भाषा

ENहिગુ
ग्रंथ पाठ

नवसाहसाङ्कचरित · अध्याय 12

12.1

अथ मानवमीनलक्ष्मणो मणिपर्यङ्कगतस्य तस्य सा
अपतत् फणिराजकन्यका जगदेकाभरणम् स्मृतेः पथि ॥

12.2

व्यधित प्रणयं दृशां पुरः कमनीयेषु स येषु वस्तुषु
जनितोत्कलिकाशतैः सस् तैर् अरतेर् आयतनं व्यधीयत ॥

12.3

मुहुर् अङ्गलताविवर्तनैः श्वसितैः शून्यविलोकनेन च
क्षितिभर्तुर् उपान्तवर्तिना मदनाकल्पकम् अन्वमीयत ॥

12.4

कदलीदलदत्तमारुतो हृदयन्यस्तमृणालकन्दलः
अथ तस्य बभूव यत्नवान् उपचारे शिशिरे रमाङ्गदः ॥

12.5

अभवद् द्वयम् एव भूपतेः स्मरतप्तस्य मनोविनोदनम्
सुदृशः सः करातिथिः शरः सश् च हारः स्तनचन्दनाङ्कितः ॥

12.6

मदनान्तरितो ऽपि लङ्घितः पथि जातेन परिश्रमेण स
स्तिमितः क्षणम् आस्त कौमुदी विशदक्षौमतिरोहिताननः ॥

12.7

अथ पार्श्वचरेण सादरं मृदुसंवाहितपादपल्लवः
सः कुरङ्गदृशेव निद्रया चतुरं लोचनयोर् अचुम्ब्यत ॥

12.8

स्वपुरोपवने समुत्सुकः सुमुखीं स्वप्नप्रथेन पार्थिवः
अवतंसितहेमपङ्कजाम् अथ ताम् अङ्कगतां व्यलोकयत् ॥

12.9

अभिकान्तम् अपाङ्गपातिना जितनीलाब्जदलेन चक्षुषा
दधतीम् अपवर्तितं ह्रिया मुखम् आपाण्डुकपोलमण्डलम् ॥

12.10

शरदिन्दुमरीचिनिर्मलं विगलद्वेपथुना स्तनांशुकम्
मुहुर् आक्षिपतीम् अलक्षितम् श्लथमुक्तावलयेन पाणिना ॥

12.11

नवपल्लवकान्तिना किम् अप्य् अचिरावासितपुष्पकेतुना
ललिताम् अधरेण बिभ्रतीं मुखचन्द्रांशुसटां स्मितच्छटाम् ॥

12.12

जगदेकविलोकनोत्सवे वपुषि स्वेदकणैर् अलङ्कृताम्
उदिताम् इव मन्दराहतात् उदधेर् लग्नसुधालवां श्रियम् ॥

12.13

वलिताहितनिःसहाङ्गुलि स्वकरश्लेषविशेषकम्पिनि
पुलकिन्य् अधिकं विमुञ्चतीं चकितं वामकुचे विलोचने ॥

12.14

अतिभासुररत्नकुण्डलाम् अतिकान्तायतहारमण्डलाम्
जघनश्लथहेममेखलाम् असमेषोर् अधिदेवताम् इव ॥

12.15

अथ सस्मितम् आत्तवेपथुः पतितो मन्मथपत्रिणां पथि
इति तां प्रणयार्द्रगिरा सः किलाम्भोजमुखीम् अवोचत् ॥

12.16

वलितं न विभाति पृष्ठतः कबरीकान्तम् इदं तवाननम्
अयि नीलपयोधलेखया सः परिष्वङ्गम् इवेन्दुमण्डलम् ॥

12.17

इदम् अङ्गदवर्तिना करैर् मणिना रुद्धम् इवेरितं ह्रिया
न समर्थमितोपवर्तितुं वदनं ते ललिताङ्गि का गतिः ॥

12.18

इदम् अर्धविलोकिताधरं मधुरापाङ्गतरङ्गितेक्षणम्
श्रियम् आतनुते सितासितं सुतनु त्र्यश्रुविलोकितं तव ॥

12.19

मिलितस् तव गण्डलेखया सुदति स्वेदलवार्द्रपत्रया
किम् अपि स्पृहणीय एष मे मरुदासन्नदिवान्तशीतलः ॥

12.20

अयम् उत्पलःपत्रलोचने तव बिम्बाधरपाटलच्छविः
अवलोकय कर्तुम् ईहते पदम् अस्ताचलचूलके रविः ॥

12.21

दुरितघ्नम् इदं सुदर्शनं दधता बिम्बम् अनूरुसारथेः
स्मरलक्ष्मि विहायसामुना तव कृष्णेन हृते विलोचने ॥

12.22

अरविन्दकरेण लोहितं कमलिन्या धृतम् आतपाशुकम्
इदम् उष्णकरेण कृष्यते वलितेनापरदिग्वधूं प्रति ॥

12.23

करुणार्पितलोचनं मिथः क्रमविश्लेषगलद्बिसाङ्कुरम्
इदम् आर्द्रयतीव मे मनो मिथुनं मानिनि चक्रवाकयोः ॥

12.24

अवलोकय भीरु सम्प्रति त्रितयेन त्रितयं वियुज्यते
द्युमणिः प्रभया, श्रियाम्बुजं प्रियया साश्रुर् अयं विहङ्गमः ॥

12.25

इदम् अम्बरपल्वलोदराद् अतिताम्रद्युति कालदन्तिना
रविवारिरुहं निरस्यते कनकस्निग्धमयूखकेसरम् ॥

12.26

परिचुम्बति वारुणीं दिशं पुरतो रागहृते विवस्वति
दिग् इयं शतमन्युलाञ्छिता भवति श्याममुखी मितोदरि ॥

12.27

इह भान्त्य् अतिलोहितातप स्तबकाः पश्य वनान्तभूमयः
तपनानुगमोत्सवाङ्किता दिनलक्ष्म्येव पदैः सयावकैः ॥

12.28

मदिराक्षि पुरो ऽवलोक्यताम् अपरस्यामयमानतो दिशि
स्तिमिताम् अवगाहते गतिं गुरुगोत्रस्खलिताकुलो रविः ॥

12.29

अमुना शतपत्रबन्धुना सहसा सुन्दरि यद् यद् उज्झितम्
समम् अद्रिगुहामुखस्थितैस् तिमिरैस् तत् तद् इतःकटाक्षितम् ॥

12.30

विरमन्नयि पल्लवाधरे सुरवीथीपथिको विरोचनः
अयम् अस्तगिरेर् निषीदति स्वकरामृष्टशिलातले तले ॥

12.31

इयम् अश्रुतरङ्गितां दृशं द्वितये चक्रवधूर् विमुञ्चति
नवकुङ्कुमलोहिते रवौ दयिते चान्द्रवियोगविक्लवे ॥

12.32

चलितो ऽसि वद क्व मां विना विरहं सोढुम् अहं न ते क्षमा
कृतपङ्कजकुड्मलाञ्जलिर् नलिनी कान्तम् इतीव याचते ॥

12.33

अनुपुञ्जितपिङ्गदीधिति द्रुतलाक्षारुणदर्पणोपमम्
परतो ऽस्तगिरेर् इदं गलत्य् अनवद्याङ्गि पतङ्गमण्डलम् ॥

12.34

सरले सह वारिजश्रिया निभृतं क्वापि गतः स भास्करः
वद तेन विनाब्जिनी कथं क्षणदाम् अद्य नताङ्गि नेष्यति ॥

12.35

स्फुटविद्रुमराजिनैकतः सदृशं जातम् उदञ्चता नभः
सुदति त्वदपाङ्गपटले पटु सान्ध्ये महसि प्रसर्पति ॥

12.36

परिपिञ्जरितासिताम्बरैर् निबिडैः कं न हरन्ति हारिभिः
अयि सायम् इमाः पयोधरैर् धृतसन्ध्यातपकुङ्कुमैर् दिशः ॥

12.37

क्षणदाभिमुखेन खण्डिता ननु सन्ध्या तमसा मनस्विनी
कुपितेव निवर्तते जवात् अतिवाचालविहङ्गनूपुरम् ॥

12.38

तव चण्डि विडमयत्य् अदस् तनुसन्ध्यातपलिप्तम् अम्बुजम्
मणिकुण्डलकान्तिसङ्करात् इदम् आताम्रकपोलम् आननम् ॥

12.39

उदितानि तमांसि सा च ते दयिता दैन्यम् उपैति पद्मिनी
दिनभर्तुर् इतीव शंसितुं सहसा सुन्दरि सन्ध्यया गतम् ॥

12.40

निहितं बलिदीपकेषु तत् तपनेनाशु महः कृशोदरि
स्वशरस्फुरितं मनोभुवा तव सवृईडविलोकितेष्व् इव ॥

12.41

अतसीकुसुमोपमं मुखे तद् अनु त्वत्कुचचूचुकद्युति
अथ बालतमालमांसलं प्रसृतं संप्रति सर्वतस् तमः ॥

12.42

तरुकोटरमूकशारिकं निजनीडाङ्कनिलीनकोकिलम्
करभोरु सनिद्रबर्हिणं प्रमोदोद्यानम् इदं निमीलति ॥

12.43

प्रसृतैर् गिरिकन्दरोदरात् इदम् इन्दीवरदामकान्तिभिः
अधुना तिमिरैर् विगाह्यते भुवनं पद्मसरश् च दन्तिभिः ॥

12.44

तिमिराञ्जनभक्तिशोभिना धवलेनायतपक्ष्मपङ्क्तिना
अमुना भवतीव चक्षुषा कुमुदेनैति रुचं कुमुद्वती ॥

12.45

उदरस्थितयोः कुतूहलात् अलिनोः श्रोतुम् इवास्फुटं वचः
कमलस्य निलीय निश्चलं दलसन्धिष्व् अवतिष्ठते तमः ॥

12.46

तरले ऽतिसितासितद्युताव् इह दोलायितम् ईक्षणद्वये
लिखितागरुपत्रलेखयोस् तिमिरं मूर्च्छति ते कपोलयोः ॥

12.47

उडुभिः खम् इतस् ततः क्षणाद् उदितैर् भङ्गुरकेशि भात्य् अदः
अतिगाढदिनोष्णजन्मभिः परितः स्वेदलवैर् इवाङ्कितम् ॥

12.48

शबलं शशलाञ्छनत्विषा सतमः पश्य महेन्द्रदिङ्मुखम्
अचलेन्द्रसुतास्मितच्छवि छुरितं कण्ठम् उमापतेर् इव ॥

12.49

अहिराजसुते विलोक्यताम् इयम् इन्दोः प्रथमोद्गता कला
अयि भाति यया इन्द्रदिङ्मुखे प्रमदेवार्द्रनखाङ्करेखया ॥

12.50

यदि कौतुकम् आयतेक्षने न चिराद् एव सुधार्द्रयानया
अरविन्ददलद्युतौ करे मृदु लीलावलयं करोमि ते ॥

12.51

अनवद्यम् इतः पुरः स्थितं विदितं किं शशिना तवाननम्
नभसः सहसाङ्कम् एष यन् न कलङ्कत्रपयाधिरोहति ॥

12.52

इदम् उद्गतम् इन्दुमण्डलं दिग् इयं पश्य बिभर्ति लक्ष्मवत्
त्वम् इवाच्छकपोलमण्डल स्फुटकालागरुपत्रम् आननम् ॥

12.53

विगलत्तिमिरांशुके शनैः स्पृशति व्यक्तिम् आधीरतारके
इह पश्य निशावधूमुखे स्फुरति श्वेतमरीचिकुण्डलम् ॥

12.54

अयम् उल्लिखति ध्रुवं करैर् विधुर् इन्दीवरलोचने तमः
कुमुदेषु तथा हि दृश्यतां निपतन्त्य् अस्य लवा इवालयः ॥

12.55

इदम् अञ्जननीलम् आहतं पिहिताशं तुहिनांशुना करैः
अचलेन्द्रगुहासु लीयते शनकैः संकुचितं पुनस्तनः(?) ॥

12.56

मसृणोल्लसदंशुमण्डल छलतः पश्य दिवःकृते ऽनया
इयम् इन्दुसमुद्गकादितो निशया हारलतेव कृष्यते ॥

12.57

यद् अभूत् तमसा जगत् तथा पिहिते पुष्करपत्रलोचने
तद् इदं परतः प्रकाशितम् शशिना कुङ्कुमकन्दपाण्डुना ॥

12.58

प्रसृतेव विलोचनोदरे तिलके सङ्कुचितेव चान्देन
कलितेव नताङ्गि लक्ष्यते तव मुक्तावलयेषु चन्द्रिका ॥

12.59

कुचयोः प्रतिबिम्बितः समं विधुर् एको ऽपि भवत्य् अयं द्विधा
विधिनेव विभिन्नसंपुटस् तव लावण्यसुधासमुद्गकः ॥

12.60

हृतमुग्धमधूकशोभयोर् अनयोः पन्नगलोककौमुदि
तव चन्द्रकलाः कपोलयोः पतिताः स्पर्शकुतूहलाद् इव ॥

12.61

अयम् इन्दुमुखि त्वया यथा समुपैति स्पृहणीयतां जनः
अनयैष समागतस् तथा निशया पश्य कुरङ्गलाञ्छनस् ॥

12.62

धनुषि क्रियते ऽधिरोहणं स्मरमौर्वीलतया तनूदरि
शशिनेरितया समुच्छ्रिते पुलिनाद्रौ च पयोधवेलया ॥

12.63

कृतचाटुशतैः परस्परं मकरन्दार्द्ररजःसुगन्धिषु
स्थितम् अन्तरमीषु सांप्रतं भ्रमरैः पुष्करवासवेश्मसु ॥

12.64

मरुता सुहृदेव वीजितं कुमुदामोदमुचा शनैर् इतः
स्वपिति प्रणयार्द्रयोर् इदं मिथुनं मानिनि राजहंसयोः ॥

12.65

अयि चक्रवधूर् इयं पुरः करुणं कूजति हा तपस्विनि
इह साक्षितयालम् आवयोर् उचितं गन्तुम् अतः कृपावति ॥

12.66

इति भूतलवासवः सस् ताम् अभिधाय प्रमदां प्रियंवदः
प्रविवेश तयासमं किल प्रमनाः केलिनगेन्द्रकन्दरम् ॥

12.67

झटिति स्फुटभावसङ्करां मधुरामङ्गलतां दधानया
शशिकान्तशिलातलं ततः सः किलाध्यास्त तया युवान्वितः ॥

12.68

तद् अनु त्रपया पराङ्मुखीं पुलकालङ्कृतपीवरस्तनीम्
सः किलाञ्चितचाटुर् आनयत् सुमुखीं ताम् अनुकूलवृत्तिताम् ॥

12.69

अथ मन्थरलोचनं ह्रिया विनमत्स्मेरमुखः स्मितान्न्चितम्
सो ददर्श किल प्रजेश्वरः सुदृशः स्विन्नकपोलम् आननम् ॥

12.70

यद् अलं किल मानवत्य् अभूद् ऋजुवन्नेन्दुमुखी किलैक्षत्
लिखितेव किलास्त यत् परं नृपतेस् तेन मनः किलाहरत् ॥

12.71

परिमृज्य मुखं विलासिना श्रवणेन्दीवररेणुरूषितम्
सुदृशः शमवारिपङ्किलात् अलकान्तस् तिलकाद् अपास्यत ॥

12.72

अथ तां शिथिलीकृतत्रपाम् असमप्रेमहृतः किलेश्वरः
स्मरकेलिकलारसज्ञताम् अनयद्यूथपतिर् वशाम् इव ॥

12.73

शिथिलाकुलकेशपाशया परिमृष्टार्द्रकपोलपत्रया
विरलाधररत्नरागया सुलभस्वेदमुखेन्दुबिम्बया ॥

12.74

त्रुटितोज्झितहारलेखया निबिडाश्लेषकृशाङ्गरागया
असमग्रनखाङ्गमण्डित स्तनविन्यस्तसकम्पहस्तया ॥

12.75

अधिकाधिकजातलज्जया मृदुमीलन्नयनत्रिभागया
अथ काम् अपि निर्वृतिं तया सः किलापत् फणिराजकन्यया ॥

12.76

ददता नलिनीदलानिलं विकसत्स्वेदकणे कुचद्वये
चतुरं किल दीर्घचक्षुषस् तद् अनु क्लान्तिर् अनेन चिच्छिदे ॥

12.77

अथ सत्रपया धृतांशुकां जघनस्रस्तविसूत्रमेखलाम्
अवतंसितलोचनोत्पलां निजम् अङ्कं ललनां निनाय च ॥

12.78

सुदृशः सः किलान्यतश्चुतं(?) स्वपदे मौलिमणिं न्यवेशयत्
अकरोच् च किलारुणाङ्गुलिर् ललितावर्तनकुञ्चितान् कचान् ॥

12.79

पश्यात्र दर्पणतले लिखिता मयेयं पत्रावली तरुणि ते वलिताननेति
स्वप्नान्तरप्रणयजल्पितम् आत्मभर्तुर् अश्रूयत स्मितमुखेन रमाङ्गदेन ॥

12.80

अथ शुचि पठता शुकेन साम स्फुटम् उटजाङ्गणपादपस्थितेन
विरचितदयितासमागमस्य प्रसभम् अभज्यत पार्थिवस्य निद्रा ॥

12.81

झटिति विगते स्वप्नायातप्रियानवसङ्गमे पुनो ऽपि तथा तत्प्रत्याशानिमीलितलोचनः
लिखित इव सः क्ष्मापालो ऽभूत् क्षणं ननु तादृशाम् अपि मनसिजो धैर्यं लुम्पत्य् अहो बत साहसम् ॥

मूल पाठ: Navasāhasāṅkacarita · Edition: Vamanasastri Islampurakara, Bombay : Govt. Central Book Depot (Bombay Sanskrit Series, 53) · Data entry Somadeva Vasudeva · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc