भाषा

ENहिગુ
ग्रंथ पाठ

नवसाहसाङ्कचरित · अध्याय 16

16.1

अत्रान्तरे नभःसिन्धु पुलिनं प्राप पाटला
दधत्य् अनङ्गलेखेन लाञ्छितं पाणिपल्लवम् ॥

16.2

मणिप्रग्रीवकोद्गीर्ण शुनासीरशरासनम्
अपश्यद् गगनोल्लेखि तत्र स्फटिकवेश्म सा ॥

16.3

तदिन्द्रनीलद्वारे सा हेमवेत्राकुले बभौ
श्लिष्यन्ती सतडिल्लेखे लेखेवेन्दोः पयोमुचि ॥

16.4

रत्नवातायनस्थस्य तिष्ठन् पार्श्वे महीपतेः
द्वाःस्थं किम् अपि पृच्छन्तीं ताम् ऐक्षत रमाङ्गदः ॥

16.5

अन्तः प्रवेशयाम् आस सश् च ताम् आत्तसंभ्रमः
ययौ सा च विशांपत्युर् लोचनामृतवर्तिताम् ॥

16.6

सिताश्महर्म्यम् उत्तुङ्गं झटित्य् अधिरुरोह सा
आनन्दकन्दलीचित्तम् अत्यच्छं पार्थिवस्य च ॥

16.7

क्षितिचुम्बितहारं सा प्रणनाम महीभुजे
रमाङ्गदं करग्राह सौहार्द्ये पात्रतां नयत् ॥

16.8

नृपेण स्वयम् उक्तापि इत एह्य् एहि पाटले
तल्लीलामणिपर्यङ्क सविधे निषसाद सा ॥

16.9

कृतसम्भाषणा साथ तेनावनिमनोभुवा
इत्य् अवोचत दन्तांशु शबलाधरपल्लवा ॥

16.10

मुद्रितस्मरसौन्दर्य वान्ता नेत्रामृतछटा
इयं मूर्तिर् महाराज कच्चित् कुशलिनी तव ? ॥

16.11

कथम् एतां प्रविष्टास् त्वं भूमिम् अत्यन्तदुर्गमाम्
न कस्य विस्मयायेयं शक्तिर् अत्यद्भुता तव ॥

16.12

देव विद्याधरः को ऽपि शापान् निर्मोचितस् त्वया
इत्य् अमन्दः प्रवादो ऽत्र तत् को ऽप्य् असि नमो ऽस्तु ते ॥

16.13

अहो गुणेन राजेन्द्र येन केनापि गृह्यसे
यद् एवं क्लिश्यसे तस्याः फणीन्द्रदुहितुः कृते ॥

16.14

अथ विद्रुमताम्रौष्ठ लुठद्दशनदीधितिः
स्मित्वा वसुमतीनाथस् ताम् इति प्रत्यभाषत ॥

16.15

कदाचित् पाटले कच्चिद् भुजङ्गपतिकन्यका
स्मरत्य् अस्मान् सखीस्वैर सङ्कथास्व् अन्तरान्तरा ॥

16.16

किम् अनङ्गवती वक्ति ब्रूते माल्यवती च किम्
अप्य् अस्त्य् अहिपुरे ऽस्माकं किंवदन्ती कियत्य् अपि ॥

16.17

फणिराजसुताकर्णं कच्चित् प्रापय्य मद्वचः
विहितो रत्नचूडेन शुकरूपविपर्ययः ॥

16.18

किम् आगतासि किं चैवं परिम्लानेव लक्ष्यसे
निवेदय द्रुतं यन् मे किम् अप्य् आशङ्कते मनः ॥

16.19

इति पृष्टवते तस्मै सान्द्रप्रेमार्द्रचेतसे
कन्दर्पदीपनं लेखम् अर्पयाम् आस पाटला ॥

16.20

तम् आत्तं वाचयेत्य् उक्त्वा परमारकुलोद्वहः
रमाङ्गदस्य चिक्षेप सम्भ्रमोत्तानिते करे ॥

16.21

तं हेमकदलीपत्र कस्तूरिलिखिताक्षरम्
सो ऽवधार्याथ तस्याग्रे व्यक्तवाग् इत्य् अवाअचयत् ॥

16.22

स्वस्ति स्थितस्य स्वःसिन्धु तीरे फणिपुरस्थया
इदं मध्यमलोकेन्दोर् माल्यवत्या निवेद्यते ॥

16.23

यदैवास्मत्सखी विन्ध्ये त्वया राजन् व्ययुज्यत
तदैवेयं कुरङ्गीव विद्धा हृदि मनोभुवा ॥

16.24

दृष्टिः सर्वत्र राजेन्दोः सुधानिष्यन्दिनी तव
जाता शशिप्रभायां तु सैव हालाहलछटा ॥

16.25

न विनोदयितुं शक्यम् एषा केनापि वस्तुना
विनेश तव कर्पूर शीतया सङ्गमाशया ॥

16.26

त्वद्दर्शनोपकारिण्याः करोत्य् एकावलीम् इव
इयं पक्ष्माग्रवर्त्यश्रु पृषतछद्मना दृशः ॥

16.27

वक्ति व्यक्ताश्रुलेखेन निहितेन करोदरे
इयम् आपाण्डुगण्डेन स्मरतापमुखेन्दुना ॥

16.28

शिरीषाद् अपि मृद्वङ्गी क्वेयम् आयातलोचना
एष क्व च कुकूलाग्नि कर्कशो मदनज्वरः ॥

16.29

नेयं प्रवालशय्यायां नापि प्रालेयवेश्मनि
न चेन्दुमणिपर्यङ्के सखी निर्वृतिम् एति नः ॥

16.30

निसर्गरक्तम् एतस्याः सखीजनम् इवाधरम्
नयन्ति किम् अपि म्लानिम् उष्णा निःश्वसितोर्मयः ॥

16.31

अरतित्वम् अवाप्याम्भः कणिकेव विघूर्णते
एषा कमलिनीपत्र शय्यायाम् आयतेक्षणा ॥

16.32

अस्याः स्मराग्निसन्तप्तं वपुः शशिकलामृदु
नीरन्ध्रघर्मसलिल छलेनेव विलीयते ॥

16.33

कृशताम् अङ्गके गाढम् अस्याः कुसुमकोमले
आरोपयति पुष्पेषु मौर्वीम् इव शरासने ॥

16.34

धृतया हृदि बालेयं वितीर्णहरिचन्दने
निर्वाणम् एति भवतः कथया न जलार्द्रया ॥

16.35

आकर्णकृष्टकोदण्डस् त्वां विना निशितैः शरैः
भिनत्त्य् अङ्गम् अनङ्गो ऽस्याः क्षितिश् चेतसि कापि मे ॥

16.36

इयम् अत्यच्छहृदये दधत्य् अतिसुवृत्तताम्
बाला माणिक्यमुकुरे विमुखी संमुखी त्वयि ॥

16.37

एषा शिखेव दीपस्य मुग्धा दग्धदशाश्रया
स्मरानिलपरामर्शाद् इतश् चेतश् च वेपते ॥

16.38

इयम् इन्दुद्युतिहरं युक्तम् अत्यायतैर् गुणैः
मृणालवलयं हस्ते वहति त्वां च चेतसि ॥

16.39

अनङ्गतापवत्य् अस्या निकामसरसं हृदि
सङ्कुचत्य् अब्जिनीपत्रं न तु त्वत्प्रेमपल्लवः ॥

16.40

क्रियते वलयेनास्या मणिबन्धे गतागतम्
कार्श्याग्रभूमिम् आप्तायास् त्वय्य् अन्तःकरणेन च ॥

16.41

जायते पेशलम् अपि प्रायो वस्त्व् अन्यथापदि
प्राप्तो मृणालहारो ऽपि यद् अस्या दाहहेतुताम् ॥

16.42

निहिताः सास्रमालीभिर् लवलीपाकपाण्डुनी
अस्याः स्तनतटे भारः परं वानीरपल्लवाः ॥

16.43

न चन्दनेन नोशीर वारिणा न जलार्द्रया
नास्याः पुटकिनीपत्रैः शमम् एति स्मरज्वरः ॥

16.44

किं चापरम् त्वम् एतस्या हृदयस्याधिदेवता
यतस् त्वन्मयम् एवैषा विश्वं विश्वेश पश्यति ॥

16.45

रत्नचूडोपनीतेन सन्देशेन तवाधुना
इयम् उच्छ्वसिता किम् चित् सुधागण्डूषबन्धुना ॥

16.46

तावद् आगच्छ वेगेन गृहीत्वा हेमपङ्कजम्
अनङ्गविधुना यावद् इयं श्वसिति नः सखी ॥

16.47

एवम् आकर्ण्य ललितं लेखार्थम् अथ पार्थिवः
उद्भिन्नसान्द्रपुलकः पाटलाम् इत्य् अवोचत ॥

16.48

यथा सखी वः किम् अपि प्रपन्ना विधुरां दशाम्
तथा त्वम् अपि माम् एवं पाटले किं न पश्यसि ? ॥

16.49

तद् गच्छ तां शशिमुखीम् आश्वासयितुम् अर्हसि
वयम् एते च हेमाब्जम् आनेतुं प्रयतामहे ॥

16.50

तथा कार्यं न वन्ध्यः स्याद् यथा मम मनोरथः
वक्तव्या माल्यवत्यैवं मद्गिरा वल्गुवादिनि ॥

16.51

आवृत्तिदत्तसन्देशा सा ततः पृथिवीभुजा
फणिराजेन्द्रनगरीं त्वरितम् पाटला ययौ ॥

16.52

प्रस्थानशंसी सहसा तस्याथ पृथिवीपतेः
प्रलयाम्बुधरध्वान धीरं दध्वान दुन्दुभिः ॥

16.53

नदन्न् उत्कम्पिमनसां स विद्याधरयोषिताम्
निन्ये प्रियपरिष्वङ्ग श्लथताम् अथ दोर्लताः ॥

16.54

कथं चित् प्राणनाथस्य मुखाधरपल्लवम्
बाला व्यघटयत् का चित् काचिद् उरसश् च पयोधरौ ॥

16.55

शनैर् बबन्ध जघने नखाङ्कवति मेखलाम्
कापि स्मितमुखी कान्ते तिर्यगर्पितलोचना ॥

16.56

दृष्टिं दास्यन्ति मे सख्यः खण्डिते दन्तवाससि
किम् अत्र कृत्यम् इत्य् अन्या किम् अपि व्याकुलाभवत् ॥

16.57

का चित् पर्यङ्कम् आलोक्य सालक्तकपदाङ्कितम्
अन्योन्यार्पितनेत्राभिर् वयस्याभिर् अहस्यत ॥

16.58

एका माणिक्यकटकं कराग्रच्युतम् आददे
हृदयं पुष्पचापेन मध्ये विद्धम् इवात्मनः ॥

16.59

चुम्बनक्लिष्टबिम्बौष्ठं जागरारुणलोचनम्
मुखाम्भोजं दृशान्योनं विलासिभिर् अपीयत ॥

16.60

सो ऽथ प्रववृते गन्तुं विद्याधरबलान्वितः
रथेन रथिनाम् अग्र्यः पुरीं रत्नवतीम् प्रति ॥

16.61

ततः फणिकुमारेन रत्नचूडेन स अध्वनि
समगंस्त जगत्पूज्यः पूषा दर्श इवेन्दुना ॥

16.62

सस् तस्योपयानीचक्रे दिक्चक्रस्खलितध्वनिम्
अच्छिन्नदाननिष्यन्दम् आत्मानम् इव वारणम् ॥

16.63

नृपस्य दीपिकाकृत्यं चक्रिरे तिमिरच्छिदः
पुरः प्रसर्पत्तत्सैन्य फणारत्नांशुसूचयः ॥

16.64

कियताप्य् अथ कालेन सन्ततैः सः प्रयाणकैः
प्रपेदे कुसुमाश्लेष सुगन्धिपवनं वनम् ॥

16.65

असुराधिपतिं साम्ना याचितुं हेमपङ्कजम्
स्थित्वा सस् तत्र पुरतो विससर्ज रमाङ्गदम् ॥

16.66

सश् च त्रिजगतः सारम् आदायैव विनिर्मिताम्
उत्तुङ्गरत्नप्रासादां प्राप रत्नवतीं पुरीम् ॥

16.67

रामार्थबद्धकक्षेण प्रेषितः प्रभुणाविशत्
परिखार्णवम् उल्लङ्घ्य सस् तां लङ्काम् इवाङ्गदः ॥

16.68

को ऽयं को ऽप्य् अयम् अन्योन्यम् एवं पल्लवितोक्तिभिः
कौतुकस्तिमिताक्षैः सः पौरैश् चिरम् अदृश्यत ॥

16.69

स चन्द्रनीलहर्म्येषु ददर्शासुरकन्यकाः
लोलास् तमालश्यामेषु मेघेष्व् इव शतह्रदाः ॥

16.70

निपीयमानः पौरस्त्री नेत्रस्फटिकशुक्तिभिः
वैरिद्विपघटासिंहः सिंहद्वारम् अवाप स ॥

16.71

असुरेन्द्रस्य दोःकण्डु दुःस्थानैकभटाकुलम्
वीरः स अविशद् आस्थानम् अथ द्वाःस्थनिवेदितः ॥

16.72

आसीनम् अञ्जनश्यामम् उच्चैः स्फटिकविष्टरे
हिमाचलेन्द्रशिखरे नवीनम् इव नीरदम् ॥

16.73

केयूरपद्मरागांशु मञ्जरीजटिलऊभौ
भुजौ बिभ्राणम् उज्ज्वाल प्रतापज्वलनाव् इव ॥

16.74

उरसा रुद्धगीर्वाण द्विपेन्द्ररदकोटिना
हारवल्लीं दधल् लोलां दोलाम् इव जयश्रियः ॥

16.75

दधानं दीप्तिपर्यस्त तिमिरौ मणिकुण्डलौ
बन्दीकृतौ सहैवोभौ सूर्याचन्द्रमसाव् इव ॥

16.76

वीरव्रतस्यालङ्कारम् अहङ्कारस्य जीवितम्
जगताम् अङ्कुशं तत्र स वज्राङ्कुशम् ऐक्षत ॥

16.77

तन्निदेशितम् अध्यास्त स हिरण्यमयम् आसनम्
नानारत्नांशुशबलं शृङ्गं मेरोर् इवार्यमा ॥

16.78

कुर्वन् मुखानि स्मेराणि दशनज्योत्स्नया दिशाम्
विधाय सत्क्रियाम् एवम् असुरेन्द्रस् तम् अब्रवीत् ॥

16.79

अहो किम् अपि कल्याणम् आसन्नफलम् अद्य नः
अन्यथा हि गृहं सन्तः किम् आयान्ति भवद्विधाः ॥

16.80

यद् आश्रमे वङ्कुमुनेर् युवयोर् वृत्तम् अद्भुतम्
तत् कर्णातिथितां नीतम् एत्य प्रणिधिभिर् मम ॥

16.81

एतया सांप्रतं ब्रूहि युतो विद्याधरैर् अयम्
किम् आकङ्क्षति वः स्वामी फलं पाटालयात्रया ॥

16.82

नियुज्यन्ते नृपेणार्थे नाल्पीयसि भवद्दृशाः
शेषो धृतेर् भुवो ऽन्यत्र व्यापारयति किं फणान् ॥

16.83

तद् अत्र प्रहितो राज्ञा किम् अर्थम् असि कथ्यताम्
अर्थिनां व्यर्थताम् एति न जातु प्रार्थना मम ॥

16.84

मार्गैर् इवायतैर् वाचां शुचिभिर् दशनांशुभिः
सीमन्तिताधरः स्मित्वा तम् इत्य् ऊचे रमाङ्गदः ॥

16.85

आसां सुधारसार्द्राणां शुद्धानाम् असुराधिप
गिरां त्वम् एको यत् सत्यम् इन्दुर् भासाम् इवाकरः ॥

16.86

कच् चित् त्वयायम् अज्ञायि देवः साहसलाञ्छनः
जगत्प्रदीपम् अथवा को न वेत्ति विरोचनम् ॥

16.87

फणिराजसुताम् एष परिणेतुं शशिप्रभाम्
पथानेन रथक्षुण्ण रत्नशैलेन गच्छति ॥

16.88

त्वद्वापिहेमपद्मेन शुल्कसंस्था कृता किल
अस्याः पित्रेति देवेन तदर्थं प्रहिता वयम् ॥

16.89

अनेनेच्छसि चेत् कर्तुं सख्यं साहसलक्ष्मणा
तत् कार्तस्वरराजीवम् आनीय स्वयम् अर्प्यताम् ॥

16.90

लुम्पन्ति त्वन्मुखच्छायां यावन् नास्य चमूरजः
कुरुष्व तावद् आतिथ्यं हेमाब्जेन महीभुजे ॥

16.91

किम् अन्यन् ``नार्थिनां मत्तो विघटन्ते मनोरथाःऽऽ
इति त्वया स्वम् एवाशु प्रमाणीक्रियतां वचः ॥

16.92

इत्य् उक्तवति सामर्ष भटदृष्टे यशोभटे
प्रत्यभाषत सावज्ञं विहस्यासुरकुञ्जरः ॥

16.93

अहो बत विदग्धो ऽपि धिङ् मुग्ध इव लक्ष्यसे
विदुषापि त्वया किंचिद् यद् उक्तम् असमञ्जसम् ॥

16.94

यूयं क्व माणुषाः पृथ्वी सङ्कटस्वाम्यदुःस्थिताः
सा च त्रिजगतां भर्तुर् उचिता क्व शशिप्रभा ॥

16.95

तादृङ्मदङ्कम् एवात्र स्त्रीरत्नम् अधिरोहति
रमते हि हरस्यैव मौलाव् इन्दुकलाङ्कुरः ॥

16.96

यद्यद् अस्तीह पाताले रत्नं क्व चन किं चन
भाजनं तस्य तस्याहम् एकः के यूयम् उच्यताम् ? ॥

16.97

सहते नृपतौ नैव हेमतामरसार्पणम्
ममैष शक्रविजय क्रीडादुर्ललितो भुजः ॥

16.98

प्रभुस् तव नयज्ञो ऽपि किम् अनर्थाय केवलम्
दीर्घेन्दीवरमालेति विकर्षत्य् असितोरगम् ॥

16.99

इत एव निवर्तध्वं वर्तध्वं वचने मम
अवटे किम् इति क्षेप्तुम् आत्मानं यूयम् उद्यताः ॥

16.100

यावद् एते न मुञ्चन्ति मर्यादाम् असुराब्धयः
तावत् दूरापसारेण स्वामिनं त्रातुम् अर्हथ ॥

16.101

नरेन्द्रं दुर्जिगीषातस् तद् गच्छ विनिवारय
त्वादृशाः किम् उपेक्षन्ते पतिम् उत्पथगामिनम् ॥

16.102

अथवास्यास्ति शक्तिश् चेत् किम् अद्यापि विलम्बते
आयातु स्वयम् आदातुम् इतः काञ्चनपङ्कजम् ॥

16.103

किम् अन्यज् जायताम् एष खड्गधारातिथिर् मम
इत्य् उक्त्वा कोपतरलं विररामासुरेश्वरः ॥

16.104

धैर्यं संवृतकोपो ऽथ स्मयमानो रमाङ्गदः
तम् इत्य् अमुक्तपर्यङ्कः प्रतिवक्तुं प्रचक्रमे ॥

16.105

निर्वाणवीर्यवाते ऽस्मिन् रसातलबिलोदरे
अभुग्नभुजकण्डूतिर् अहो किम् अपि दृप्यसे ॥

16.106

मन्ये तवैतन्नीरन्ध्रम् अज्ञातस्वपरान्तरे
पातालचिरसंवासाच् चित्ते परिणतं तमः ॥

16.107

यां हरस्याष्टमीम् आहुर् मूर्तिम् आहुतिलेहिनीम्
तत्सूतिः प्राग् अभूद् भर्ता परमार इति क्षितेः ॥

16.108

कृतावतारं तद्वंशे वधाय विबुधद्विषाम्
किम् आदिदेवं कंसारिं धिङ् मर्त्य इति मन्यसे ॥

16.109

कमलेव मुकुन्दस्य पार्वतीव पिनाकिनः
फणिकन्योचिता पत्नी सा महीमीनलक्ष्मणः ॥

16.110

तां हठेनात्मसात्कर्तुम् असुरेन्द्र न शक्यसे
न रत्नसूचिम् आक्रष्टुम् अयस्कान्तस्य योग्यता ॥

16.111

पदं पथि निधत्से ऽत्र किम् अन्यायमलीयसे
अपथे चरतां यान्ति दूराद् दूरं विभूतयः ॥

16.112

अनर्पणं महीपाले हेमपङ्केरुहस्य यत्
तवापरिघम् उत्प्रेक्षे तद् एव द्वारम् आपदाम् ॥

16.113

राजेन्द्रदीपके तस्मिन् समराङ्गणवर्तिनि
एते भटास् ते न चिरात् आयास्यन्ति पतङ्गताम् ॥

16.114

तथा विधेहि न यथा त्वन्दतःपुरयोषिताम्
करपल्लवशय्यासु शेरते वदनेन्दवः ॥

16.115

प्रवृत्तपतिशोकार्त पौरस्त्रीपरिदेवना
इयम् उत्सन्नसङ्गीता मा भूद् रत्नवती पुरी ॥

16.116

देवस्यार्पितहेमाब्जस् तद् एहि पत पादयोः
शिरः पुनन्तु ते कामं पुण्यास् तत्पादपांसवः ॥

16.117

अथवा सुभटैः सार्धम् उत्तिष्ठ पुरतो भव
समं विद्याधरानीकैर् अयम् आयाति भूपतिः ॥

16.118

किम् अन्यत् समम् एतेन शिरस्तामरसेन ते
हेमकोकनदं देवः स्वयम् एव ग्रहीष्यति ॥

16.119

तम् इत्य् उक्त्वा सभामध्यान् निर्जगाम रमाङ्गदः
निकटं च रणोत्कस्य जगाम जगतीपतेः ॥

16.120

अथ वदति शनैः समेत्य तस्मिन्न् अमररिपोर् वचनानि तानितानि
असुरपतिविनाशकालरात्रिम् भृकुटीम् उवाह मुखेन मालवेन्द्रः ॥

16.121

गत्वा विद्याधरभटचमूचक्रवालैः सभं सः क्ष्मापालो ऽथ व्यधित परितस् तत्पुरो रत्नवत्याः
येन व्यक्तामरजयमहासाहसस्यासुराणां नाथस्यासीन् नवपरिभवश्यामलावक्त्रलक्ष्मीः ॥

मूल पाठ: Navasāhasāṅkacarita · Edition: Vamanasastri Islampurakara, Bombay : Govt. Central Book Depot (Bombay Sanskrit Series, 53) · Data entry Somadeva Vasudeva · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc