षी समरे ऽभिधावन् रेजे गजस् तस्य सहेमकक्ष्यः
भिन्ने ऽन्तराले पवमाननुन्नस् तमालनीलस् तडितेव मेघः ॥
पत्युः प्रसादस्मितरज्जुकृष्टा भटा विवृत्यास्य पुरो बभूवुः
स्वजीवितान्याजिमुखे विहातुम् अत्युत्सुका भङ्गमलीमसानि ॥
आरुह्य चन्द्रः खम् इवाभिरामं नक्षत्रमालाभरणं गजेन्द्रम्
देवो ऽपि तद्वैरितमो नियन्तुम् अथ प्रतस्थे नवसाहसाङ्कः ॥
एकत्र पार्श्वे शशिखण्डनामा विद्याधरेन्द्रो नृपतेर् बभूव
अरातिसेनानलिनीवनैक शीतांशुर् अन्यत्र यशोभटश् च ॥
स्फुरत्फणछत्रमणिप्रतान तेजश्छटाजर्जरितान्धकारः
अफल्गुर् वीर्यः फणभृत्कुमारो ऽप्य् अग्रे ऽभवत् तस्य स रत्नचूडः ॥
विधूतनिस्त्रिंशतरङ्गितानि सबाणचक्रीकृतकार्मुकानि
हतावशेषाणि पुरो ऽस्य चेलुर् बलानि विद्याधरपन्नगानाम् ॥
रक्तासवक्षीबसहस्तताल वेतालतालोच्छलिताट्टहासः
महाभटानाम् असुनिर्व्यपेक्षम् अन्योन्यम् आवर्तत संपरायः ॥
चकाशिरे शस्त्रभृतां शिरःसु मिथः पतन्त्यः करवालवल्ल्यः
मुक्ताः सलीलां त्रिदशाङ्गनाभिर् माला इवेन्दीवरपत्रमय्यः ॥
केषां चिद् ऊहुः कवचानि शोभां क्व चित् क्व चिल् लोहितपाटलानि
खेलज्जयश्रीचरणारविन्द लाक्षारसेनेव नवाङ्कितानि ॥
हृदिप्रविष्टैर् अविशुद्धिमद्भिर् अभूद् व्यथा कापि शरैः परेषाम्
दुरात्मनां साधुगुणैर् इवाग्रे फलेन संयोगम् उपेयिवद्भिः ॥
परस्परापातजुषाम् असीनां धाराच्युतः संयतिचूर्णरेणुः
अवाप तापिच्छरुचिर् जयश्री विलासकालाञ्जनधूलिलीलाम् ॥
पर्यायजातोभयसैन्यभङ्ग करालकोलाहलकातराणाम्
सुरारिविद्याधरसुन्दरीणां दोलेव शोकप्रमादावभूताम् ॥
अथासुरेन्द्रद्विरदेन वेगाद् अभ्युत्थितेनोद्गतदानधारम्
मध्येरणं मध्यमलोकभर्तुर् जवान् मदान्धो जघटे गजेन्द्रः ॥
महेभयोस् तत्र शिखाछलेन प्रतिप्रहारं रदजः कृषानुः
कोशेषु विदुत्कपिशा मुहूर्तं व्यधाद् इवाष्टापदपत्रवल्लीः ॥
मुहुः प्रजानाम् अधिपेन गाढम् आकृष्यमाणस्य शरासनस्य
द्विषद्वधारम्भविधौ गभीरः क्रेङ्कारहुङ्कार इवोच्चचार ॥
परिस्फुरत्कुण्डलघृष्टपुङ्खास् तेन प्रयुक्तास् पृथुविक्रमेण
प्रमृष्टकान्ताकुचपत्रलेखे लेखारिवक्षस्य् अपतन् पृषत्काः ॥
अरातिमुक्तेषु ततस् तनुत्राद् वह्निस्फुलिङ्गेषु समुल्लसत्सु
मूर्तिर् बभासे वसुधाधिपस्य निर्यत्प्रतापाग्निकणछटेव ॥
हिरण्मयी पार्थिवबाणपङ्क्तिर् अत्युन्नते मूर्ध्नि महासुरस्य
रेजे तराम् अञ्जनपर्वतस्य लग्नेव तिग्मांशुमयूखमाला ॥
अभ्युद्गता भर्तुर् अरातिबाण क्षुण्णेन्द्रनीलाङ्गदरेणुराजिः
अदृश्यतोद्दामभुजास्पदस्य पराक्रमाग्नेर् इव धूमलेखा ॥
रमाङ्गदो ऽप्य् उद्भ्रुकुटिः कृतास्त्रं वीरं द्विषः पार्श्वगतं निहत्य
शरैर् अलावीज् जयवैजयन्तीं ज्योत्स्नासितं कीर्तिम् इवासुरस्य ॥
अधःस्थितोड्डामरवैरिपत्ति मुक्तेषु निर्लूनशरासनज्यः
चिक्षेप चक्राण्य् अतिदीर्घबाहुः सः कालरात्रेर् इव कङ्कणानि ॥
उत्प्लुत्य हेलाहतसंमुखारिर् विद्याधरेन्द्रो ऽप्य् असिना चकर्त
जगज्जयस्तम्भम् इवोद्धुरस्य सुरद्विषः काञ्चनकेतुदण्डम् ॥
सो रत्नचूडो ऽपि तथा भुशुण्ड्या पिपेष वैरिद्विषकुम्भपीठम्
सितातपत्रत्वम् उदञ्चद् आप यथास्य मुक्ताफलधूलिजालम् ॥
तुङ्गं दधत्कर्कशताम् अभीकः श्रीसिन्धुराजद्विपकुम्भयुग्मम्
पयोधरद्वन्द्वम् इवाजिलक्ष्म्याश् चक्रे ऽर्धचन्द्राङ्कितम् इन्द्रशत्रुः ॥
परस्पराघट्टितदन्तकोटि भ्रष्टाग्निवेशभ्रमम् आदधन्ति
रणाजिरे लोहितरञ्जितानि विरेजिरे कुञ्जरमौक्तिकानि ॥
चिक्षेप पृथीतिलके सुरारिर् यां याम् इषुं कोपकषायिताक्षः
तां तां जयाशाम् इव बाहुशाली शरैः सस् तस्यार्धपथे लुलोव ॥
तयोस् तथेष्वासप्रकर्ष प्रत्युक्तकर्णार्जुनयोर् जयश्रीः
सुवेलरत्नाकरयोर् उदग्रा चकार वेलेव गतागतानि ॥
पत्युः प्रजानाम् असुरेश्वरो ऽथ किरीटमाणिक्यचयं जहार
मणिप्रसूनस्तबकप्रतानं कल्पद्रुमस्येव युगान्तवातः ॥
क्रोधाद् अथार्धशशलाञ्छनसोदरेण बाणेन वासवरिपोर् नवसाहसाङ्कः
चिच्छेद राम इव विश्रवसः सुतस्य पीनांसलोलमणिकुण्डलम् उत्तमाङ्गम् ॥
आसन् मुखानि ककुभाम् अभितो ऽथ चित्र वादित्रनादलहरीमुखरोदराणि
देवस्य च त्रिदिवपुष्पमयं पपात माल्यं शिरस्य् असुरवैरिपुरन्ध्रिमुक्तम् ॥
लक्ष्मीपतेः पृथुभुजद्वयम् आर्द्रसान्द्र ज्याघातलाञ्छितम् अलाञ्छितविक्रमस्य
अत्यादरागतजितोर्जितवैरिलक्ष्मी पादाब्जयावकनिषक्तम् इवाचकाशे ॥
तस्याग्रतः कनककुण्डलताड्यमान गण्डस्थलीलुलितकुङ्कुमपत्रलेखाः
विद्याधरोरगकुरङ्गदृशः प्रमोद सान्द्रोच्छलध्वनि जगुर् जयमङ्गलानि ॥
स्मित्वा यशोभटकरार्पितचापयष्टिर् उन्मुक्तरत्नकवचः खचरेश्वरेण
उद्भिन्नमौक्तिकनिभश्रमवारिबिन्दुर् देवो ममार्ज मुखम् अंशुकपल्लवेन ॥
दत्ताभयोपनतपौरशतार्प्यमाण रत्नोपधाम् अथ स रत्नवतीं प्रविश्य
तं संयुगस्फुटपरीक्षितशौर्यसारं राज्ये रिपोः फणिकुमारकम् अभ्यषिञ्चत् ॥
मूर्तं मनोरथम् इवोपवनात् सकन्दम् आदाय तत् कनककोकनदं नरेन्द्रः
आदातुम् ईप्सितमहीन्द्रसुतेति रत्नम् अभ्युत्सुकस् तद् अनु भोगवतीं प्रतस्थे ॥
देवः साहसिको ऽप्य् अमन्दमुरजध्वानानुमेयोत्सवाम् उन्नम्रैः परितो महीं मणिगृहैर् उत्तम्भयन्तीम् इव
ताम् अत्युन्नतरत्नतोरणशिखाप्रेङ्खोलमुक्ताफल प्रालम्बोच्छलदच्छकान्तिनिकरस्मेराम् अवापत् पुरीम् ॥
मूल पाठ: Navasāhasāṅkacarita · Edition: Vamanasastri Islampurakara, Bombay : Govt. Central Book Depot (Bombay Sanskrit Series, 53) · Data entry Somadeva Vasudeva · GRETIL (Göttingen) · CC BY-NC-SA 4.0