नाट्यशास्त्र · अध्याय 4
इति भारतीये नाट्यशास्त्रे रङ्गदैवतपूजनं नाम तृतीयो ऽध्यायः समाप्तः
अथ चतुर्थो ऽध्यायः
एवं तु पूजनं कृत्वा मया प्रोक्तः पितामहः ।
आज्ञापय प्रभो क्षिप्रं कः प्रयोगः प्रयुज्यताम्
ततो ऽस्म्युक्तो भगवता योजयामृतमन्थनम् ।
एतदुत्साहजननं सुरप्रीतिकरं तथा
यो ऽयं समवकारस्तु धर्मकामार्थसाधकः ।
मया प्राग्ग्रथितो विद्वन्स प्रयोगः प्रयुज्यताम्
तस्मिन्समवकारे तु प्रयुक्ते देवदानवाः ।
हृष्टाः समभवन्सर्वे कर्मभावानुदर्शनात्
कस्यचित्वथ कालस्य मामाहाम्बुजसम्भवः
नाट्यं सन्दर्शयामो ऽद्य त्रिनेत्राय महात्मने
ततः सार्धं सुरैर्गत्वा वृषभाङ्कनिवेशनम् ।
समभ्यर्च्य शिवं पश्चादुवाचेदं पितामहः
मया समवाकरस्तु यो ऽयं सृष्टः सुरोत्तम ।
श्रवणे दर्शने चास्य प्रसादं कर्तुमर्हसि
पश्याम इति देवेशो द्रुहिणं वाक्यमब्रवीत् ।
ततो मामाह भगवान् सज्जो भव महामते
ततो हिमवतः पृष्ठे नानानागसमाकुले ।
बहुभूतगणाकीर्णे रम्यकन्दरनिर्zहरे
पूर्वरङ्गः कृतः पूर्वं तत्रायं द्विजसत्तमाः ।
तथा त्रिपुरदाहश्च डिमसंज्ञः प्रयोजितः
ततो भूतगणा हृष्टाः कर्नभावानुकीर्तनात् ।
महादेवश्च सुप्रीतः पितामहमथाब्रवीत्
अहो नाट्यमिदं सम्यक् त्वया सृष्टं महामते ।
यशस्यं च शुभार्थं च पुण्यं बुद्धिविवर्धनम्
मयापीदं स्मृतं नृत्यं सन्ध्याकालेषु नृत्यता ।
नानाकरणसंयुक्तैरङ्गहारैर्विभूषितम्
पूर्वरङ्गविधावस्मिंस्त्वया सम्यक्प्रयोज्यताम् ।
वर्धमानकयोगेषु गीतेष्वासारितेषु च
महागीतेषु चैवार्थान्सम्यगेवाभिनेष्यसि ।
यश्चायं पूर्वरङ्गस्तु त्वया शुद्धः प्रयोजितः
एभिर्विमिश्रितश्चायं चित्रो नाम भविष्यति ।
श्रुत्वा महेश्वरवचः प्रत्युक्तस्तु स्वयंभुवा
प्रयोगमङ्गहाराणामाचक्ष्व सुरसत्तम ।
ततस्तण्डुं समाहूय प्रोक्तवान् भुवनेश्वरः
प्रयोगमङ्गहाराणामाचक्ष्व भरताय वै ।
ततो ये तण्डुना प्रोक्तास्त्वङ्गहारा महात्मना
तान्वः करणसंयुक्तान्व्याख्यास्यामि सरेचकान् ।
स्थिरहस्तो ऽङ्गहारस्तु तथा पर्यस्तकः स्मृतः
सूचिविद्धस्तथा चैव ह्यपविद्धस्तथैव च ।
आक्षिप्तको ऽथ विज्ञेयस्तथा चोद्धट्टितः स्मृतः
विष्कम्भश्चैव सम्प्रोक्तस्तथा चैवापराजितः ।
विष्कम्भापसृतश्चैअव मत्ताक्रीडस्तथैव च
स्वस्तिको रेचितश्चैव पार्श्वस्वस्तिक एव च ।
वृश्चिकापसृतः प्रोक्तो भ्रमरश्च तथापरः
मत्तस्खलितकश्चैव मदाद्विलसितस्तथा ।
गतिमण्डलको ज्ञेयः परिच्छिन्नस्तथैव च
परिवृत्तचितो ऽथ स्यात्तथा वैशाखरेचितः ।
परावृत्तो ऽथ विज्ञेयस्तथा चैवाप्यलातकः
पार्श्वच्छेदो ऽथ सम्प्रोक्तो विद्युद्भ्रान्तस्तथैव च ।
ऊरूद्वृत्तस्तथा चैव स्यादालीढस्तथैव च
रेचितश्चापि विज्ञेयस्तथैवाच्छुरितः स्मृतः ।
आक्षिप्तरेचितश्चैव सम्भ्रान्तश्च तथापरः
अपसर्पस्तु विज्ञेयस्तथा चार्धनिकुट्टकः ।
द्वात्रिंशदेते सम्प्रोक्ता अङ्गहारास्तु नामतः
एतेषां तु प्रवक्ष्यामि प्रयोगं करणाश्रयम् ।
हस्तपादप्रचारश्च यथा योज्यः प्रयोक्तृभिः
अङ्गहारेषु वक्ष्यामि करणेषु च वै द्विजाः ।
सर्वेषामङ्गहाराणां निष्पत्तिः करणैर्यतः
तान्यतः सम्प्रवक्ष्यामि नामतः कर्मतस्तथा ।
हस्तपादसमायोगो नृत्यस्य करणं भवेत्
द्वे नृत्तकरणे चैव भवतो नृत्तमातृका ।
द्वाभ्यां त्रिभिश्चतुर्भिर्वाप्यङ्गहारस्तु मातृभिः
त्रिभिः कलापकं चैव चतुर्भिः षण्डकं भवेत् ।
पञ्चैव करणानि स्युः सङ्घातक इति स्मृतः
षड्भिर्वा सप्तभिर्वापि अष्टभिर्नवभिस्तथा ।
करणैरिह संयुक्ता अङ्गहाराः प्रकीर्ताः
एतेषामेव वक्ष्यामि हस्तपादविकल्पनम् ।
तलपुष्पपुटं पूर्वं वर्तितं वलितोरु च
अपविद्धं समनखं लीनं स्वस्तिकरेचितम् ।
मण्डलस्वस्तिकं चैव निकुट्टकमथापि च
तथैवार्धनिकुट्टं च कटिच्छिन्नं तथैव च ।
अर्धरेचितकं चैव वक्षःस्वस्तिकमेव च
उन्मत्तं स्वस्तिकं चैव पृष्ठस्वस्तिकमेव च ।
दिक्ष्वस्तिकमलातं च तथैव च कटीसमम्
आक्षिप्तरेचितं चैव विक्षिप्ताक्षिप्तकं तथा ।
अर्धस्वस्तिकमुद्दिष्टमञ्चितं च तथापरम्
भुजङ्गत्रासितं प्रोक्तमूर्ध्वजानु तथैव च ।
निकुञ्चितं च मत्तल्लि त्वर्धमत्तल्लि चैव हि
स्याद्रेचकनिक्कुट्टं च तथा पादापविद्धकम् ।
वलितं घूर्णितं चैव ललितं च तथापरम्
दण्डपक्षं तथा चैव भुजङ्गत्रस्तरेचितम् ।
नूपुरं चैव सम्प्रोक्तं तथा वैशाखरेचितम्
भ्रमरं चतुरं चैव भुजङ्गाञ्चितमेव च ।
दण्डरेचितकं चैव तथा वृश्चिककुट्टितम्
कटिभ्रान्तं तथा चैव लतावृश्चिकमेव च ।
छिन्नं च करणं प्रोक्तं तथा वृश्चिकरेचितम्
वृश्चिकं व्यंसितं चैव तथा पार्श्वनिकुट्टकम् ।
ललाटतिलकं क्रान्तं कुञ्चितं चक्रमण्डलम्
उरोमण्डलमाक्षिप्तं तथा तलविलासितम् ।
अर्गलं चाथ विक्षिप्तमावृत्तं दोलपादकम्
विवृत्तं विनिवृत्तं च पार्श्वक्रान्तं निशुम्भितम् ।
विद्युत्भ्रान्तमतिक्रान्तं विवर्तितकमेव च
गजक्रीडितकं चैव तलसंस्फोटितं तथा ।
गरुडप्लुतकं चैव गण्डसूचि तथापरम्
परिवृत्तं समुद्दिष्टं पार्श्वजानु तथैव च ।
गृध्रावलीनकं चैव सन्नतं सूच्यथापि च
अर्धसूचीति करणं सूचिविद्धं तथैव च ।
अपक्रान्तं च सम्प्रोक्तं मयूरललितं तथा
सर्पितं दण्डपादं च हरिणप्लुतमेव च ।
प्रेङ्खोलितं नितम्बं च स्खलितं करिहस्तकम्
प्रसर्पितकमुद्दिष्टं सिंहविक्रीडतं तथा ।
सिंहाकर्षितमुद्वृत्तं तथोपसृतमेव च
तलसंघट्टितं चैव जनितं चावहित्थकम् ।
निवेशमेलकाक्रीडमूरूद्वृत्तं तथैव च
मदस्खलितकं चैव विष्णुक्रान्तमथापि च ।
सम्भ्रान्तमथ विष्कम्भमुद्घट्टितमथापि च
वृषभक्रीडितं चैव लोलितं च तथापरम् ।
नागापसर्पितं चैव शकटास्यं तथैव च
गङ्गावतरणं चैवेत्युक्तमष्टाधिकं शतम् ।
अष्टोत्तरशतं ह्येतत्करणानां मयोदितम्
नृत्ये युद्धे नियुद्धे च तथ गतिपरिक्रमे ।
गतिप्रचारे वक्ष्यामि युद्धचारीविकल्पनम्
यत्र तत्रापि संयोज्यमाचार्यैर्नाट्यशक्तिनः ।
प्रायेण करणे कार्यो वामो वक्षःस्थितः करः
चरणस्यानुगश्चापि दक्षिणस्तु भवेत्करः ।
हस्तपादप्रचारन्तु कटिपार्श्वोरुसंयुतम्
उरःपृष्ठोदरोपेतं वक्ष्यमाणं निबोधत ।
यानि स्थानानि याश्चार्यो नृत्यहस्तास्तथैव च
सा मातृकेति विज्ञेया तद्योगात्करणं भवेत् ।
कटी कर्णसमा यत्र कोर्परांसशिरस्तथा
समुन्नतमुरश्चैव सौष्ठवं नाम तद्भवेत् ।
वामे पुष्पपुटः पार्श्वे पादो ऽग्रतलसञ्चरः
तथा च सन्नतं पार्श्वं तलपुष्पपुटं भवेत् ।
कुञ्चितौ मणिबन्धे तु व्यावृत्तपरिवर्तितौ
हस्तौ निपतितौ चोर्वोर्वर्तितं करणं तु तत् ।
शुकतुण्डौ यदा हस्तौ व्यावृत्तपरिवर्तितौ
उरू च वलितौ यस्मिन्वलितोरुकमुच्यते ।
आवर्त्य शुकतुण्डाख्यमूरुपृष्ठे निपातयेत्
वामहतश्च वक्षःस्थो ऽप्यपविद्धं तु तद्भवेत् ।
श्लिष्टौ समनखौ पदौ करौ चापि प्रलिम्बितौ
देहः स्वाभाविको यत्र भवेत्समनखं तु तत् ।
पताकाञ्जलि वक्षःस्थं प्रसारितशिरोधरम्
निहञ्चितांसकूटं च तल्लिनं करणं स्मृतम् ।
स्वस्तिकौ रेचिताविद्धौ विश्लिष्टौ कटिसंश्रितौ
यत्र तत्करणं ज्ञेयं बुधैः स्वस्तिकरेचितम् ।
स्वस्तिकौ तु करौ कृत्वा प्राङ्गमुखोर्ध्वतलौ समौ
तथा च मण्डलं स्थानं मण्डलस्वस्तिकं तु तत् ।
निकुट्टितौ यदा हस्तौ स्वबाहुशिरसो ऽन्तरे
पादौ निकुट्टितौ चैव ज्ञेयं तत्तु निकुट्टकम् ।
अञ्चितौ बाहुशिरसि हस्तस्त्वभिमुखाङ्गुलिः
निकुञ्चितार्धयोगेन भवेदर्थनिकुट्टकम् ।
पर्यायशः कटिश्छिन्ना बाह्वोः शिरसि पल्लवौ
पुनःपुनश्च करणं कटिच्छिनं तु तद्भवेत् ।
अपविद्धकरः सूच्या पादश्चैव निकुट्टितः
संन्नतं यत्र पार्श्वं च तद्भवेअर्धरेचितम् ।
स्वस्तिकौ चरणौ यत्र करौ वक्षसि रेचितौ
निकुञ्चितं तथा वक्षो वक्षस्स्वस्तिकमेव तत् ।
आञ्चितेन तु पादेन रेचितौ तु करौ यदा
उन्मतं करणं तत्तु विज्ञेयं नृत्यकोविदैः ।
हस्ताभ्यामथ पादाभ्यां भवतः स्वस्तिकौ यदा
तत्स्वस्तिकमिति प्रोक्तं करणं करणार्थिभिः ।
विक्षिप्ताक्षिप्तबाहुभ्यां स्वस्तिकौ चरणौ यदा
अपक्रान्तार्धसूचिभ्यां तत्पृष्ठस्वस्तिकं भवेत् ।
पार्श्वयोरग्रतश्चैव यत्र श्लिष्टः करो भवेत्
स्वस्तिकौ हस्तपादाभ्यां तद्दिक्ष्वस्तिकमुच्यते ।
अलातं चरणं कृत्वा व्यंसयेद्दक्षिणं करम्
ऊर्ध्वजानुक्रमं कुर्यादलातकमिति स्मृतम् ।
स्वस्तिकापसृतः पादः करौ नाभिकटिस्थितौ
पार्श्वमुद्वाहितं चैव करणं तत्कटीसमम् ।
हस्तौ हृदि भवेद्वामः सव्यश्चाक्षिप्तरेचितः
रेचितश्चापविद्धश्च तत्स्यादाक्षिप्तरेचितम् ।
विक्षिप्तं हस्तपादं च तसैवाक्षेपणं पुनः
यत्र तत्करणं ज्ञेयं विक्षिप्ताक्षिप्तप्तकं द्विजाः ।
स्वस्तिकौ चरणौ कृत्वा करिहस्तं च दक्षिणम्
वक्षस्थाने तथा वाममर्धस्वस्तिकमादिशेत् ।
व्यावृत्तपरिवृत्तस्तु स एव तु करो यदा
अञ्चितो नासिकाग्रे तु तदञ्चितमुदाहृतम् ।
कुञ्चितं पादमुत्क्षिप्य त्र्यश्रमूरुं विवर्तयेत्
कटिजानुविवर्ताच्च भुजङ्गत्रासितं भवेत् ।
कुञ्चितं पादमुत्क्षिप्य जनुस्तनसमं न्यसेत्
प्रयोगवशगौ हस्तावूर्ध्वजानु प्रकीर्तितम् ।
वृश्चिकं चरणं कृत्वा करं पार्श्वे निकुञ्चयेत्
नासाग्रे दक्षिणं चैव ज्ञेयं तत्तु निकुञ्चितम् ।
वामदक्षिणपादाभ्यां घूर्णमानोपसर्पणैः
उद्वेष्टितापविद्धैश्च हस्तैर्मत्तल्ल्युदाहृतम् ।
स्स्खलितापसृतौ पादौ वामहस्तश्च रेचितः
सव्यहस्तः कटिस्थः स्यादर्धमत्तल्लि तत्स्मृतम् ।
रेचितो दक्षिणो हस्तः पादः सव्यो निकुट्टितः
दोला चैव भवेद्वामस्तद्रेचितनिकुट्टितम् ।
कार्यौ नाभितटे हस्तौ प्राङ्मुखौ खटकामुखौ
सूचीविद्धावपक्रान्तौ पादौ पादापविद्धके ।
अपविद्धो भवेद्धस्तः सूचीपादस्तथैअव च
तथा त्रिकं विवृत्तं च वलितं नाम तद्भवेत् ।
वर्तिताघूर्णितः सव्यो हस्तो वामश्च दोलितः
स्वस्तिकापसृतः पादः करणं घूर्णितं तु तत् ।
करिहस्तो भवेद्वामो दक्षिणश्च विवर्तितः
बहुशः कुट्टितः पदो ज्ञेयं तल्ललितं बुधैः ।
ऊर्ध्वजानुं विधायाथ तस्योपरि लतां न्यसेत्
दण्ड्पक्षं तत्प्रोक्तं कर्णं नृत्यवेदिभिः ।
भुजञ्गत्रासितं कृत्वा यत्रोभावपि रेचितौ
वामपार्श्वस्थ्तौ हस्तौ भुजङ्गत्रस्तरेचितम् ।
त्रिकं सुवलितं कृत्वा लतारेचितकौ करौ
नूपुर्श्च तथा पादः करणे नूपुरे न्यसेत् ।
रेचितौ हस्तपादौ च कटी ग्रीवा च रेचिता
वैशाखस्थानकेनैतद्भवेवैशाखरेचितम् ।
आक्षिप्तः स्वस्तिकः पादः करौ चोद्वेष्टितौ तथा
त्रिकस्य वलनाच्चैव ज्ञेयं भ्रमरकं तु तत् ।
अञ्चितः स्यात्करो वामः सव्यश्चतुर एव तु
दक्षिणः कुट्टितः पादश्चतुरं तत्प्रकीर्तितम् ।
भुजङ्गत्रासितः पादो दक्षिणो रेचितः करः
लताख्यश्च करो वामो भुजङ्गाञ्चितकं भवेत् ।
विक्षिप्तं हस्तपादं तु समन्ताद्यत्र दण्डवत्
रेच्यते तद्धि करणं ज्ञेयं दण्डकरेचितम् ।
वृश्चिकं चरणं कृत्वा द्वावप्यथ निकुट्टितौ
विधातव्यौ करौ तत्तु ज्ञेयं वृश्चिककुट्टितम् ।
सूचिं कृत्वापविद्धं च दक्षिणं चरणं न्यसेत्
रेचिता च कटिर्यत्र कटिभ्रान्तं तदुच्यते ।
अञ्चितः पृष्ठतः पादः कुञ्चितोर्ध्वतलाङ्गुलिः
लताख्यश्च करो वामस्तल्लतावृश्चिकं भवेत् ।
अलपद्मः कटीदेशे छिन्ना पर्यायशः कटी
वैशाखस्थानकेनेह तच्छिन्नं करणं भवेत् ।
वृश्चिकं चरणं कृत्वा स्वस्तिकौ च करवुभौ
रेचितौ विप्रकीर्णौ च करौ वृश्चिकरेचितम् ।
बाहुशीर्षाञ्चितौ हस्तौ पादः पृष्ठाञ्चितस्तथा
दूरसन्नतपृष्ठं च वृश्चिकं तत्प्रकीर्तितम् ।
आलीढं स्थानकं यत्र करौ वक्षसि रेचितौ
ऊर्ध्वाधो विप्रकीर्णौ च व्यंसितं करणं तु तत् ।
हस्तौ तु स्वस्तिकौ पार्श्वे तथा पादो निकुट्टितः
यत्र तत्करणं ज्ञेयं बुधैः पार्श्वनिकुट्टितम् ।
वृश्चिकं चरणं कृत्वा पादस्याङ्गुष्ठकेन तु
ललाटे तिलकं कुर्याल्ललाटतिलकं तु तत् ।
पृष्ठतः कुञ्चितं कृत्वा व्यतिक्रान्तक्रमं ततः
आक्षिप्तौ च करौ कार्यौ क्रान्तके करणे द्विजाः ।
आद्यः पादो नतः कार्यः सव्यहस्तश्च कुञ्चितः
उत्तानो वामपार्श्वस्थस्तत्कुञ्चितमुदाहृतम् ।
प्रलम्बिताभ्यां बाहुभ्यां यद्गात्रेणानतेन च
अभ्यन्तरापविद्धः स्यात्तज्ज्ञेयं चक्रमण्डलम् ।
स्वस्तिकापसृतौ पादावपविद्धक्रमौ यदा
उरोमण्डलकौ हस्तावुरोमण्डलिकस्तु तत् ।
आक्षिप्तं हस्तपादं च क्रियते यत्र वेगतः
आक्षिओतं नाम करणं विज्ञेयं तत्द्विजोत्तमाः ।
ऊर्ध्वाङ्गुलितलः पादः पार्श्वेनोर्ध्वं प्रसारितः
प्रकुर्यादञ्चिततलौ हस्तौ तलविलासिते ।
पृष्ठतः प्रसृतः पादौ द्वौ तालावर्धमेव च
तस्येव चानुगो हस्तः पुरतस्त्वर्गलं तु तत् ।
विक्षिप्तं हस्तपादं च पृष्ठतः पार्श्वतो ऽपि वा
एकमार्गगतं यत्र तद्विक्षिप्तमुदाहृतम् ।
प्रसार्य कुञ्चितं पादं पुनरावर्तयेत् द्रुतम्
प्रयोगवशगौ हस्तौ तदावर्तमुदाहृतम् ।
कुञ्चितं पादमुत्क्षिप्य पार्श्वात्पार्श्वं तु डोलयेत्
प्रयोगवशगौ हस्तौ डोलापादं तदुच्यते ।
आक्षिप्तं हस्तपादं च त्रिकं चैव विवर्तयेत्
रेचितौ च तथा हस्तौ विवृत्ते करणे द्विजाः ।
सूचीविद्धं विधायाथ त्रिकं तु विनिवर्तयेत्
करौ च रेचितौ कार्यौ विनिवृत्ते द्विजोत्तमः ।
पार्श्वक्रान्तक्रमं कृत्वा पुरस्तादथ पातयेत्
प्रयोगवशगौ हस्तौ पार्श्वक्रान्तं तदुच्यते ।
पृष्ठतः कुञ्चितः पादौ वक्षश्चैव समुन्नतम्
तिलके च करः स्थाप्यस्तन्निस्तम्भितमुच्यते ।
पृष्ठतो वलितं पादं शिरोघृष्टं प्रसारयेत्
सर्वतो मण्डलाविद्धं विद्युद्भ्रान्तं तदुच्यते ।
अतिक्रान्तक्रमं कृत्वा पुरस्तात्संप्रसारयेत्
प्रयोगवशगौ हस्तावतिक्रान्ते प्रकीर्तितौ ।
आक्षिप्तं हस्तपादं च त्रिकं चैव विवर्तितम्
द्वितीयो रेचितो हस्तो विवर्तितकमेव तत् ।
कर्णे ऽञ्चितः करो वामो लताहस्तश्च दक्षिणः
दोलापादस्तथा चैव गजक्रीडितकं भवेत् ।
द्रुतमुत्क्षिप्य चरणं पुरस्तादथ पातयेत्
तलसंस्फोटितौ हस्तौ तलसंस्फोटिते मतौ ।
पृष्ठप्रसारितः पादः लतारेचितकौ करौ
समुन्नतं शिरश्चैव गरुडप्लुतकं भवेत् ।
सूचिपादो नतं पार्श्वमेको वक्षःस्थितः करः
द्वितीयश्चाञ्चितो गण्डे गण्डसूची तदुच्यते ।
ऊर्ध्वापवेष्टितौ हस्तौ सूचीपादो विवर्तितः
परिवृत्तत्रिकं चैव परिवृत्तं तदुच्यते ।
एकः समस्थितः पाद ऊरुपृष्ठे स्थितो ऽपरः
मुष्टिहस्तश्च वक्षःस्थः पार्श्वजानु तदुच्यते ।
पृष्ठप्रसारितः पादः किञ्चितञ्चित जानुकः
यत्र प्रसारितो बाहू तत्स्यात् गृध्रावलीनकम् ।
उत्प्लुत्य चरणौ कार्यावग्रतः स्वस्तिकस्थितौ
सन्नतौ च तथा हस्तौ सन्नतं तदुदाहृतम् ।
कुञ्चितं पादमुत्क्षिप्य कुर्यादग्रस्थितं भुवि
प्रयोगवशगौ हस्तौ सा सूची परिकीर्तिता ।
अलपद्मः शिरोहस्तः सूचीपादश्च दक्षिणः
यत्र तत्करणं ज्ञेअयमर्धसूचीति नामतः ।
पादसूच्या यदा पादो द्वितीयस्तु प्रविध्यते
कटिवक्षःस्थितौ हस्तौ सूचीविधं तदुच्यते ।
कृत्वोरुवलितं पादमपक्रान्तक्रमं न्यसेत्
प्रयोगवशगौ हस्तवपक्रान्तं तदुच्यते ।
वृश्चिकं चरणं कृत्वा रेचितौ च तथा करौ
तथा त्रिकं विवृत्तं च मयूरललितं भवेत् ।
अञ्चितापसृतौ पादौ शिरश्च परिवाहितम्
रेचितौ च तथा हस्तौ तत्सर्पितमुदाहृतम् ।
नूपुरं चरणं कृत्वा दण्डपादं प्रसारयेत्
क्षिप्राविद्धकरं चैव दण्डपादं तदुच्यते ।
अतिक्रान्तक्रमं कृत्वा समुत्प्लुत्य निपातयेत्
जङ्घाञ्चितोपरि क्षिप्ता तद्विद्याद्धरिणप्लुतम् ।
(सेए थे च्लुस्तेर् ङ्घा. आ नेव् लिगतुरे मय् बे अद्देद् तो रेप्रेसेन्त् थिस् च्लुस्तेर्)
डोलापादक्रमं कृत्वा समुत्प्लुत्य निपातयेत्
परिवृत्तत्रिकं चैव तत्प्रेङ्खोलितमुच्यते ।
भुजावूर्ध्वविनिष्क्रान्तौ हस्तौ चाभिमुखाङ्गुली
बद्धा चारी तथ चैव नितम्बे करणे भवेत् ।
दोलापादक्रमं कृत्वा हस्तौ तदनुगावुभौअ
रेचितौ घूर्णितौ वापि स्खलितं करणं भवेत् ।
एको वक्षःस्थितो हस्तः प्रोद्वेष्टिततलो ऽपरः
अञ्चितश्चरणश्चैव प्रयोज्यः करिहस्तके ।
एकस्तु रेचितो हस्तो लताख्यस्तु तथा परः
प्रसर्पिततलौ पादौ प्रसर्पितकमेव तत् ।
अलातं च पुरःकृत्वा द्वितीयं च द्रुतक्रमम्
हस्तौ पादानुगौ चापि सिंहविक्रीडिते स्मृतौ ।
पृष्ठप्रसर्पितः पादस्तथा हस्तौ निकुञ्चितौ
पुनस्तथैव कर्तव्यौ सिंहाकर्ष्तके द्विजाः ।
आक्षिप्तहस्तमाक्षिप्तदेहमाक्षिप्तपादकम्
अद्वृत्तगात्रमित्येतदुद्वृतां करणं स्मृतम् ।
आक्षिप्तचरणश्चैको हस्तौ तस्यैव चानुगौ
आनतं च तथ गात्रं तयोपसृतकं भवेत्
दोलापादक्रमं कृत्वा तलसङ्घट्टितौ करौ
रेचयेच्च करं वामं तलसङ्घट्टिते सदा ।
एको वक्षःस्थितो हस्तो द्व्तीयश्च प्रलम्बितः
तलाग्रसंस्थितः पादो जनिते करणे भवेत् ।
जनितं करणं कृत्वा हस्तौ चाभिमुखाङ्गुली
शनैर्निपतितो चैव ज्ञेयं तदवहित्थकम् ।
करौ वक्षःस्थितौ कार्यावुरौ निर्भुग्नमेव च
मण्डलस्थानकं चैव निवेशं करणं तु तत् ।
तलसञ्चरपादाभ्यामुत्प्लुत्य पतनं भवेत्
संनतं वलितं गात्रमेलकाक्रीडितं तु तत् ।
करमावृत्तकरणमूरुपृष्ठे ऽञ्चितं न्यसेत्
जङ्घाञ्चिता तथोद्वृत्ता ह्यूरूद्वृत्तं तु तद्भवेत् ।
करौ प्रलम्बितौ कार्यो शिरश्च परिवाहितम्
पादौ च वलिताविध्दौअ मदस्खलितके द्विजाः ।
पुरः प्रसारितः पादः कुञ्चितो गगनोन्मुखः
करौ च रेचितौ यत्र विष्णुक्रान्तं तदुच्यते ।
करमावर्तितं कृत्वा ह्यूरुपृष्ठे निकुञ्चयेत्
ऊरुश्चैव तथाविद्धः सम्भ्रान्तं करणं तु तत् ।
अपविद्धः करः सूच्या पादश्चैव निकुट्टितः
वक्षःस्थश्च करो वामो विष्कम्भे करणे भवेत् ।
पादावुद्धट्टितौ कार्यौ तलसङ्घट्टितौ करौ
नतश्च पार्श्वं कर्तव्यं बुधैरुद्धट्टिते सदा ।
प्रयुज्यालातकं पूर्वं हस्तौ चापि हि रेचयेत्
कुञ्चितावञ्चितौ चैव वृषभक्रीडिते सदा ।
रेचितावञ्चितौ हस्तौ लोलितं वर्तितं शिरः
उभयोःपार्श्वयोर्यत्र तल्लोलितमुदाहृतम् ।
स्वस्तिकापसृतौ पादौ शिरश्च परिवाहितम्
रेचितौ च तथा हस्तौ स्यातां नागापसर्पिते ।
निषण्णाङ्गस्तु चरणं प्रसार्य तलसञ्चरम्
उद्वाहितमुरः कृत्वा शकटास्यं प्रयोजयेत् ।
ऊर्ध्वाङ्गुलितलौ पादौ त्रिपताकावधोमुखौ
हस्तौ शिरस्सन्नतं च गङ्गावतरणं त्विति ।
यानि स्थानानि याश्चार्यो व्यायामे कथितानि तु
पादप्रचारस्त्वेषां तु करणानामयं भवेत् ।
ये चापि नृत्तहस्तास्तु गदिता नृत्तकर्मणि
तेषां समासतो योगः करणेषु विभाव्यते ।
प्रायेण करणे कार्यो वामो वक्षःस्थितः करः
चरणश्चानुगश्चापि दक्षिणस्तु भवेत्करः ।
चार्यश्चैव तु याः प्रोक्ता नृत्तहस्तास्तथैव च
सा मातृकेति विज्ञेया तद्भेदात्करणानि तु ।
अष्टोत्तरशतं ह्येतत्करणानां मयोदितम्
अतः परं प्रवक्ष्यामि ह्यङ्गहारविकल्पनम् ।
प्रसार्योत्क्षिप्य च करौ समपादं प्रयोजयेत्
व्यंसितापसृतं सव्यं हस्तमूर्ध्वं प्रसारयेत् ।
प्रत्यालीढं ततः कुर्यात् तथैव च निकुट्टकम्
ऊरूद्वृत्तं ततः कुर्यादक्षिप्तं स्वस्तिकं ततः ।
नितम्बं करि हस्तं च कटिच्छिन्नं च योगतः
स्थिरहस्तो भवेदेष त्वङ्गहारो हरप्रियः ।
तलपुष्पापविद्धे द्वे वर्तितं संनिकुट्टिकम्
ऊरूद्वृत्तं तथाक्षिप्तमुरोमण्डलमेव च ।
नितम्बं करिहस्तं च कटिच्छिन्नं तथैव च
एष पर्यस्तको नाम ह्यङ्गहारो हरोद्भवः ।
अलपल्लवसूचीं च कृत्वा विक्षिप्तमेव च
आवर्तितं ततः कुर्यात्तथैअव च निकुट्टकम् ।
ऊरूद्वृत्तं तथाक्षिप्तमुरोमण्डलमेव च
करिहस्तं कटिच्छिन्नं सूचीविद्धो भवेदयम् ।
अपविद्धं तु करणं सूचीविद्धं तथैव च
उद्वेष्टितेन हस्तेन त्रिकं तु परिवर्तयेत् ।
उरोमण्डलकौ हस्तौ कटिच्छिन्नं तथैव च
अपविद्धो ऽङ्गहाराश्च विज्ञेयो ऽयं प्रयोक्तृभिः ।
करणं नूपुरं कृत्वा विक्षिप्तालातके पुनः
पुनराक्षिप्तकं कुर्यादुरोमण्डलकं तथा ।
नितम्बं करिहस्तं च कटिच्छिन्नं तथैव च
आक्षिप्तकः स विज्ञेयो ह्यङ्गहारः प्रयोक्तृभिः ।
उद्वेष्टितापविद्धस्तु करः पादो निकुट्टितः
पुनस्तैनैव योगेन वामपार्श्वे भवेदथ ।
उरोमण्डलकौ हस्तौ नितम्बं करिहस्तकम्
कर्तव्यं सकटिच्छिन्नं नृत्ये तूद्धट्टिते सदा ।
पर्यायोद्वेष्टितौ हस्तौ पादौ चैव निकुट्टितौ
कुञ्चितावञ्चितौअ चैव ह्यूरूद्वृत्तं तथैव च ।
चतुरश्रं करं कृत्वा पादेन च निकुट्टकम्
भुजङ्गत्रासितं चैव करं चोद्विष्टितं पुनः ।
परिच्छिन्नं च कर्तव्यं त्रिकं भ्रमरकेण तु
करिहस्तं कटिच्छिन्नं विष्कम्भे परिकीर्तितम् ।
दण्डपादं करं चैव विक्षिप्याक्षिप्य चैव हि
व्यंसितं वामहस्तं च सह पादेन सर्पयेत् ।
निकुट्टकद्वयं कार्यमाक्षिप्तं मण्डलोरसि
करिहस्तं कटिच्छिन्नं कर्तव्यमपराजिते ।
कुट्टितं करणं कृत्वा भुजङ्गत्रासितं तथा
रेचितेन तु हस्तेन पताकं हस्तमादिशेत् ।
आक्षिप्तकं प्रयुञ्जीत ह्युरोमण्डलकं तथा
लताख्यं सकटकच्छिन्नं विष्कम्भापसृते भवेत् ।
त्रिकं सुवलितं कृत्वा नूपुरं करणं तथा
भुजङ्गत्रासितं सव्यं तथा वैशाखरेचितम् ।
आक्षिप्तकं ततः कृत्वा परिच्छिन्नं तथैव च
बाह्यभ्रमरकं कुर्यादुरोमण्डलमेव च ।
नितम्बं करिहस्तं च कटिच्छिन्नं तथैव च
मत्ताक्रीडो भवेदेष ह्यङ्गहारो हरप्रियः ।
रेचितं हस्तपादं च कृत्वा वृश्चिकमेव च
पुनस्तेनैव योगेन वृश्चिकं सम्प्रयोजयेत् ।
निकुट्टकं तथा चैव सव्यासव्यकृतं क्रमात्
लताख्यः सकटिच्छेदो भवेत्स्वस्तिकरेचिते ।
पार्श्वे तु स्वस्तिकं बद्ध्वा कार्यं त्वथ निकुट्टकम्
द्वितीयस्य च पार्श्वस्य विधिः स्याद्यमेव हि ।
ततश्च करमावर्त्य ह्यूरूपृष्ठे निपातयेत्
ऊरूद्वृत्तं ततः कुर्यादाक्षिप्तं पुनरेव हि ।
नितम्बं करिहस्तं च कटिच्छिन्नं तथैव च
पार्श्वस्वस्तिक इत्येष ह्यङ्गहारः प्रकीर्तितः ।
वृश्चिकं करणं कृत्वा लताख्यं हस्तमेव च
तमेव च करं भूयो नासाग्रे सन्निकुञ्चयेत् ।
तमेवोद्वेष्टितं कृत्वा नितम्बं परिवर्तयेत्
करिहस्तं कटिच्छिन्नं वृश्चिकापसृते भवेत् ।
कृत्वा नूपुरपादं तु तथाक्षिप्तकमेव च
परिच्छिन्नं च कर्तव्यं सूचीपादं तथैव च ।
नितम्बं करिहस्तं चाप्युरोमण्डलकं तथा
कटीच्छिन्नं ततश्चैव भ्रमरः स तु संज्ञितः ।
मतल्लिकरणं कृत्वा करमावर्त्य दक्षिणम्
कपोलस्य प्रदेशे तु कार्यं सम्यङ्निकुञ्चितम्
अपविद्धं द्रुतं चैव तलसंस्फोटसंयुतम्
करिहस्तं कटिच्छिन्नं मत्तस्खलितके भवेत् ।
दोलैः करैः प्रचलितैः स्वस्तिकापसृतैः पदैः
अञ्चितैर्वलितैर्हस्तैस्तलसङ्घट्टितैस्तथा ।
निकुट्टितं च कर्तव्यमूरूद्वृतं तथैव च
करिहस्तं कटिच्छिन्नं मदाद्विलसिते भवेत् ।
मण्डलं स्थानकं कृत्वा तथा हस्तौ च रेचितौ
उद्घट्टितेन पादेन मत्तल्लिकरणं भवेत् ।
आक्षिप्तं करणं चैव ह्युरोमण्डलमेव च
कटिच्छिन्नं तथा चैव भवेत्तु गतिमण्डले ।
समपादं प्रयुज्याथ परिच्छिन्नं त्वनन्तरम्
आविद्धेन तु पादेन बाह्यभ्रमरकं तथा ।
वामसूच्या त्वतिक्रान्तं भुजङ्गत्रासितं तथा
करिहस्तं कटिच्छिन्नं परिच्छिन्ने विधीयते ।
शिरसस्तूपरि स्थाप्यौ स्वस्तिअकौ विच्युतौ करौ
ततः सव्यं करं चापि गात्रमानम्य रेचयेत् ।
पुनरुत्थापयेत्तत्र गात्रमुन्नम्य रेचितम्
लताख्यौ च करौ कृत्वा वृश्चिकं सम्प्रयोजयेत् ।
रेचितं करिहस्तं च भुजङ्गत्रासितं तथा
आक्षिप्तकं प्रयुञ्जीत स्वस्तिकं पादमेव च ।
पराङ्ग्मुखविधिर्भूय एवमेव भवेदिह
करिहस्तं कटिच्छिन्नं परिवृत्तकरेचितेए ।
रेचितौ सह गात्रेण ह्यपविद्धौ करौ यदा
पुनस्तेनैव देशेन गात्रमुन्नम्य रेचयेत् ।
कुर्यान्नूपुरपादं च भुजङ्गत्रासितं तथा
रेचितं मण्डलं चैव बाहुशीर्षे निकुञ्चयेत् ।
ऊरूद्वृत्तं तथाक्षिप्तमुरोमण्डलमेव च
करिहस्तं कटिच्छिन्नं कुर्याद्वैशाखरेचिते ।
आद्यं तु जनितं कृत्वा पादमेकं प्रसारयेत्
तथैवालातकं कुर्यात् त्रिकं तु परिवर्तयेत् ।
अञ्चितं वामहस्तं च गण्डदेशे निकुट्टयेत्
कटिच्छिन्नं तथा चैव परावृत्ते प्रयोजयेत् ।
स्वस्तिकं करणं कृत्वा व्यंसितौ च करौ पुनः
अलातकं प्रयुञ्जीत ह्यूर्ध्वजानु निकुञ्चितम् ।
अर्धसूची च विक्षिप्तमुद्वृत्ताक्षिप्तके तथा
करिहस्तं कटिच्छिन्नमङ्गहारे ह्यलातके ।
निकुट्य वक्षसि करावूर्ध्वजानु प्रयोजयेत्
आक्षिप्तस्वस्तिकं कृत्वा त्रिकं तु परिवर्तयेत् ।
उरोमण्डलकौ हस्तौ नितम्बं करिहस्तकम्
कटिच्छिन्नं तथा चैव पार्श्वच्छेदे विधीयते ।
सूचीवामपदं दध्याद्विद्युद्भ्रान्तं च दक्षिणम्
दक्षिणेन पुनः सूची विद्युद्भ्रान्तं च वामतः ।
परिच्छिन्नं तथा चैव ह्यतिक्रान्तं च वामकम्
लताख्यं सकटिच्छिन्नं विद्युद्भ्रान्तश्च स स्मृतः ।
कृत्वा नूपुरपादं तु सव्यवामौ प्रलम्बितौ
करौ पार्श्वे ततस्ताभ्यां विक्षिप्तं सम्प्रयोजयेत् ।
ताभ्यां सूची तथा चैव त्रिकं तु परिवर्तयेत्
लताख्यं सकटिच्छिन्नं कुर्तादुद्वृत्तके सदा ।
आलीढव्यंसितौ हस्तौ बाहुशीर्षे निकुट्टयेत्
नूपुरश्चरणो वामस्तथालातश्च दक्षिणः ।
तेनैवाक्षिप्तकं कुर्यादुरोमण्डलकौ करौ
करिहस्तं कटिच्छिन्नमालीढे सम्प्रयोजयेत् ।
हस्तं तु रेचितं कृत्वा पार्श्वमानस्य रेचयेत्
पुनस्तेनैव योगेन गात्रमानस्य रेचयेत् ।
रेचितं करणं कार्यमुरोमण्डलमेव च
कटिच्छिन्नं तु कर्तव्यमङ्गहारे तु रेचिते ।
नूपुरं चरणं कृत्वा त्रिकं तु परिवर्तयेत्
व्यंसितेन तु हस्तेन त्रिकमेव विवर्तयेत् ।
वामं चालातकं कृत्वा सूचीमत्रैव योजयेत्
करिहस्तं कटिच्छिन्नं कुर्यादाच्छुरिते सदा ।
रेचितौ स्वस्तिकौ पादौ रेचितौ स्वस्तिकौ करौ
कृत्वा विश्लेषमेवं तु तेनैव विधिना पुनः ।
पुनरुत्क्षेपणं चैव रेचितैरेव कारयेत्
उद्वृत्ताक्षिप्तके चैव ह्युरोमण्डलमेव च ।
नितम्बं करिहस्तं च कटिच्छिन्नं तथैव च
आक्षिप्तरेचितो ह्येष करणानां विधिः स्मृतः ।
विक्षिप्त करणं कृत्वा हस्तपादं मुखागमम्
वामसूचिसहकृतं विक्षिपेद्वामकं करम् ।
वक्षःस्थाने भवेत्सव्यो वलितं त्रिकमेव च
नूपुराक्षिप्तके चैव ह्यर्धस्वस्तिकमेव च ।
नितम्बं करिहस्तं च ह्युरोमण्डलकं तथा
कटिच्छिन्नं च कर्तव्यं सम्भ्रान्ते नृत्तयोक्तृभिः ।
अपक्रान्तक्रमं कृत्वा व्यंसितं हस्तमेव च
कुर्यादुद्वेष्टितं चैव ह्यर्धसूचीं तथैव च ।
विक्षिप्तं सकटिच्छिन्नमुद्वृत्ताक्षिप्तके तथा
करिहस्तं कटिच्छिन्नं कर्तव्यमपसर्पिते ।
कृत्वा नूपुरपादं च द्रुतमाक्षिप्य च क्रमम्
पादस्य चानुगौ हस्तौ त्रिकं च परिवर्तयेत् ।
निकुट्य करपादं चाप्युरोमण्डलकं पुनः
करिहस्तं कटिच्छिन्नं कार्यमर्धनिकुट्टके ।
द्वात्रिंशदेते सम्प्रोक्ता ह्यङ्गहारा द्विजोत्तमाः
चतुरो रेचकांश्चापि गदतो मे निबोधत ।
पादरेचक एकः स्यात् द्वितीयः कटिरेचकः
कररेचकस्तृतीयस्तु चतुर्थः कण्ठरेचकः ।
[रेचिताख्यः पृथग्भावे वलने चाभिधीयते ।
उद्वाहनात्पृथग्भावाच्चलनाच्चापि रेचकः ॥ भ्न्_4.249अब्*1 ॥
पार्श्वात्पार्श्वे तु गमनं स्खलितैश्चलितैः पदैः ।
विविधैश्चैव पादस्य पादरेचक उच्यते ॥ भ्न्_4.249अब्*2 ॥
त्रिकस्योद्वर्तनं चैव छटीवलनमेव च ।
तथाऽपसर्पणं चैव कटिरेचक उच्यते ॥ भ्न्_4.249अब्*3 ॥
उद्वर्तनं परिक्षेपो विक्षेपः परिवर्तनम् ।
विसर्पणं च हस्तस्य हस्तरेचक उच्यते ॥ भ्न्_4.249अब्*4 ॥
उद्वाहनं सन्नमनं तथा पार्श्वस्य सन्नतिः ।
भ्रमणं चापि विज्ञेयो ग्रीवाया रेचको बुधैः] ॥ भ्न्_4.249अब्*5 ॥
रेचकैरङ्गहारैश्च नृत्यन्तं वीक्ष्य शङ्करम्
सुकुमारप्रयोगेण नृत्यन्तीं चैव पार्वतीम् ।
मृदञ्गभेरीपटहैर्भाण्डडिण्डिमगोमुखैः
पणवैर्ददुरैश्चैव सर्वातोद्यैः प्रवादितैः ।
दक्षयज्ञे विनिहते सन्ध्याकाले महेश्वरः
नानाङ्गहारैः प्रानृत्यल्लयतालवशानुगैअः ।
पिण्डिबन्धांस्ततो दृष्ट्वा नन्दिभद्रमुखा गणाः
चक्रुस्ते नाम पिण्डीनां बन्धमासां सलक्षणम् ।
ईश्वरस्येश्वरी पिन्डी नन्दिनश्चापि पट्टसी
चण्डिकाया भवेत्पिण्डी तथा वै सिंहवाहिनी ।
तार्क्ष्यपिण्डी भवेद्विष्णोः पद्मपिण्डी स्वयंभुवः
शक्रस्यैरावती पिण्डी झषपिण्डी तु मान्मथी ।
शिखिपिण्डी कुमारस्य रूपपिण्डी भवेच्छ्रियः
धारापिण्डी च जाह्नव्याः पाशपिण्डी यमस्य च ।
वारुणी च नदीपिण्डी याक्षी स्याद्धनदस्य तु
हलपिण्डी बलस्यापि सर्पपिण्डी तु भोगिनाम् ।
गाणेश्वरी महापिण्डी दक्षयज्ञविमर्दिनी
त्रिशूलाकृतिसंस्थाना रौद्री स्यादन्धकद्विषः ।
एवमन्यास्वपि तथा देवतासु यथाक्रमम्
ध्वजभूताः प्रयोक्तव्याः पिण्डीबन्धाः सुचिह्निताः ।
रेचका अङ्गहाराश्च पिण्डीबन्धातस्थैव च
सृष्ट्वा भगवता दत्तास्तण्डवे मुनये तदा ।
तेनापि हि ततः सम्यग्गानभाण्डसमन्वितः
नृत्तप्रयोगः सृष्टो यः स ताण्डव इति स्मृतः ।
ऋषय ऊचुः -
यदा प्राप्त्यर्थमर्थानां तज्ज्ञैरभिनयः कृतः
कस्मानृत्तं कृतं ह्येतत्कं स्वभावमपेक्षते ।
न गीतकार्थसम्बद्धं न चाप्यर्थस्य भावकम्
कस्मान्नृत्तं कृतं ह्येतद्गीतेष्वासारितेषु च ।
भरतः -
अत्रोच्यते न खल्वर्थं कञ्चिन्नृत्तमपेक्षते
किं तु शोभां प्रजनयेदिति नृत्तं प्रवर्तितम् ।
प्रायेण सर्वलोकस्य नृत्तमिष्टं स्वभावतः
मङ्गलमिति कृत्वा च नृत्तमेतत्प्रकीर्तितम् ।
विवाहप्रसवावाहप्रमोदाभ्युअदयादिषु
विनोदकारणं चेति नृत्तमेतत्प्रवर्तितम् ।
अतश्चैव प्रतिक्षेपाद्भूतसङ्घैः प्रवर्तिताः
ये गीतकादौ युज्यन्ते सम्यङ्नृत्तविभागकाः ।
देवेन चापि सम्प्रोक्तस्तण्डुस्ताण्डवपूर्वकम्
गीतप्रयोगमाश्रित्य नृत्तमेतत्प्रवर्त्यताम् ।
प्रायेण ताण्डवविधिर्देवस्तुत्याश्रयो भवेत्
सुकुमारप्रयोगश्च शृङ्गाररससम्भवः ।
तस्य तण्डुप्रयुक्तस्य ताण्डवस्य विधिक्रियाम्
वर्धमानकमासाद्य सम्प्रवक्ष्यमि लक्षणम् ।
कलानां वृद्धिमासाद्य ह्यक्षराणां च वर्धनात्
लयस्य वर्धनाच्चापि वर्धमानकमुच्यते ।
कृत्त्वा कुतपविन्यासं यथावद्द्विजसत्तमाः
आसारितप्रयोगस्तु ततः कार्यः प्रयोक्तृभिः ।
तत्र तूपोहनं कृत्त्वा तन्त्रीगानसमन्वितम्
कार्यः प्रवेशो नर्तक्या भाण्डवाद्यसमन्वितः ।
विशुद्धकरणायां तु जात्यां वाद्यं प्रयोजयेत्
गत्या वाद्यानुसारिण्या तस्याश्चारीं प्रयोजयेत् ।
वैशाखस्थानकेनेह सर्वरेचकचारिणी
पुष्पाञ्जलिधरा भूत्वा प्रविशेद्रङ्गमण्डपम् ।
पुष्पाञ्जलिं विसृज्याथ रङ्गपीठं परीत्य च
प्रणम्य देवताभ्यश्च ततो ऽभिनयमाचरेत् ।
यत्राभिनेयं गीतं स्यात्तत्र वाद्यं न योजयेत्
अङ्गहारप्रयोगे तु भाण्डवाद्यं विधीयते ।
समं रक्तं विभक्तं च स्फुटं शुद्धप्रहारजम्
नृत्ताङ्गग्राहि वाद्यज्ञैर्वाद्यं योज्यं तु ताण्डवे ।
प्रयुज्य गीतवाद्ये तु निष्क्रामेन्नर्तकी ततः
अनेनैव विधानेन प्रविशन्त्यपराः पृथक् ।
अन्याश्चानुक्रमेणाथ पिण्डीं बध्नन्ति याः स्त्रियः
तावत्पर्यस्तकः कार्यो यावत्पिण्डी न बध्यते ।
पिण्डीं बद्ध्वा ततः सर्वा निष्क्रामेयुः स्त्रियस्तु ताः
पिण्डीबन्धेषु वाद्यं तु कर्तव्यमिह वादकैअः ।
पर्यस्तकप्रमाणेन चित्रौघकरणान्वितम्
तत्रोपवाहनं भूयः कार्यं पूर्ववदेव हि ।
ततश्चासारितं भूयो गायनं तु प्रयोजयेत्
पूर्वेणैव विधानेन प्रविशेच्चापि नर्तकी ।
गीतकार्थं त्वभिनयेद् द्वितीयासारितस्य तु
तदेव च पुनर्वस्तु नृत्तेनापि प्रदर्शयेत् ।
आसारिते समाप्ते तु निष्क्रामेन्नर्तकी ततः
पूर्ववत्प्रविशन्त्यन्याः प्रयोगः स्यात्स एव हि ।
एवं पदे पदे कार्यो विधिरासारितस्य तु
भाण्डवाद्यकृते चैव तथा गानकृते ऽपि च ।
एका तु प्रथमं योज्या द्वे द्वितीयं तथैव च
तिस्रो वस्तु तृतीयं तु चतस्रस्तु चतुर्थकम् ।
पिण्डीनां विधयश्चैव चत्वारः सम्प्रकीर्तिताः
पिण्डी शृङ्खलिका चैव लताबन्धो ऽथ भेद्यकः ।
पिण्डीबन्धस्तु पिण्डत्वाद्गुल्मः शृङ्खलिका भवेत्
जालोपनद्धा च लता सनृत्तो भेद्यकः स्मृतः ।
पिण्डीबन्धः कनिष्ठे तु शृङ्खला तु लयान्तरे
मध्यमे च लताबन्धो ज्येष्ठे चैवाथ भेद्यकः ।
पिण्डीनां विविधा योनिर्यन्त्रं भद्रासनं तथा
शिक्षायोगस्तथा चैव प्रयोक्तव्यः प्रयोक्तृभिः ।
एवं प्रयोगः कर्तव्यो वर्धमाने तपोधनाः
गीतानां छन्दकानां च भूयो वक्ष्याम्यहं विधिम् ।
यानि वस्तुनिबद्धानि यानि चाङ्गिकृतानि तु
गीतानि तेषां वक्ष्यामि प्रयोगं नृत्तवाद्ययोः ।
तत्रावतरणं कार्यं नर्तक्याः सार्वभाण्डिकम्
क्षेपप्रतिक्षेपकृतं भाण्डोपोहनसंस्कृतम् ।
प्रथमं त्वभिनेयं स्यद्गीतके सर्ववस्तुकम्
तदेव च पुनर्वस्तु नृत्तेएनापि प्रदर्शेयत् ।
यो विधिः पूर्वमुक्तस्तु नृत्ताभिनयवादिते
आसारितविधौ स स्याद्गीतानां वस्तुकेष्वपि ।
एवं वस्तुनिबन्धानां गीतकानां विधिः स्मृतः
शृणुताङ्गनिबद्धानां गीतानामपि लक्षणम् ।
य एव वस्तुकविधिर्नृत्ताभिनयवादिते
तमेवाङ्गनिबद्धेषु च्छन्दकेष्वपि योजयेत् ।
वाद्यं गुर्वक्षरकृतं तथाल्पाक्षरमेव च
मुखे सोपोहने कुर्याद्वर्णानां विप्रकर्षतः ।
यदा गीतिवशादङ्गं भूयो भूयो निवर्तते
तत्राद्यमभिनेयं स्याच्छेषं नृत्तेन योजयेत् ।
यदा गीतिवशादङ्गं भूयो भूयो निवर्तते
त्रिपाणिलयसंयुक्तं तत्र वाद्यं प्रयोजयेत् ।
यथा लयस्तथा वाद्यं कर्तव्यमिह वादकैः
[ततं चानुगतं चापि ओघं च करणान्वितम् ।
स्थिरे तत्त्वं प्रयोक्तव्यं मध्ये चानुगतं भवेत् ॥ भ्न्_4.301*1 ॥
भूयश्चौघः प्रयोक्तव्यस्त्वेष वाद्यगतो विधिः ।
छन्दोगीतकमासाद्य त्वङ्गानि परिवर्तयेत् ॥ भ्न्_4.301*2 ॥
एष कार्यो विधिर्नित्यं नृत्ताभिनयवादिते ।
यानि वस्तुनिबद्धानि तेषामन्ते ग्रहो भवेत् ।
अङ्गानां तु परावृत्तावादावेव ग्रहो मतः] ॥ भ्न्_4.301*3 ॥
एवमेष विधिः कार्यो गीतेष्वासारितेष्वपि ।
देवस्तुत्याश्रयं ह्येतत्सुकुमारं निबोधत
स्त्रीपुंसयोस्तु संलापो यस्तु कामसमुद्भवः ।
तज्ज्ञेयं सुकुमारं हि शृङ्गाररससम्भवम्
यस्यां यस्यामवस्थायां नृत्तं योज्यं प्रयोक्तृभिः ।
तत्सर्वंं संप्रवक्ष्यामि तच्च मे शृणुत द्विजाः
अङ्गवस्तुनिवृत्तौ तु तथा वर्णनिवृत्तिषु ।
तथा चाभुदयस्थाने नृत्तं तज्ज्ञः प्रयोजयेत्
यत्तु संदृश्यते किञ्चिद्दम्पत्योर्मदनाश्रयम् ।
नृत्तं तत्र प्रयोक्तव्यं प्रहर्षार्थगुणोद्भवम्
यत्र सन्निहिते कान्ते ऋतुकालादिदर्शनम् ।
गीतकार्थाभिसंबद्धं नृत्तं तत्रापि चेष्यते
खण्डिअता विप्रलब्धा वा कलहान्तरितापि वा ।
यस्मिन्नङ्गे तु युवतिर्न नृत्तं तत्र न योजयेत्
सखीप्रवृत्ते संलापे तथाऽसन्निहिते प्रिये ।
न हि नृत्तं प्रयोक्तव्यं यस्या न प्रोषितः प्रियः
[दूत्याश्रयं यदा तु स्यादृतुकालादि दर्शनम् ।
औत्सुक्यचिन्तासंबद्धं न नृत्तं तत्र योजयेत्] ॥ भ्न्_4.309* ॥
यस्मिन्नङ्गे प्रसादं तु गृह्नीयान्नायिका क्रमात् ।
ततःप्रभृति नृत्तं तु शेषेष्वङ्गेषु योजयेत्
देवस्तुत्याश्रयकृतं यदङ्गं तु भवेदथ ।
माहेश्वरैरङ्गहारैरुद्धतैस्तत्प्रयोजयेत्
यत्तु शृङ्गारसंबद्धं गानं स्त्रीपुरुषाश्रयम् ।
देवीकृतैरङ्गहारैर्ललितैस्तत्प्रयोजयेत्
चतुष्पदा नर्कुटके खञ्जके परिगीतके ।
विधानं सम्प्रवक्ष्यामि भाण्डवाद्यविधिं प्रति
खञ्जनर्कुटसंयुक्ता भस्वेद्या तु चतुष्पदा ।
पादान्ते सन्निपाते तु तस्या भाण्डग्रहो भवेत्
या ध्रुवा छन्दसा यक्ता समपादा समाक्षरा ।
तस्याः पादावसाने तु प्रदेशिन्या ग्रहो भवेत्
कृत्वैकं परिवर्तं तु गानस्याभिनयस्य च ।
पुनः पादनिवृत्तिं तु भाण्डवाद्येन योजयेत्
अ~ङ्गवस्तुनिवृतौ तु वर्णान्तरनिवृत्तिषु ।
तथोपस्थापने चैव भाण्डवाद्यं प्रयोजयेत्
ये ऽपि चान्तरमार्गास्स्युः तन्त्रिवाक्करणैः कृताः ।
तेषु सूची प्रयोक्तव्या भाण्डेन सह ताण्डवे
महेश्वरस्य चरितं य इदं सम्प्रयोजयेत्
सर्वपापविशुद्धात्मा शिवलोकं स गच्छति
एवमेष विधिः सृ(र्दृ)ष्टस्ताण्डवस्य प्रयोगतः ।
भूयः किं कथ्यतामन्यन्नाट्यवेदविधिं प्रति
मूल पाठ: Nāṭyaśāstra 1-16, 18-30, 33, 35-37 · Data entry Padmakar Dadegaonkar Sowmya Krishnapur Haresh Bakshi · GRETIL (Göttingen) · CC BY-NC-SA 4.0