भाषा

ENहिગુ
ग्रंथ पाठ

नवसाहसाङ्कचरित · अध्याय 15

15.1

अथ सान्द्रघर्मजलबिन्दु लुलिततिलकः प्रचक्रमे
हेमकमलसुभगे सरितः सलिले निमङ्क्तुम् असितेक्षणाजनः ॥

15.2

श्रमम् एत्य मुञ्चत मदम्बु रभसपरिरम्भलीलया
एवम् अवदद् इव दीर्घदृशः कलहंसयूथनिनदेन जाह्नवी ॥

15.3

मरुतावधूतकलधौत कमलमकरन्दगन्धिना
ऊर्मिदलनशिशिरेण बलाद् अबलाजनस्य नुनुदे परिश्रमः ॥

15.4

परिविद्धरेखम् अधितीर विरचितपदे वधूजने
कान्तिम् उदवहद् अमर्त्यसरित् तटरूढकाञ्चनलतेव कां चन ॥

15.5

सितचक्षुषाम् असितरत्न रुचिमुषि मृणालिनीदले
स्थूलजललवनिभेन दधे नवमौक्तिकार्ध इव जाह्नुकन्यया ॥

15.6

उदितत्रपा इव विलास मसृणगमनेन सुब्र्हुवाम्
जग्मुर् अमरसरितः पुलिनं सहसा विहाय कलहंसपङ्क्तयः ॥

15.7

धवलाभ्रकछुरितभित्ति लिखितललिताङ्गनालिपिम्
अप्सु कुवलयदृशां प्रतिमाः सितरत्नदर्पणनिभासु लेभिरे ॥

15.8

अथ वल्लभार्पितकराग्र निहितनिजपाणिपल्लवाः
वारिविकचकनकाब्जरजः कपिशोर्मिमालम् अबला जगाहिरे ॥

15.9

सुदृशां निमज्ज्य सुरसिन्धु पयसि नियमस्थितैर् इव
ऊर्मितरलितमयूखशिखैर् मणिनूपुरैः सपदि मौनम् आददे ॥

15.10

कुचलुप्तपत्रलतयाथ विगलितविसूत्रहारया
प्रापि रतिरमणविलासतुला ललितभ्रुवां जलविहारलीलया ॥

15.11

नवकुङ्कुमारुणपुरन्ध्रि कुचकलशताडितं पयः
रागम् अभजत न कस्य भवेत् सुलभाङ्गखेलद् अबलस्य विक्रिया ॥

15.12

विकिरन् विहस्य मणिशृङ्ग धृतम् उदकम् एत्य पृष्ठतः
साचिमुकुलितदृशा ददृशे दयितो मुहुर् वलितकण्ठम् एकया ॥

15.13

परिणाहवत् कुचनिषिद्ध करणवलनोत्कदोर्लतम्
लोलमुखरमणिकङ्कणया विदधे जले मुरजवाद्यमन्यया ॥

15.14

हरिणीदृशो हृतपुरन्ध्रि कुचकलशकुङ्कुमाङ्किता
क्षिप्रम् अधिजघनम् ऊर्मिलता शिथिलेव हेमरशना विदिद्युते ॥

15.15

सलिलं किरन्तम् अवलोक्य रमणम् अपराङ्गनामुखे
चित्रम् अविरलधृताश्रुलवे निमिमील का चिद् अबला विलोचने ॥

15.16

द्रुतम् अत्रुटद् विबुधसिन्धु निबिडलहरीकराहतम्
हारवलयम् अरविन्ददृशां कुशलं कुतो ऽस्ति गुणिनां जडान्तरे ॥

15.17

शुशुभे कयापि करयन्त्र निहितशुचिवारिधारया
मुक्तसितकुसुमसायकया मकराङ्कचापलतयेव बालया ॥

15.18

परिवेषविभ्रमनिवेशि मनसिजतुषारदीधितेः
को ऽपि करकिसलये कमिता विदधे मृणालवलयं मृगीदृशः ॥

15.19

हृदयेशमुक्तजलधौत मलयजविलेपनैर् ह्रिया
लक्ष्यनवनखपदाव् अपरा नलिनीदलेन पिदधे पयोधरौ ॥

15.20

अभितो ऽङ्गनामुखमृगाङ्कम् उडुनिकरकान्तिम् आददे
केलितरलतरुणीनिबिड स्तनताडिते पयसि बुद्बुदोतकरः ॥

15.21

विदधे वधूर् निजकराग्र गलितमणिकङ्कणाङ्किते
मेघशकल इव सेन्द्रधनुर् वलयोदरे नयनम् अब्जिनीदले ॥

15.22

असिताञ्जनाङ्कम् अभिजात कुवलयदृशां दृशो ऽन्तरात्
नीरमहृत न हि शुद्धिमतां तटवृत्तिर् आश्रितकलङ्कमार्जने ॥

15.23

तरलोर्मिलङ्घितनितम्ब फलकलुलिताच्छवासः
फेनपटलम् असिताब्जदृशः क्षणम् एकम् अंशुकविलासम् आददे ॥

15.24

सुदृशः स्फुटं नवनखाङ्कम् उरसि जलधतकुङ्कुमे
कान्तनिहितनयनं पिदधे पृथुहारतारतरलांशुपल्लवः ॥

15.25

लुलिताञ्जनस्य नयनस्य सहभुवम् इवेक्षितुं श्रियम्
लग्नजलसरलितैर् अलकैर् लुलुठे ललाटतटसीम्नि सुभ्रुवः ॥

15.26

दधतीव कापि रुचिम् आप मनसिजविलासवल्लकीम्
अंसविनिहितमृणाललता तलवर्त्य् अलाबुपरिवर्तुलस्तनी ॥

15.27

सलिलाहतित्रुटितहार परिगलितमौक्तिकभ्रमात्
मुग्धयुवतिर् अपरा निदधे दृशम् अब्जिनीदलपुटोदबिन्दुषु ॥

15.28

धवलोदरैर् भयवशेन तरलवलितैर् विलोचनैः
नीलनलिनदलदामदृशां शफरैः समं सुचिरम् अप्सु बभ्रमे ॥

15.29

गलिताङ्गदा गुरुतरङ्ग दलितमणिकर्णपूरकाः
स्रस्तकनकवलयाः सुदृशः श्लथबन्धरत्नरशनाश् चकाशिरे ॥

15.30

अतिकम्पम् ऊर्मिकुटिलभ्रु बहलनवकुङ्कुमारुणम्
स्त्रैणकरतलनिरस्तम् अभूद् उपजातकोपम् इव जाह्नवीजलम् ॥

15.31

अकरोत् पदं पृथुनितम्ब विलुलितजलार्द्रवेणिषु
नीरलवशबलगण्डतलास्व् अबलासु कुण्डलितकार्मुकः स्मरः ॥

15.32

च्युतरत्नभूषणमरीचि रचितसुरचापमण्डलम्
केशकुसुमशबलम् शुशुभे सुदृशाम् अनङ्गमददीपनं पयः ॥

15.33

अथ ताभिर् एकतपनीय सरसिजसनाथपाणिभिः
श्रीभिर् इव समुदतारि ततः पुनरुक्तचाटुपटुभिः प्रियैः सह ॥

15.34

सजलांशुकान्तिविशदाङ्ग जनितनिबिडत्रपाकुलाः
व्यक्तनवनखपदाभरणाः प्रियलोचनान्य् अरमयन् मृगीदृशः ॥

15.35

अथ ता गृहीतशरदिन्दु धवलसिचयाः प्रसाधनाम्
चक्रुर् अधिवपुर् अमर्त्यसरित् पुलिनस्थलीकनकवल्लिधामसु ॥

15.36

तिलकाङ्किताः प्रचुरपुष्प परिमलमुचो मृगीदृशः
ऊढनवललितपत्रलता दधुर् अङ्गजोपवनराजिविभ्रमम् ॥

15.37

न चिराद् अलङ्कृतिविशेष विहितरुचयो ऽतिपेशलाः
लक्ष्यनवनवरसाः शुचयः कविपुङ्गवोक्तय इवाङ्गना बभुः ॥

15.38

वहति स्म निर्मलकपोल लिखितमृगनाभिपत्रकम्
कापि निभृतमधुपावलिमत् कलधौतकोकनदकान्तम् आननम् ॥

15.39

अधिकर्णम् उद्गतमयूख मरकतमनोहरोदरम्
बालम् इव मदनकल्पतरोर् दलम् एकया कनकपत्रम् आददे ॥

15.40

धृतयावकाङ्कम् अपि कान्त वदनपरिचुम्बनोचिते
रागमधुररुचके निदधे दयिते च का चन चकोरलोचना ॥

15.41

हरिणाङ्कसुन्दरम् अनेक विशदगुणगुम्फिताकृतिम्
हारम् अवहद् अपरा न परं हृदि कान्तम् अप्य् असमबाणदीपनम् ॥

15.42

इतरा पदाङ्कम् इव मत्त मदनकरिणो ऽलिकोदरे
सान्द्रमृगमदनमषीरचितं तिलकं कुरङ्गतिलकानना दधे ॥

15.43

हृतसुप्तहेमशतपत्र रुचिमुकुलिताङ्गुलीदले
का चिद् इतरकरसङ्घटितं निदधे विलासमणिकङ्कणं करे ॥

15.44

उदितासु काञ्चिगुणमध्य मरकतमरीचिसूचिषु
व्यक्तिम् अलभत न रोमलता स्मरदीपकज्जलशिखा मृगीदृशाम् ॥

15.45

सरसागसेव रमणेन चरणनलिनानुषङ्गिणा
पुष्पशरतरलिता दधिरे मणिनूपुरेण मृगलोचना रुचिम् ॥

15.46

दधतीभिर् इन्दुकरजाल शबलतिमिरोर्मिविभ्रमम्
ऊढधवलकुसुमाभिर् अलं कबरीलताभिर् अबलाश् चकाशिरे ॥

15.47

प्रियपाणिपङ्कजधृतेषु सकलशशिबिम्बबन्धुषु
वक्त्रकमलम् अविलोलदृशो मणिदर्पणेषु ददृशुः पुरन्ध्रयः ॥

15.48

प्रकटं दधज् झटिति रागम् अलघुम् अथ वारुणीं प्रति
कान्तिनिकर इव तिग्मरुचेर् वनिताजनो ऽभिमुखतां समाददे ॥

15.49

उदियाय मानतिमिरौघ विघटनपटुर् मनोऽम्बरे
बालकुवलयदृशां विशदे शनकैर् मनोभुवकुरङ्गलाञ्छनः ॥

15.50

अरुणाङ्गुलीदलनिरुद्ध नवकनककोशकर्णिकैः
सान्द्रमधुपरिमलई रुरुचे करपङ्कजैर् अथ चकोरचक्षुषाम् ॥

15.51

मणिशुक्तिषु क्षणम् उपोढ कुवलयसुगन्धिसीधुषु
न्यस्यद् असमशरयन्त्रम् इव भ्रमति स्म भृङ्गकुलम् उत्सुकोत्सुकम् ॥

15.52

रुरुचे ऽलिमण्डलम् उदंशु कमलचषकोपरि स्थितम्
एकम् इव रतिपतेर् उदितं तपनीयदण्डम् असितोष्णवारणम् ॥

15.53

विधृता करे प्रियतमेन कतिपयशिलीमुखान्विता
चित्तम् अकृत विवशं सुदृशां कुसुमेषुकार्मुकलतेव वारुणी ॥

15.54

अतिरागिणि प्रणयिणीव मधुनि परिचुम्बितानने
व्यक्तिम् अलभत मदो हृदये पुलकः कपोलफलके च सुभ्रुवाम् ॥

15.55

प्रतिमागतेन्दुकरजाल धवलितम् इव श्रियं दधे
पाननमितमुखमुग्धवधू विगलद्विलासहसितछटं मधु ॥

15.56

मधु कापि पाटलकपोल तरलकलधौतकुण्डला
लोलनिजमुखतुषारकर प्रतिबिम्बगर्भम् अभिकार्पितं पपौ ॥

15.57

अतिरक्तम् आयततरेण विलसदसितोत्पलश्रिया
कामम् अपिबदपरेन्दुमुखी चषकेण सीधु, नयनेन वल्लभम् ॥

15.58

अगमत् त्रयस्य समम् एव परिमलरसज्ञताम् अलिः
कल्पविटपिमधुनः प्रमदा मुखमारुतस्य विकचोत्पलस्य ॥

15.59

अधराग्रचुम्बनम् अवाप्य कमलदलदीर्घचक्षुषाम्
श्वासतरलम् अजनिष्ट मुदा मुहुरात्तलास्यम् इव कापिशायनम् ॥

15.60

मदम् आसवेन रमेण नखपदम् इवार्पितं हृदि
नातिविशदपदबन्धमथो नवसाहसाङ्कचरितं जगुः स्त्रियः ॥

15.61

मदिरार्पिताधरदलेन युवतिर् अमृतछटोपमा
प्रेमरसमृदुषु दीर्घदृशां हृदयेषु पल्लवयति स्म मन्मथम् ॥

15.62

दयिताहिते युवजनेन विलसदतिपाटलद्युतौ
कामसुहृदि विहितः प्रणयः प्रथमं मधुन्य् अधरपल्लवे ततः ॥

15.63

अवधूतमानमधुपान रसरभसतः प्रसन्नताम्
प्रापुर् अतिपृथुदृशां सहसा हृदयानि चाच्छमणिभाजनानि च ॥

15.64

दयिताम् अनङ्गमदसूतिम् असितनलिनावतंसकाम्
सान्द्ररुचियुवजनो मदिरां परिचुम्बति स्म न परं वधूम् अपि ॥

15.65

अनयन् सहैव शिथिलत्वम् उभयम् उभयेन योषिताम्
व्रीडम् अरुणरुचिना मधुना मणिकाञ्चिदाम च करेण कामिनः ॥

15.66

सुदृशां मदाद् अथ परिस्रुद् अरुणितसितोदराः करात्
पेतुर् अमरसरितः पुलिने मणिशुक्तयः प्रियतमे च दृष्टयः ॥

15.67

नवपल्लवारुणम् उवाह धृततरुणवारुणीमदः
रागम् अथ शुचिनि गण्डतले नयनोदरे च मदिरेक्षनाजनः ॥

15.68

अपरिस्फुटोक्तिललितासु मदमुकुलदीर्घदृष्टिषु
तासु शबलकुसुमांसलसत् कबरीलतासु पदम् आदधे स्मरः ॥

15.69

आपानभूर् अवसितासवरागदीर्घ सेन्दीवरस्फटिकशुक्तिशता चकासे
कौतूहलान् मदविलोलवधूविलास व्यालोकनोन्मिषितवक्त्रपरम्परेव ॥

15.70

अविरलमणिदीपोद्द्योतदूरापसर्पत् तिमिरम् अमरसिन्धोः कूलकच्छं प्रविश्य
अथ सममसुनाथैस् ताः सलीलं निषेदुः सरसकनकजम्बूपल्लवप्रस्तरेषु ॥

15.71

सान्द्रोन्मीलत्सौरभाण्य् उद्वहन्त्यो विद्युल्लेखपिङ्गलान्य् अङ्कानि
लक्ष्मीं हेमाम्भोजमाला इवापुः सारङ्गाक्ष्यः प्रेयसां कण्ठलग्नाः ॥

15.72

ततो विसूत्रच्युतहारयष्टिः शीर्णाङ्गदो भङ्गुरकर्णपूरः
मदेन सद्यो मदिरेक्षणानां रतोत्सवः पल्लवितो बभूव ॥

15.73

नानाङ्गरागशबले श्लथबन्धलोल धम्मिल्लमाल्यकुसुमप्रकरावकीर्णे
पुष्पेषुतल्पे इव वक्षसि वल्लभानां निद्राम् अवापुर् अथ ताः सुरतश्रमेण ॥

15.74

कन्दर्पस्य त्रिलोकीहठविजयमहासाहसोत्साहहेतुर् धुन्वंस् तत्पक्ष्मधूलिव्यतिकरकपिशः काञ्चनाम्भोरुहाणि
तन्वानस् तीररूढत्रिदशतरुलतालास्यम् आलस्यभाजां तासां संभोगकेलिक्लमभरम् अहरज्जाह्नवीवीचिवातः ॥

मूल पाठ: Navasāhasāṅkacarita · Edition: Vamanasastri Islampurakara, Bombay : Govt. Central Book Depot (Bombay Sanskrit Series, 53) · Data entry Somadeva Vasudeva · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc