नवसाहसाङ्कचरित · अध्याय gp
श्रीमत्कविप्रियसुहृच्छलदङ्कराम राजेन्दुभक्त्यधिगतप्रतिभाविशेषः
एतद् विनिद्रकुसुमदद्युति पद्मगुप्तः श्रीसिन्धुराजनृपतेश् चरितं बबन्ध ॥
लक्ष्मीलतानववसन्त महीतलेन्द्र विद्याविलासमणिदर्पण सिन्धुराज
एतन् मया घटितम् उज्ज्वलकान्ति काव्य माणिक्यकुण्डलम् इह श्रवणे विदेहि ॥
न्यस्तानि यानि मयि सूक्तिसुधापृषन्ति देवेन तेन कति चित् कविबान्धवेन
चन्द्रातपस्नपितमौक्तिकसोदराणां तेषाम् इदं विलसितं नवसाहसाङ्क ॥
यच् चापलं किम् अपि मन्धधिया मयैवम् आसूत्रितं नरपते नवसाहसाङ्क
आज्ञैव हेतुर् इह ते शयनीकृतोग्र राजन्यमौलिकुसुमा न कवित्वदर्पः ॥
मूल पाठ: Navasāhasāṅkacarita · Edition: Vamanasastri Islampurakara, Bombay : Govt. Central Book Depot (Bombay Sanskrit Series, 53) · Data entry Somadeva Vasudeva · GRETIL (Göttingen) · CC BY-NC-SA 4.0