नवसाहसाङ्कचरित · अध्याय 11
अथ बिभ्रत् सरागेण हृदयेन कृशोदरीम्
सः प्रतस्थे महीनाथः करेण च धनुर्लताम् ॥
इन्द्रनीलप्रतोलीतः स निर्गच्छन् पतिः श्रियः
तत्कान्तिश्यामतां गत्वा क्षणं कृष्ण इवाबभौ ॥
आसन्नपद्मसरसा कुसुमानम्रशाखिना
सो नर्मदोपदिष्टेन गन्तुं प्रववृते पथा ॥
यान्तम् एकान्तशिशिराः समीरास् तं सिषेविरे
एलालवङ्गकङ्कोल जातीफलसुगन्धयः ॥
चक्रस् तस्यानिलस्पर्श क्वणत्काञ्चनपल्लवाः
मौक्तिकस्तबकस्मेरा विस्मयं रत्नवीरुधः ॥
अमन्दमारुताक्षेप मुक्तमुक्ताफलच्छलात्
चलद्वंशलता मूर्ध्नि तस्य लाजान् इवाकिरन् ॥
अगलन् कुसुमव्याजात् तस्मिन्न् अभ्यर्णगामिनि
पातालकल्पवृक्षाणाम् आनन्दाश्रुलवा इव ॥
अरविन्दमुखक्रोड क्रीडन्मुखरषट्पदा
अनामयम् इवापृच्छत् तम् अभ्यागतम् अब्जिनी ॥
शशिप्रभाक्षिविस्तार संवादिन्यः पदे पदे
तं किम् अप्य् आर्द्रतां निन्युर् अरण्यहरिणीदृशः ॥
उपयुक्तामृतस्पर्धि नारिकेलफलोदकान्
आस्वादितलवाङ्गैला पूगनागलतादलान् ॥
शय्यीकृतातनुस्वर्ण कदलीबालपल्लवान्
विष्टरीकृतविस्तीर्ण चन्द्रकान्तशिलातलान् ॥
तत्कालोचितकर्तव्य व्यावृत्तैकरमाङ्गदान्
आवृत्तिविहितप्रेयः फणिराजसुताकथान् ॥
हृदयन्यस्तकर्पूर मृणालनलिनीदलान्
पुंःकोकिलकुलोल्लाप जनितस्मरसञ्ज्वरा ॥
जाम्बूनदलतागुल्म विहिताश्रयसौहृदान्
गच्छन् सस् तत्र कति चिन् निवासान् व्यधिताध्वनि ॥
संप्राप पृथिवीपालः कालेन कियताप्य् अथ
सः कूलोपान्तविचरन् यङ्कु वङ्कुतपोवनम् ॥
हृतं कुतूहलेनालं तदालोकनजन्मना
पतिं मध्यमलोकस्य तं जगाद रमाङ्गदः ॥
सीमा सतीतिशब्दस्य सकुशाङ्काल्पपल्लवा
मैथिलीव श्रियं धत्ते काम् अप्य् आश्रमभूर् इयम् ॥
इतो वान्ति हविर् धूम लतालस्यप्रदा इमे
मरुतः पावनाः पक्व पुरोडाशसुगन्धयः ॥
इतो हिरण्मयी भूमिस् तरवो हेमवल्कलाः
उन्निद्रहेमपद्मानि पयांसीव पदे पदे ॥
काकपक्षाङ्कमूर्धानः पश्यैते गुरुशिक्षया
बटवः खण्डयन्त्य् अत्र समिधश् च पदानि च ॥
अनया साम गायन्त्या स्वरसंशयवान् अयम्
इतः करोति कलहं शुकः सारिकया समम् ॥
इदम् अत्राद्भुतं पश्य मदक्लिन्नं गजस्य यत्
गण्डलेखां नखाग्रेण शनैः कण्डूयते हरिः ॥
प्रभामण्डलपर्यस्त तमसः शतशः पथि
तवापतन्ति पाताल रवयो ऽमी महर्षयः ॥
एषां द्वितयम् एताभिः कपिलाभिर् अलङ्कृतम्
उटजप्राङ्गणं गोभिर् जटाभिर् अभितः शिरः ॥
इतो गात्रपरावृत्ति भग्नास्थि पुरुषेतरान्
मुनेः शय्याकुशान् अत्ति बालः कस्तूरिकामृगः ॥
इतो ऽप्य् अयम् ऋषिः पश्य जपापाटलयानया
गवानुगम्यते सायं संध्येव दिवाकरः ॥
सहसैवातिथिः प्राप्तः को ऽप्य् अयं भवताम् इति
एष प्रत्य् उटजं वक्ति ससंभ्रमम् अयं शुकः ॥
अतः संप्रति वीक्षन्ते कौतुकोत्तानितेक्षणाः
त्वाम् इन्दुम् इव पर्याप्त मण्डलं मुनिकन्यकाः ॥
भूदत्तस्मरसाम्राज्यं मुखश्रीतर्जितेन्दु च
आसाम् इन्दीवराक्षीणाम् अलङ्कारो नवं वयः ॥
मुक्तास्त्रः स्त्रीषु कन्दर्पो देवात्रानुशयाद् इव
शङ्के संत्यज्य कोदण्डम् आत्तदण्डस् तपस्यति ॥
तस्मिन्न् इत्युक्तवत्य् एव तथा सविधवर्त्मनि
ततः पृथ्वीशशाङ्केन वङ्कुमुनिर् अदृश्यत ॥
अंसावलम्बिनीर् बिभ्रत् सन्ध्याभ्रकपिशा जटाः
प्रसृता इव निर्गत्य परमज्योतिषः शिखाः ॥
दधद्यज्ञोपवीतेन सीमन्तितम् उरःस्थलम्
जाह्नवीनिर्झरेणेव नभः प्रालेयपाण्डुना ॥
शुद्धैकगुणसंपृक्ताम् अक्षमालां दधत् करे
मूर्तां तीव्रतपःसिद्धिम् आत्मनः फलिताम् इव ॥
योगक्षेमोपपत्त्यर्थम् उपविष्टः कुशासने
नप्तेव मैथिलीभर्तुर् अतिथिर् नाम पार्थिवः ॥
प्रियसोमः सदायुक्तः प्रियया चानसूयया
पात्रम् अत्रिर् इवोग्राणां तपसां तेजसाम् इव ॥
सो दृष्टिपथम् आयाति ययातिप्रतिमे नृपे
तुतोष कस्य वा न स्याद् आकृतिस् तस्य सा मुदे ॥
ततः कृतप्रणामस्य तस्य प्रणतभूभृतः
विदधे स विशाम्पत्युर् आतिथ्यम् अत्तिथिप्रियः ॥
अथादूरे सुखासीनः सुखासीने महीभृति
इति सूनृतया वाचा स वक्तुम् उपचक्रमे ॥
अद्य नः पुण्यबीजेन मुक्तो यत् सत्यम् अङ्कुरः
ललाम लोकत्रितये येन त्वम् अवलोकितः ॥
तव शंसति सौभाग्यम् अभिजातेयम् आकृतिः
इन्दोः सुधानिधानत्वं ज्योत्स्नया यत् प्रतीयते ॥
यथा प्रदेशम् आयातैर् व्यक्तिं वज्राङ्कुशादिभिः
चक्रवर्तीत्य् अनुक्तो ऽपि चिह्नैस् त्वम् अनुमीयसे ॥
त्वदर्शनोत्सवेनैव कृतार्थं चक्षुर् अद्य नः
विमुञ्चति शरच्चन्द्रे चिररूढम् अपि स्पृहाम् ॥
हेतुद्वितयम् एवात्र परमानन्दसम्पदः
परब्रह्मोपलब्धिर् वा सङ्गतं वा भवादृशाम् ॥
अकृत्वा भवतः प्रश्नं न स्थातुम् अहम् उत्सहे
धीरतां मम भिन्दन्ति यत् कौतुकरसोर्मयः ॥
त्वया महीभृताम् अत्र वंशः केषाम् अलङ्कृतः?
श्रोत्रपीयूषगण्डूषः कानि नामाक्षराणि ते ? ॥
अनेन गुणिना सार्धं धनुषानुचरेण च
केन कार्यातिभारेण त्वम् एताम् आगतो भुवम् ? ॥
इत्य् उक्त्वा विरते तस्मिन् राज्ञा सस्मितम् ईक्षितः
स्थित्वा क्षणम् उवाचेदम् इङ्गितज्ञो रमाङ्गदः ॥
ब्रह्माण्डमण्डपस्तम्भः श्रीमान् अस्त्य् अबुदो गिरिः
उपोढहंसिका यस्य सरितः सालभञ्जिका ॥
यः सूर्यांशुशलाकस्य विश्वस्योपरि तिष्ठतः
व्योमनीलातपत्रस्य दण्डत्वम् अधिरोहत् ॥
आदातुम् अवतंसाय स्वर्णदीहेमपुष्करम्
यः सेन्द्रनीलकटको भुवो भुज इवोद्धृतः ॥
शिखरासन्ननक्षत्रो लक्ष्यते यः प्रतिक्षपम्
सशीकर इवोदस्तो हस्तः पातालदन्तिना ॥
यस्य शृङ्गेन्द्रनीलांशु श्यामम् आदित्यमण्डलम्
क्षणं पुटकिनीपत्र छत्राकृति विलोक्यते ॥
नीलकण्ठप्रिया कामं कृतपञ्चाननस्थितिः
यस्याग्रभूमिर् गौरीव गुहापीतपयोधरा ॥
अधःसंनद्धमेधेषु स्थिता यस्याग्रसानुषु
प्रावृड्विलासालास्यानाम् अनभिज्ञाः कलापिनः ॥
इन्दुः कटकमाणिक्यं यस्य तुङ्गस्य भूभृतः
भुवो यस्य च कान्ताया मेखलामणिर् अंशुमान् ॥
क्व चित् क्व चित् पतन्त्या यः कृष्णसारः शशित्विषा
कण्डूयत इवासन्नं शृङ्गेण हि मृगीं निशि ॥
पाण्डुः शरद्धनैर् ऊर्ध्वम् अधस्तालीवनासितः
यः कैलास इवाश्लिष्टः पौलस्त्यभुजसम्प्रदा ॥
हरयः शेरते यस्य मत्तेभवधनिःसहाः
गुहासु नखनिर्मुक्त मुक्तादन्तुरभूमिषु ॥
अलकच्युतमन्दार मकरन्दसुगन्धिभिः
अमर्त्यमिथुनक्रीडा निकुञ्जैर् यस्य सूच्यते ॥
उदञ्चदिन्द्रचापानि नानारत्नांशुपल्लवैः
सानूनि यस्य सेवन्ते द्वये चित्रशीनः ॥
पत्या सह वनान्तेषु विहरन्त्याद्रिकन्यया
नीयन्ते शोणतां यस्य शिलाः सालक्तकैः पदैः ॥
प्रतिभान्ति पुरस् ते ऽपि यस्य वल्मीकवामनाः
शैलाः सुवेलकैलास महेन्द्रमलयादयः ॥
अतिस्वाधीननीवार फलमूलसमित्कुशम्
मुनिस् तपोवनं चक्रे तत्रेक्ष्वाकुपुरोहितः ॥
हृता तस्यैकदा धेनुः कामसर्गाधिसूनुना
कार्तवीर्यार्जुनेनेव जमदग्नेर् अनीयत ॥
स्थूलाश्रुधारासंतान स्नपितस्तनवल्कला
अमर्षपावकस्याभूद् भर्तुः समिद् अरुन्धती ॥
अथाथर्वविदाम् आद्यः समन्त्राम् आहुतिं ददौ
विकसद्विकटज्वाला जटिले जातवेदसि ॥
ततः क्षणत् सकोदण्डः किरीटी काञ्चनाङ्गदः
उज्जगामाग्नितः को ऽपि सहेमकवचः पुमान् ॥
दूरं संतमसेनेव विश्वामित्रेण सा हृता
तेनानिन्ये मुनेर् धेनुर् दिनश्रीर् इव भानुना ॥
ततस् तापसकन्याभिर् आनन्दाश्रुलवाङ्कितः
कपोलः पाणिपर्यङ्कात् साश्रुलेखाद् अपास्यत ॥
परमार इति प्रपात् स मुनेर् नाम चार्थवत्
मीलितान्यनृपच्छत्रम् आतपत्रं च भूतले ॥
प्रवर्तितातिविस्तीर्ण सप्ततन्तुपरम्परः
पुराणकूर्मशेषं यश् चकाराम्भोनिधेः पयः ॥
स्थापितैर् मणिपीठेषु मुक्ताप्रालम्बमालिभिः
भूर् इयं यज्वना येन हेमयूपैर् अपूर्यत ॥
प्रशान्तचिन्तासन्ताने चिरेण नमुचिद्विषि
अमोच्यतास्तदैत्येन येनेर्ष्याकलहं शची ॥
वंशः प्रवऋते तस्माद् आदिराजान् मनोर् इव
नीतः सुवृत्तैर् गुरुतां नृपैर् मुक्ताफलैर् इव ॥
तस्मिन् पृथुप्रतापो ऽपि निर्वापितमहीतलः
उपेन्द्र इति सञ्जज्ञे राजा सूर्येन्दुसंनिभः ॥
सदागतिप्रवृत्तेन सीतोच्छ्वसितहेतुना
हनुमतेव यशसा यस्यालङ्घ्यत सागरः ॥
शङ्कितेन्द्रेण दधता पूताम् अवभृतैस् तनुम्
अकारि यज्वना येन हेमयूपाङ्किता मही ॥
अत्यच्छदशनोद्गच्छत् अंशुलेखातरङ्गिभिः
दीर्घैर् यस्यारिनारीणां निःश्वासैश् चामारयितम् ॥
तस्मिन् गते नरेन्द्रेषु तदन्येषु गतेषु च
तत्र वाक्पतिराजाख्यः पार्थिवेन्दुर् अजायत ॥
दीर्घेण चक्षुषा लक्ष्मीं भेजे कुवलयस्य यः
नारीणां दिशतानन्दं दोष्णा सत्तारकेण च ॥
शिथिलीकृतजीवाशा यस्मिन् कोपोन्नतभ्रुवि
निन्युः शिरांसि स्तब्धानि न धनूंषि नतिं नृपाः ॥
वैरिसिंह इति प्रापज् जन्म तस्माज् जनाधिपः
कीर्तिभिर् यस्य कुन्देन्दु विशदाभिः सटायितम् ॥
पौलोमीरमणस्येव यस्य चापे विलोकिते
चकितैः सरसीव क्ष्मा राजहंसैर् अमुच्यत ॥
श्रीसीयक इति क्षेत्रं यशसाम् उदभूत् ततः
दिलीपप्रतिमः पृथ्वी शुक्तिमुक्ताफलं नृपः ॥
लक्ष्मीर् अधोक्षजस्येव शशिमौलेर् इवाम्बिका
वडजेत्य् अभवद् देवी कलत्रं यस्य भूर् इव ॥
अखण्डमण्डलेनाप्य प्रजापुण्यैर् महोदयम्
कलिसंतमसं येन व्यनीयत नृपेन्दुना ॥
वशीकृताक्षमालो यः क्ष्माम् अत्यायतां दधन्
राज्याश्रमम् अलंचक्रे राजार्षिः कुशचीवरः ॥
स्मितज्योत्स्नादरिद्रेण बाष्पस्राविमुखेन्दुना
शशंसुर् विजयं यस्य रुद्रपाटीपतिस्त्रियः ॥
अकङ्कणम् अकेयूरम् अनूपुरम् अमेखलम्
हूणावरोधवैधव्य दीक्षादानं व्यधत्त यः ॥
अयं नेत्रोत्सवस् तस्माज् जज्ञे देवः पितृप्रियः
जगत्तमोऽपहो नेत्राद् अत्रेर् इव निशाकरः ॥
श्रीमद्वाकपतिराजो ऽभूत् अग्रजो ऽस्याग्रणीः सताम्
सगरापत्यदत्ताब्धि परिखायाः पतिर् भुवः ॥
अतीते विक्रमादित्ये गते ऽस्तं सातवाहने
कविमित्रे विशश्राम यस्मिन् देवी सरस्वती ॥
चक्रिरे वेधसा नूनं निर्व्याजौदार्यशालिनः
ते चिन्तामणयो यस्य निर्माणे परमाणवः ॥
यशोभिस् इन्दुशुचिभिर् यस्याच्छतरवारिजैः
अपूर्यता इयं ब्रह्माण्ड शुक्तिर् मुक्ताफलैर् इव ॥
श्रियं नीलाब्जकान्त्या यः प्रणयिभ्यो ददौ दृशा
अरातिभ्यश् च सहसा जह्रे निस्त्रिंशलेखया ॥
अंसः सवल्कलग्रन्थिः सजटापल्लवं शिरः
चक्रे येनाहितस्त्रीणाम् अक्षसूत्राङ्कितः करः ॥
पुरं कालक्रमात् तेन प्रस्थितेनाम्बिकापतेः
मौर्वीकिणाङ्कवत्य् अस्य पृथ्वी दोष्णि निवेशिता ॥
प्रशस्ति परितो विश्वम् उज्जयिन्यां पुरि स्थितः
अयं ययातिमन्धातृ दुष्यन्तभरतोपमः ॥
अनेनास्तः कपोलेषु पाण्डिमा रिपुयोषिताम्
समाहृत्येव तद्भर्तृ यशसो बाहुशलिना ॥
सदा समकरस्यास्य लक्ष्मीकुलगृहस्य च
सिन्धुराज इति व्यक्तं नाम दुग्धोदधेर् इव ॥
अनेन विहितान्य् अत्र यत् साहसशतान्य् अतः
नवीनसाहसाङ्को ऽयं वीरगोष्ठीषु गीयते ॥
विन्ध्यान्तश् चरतानेन मृगयासक्तचेतसा
कन्या शशिप्रभा नाम नागसूतिर् अदृश्यत ॥
अदृश्यैर् अथ सा नागैर् अस्य पार्श्वाद् अनीयत
ताम् अन्वेष्टुं प्रविष्टेन कुतूहलबलाद् इह ॥
समणिस्तम्भम् अग्रे ऽथ धाम हिरण्मयम्
तत्र मूर्ता ततः सिन्धुर् इन्दुसूतिर् विलोकिता ॥
अकृतातिथ्यम् एतस्य भक्तिनम्रस्य सा ततः
नीता पृष्टेन चैतेन स्ववार्तायाम् अभिज्ञताम् ॥
ततो वज्राङ्कुशोद्यान हेमाब्जाहृतिसाहसम्
हेतुः शशिप्रभावाप्तेर् विवृत्यावेदितस् तया ॥
असूचयत् प्रसङ्गेन त्रिविष्टपरिपोर् अथ
उदग्रम् असुरेन्द्रस्य वीर्यं वज्राङ्कुशस्य सा ॥
ततस् तम् प्रत्यमर्षो ऽस्य झटित्य् अङ्कुरितो हृदि
अन्यत्र वीरवृत्तेर् यद् अयम् एकान्तमत्सरी ॥
पन्थाः पुरो ऽसुरस्यास्य प्राञ्जलेः शंसितस् तया
असूच्यताग्रतश् चैतत् अमोघं दर्शनं तव ॥
अथेदं रत्नवलयं दत्त्वास्मै समम् आशिषा
कान्ता तिरोहिता सा च पुरुकुत्सस्य भूपतेः ॥
अथैतेन गृहीतेयं यात्रा वज्राङ्कुशं प्रति
एषा च सुकृतैर् दृष्टा पादपद्मद्वयी तव ॥
इत्य् उक्त्वा सूक्तिचतुरो विरराम रमाङ्गदः
आददे मुनिर् अप्य् उद्यत् दन्तांशुशबलं वचः ॥
अहो पुराणराजार्षि सन्तानकथयैतया
पुण्यया हृतम् आत्मानम् अधुना मन्महे वयम् ॥
अवश्यम्भाविनी तत्र सिद्धिः साहसिकस्य ते
शल्यं त्रिविष्टपस्यास्य हृदयाद् उद्धरिष्यसि ॥
एष वज्राङ्कुशस्याजौ नाकृत्वान्तं निवर्तिता
भुजो भुवनभर्तुस् ते दिङ्नागकरपीवरः ॥
वधूस् तवाचिरेणात्र भविष्यति शशिप्रभा
यथा कुवलयाश्वस्य दिवःकन्या मदालसा ॥
स्थिरो भव मितं कालं स्थित्वास्मिन् नस् तपोवने
त्वया विनीयताम् एष दीर्घध्वजनितः श्रमः ॥
इत्य् उक्ते मुनिना स अथ राजेन्दुर् इदम् अब्रवीत्
आज्ञा विलङ्घ्यते तात तव केन जगद्गुरोः ॥
अथ क्रमोन्मीलितसौहृदासु कथास्व् अनेकासु मिथःकृतासु
विश्रम्यताम् इत्य् अवदन् महर्षिः पतिं पृथिव्याः प्रथितप्रभावः ॥
देवस् ततः स मुनिकल्पितम् इन्द्रनील पर्यङ्कवत् कनकवेदिसनाथमध्यम्
अध्यास्त रत्नसदनं परितो वितान व्यालम्बितमौक्तिकलतं नवसाहसाङ्कः ॥
मूल पाठ: Navasāhasāṅkacarita · Edition: Vamanasastri Islampurakara, Bombay : Govt. Central Book Depot (Bombay Sanskrit Series, 53) · Data entry Somadeva Vasudeva · GRETIL (Göttingen) · CC BY-NC-SA 4.0