नवसाहसाङ्कचरित · अध्याय 14
अथाश्रमोपान्तमहीं विहाय नेमिस्वनोत्कण्ठितनीलकण्ठाम्
रथो ऽस्य विद्याधरमन्त्रशक्त्या रथाङ्गपणेः पदम् आरुरोह ॥
ससंभ्रमोत्तंभितकर्णतालम् आकर्णितो दिक्करिभिः सकंपैः
आध्मातशङ्खस्वनमांसलो ऽग्रे तस्योदगान् मङ्गलतूर्यघोषः ॥
उदस्य वक्त्राणि नभस्थलेन यान्तं तम् ऐक्षन्त तपस्विकन्याः
आकर्णविस्तारितमुग्धनेत्राः पत्रान्तरैर् आश्रमपादपानाम् ॥
व्रजन् स विद्याधरवाहिनीनां मध्ये बभौ मध्यमलोकपालः
अनल्पसौन्दर्यसुधैकसूतिः शशीव नक्षत्रपरम्पराणाम् ॥
कुतूहलोल्लोलासितपक्षलेखान्य् आकृष्टकर्णोत्पलविभ्रमाणि
तस्मिन्न् अमुञ्च्यन्त नितम्बिनीभिर् अपाङ्गवल्गीनि विलोचनानि ॥
अथान्तिकस्थेन सश् चाभ्यधायि रमाङ्गदेनेत्थम् अवन्तिनाथः
सहस्रशः खे चलितानि पश्यन् विद्याधराणां पुरतो बलानि ॥
हैमं नृप स्यन्दनम् उत्पताकम् आकम्पि रत्नाङ्कितकेतुम् एते
सहस्ररश्मेर् इव वालखिल्या विध्याधरास् ते परिवारयन्ति ॥
व्रजन्न् अमर्त्यप्रमदाविमुक्त मन्दारमालाजटिलांसकुटः
कुन्दच्छटापाण्डुसटाकलापः कात्यायनीसिंह इवावभासि ॥
प्रयाणतूर्यध्वनिर् एष किं ते पातालकुक्षिप्रतिनादसान्द्रः
रवः प्रसर्पत्य् उत भैरवो ऽयम् अकालकल्पान्तपयोधराणाम् ॥
मूले भुवः कज्जलधूलिकल्पम् आलक्ष्यते पश्य निलीनम् एतत्
नीरन्ध्रविद्याधरमौलिरत्न प्रभाङ्कुरप्राशितम् अन्धकारम् ॥
आयामिमालामणिकान्तिदण्डैर् उत्सारयन्तः परितस् तमांसि
अमी मरुन्नर्तितचामरास् ते खम् उल्लिखन्तीव खुरैस् तुरङ्गाः ॥
विहस्य विद्याधरबालिकाभिः समं विमुक्ता नयनत्रिभागैः
प्रस्थानलाजाञ्जलयस् तवैते रथे पताकास्खलिताः पतन्ति ॥
नरेन्द्र विद्याधरपुङ्गवानाम् एते पुरः पश्य कृपाणपट्टाः
कालाञ्जनश्यामतयाश्रयन्ते तरङ्गतां व्योममहार्णवस्य ॥
वाचालयन्त्यः ककुभां मुखानि नादेन जाम्बूनदकिङ्किणीनाम्
इमा विमानावलयः कथं चिद् अन्योन्यरुद्धप्रसराः प्रयान्ति ॥
आधूतकार्तस्वरकेतुयष्तिर् एनान्य् अशोकस्तबकारुणानि
आनर्तयत्य् एष पताकिनीनां वातः पताकांशुकपल्लवानि ॥
नभश्चराणां व्रजताम् अमीषाम् अन्योन्यपीनांसविघर्षणेन
उल्लासितः कुङ्कुमपांसुपूरः पिशङ्गयत्य् एष दिशां मुखानि ॥
सरत्नकाञ्चीवलयैर् विलास सिंहासनैर् मन्मथपार्थिवस्य
इतो नितम्बैर् असितेक्षणानां व्याप्तान्तरं व्योम समाप्तिम् एति ॥
अन्योन्यसङ्घट्टविसूत्रितानि कुमुद्वतीकान्तकरोपमानि
एतानि पश्याम्बरतः पतन्ति विमानमुक्ताफलजालकानि ॥
एताः प्रयान्त्यः पुरतो विमानैर् विवर्त्य बाला मुखपङ्कजानि
अपाङ्गविश्रान्तविलोलतारैस् त्वां नाथ नेत्राञ्जलिभिः पिबन्ति ॥
आसाम् इतः सत्वरगामिनीनां गतागताभ्यां मणिकुण्डलानि
भिन्दन्ति विद्याधरकामिनीनां कपोलकालागुरुपत्त्रकानि ॥
इतो मिथः पार्श्वविघट्टितेषु जवाद् विमानेषु समापतत्सु
आसाम् इतः प्रेङ्खितमध्यरत्न विसूत्रिता हारलताः स्फुटन्ति ॥
एते गतिक्षोभवशाद् वधूनां पश्योन्मयूखा मणिकर्णपूराः
इतस् तले सञ्चरताम् अहीनां निपत्य चूडामणिषु स्वनन्ति ॥
पातालम् एतन् नयनोत्सवेन विचिन्त्य शून्यं शशलाञ्छनेन
इहाङ्गनाभिः स्वमुखछलेन कृतो ऽम्बरे चन्द्रमयीव सृष्टिः ॥
इतो रसं पल्लवयन्ति वीरं विद्याधराणां करवालवल्ल्यः
एताश् च शृङ्गारम् इतो ऽङ्गनानां दृशो नवेन्दीवरदामदीर्घास् ॥
झटित्य् अवाप्तप्रतिबिम्बम् एतत् सैन्यं विलोक्य स्फटिकाङ्गणेषु
सविस्मयं नागपुराङ्गनाभिर् इतः क्रियन्ते नयनोत्पलानि ॥
नरेन्द्र तस्माद् गगनावहगाहि त्वद्दर्शनव्यग्रतपस्विपङ्क्तेः
दूरं हविर् धूमसुगन्धिसीम्नः स्थानाद् वयं वङ्कुमुनेः प्रवृत्ताः ॥
यथायम् अभ्येति पुरो नभस्वान् आकृष्टनानाविधपुष्पगन्धः
अग्रे तथाभ्रंलिहभूरुहं नः शङ्के वनं दृक्पथम् एष्यतीति ॥
एभिर् महीपाल विमानरत्नैर् अग्रेसरैः सम्भ्रममुक्तमार्गः
निष्कम्पकेतुर् महतास्पदेन रथस् तवायं वियति प्रयाति ॥
सितप्रसूनस्तबकैस् तरूणाम् एषा पुरस्तारिकान्तरिक्षा
झटित्य् अशेषैव निमेषमात्राद् उन्मीलिता पश्य वनान्तलेखा ॥
यदीश विद्याधरवाहिनीयम् आकाशतः किञ्चिदधः प्रवृत्ता
अवैमि चित्ते निहितं तद् अस्याः पदं वनालोकनकौतुकेन ॥
एषा तमालावलिनीलकान्तेर् उपोढरामामुखहेमपद्मा
सेना वनस्याभिमुखं प्रयाति पश्याम्बुरासेर् इव जह्नुकन्या ॥
अस्याः क्षमापाल वनान्तराजेर् विमानपङ्क्तिः पुरतःस्थितेयम्
आलम्बते रत्नकिरीटलक्ष्मीं मणिप्रभोद्गीर्णमहेन्द्रचापा ॥
एते खलीनक्षतशोणिताक्ताः पश्येन्द्रगोपश्रियम् उद्वहन्तः
तुरङ्गलालाजलबिन्दवस् ते लुठन्ति हेमद्रुमपल्लवेषु ॥
मन्दानिलान्दोलितपल्लवाग्राः समग्रपुष्पाहरणोद्यताभ्यः
इतो लताः पार्थिव संरभन्ते लावण्यम् आदातुम् इवाङ्गनाभ्यः ॥
अमूनि पुष्पाणि महीरुहाणाम् आभान्ति लीनभ्रमरोदराणि
विद्याधरीविभ्रमदर्शनार्थम् उत्तानितानीव विलोचनानि ॥
पश्याग्रवातायनम् एतद् एत्य लताग्रपुष्पाण्य् अचिन्वतीनाम्
नृपातिभारेण नितम्बिनीनां विमानरत्नानि पुरो नमन्ति ॥
शाखाग्रलग्नासु महातरूणां विटङ्करत्नद्युतिश्र्ङ्खलासु
विलम्बमानैर् इव चिम्बितेयम् इतो विमानैर् मणिपञ्जरश्रीः ॥
इमाः समं प्राणसमैर् वने ऽस्मिन् सर्वऋतुर् लक्ष्मीनिबिडोपगूढे
नभःस्थिता एव नरेन्द्र पश्य पुष्पोच्चये लोलदृशः प्रवृत्ताः ॥
एताः करैः काञ्चनपद्मगौरैर् विलासवत्यः सनिबन्धनानि
हरन्ति पुष्पाणि महीरुहाणां मृदूनि यूनाम् इव मानसानि ॥
आसां लताग्रस्तबकोत्थितानि शिखण्डरत्नद्युतिचुम्बितानि
पश्योपरिष्टाद् अलिमण्डलानि नीलातपत्रभ्रमम् आरभन्ते ॥
मुञ्चत्य् अलिः पुष्पलताम् इतो ऽयम् आघ्रातरामामुखपद्मगन्धः
गुणप्रकर्षे हि सदा मनांसि गुणान्तरज्ञावतां रमन्ते ॥
लतैतया चूततरोः सलीलम् आनीयमाना नतिम् आनताङ्ग्या
पश्योत्पतत्पुष्पशिलीमुखेयम् आभाति कन्दर्पधनुर्लतेव ॥
भ्रमद्द्विरेफावलिलोलदृष्टिर् लीलावतंसक्रिययोन्मुखानि
विचेतुम् एषा कुसुमानि नालं तरोस्तनालिङ्गनदोहदस्य ॥
प्रियार्पितः कान्तनिपीतमुक्त पुरन्ध्रिबिम्बाधरकान्तिचोरः
अस्याः सरत्नत्विषि कर्णपाशे किम् अप्य् अशोकस्तबकश् चकास्ति ॥
अस्या लताक्षेपविसूत्रितस्य हारस्य लग्नस्तनकुङ्कुमस्य
भ्रष्टाः क्षितौ दाडिमबीजमोहाद् आक्षिप्य मुक्ताः कपयः क्षिपन्ति ॥
निदाघलक्ष्मीहसितछटेयं पर्याप्तकृष्णागुरुधूमगन्धे
बन्धे कचाना नवमल्लिकास्याः पश्यालिनीले परिभागम् एति ॥
असाव् इतः पार्थिव दन्तपत्रम् आपास्य हंसछदपाण्डु बाला
करोति कर्णे नवकर्णिकारम् उत्तापिताष्टापदरत्नशोभि ॥
स्थितो ऽयम् अन्तो नवपल्लवानां प्रवालताम्राङ्गुलिर् आयताक्ष्याः
व्यक्तिं शरच्चन्द्रकरोज्ज्वलाभिर् नखांशुरेखाभिर् इतः प्रयाति ॥
धावत्करा कर्णशिरीषलोभाद् इतस् ततः सम्पतति द्विरेफे
क्रीडाम् इव व्याकुलदृष्टिपाता बालेयम् अभ्यस्यति कन्दुकस्य ॥
प्रावृड्विलासस्मितम् उद्वहन्ती कर्णे नवं केतकबर्हम् एषा
प्रियावतंसीकृतचन्द्रलेखा चकास्ति कन्येव हिमाचलस्य ॥
विलोकितालेख्यकपोलभागात् प्लवङ्गशावे ऽधिगते विमानम्
इतः कदम्बाद् अनिवृत्तहस्तम् आस्ते भयाद् आलिखितेव तन्वी ॥
पुष्पाणि चिन्वत्य् अतिमुक्तकस्य पश्य श्लथं केशकलापम् एषा
अंसे बिभर्तीव तमालनीलं विलासवालव्यजनं स्मरस्य ॥
विमुञ्चती चक्षुषि पुष्पधूलिम् एषा गते तं प्रति वल्लभस्य
चित्रं झटित्य् अश्रुलवावकीर्णे दृशौ सपत्न्याः कलुषीकरोति ॥
मध्यच्युते बिभ्रति किंशुके ऽस्मिन्न् अस्रारुणस्याकृतिम् अङ्कुशस्य
अस्याः स्तनाभ्याम् अधुना धृतेयम् अनङ्गमत्तद्विपकुम्भलक्ष्मीः ॥
अभ्यागतायाः सहसामुनास्याः कन्दर्पसाम्राज्यधुरोद्वहेन
सुगन्धिभिः पाटलिपादपेन पुष्पैर् इतः कल्पितम् आतिथेयम् ॥
आर्द्रागसेयं गमिता प्रसादं कृतप्रणामाञ्जलिना प्रियेण
प्रमृष्टबाष्पा सुमुखी नखाभ्यां चूताङ्कुरं मानम् इवोच्छिनत्ति ॥
अध्यासते काम् अपि कान्तिम् आसाम् एते सकुन्दाः कबरीकलापाः
कुमुद्वतीकान्तकरानुविद्धास् तमःप्रताना इव यामिनीनाम् ॥
पुष्पाणि नानाविधवर्णभाञ्जि विमानवातायनतो विचित्य
युवायम् इन्द्रायुधवर्णकान्तम् उत्तंसम् अस्याः सदृशः करोति ॥
पश्येयम् उद्बाहुलताहितश्रीर् मध्येन नश्यत्त्रिवली लतेव
विमानतः कोमलम् उच्चिनोति वधूर् मधूकं स्वकपोलकान्ति ॥
अदः सुगन्धीकुरु मत्प्रसूनं मुखाब्जसौगन्ध्यकणार्पणेन
इत्य् अञ्चलासक्तलतो न याञ्चाम् अस्याः करोतीव सः कर्णिकारः ॥
तथा न चूते नवमञ्जरीयम् अवाप्तवत्य् आत्मगुणप्रकर्षम्
अस्याः सकालागरुपत्रलेखे यथा कपोले कमलेक्षणायाः ॥
वहत्य् अशोको ऽयम् अमर्त्यकान्ता पदाहतः कान्तम् अलक्तकाङ्गम्
कृत्वा जगत्य् अस्खलितां निजाज्ञां स्कन्धे ऽर्पितं तूणाम् इव स्मरेण ॥
चिरेण मन्ये बकुलद्रुमो ऽयम् अवाप्तपारःस्पृहणीयतायाः
अर्थी करो ऽस्याः सुमनःसु यस्य जातो जितामर्त्यतरुप्रवालः ॥
फलं शिरीषेण चिराद् अवाप्तम् अस्याः समग्रं सुकुमारतायाः
निरस्य गीर्वाणतरुप्रसूनां यद् एतद् उत्तंसितम् आयाताक्ष्या ॥
अस्याः श्रुतौ चम्पकम् आदधत्याः करेण मुक्तावलयाङ्कितेन
एष द्विजः स्वस्त्ययनं विरावैर् नास्याः करोतीति न मञ्जुकण्ठः ॥
विन्यस्तबन्धूकदली मुखे ऽस्याः स्वेदार्द्रकालागरुपत्रवल्ली
चकास्ति संध्यातपलेशशङ्कि कलङ्कलेखा शशलक्ष्मनीव ॥
एता मिथो रुद्धविमानमार्गा लताग्रजं पुष्पम् अनाप्नुवन्त्यः
भवन्ति भारानमिताङ्गकेषु बद्धाभ्यसूयाः स्तनमण्डलेषु ॥
एतानि कान्तैः प्रमदाजनस्य नवप्रवालान्य् अवतंसितानि
पश्यन्ति पश्य स्वम् इवाप्तकान्तिं कपोलपालीमणिदर्पणेषु ॥
यद् यद् वने ऽभूत् कुसुमं सुगन्धि वधूजनैस् तत् तद् इतो गृहीतम्
कृत्स्नत्रिलोकीविजयावतंसं निर्मातुम् इष्वासम् इव स्मरस्य ॥
कर्णावतंसीकृतपल्लवानां विचित्रपुष्पाभरणोज्ज्वलेषु
पश्याभितः पल्लवितेयम् आसाम् अङ्गेषु सारङ्गदृशाम् ऋतुश्रीः ॥
स्वेदोदबिन्दुछलतः कपोले वितीर्णमुक्तार्घ इव स्मरस्य
एणीदृशां कान्त इव प्रवृत्तः श्रमो ऽयम् आलिङ्गितुम् अङ्गलेखाम् ॥
आसां पृथुस्वेदकणाङ्कितानि वक्त्राणि नेत्रोत्सवम् अर्पयन्ति
प्रत्युप्तमुक्ताफलदन्तुराणि हिरण्यमयानीव सरोरुहाणि ॥
एतानि पश्य च्युतपुष्पधूलि व्यालुप्तपक्ष्मावलिसौष्ठवानि
श्रमेण किं चिन् मुकुलीभवन्ति सीमन्तिनीनां नयनोत्पलानि ॥
एतासु सीदन्मणिबन्धमूल निलीनलीलामणिकङ्कणासु
विलोक्यतां व्यक्तिम् उपैति खेदो विद्याधरस्त्रीजनदोर्लतासु ॥
अनङ्गकल्पद्रुममञ्जरीणाम् अमोघमन्त्रं कुसुमायुधस्य
भृशम् यथा पुष्पमयी विभूषा नासां तथा रत्नमयी विभाति ॥
वनान्तम् एता वनिता न मुक्तुम् अनेकपुष्पं नृप शक्नुवन्ति
विमुच्यते केन नाम स देशो यत्रास्ति सान्द्रः सुमनःप्रचारः ॥
इत्युज्ज्वले तस्य वचःप्रसूने नीते ऽपि कर्णातिथितां विहस्य
नृपो बभूवास्तमनाः सचित्रं स्मृताहिराजेन्द्रसुताविलासः ॥
पुष्पप्रवालाङ्कुरमण्डलं तत् क्वणद्विमानावलिहेमघण्टम्
वनं विहायाथ समग्रम् अग्रे चचाल विद्याधरराजसैन्यम् ॥
अथ प्रवालाधरबिम्बचुम्बि परिस्फुरत्फेनविलासहासा
वाचालहंसावलिकाञ्चिदाम सनाथतीरोरुनितम्बबिम्बा ॥
समीरवेल्लत्तटहेमवल्लि लोलप्रभापिञ्जरितोर्मिलेखा
विलासमज्जत्फणिराजकन्या सङ्क्रान्तकान्तस्तनकुङ्कुमेव ॥
निमग्नदिङ्नागकपोलभित्ति सन्ताननिर्यन्मदवेणिकृष्णा
तृतीयनेत्रानलधूमवल्लि कलङ्कितेव त्रिपुरान्तकस्य ॥
भारानमद्भोगिफणास्थितायाः स्थलोच्छलद्वीचिचयच्छलेन
उत्तम्भयन्तीव तले सतर्कम् अर्कोपलस्तम्भशतानि भूमेः ॥
तटोद्गतप्रांशु तमालराजि छायाघनश्यामलितार्धभागा
मूर्तिस् तुषाराचलतुल्यकान्तिर् उमापतिश्रीधरयोर् इवैका ॥
कादम्बचञ्चूद्धृतचक्रवाकी पारिप्लवव्यक्तमृणालकाण्डा
चण्डीधवोन्नद्धजटाविटङ्क कृष्टेन्दुलेखाङ्कुरदन्तुरेव ॥
तरङ्गभङ्गोज्ज्वलचामरश्रीर् उद्दण्डहेमाम्बुरुहातपत्रा
पुण्या पुरो दूरत एव तेन त्रिमार्गगादृश्यत पार्थिवेन ॥
तस्यास् तटे ऽथ कुसुमावचयश्रमार्त सीमन्तिनीनिवहसस्मितवीक्षितायाः
विद्याधरेण विदधे धवलोर्मिधौत पर्यन्तहेमसिकते पृतनानिवेशः ॥
तद् अनु पुलिने सद्यो विद्याधरैः परिकल्पितं न्र्पतिर् अविशल् लीलागारं सः साहसलाञ्छनः
भ्रमम् अजनयन् नेत्रोत्कीर्णा इति प्रतिबिम्बिताः सितमणिमये यस्मिन्न् अन्तो बहिश् च मृगीदृशः ॥
मूल पाठ: Navasāhasāṅkacarita · Edition: Vamanasastri Islampurakara, Bombay : Govt. Central Book Depot (Bombay Sanskrit Series, 53) · Data entry Somadeva Vasudeva · GRETIL (Göttingen) · CC BY-NC-SA 4.0