नवसाहसाङ्कचरित · अध्याय 13
ततस् तथा पञ्चशरप्रतारितः सजृम्भम् उन्मीलयति स्म लोचने
कृताङ्गुलिश्लेषविवर्तितोल्लसत् भुजांससम्पीडितकुण्डलो नृपः ॥
सः सङ्गतं यन् मृगशावचक्षुषः श्रमाप्तनिद्रः स्फुटम् अन्वभूद् इव
झटित्य् अभूज् जाग्रदवस्थयास्य तत् पुरातनालेख्यम् इवास्फुटं हृदि ॥
कुचाङ्गरागः कृशमध्यया तया मयि ध्रुवं सङ्क्रमितो भवेद् इति
शनैः स निद्राकलुषेण चक्षुषा पराममर्शाङ्गम् अनङ्गमोहितः ॥
अपास्य वामेतरकर्णभूषणं तथा शरैर् एनम् अवाकिरत् स्मरः
यथास्य धैर्यं गलति स्म मानसात् सविक्रियं शुक्तिपुटाद् इव उदकम् ॥
दृशं विषादस्तिमिताम् उपान्तगे निवेश्य तेनाथ निशश्वसे
यथा मुहुः श्यामलतां जगाहिरे वितानमुक्ताफलजालकस्रजः ॥
कया नु सारङ्गदृशासि कारितः कपोलपत्रावलिकल्पनश्रमम्
तम् इत्य् अवोचत् परिहासवान् अथो(?) रमाङ्गदः किंचिद् इव श्लथाङ्गदम् ॥
ततः स मुक्तासितम् आदधत् स्मितं जितप्रवालत्विषि दन्तवाससि
शशंस तस्मै भुजगेन्द्रकन्यका समागमं स्वप्नजम् अब्जलोचनः ॥
तदाश्रयैवानुचरेण वर्धिता कथासुधेवास्य ततो विलासिनः
अभूत् परं मन्मथतापशान्तये न पद्मिनीपत्रमरुन् न चन्दनम् ॥
अजायतान्तःकरणेन ताम्यता न हेमपद्माहरणाय सत्वरम्
भुजः सदा रक्षणदीक्षितः क्षितेर् अमन्दम् अस्पन्दत चास्य दक्षिणः ॥
ततः पिनद्धोज्ज्वलहेमवल्कलं वहन्तम् अंसार्धविलम्बिनीर् जटाः
सनाथवामेतरपाणिपङ्कजं परिस्फुरन्त्या स्फटिकाक्षमालया ॥
विशालनेत्राभरणैर् अनुद्रुतं सदैव दर्भाङ्कुरलालितैर् मृगैः
सशिष्यम् अभ्यागतम् अङ्गनान्तिके विशाम्पतिर् वङ्कुमहर्षिम् ऐक्षत ॥
विमुक्तपर्यङ्कतलः ससंभ्रमं निरीक्ष्य सद्यो मणिमन्दिराद् बहिः
किरीटरत्नद्युतिदीप्तभूतलं प्रणामम् अस्मै सश् चकार सादरम् ॥
ततः कृताशीर् मणिवेदिकास्तृते मुनिर् न्यषीदत् सकुरङ्गचर्मणि
सश् चासनत्वं तदनुज्ञयानयन् नृपचन्द्राश् चन्द्रमणेः शिलातलम् ॥
अपि श्रमेणायतमार्गजन्मना तनुर् महाराज तवेयम् उज्झिता
मुनिः प्रहर्षेण कृतार्हणस् तदा स राजचूडामणिम् इत्य् अपृच्छत ॥
अथादधद् वक्त्र इवाम्शुकाञ्चलं तुषारपाण्डुप्रसृतैर् द्विजांशुभिः
अकृत्रिमप्रश्रयपेशलं वचः स भूपतिर् वक्तुम् इति प्रचक्रमे ॥
अमी सहन्ते मम तात न श्रमं प्रणामलग्नास् तव पादपांसवः
कियच् चिरं चन्द्रमरीचिचुम्बिते पदं निधत्ते कुमुदे दिनक्लमः ॥
नृलोकपातालतलाश्रये मिथः कथानुबन्धे शिथिलीभवत्य् अथ
पर्याणपर्युत्सुकमानसो मुनिः स यावद् आप्रष्टुम् इयेष पार्थिवः ॥
अनेन तावद् ददृशे पुरःस्थितो विशाललाङ्गूललतो वलीमुखः
अधःस्थलीनिर्गतजह्नुकन्यको हिमोज्ज्वलः पाद इवाम्बिकागुरोः ॥
करेण बिभ्रन्मधुमत्तकेरली कपोलवत्पाटलकान्ति दाडिमम्
अहर्मुखाकृष्टपतङ्गमण्डलः फलाशया बाल इवाञ्जनीसुतः ॥
द्वयोर् इवार्थः खलु धर्मकामयोस् तयोस् त्रिलोकस्पृहणीययोः कपिः
मुनीन्द्रभूचन्द्रमसोः स्थितो ऽन्तरे तपस्विभिः स्मेरमुखैर् अदृश्यत ॥
अथार्पितं तेन फलं तदाददे स विस्मितो मध्यमलोकवासवः
जपारुणं मारुतिनेव मैथिली शिखण्डरत्नं दशकण्ठशासनः ॥
अकृत्रिमश्रीनिलयेन रागिणा नरेन्द्रचिह्नाङ्कितहस्तशोभिना
सुवृत्तताम् उद्वहता स्वभावतः सस् तेन रेजे भृशम् आत्मना यथा ॥
अजातपाकस्य नवातपाधिकां पुनः पुनस् तस्य विलोक्य शोणताम्
नवप्रवालोपमम् एणचक्षुषः स्मरन् स बिम्बोष्ट्ःअम् अवाप शून्यताम् ॥
अथास्य सीदन्मणिबन्धनात् कराद् अवाञ्चतः कम्पविसूत्रिताङ्गुलेः
पपात पश्चाद् इव हेमकुट्टिमे तद् अस्फुतद् द्राग् इव दाडिमीफलम् ॥
तदन्तरात् किंशुककान्तितस्करः स्फुरन्मणीनां निकरो ऽथ निर्ययौ
उदर्चिषः पुष्पशरासनक्रुधा कणोत्करस् त्र्यम्बकलोचनाद् इव ॥
अथ द्वयेनावनिपाकशासनः स विस्मयस्याग्रमहीम् अनीयत
वनौकसा तेन विनीतवृत्तिना विकीर्णभासा मणिदाडिमेन च ॥
सश् चाद्भुतप्राभृततोषितः करे चकार रेवामणिकङ्कणं कपेः
घनात्ययऋतोर् निजम् इन्दुपाण्डुरे पयोदखण्डे हरिवाड् इवायुधम् ॥
ततः सुधासूतिम् इवोज्झिताकृतिर् नवाञ्जनश्यामलयाङ्गलेखया
नृपः क्षणाद् एव विचित्रभूषणम् पुमांसम् अग्रे न हरिं तम् ऐक्षत ॥
कृतानतिर् विस्मितमानसे मुनौ रमाङ्गदे सादरमुक्तलोचनः
व्यधात् प्रणामं सः कृताञ्जलिर् नृपे कपोलवेल्लत्कलधौतकुण्डलः ॥
अलङ्कृतः कस्य वदान्वयस् त्वया पदं क्व ते किं च कपिर् भवान् अभूत्
तम् एवम् आह स्म सविस्मयोर्मिणा नृपेण साकूतविलोकितो मुनिः ॥
ततः स मुग्धेन्दुमयूखबन्धुभिः प्रसादयन् दन्तमरीचिभिर् दिशः
नवाम्बुभारालसनीरदावली निनादधीराम् इति वाचम् आदे ॥
शिखण्डकेतोः शशिखण्ड इत्य् अहं मुनिन्द्र विद्याधरशासितुः सुतः
सुराङ्गनाध्यासितरत्नकन्धरे ममाधिवासः शशिकान्तपर्वते ॥
रथाङ्गपाणेः प्रतिमा समुद्रतः स्वयं महानीलमयी विनिर्गता
इति प्रवादः परम् ईक्षितुं च तां गता मणिद्वीपम् इतः पुरस्त्रियः ॥
ममापि तस्याम् अधिकं कुतूहलं तद् एहि यावः कृत एष ते ऽञ्जलिः
कदा चिद् एवं सहसोपसृत्य मां प्रिया ययाचे प्रणिपत्य मालती ॥
ततः खम् इन्दीवरनीलम् एकतस् तया सहोत्पत्य जवेन गच्छतः
सस् तात शैलेन्द्रभरक्षमः क्षणात् पपात मे लोचनगोचरे ऽर्णवः ॥
उपोढनानामणिमौक्तिकोत्करैः करैर् इवोर्ध्वं प्रसरद्भिर् ऊर्मिभिः
अनर्घ्यम् अर्घ्यं जगदेकचक्षुषे समुद्यतो दातुम् इवांशुमालिने ॥
नवप्रवालद्युतिपाटलोदरः करो मुरारेर् इव शार्ङ्गलाञ्छितः
अलङ्कृतो जह्नुमहर्षिकन्यया पृथुर् जटाजूट इवान्धकद्विषः ॥
उदग्रकल्लोलकदर्थितग्रहैर् अगाधपातालतलावगाहिभिः
दिशो निरुन्धन् नवमेघनादिभिर् निमग्नदिङ्नागमदाविलैर् जलैः ॥
समेधितश्रीर् अभितस् तलोत्थितैः स्फुरन्मणिस्तोममयूखदामभिः
युगान्तजीमूतशतोदयार्पितैः पुलोमकन्यापतिकार्मुकैर् इव ॥
उपान्तविश्रान्तपयोदमण्डलैर् जलद्विपप्रस्तुतवप्रकेलिभिः
चिरोल्लसद्द्वीपधिया समीक्षितैर् विशालनेत्रैस् तिमिभिः कृताद्भुतः ॥
सुजातकाठिण्यपयोधराः स्पृहाम् उपाहरन्तीः पथि तादृशोः पथि
क्व चिद् दधानः शरदिन्दुपेशलाः शिलासु शुक्तीर् जलमानुषीर् इव ॥
निजौघसीमन्तितसानुकर्दमैर् बृहद्दरीपुञ्जितरत्नराशिभिः
अधः प्रविष्टोद्धृतकच्छपोद्धृतैर् महाचलैर् उल्लिखिताम्बरः क्व चित् ॥
सवेगवेलानिलवेल्लिताः क्व चिन् नवोद्गता विद्रुमकन्दलीर् दधन्
शिखा इवोर्ध्वं तरुणार्कलोहिता विनिर्गता वाडवजातवेदसः ॥
क्व चित् सुधापाण्डुनि फेनमण्डले निलीनदूर्वादलनीलनीरदः
सनाथतां नीत इवोपरि स्फुटम् फणीन्द्रपर्यङ्कशयेन शार्ङ्गिणा ॥
क्व चिन् मणीनां कुमुदोदरत्विषः सितेतरेन्दीवरमेचकाः क्व चित्
क्व चिद् दधानः शुकचञ्चुपाटलास् तटेषु मुक्ताशबलोदराः शिलाः ॥
तथैव तस्योपरि गत्वरस्य मे तमालनीलेन पथा पयोमुचाम्
त्वराविशीर्णश्लथबन्धनाञ्चितः पपात सीमन्तमणिर् मृगीदृशः ॥
प्रधावमानेन मयान्तरान्तरा नखाग्रनिर्लूनमयूखपल्लवः
सश् चान्तरं दीधितिमान् इवोदधेर् विवेश कोशाम्रतरुच्छटारुणः ॥
निवर्तमानं तु हठाद् विकृष्यता तुरङ्गहस्तेन निरुन्धता नभः
क्षणाद् इव क्वापि रसातलोदरे करीव चिक्षेप कृतारवो ऽर्णवः ॥
मयाथ तत्र भ्रमता सविस्मयं तम् उद्वहन्ती मणिम् उत्प्रभं करे
अदृश्यतैका विशती तपोवनं स्मरस्य मूर्ता ममतेव कन्यका ॥
ततः प्रियामौलिमणिर् न मे ऽर्पितः पुनः पुनः प्रार्थितयापि यत् त्वया
अहं तद् अस्या मकराङ्किते बलाद् अपाहरं मन्मथरत्नपादुके ॥
किम् आश्रमं शून्यम् इदं तपोधनैर् अनेन हा धिङ् मुषितास्मि दस्युना
अथेति बाष्पोद्गमगद्गदैः पदैर् नुहुर् वदन्ती करुणं रुरोद सा ॥
ततस् तदीये रुदितध्वनौ श्रुते ससंभ्रमं को ऽपि महातपा मुनिः
विनिर्ययौ रत्नशिलागृहाद् बहिस् तमालभासस् तरणिर् घनाद् इव ॥
अनेन केनापि तवाश्रमे बलाद् इदं हि ताताभरणं हृतं मम
इति क्रुधं तद्वचसा स आददे हविर्निषेकेण शिखाम् इवानलः ॥
निबद्धभीमभ्रुकुटिर् विलोकयन् दृशा तदोल्काकपिशोग्रतारया
सस् तीव्रकोपस्फुरिताधरो ऽवदद् वचो ममाक्षिप्य कृतानतेर् इति ॥
प्रसूनम् अप्य् अत्र न जातु वीरुधां हरत्य् अयं नः पवनस् तपोवने
त्वया तु संप्रत्य् अबलाविभूषणे शठात्मनाशाय करः प्रसारितः ॥
अकारि कापेयम् इदं त्वयेदृशं यद् अद्य सद्यः कपिर् एव तद् भव
ततः स माम् इत्य् अशपत् कमण्डलोर् अपः समादाय दवानलोपमः ॥
अथास्य कोपः प्रशशाम मानसे शनैः कृपा सानुशये प्रसीदति
अपां कणस् तिष्ठति वीचिकम्पिते न पद्मिनीपत्रपुटोदरे चिरम् ॥
इहानुतापो भगवन् विमुच्यताम् इयं मदीया भवितव्यतेदृशी
तद् उच्यतां शापनिशामुखोद्गतं कदा ममेदं तिमिरं व्यरंस्यति ॥
मयैवम् उक्तः सस् तदैवम् ऊचिवान् यदा पुरो वङ्कुमुनेर् इहागतः
करे तवाधास्यति वत्स कङ्कणं स नार्मदं सीयकराजनन्दनः ॥
ततः प्रभृत्य् एव वलीमुखाकृतेः समाः सहस्रं वसतो रसातले
अनेन मे संप्रति पार्थिवेन्दुना तवाश्रमे शापतमस् तिरस्कृतम् ॥
कृतं यद् एतेन मुनीन्द्र लीलया प्रतिक्रियां तत्र न कर्तुम् अस्म्य् अलम्
हिमत्विषः प्रत्युपकारगोचरो मरीचिलीढक्रशिमा किम् अंशुमान् ॥
तथाप्य् अयं देव निजप्रयोजने लघीयसि क्वापि नियोज्यतं जनः
अनूरुम् उर्वीतलरत्नदीपकः किम् आर्यमा नाधित सूतकर्मणि ॥
तेनैवम् उक्तः प्रणयोन्मुखेन न्र्पस् त्रपानम्रमुखो बभूव
अतादृशानां स्तुतयः प्रकृत्या मदं यद् उद्दीपयितुं यतन्ते ॥
एवं सुधारससमृद्धिमनोहरेण श्लाघ्येन तेन शशिखण्डसमागमेन
काम् अप्य् अवापद् उमया घटितस्य लक्ष्मीं सः क्ष्मापतिर् झटिति जूट इवाष्टमूर्तेः ॥
तेनाथ सूनृतवचःश्रुतये सः पृष्टः पृथ्वीतलागमनहेतुम् अजानतेव
आख्यातवान् स्मितसुधास्नपितौष्ठबिम्बस् तस्मै निजव्यतिकरं नरलोकपालः ॥
विद्याधरस् तद् अनु सः प्रहितो ऽपि राज्ञा नैव स्वधामगमनाभिमुखो बभूव
पूर्वोपकारिणि जने ऽनुपकृत्य किं चिद् यान्तो यद् उन्नतधियः किम् अपि त्रपन्ते ॥
देव प्रसीद समितिः क्रियताम् इदानीं भृत्यः स्वपादरजसाम् अयम् अग्रयायी
तस्येति वल्गु वचनं वचसा महर्षेः सम्राट् ततः सः कथम् अप्य् उररीचकार ॥
आमन्द्रशङ्खपटहस्वनसूचितं प्राक् सैन्यं क्षणान् निजम् अथ स्मृतमात्रम् एव
धौतासिपत्रबहुलांशुलतोपगूढं पातालसंतमसम् अस्य पुरो बभूव ॥
तेनोपपादितम् अथो रथम् उत्पातकम् अध्यास्य कार्मुकसनाथकरो नरेन्द्रः
वज्राङ्कुशं प्रति स वङ्कुमुनिप्रयुक्तः प्रस्थानमङ्गलविधिर् मसृणं प्रतस्थे ॥
लग्नेनाङ्गे युगपद् उटजद्वारदेशाद् अदूरे पश्यन्तीनां मुनिमृगदृशां लोचनांशूत्करेण
उद्दामाजिक्रतुमखविधेर् दीक्षया सः क्षितीशो मेध्याम् एणत्वचम् इव दधन् सः क्षणं लक्ष्यते स्म ॥
चलितयतिसमाधि त्रस्तसारङ्गशावं निभृतशुकभृतोच्चैर् नडिम् उड्डीनबर्हि
हरिणमिथुनमुक्तान्योन्यकण्डूयनं तन् मुनिवनम् अभितो ऽभूत् सैन्यकोलाहलेन ॥
अथ पथि नवसाहसाङ्कः स विद्याधरैर् वन्दितः प्रमुदितमुनिकन्यकामुक्तनीवारलाजाञ्जलिः
श्रियम् अधित रमाङ्गदेनान्वितस् तूर्यघोषोर्मिभिः कुलगिरिकुहरप्रतिध्वानं दीर्घैर् निरुन्धन् दिशः ॥
मूल पाठ: Navasāhasāṅkacarita · Edition: Vamanasastri Islampurakara, Bombay : Govt. Central Book Depot (Bombay Sanskrit Series, 53) · Data entry Somadeva Vasudeva · GRETIL (Göttingen) · CC BY-NC-SA 4.0