नाट्यशास्त्र · अध्याय 5
इति भारतीये नाट्यशास्त्रे ताण्डवलक्षणं नाम चतुर्थो ऽध्यायः
अथ पूर्वरङ्गविधानो नाम पञ्चमो ऽध्यायः
भरतस्य वचः श्रुत्वा नाट्यसन्तानकारणम् ।
पुनरेवाब्रुवन्वाक्यमृषयो हृष्टमानसाः
यथा नाट्यस्य जन्मेदं जर्जरस्य च सम्भवः ।
विघ्नानां शमनं चैव दैवतानां च पूजनम्
तदस्माभिः श्रुतं सर्वं गृहीत्वा चावधारितम् ।
निखिलेन यथातत्त्वमिच्छामो वेदितुं पुनः
पूर्वरङ्गं महातेजः सर्वलक्षणसंयुतम् ।
यथा बुद्ध्यामहे ब्रह्मंस्तथा व्याख्यातुमर्हसि
तेषां तु वचनं श्रुत्वा मुनीनां भरतो मुनिः ।
प्रत्युवाच पुनर्वाक्यं पूर्वरङ्गविधिं प्रति
पूर्वरङ्गं महाभागा गदतो मे निबोधत ।
पादभागाः कलाश्चैव परिवर्तास्तथैव च
यस्माद्रङ्गे प्रयोगो ऽयं पूर्वमेव प्रयुज्यते ।
तस्मादयं पूर्वरङ्गो विज्ञेयो द्विजसत्तमाः
अस्याङ्गानि तु कार्याणि यथावदनुपूर्वशः ।
तन्त्रीभाण्डसमायोअगैः पाठ्ययोगकृतैस्तथा
प्रत्याहारो ऽवतरणं तथा ह्यारम्भ एव च ।
आश्रावणा वक्त्रपाणिस्तथा च परिघट्टना
सङ्घोटना ततः कार्या मार्गासारितमेव च ।
ज्येष्ठमध्यकनिष्ठानि तथैवासारतानि च
एतानि तु बहिर्गीतान्यन्तर्यवनिकागतैः ।
प्रयोक्तृभिः प्रयोज्यानि तन्त्रीभाण्डकृतानि च
ततः सर्वैस्तु कुतपैः संयुक्तानीह कारयेत् ।
विघट्य वै यवनिकां नृत्तपाठ्यकृतानि तु
गीतानां मद्रकादीनां योज्यमेकं तु गीतकम् ।
वर्धमानमथापीह ताण्डवं यत्र युज्यते
ततश्चोत्थापनं कार्यं परिवर्तनमेव च ।
नान्दी शुष्कावकृष्टा च रङ्गद्वारं तथैव च
चारि चैव ततः कार्या महाचारी तथैव च ।
त्रिकं प्ररोचनां चापि पूर्वरङ्गे भवन्ति हि
एतान्यङ्गानि कार्याणि पूर्वरङ्गविधौ द्विजाः ।
एतेषां लक्षणमहं व्याख्यास्याम्यनुपूर्वशः
कुतपस्य तु विन्यासः प्रत्याहार इति स्मृतः ।
तथावतरणं प्रोक्तं गायिकानां निवेशनम्
परिगीतक्रियारम्भ आरम्भ इति कीर्तितः ।
आतोद्यरञ्जनार्थं तु भवेदाश्रावणाविधिः
वाद्यवृत्तिविभागार्थं वक्त्रपाणिर्विधीयते ।
तन्त्र्योजःकरणार्थं तु भवेच्च परिघट्टना
तथा पाणिविभागार्थं भवेत्संघोटनाविधिः ।
तन्त्रीभाण्डसमायोगान्मार्गासारितमिष्यते
कलापातविभागार्थं भवेदासारितक्रिया ।
कीर्तनाद्देवतानां च ज्ञेयो गीतविधिस्तथा
[अतः परं प्रवक्ष्यमि ह्युत्थापनविधिक्रियाम्] ॥ भ्न्_5.21* ॥
यस्मादुत्थापयन्त्यत्र प्रयोगं नान्दिपाठकाः ।
पूर्वमेव तु रङ्गे ऽस्मिंस्तस्मादुत्थापनं स्मृतम्
यस्माच्च लोकपालानां परिवृत्य चतुर्दिशम् ।
वन्दनानि प्रकुर्वन्ति तस्माच्च परिवर्तनम्
आशीर्वचनसंयुक्ता नित्यं यस्मात्प्रयुज्यते ।
देवद्विजनृपादीनां तस्मान्नान्दीति संज्ञिता
अत्र शुष्काक्षरैरेव ह्यवकृष्टा ध्रुवा यतः ।
तस्माच्छुष्कावकृष्टेयं जर्जरश्लोकदर्शिता
यस्मादभिनयस्त्वत्र प्रथमं ह्यवतार्यते ।
रङ्गद्वारमतो ज्ञेयं वागङ्गाभिनयात्मकम्
शृङ्गारस्य प्रचरणाच्चारी सम्परिकीर्तिता ।
रौद्रप्रचरणाच्चापि महाचारीति कीर्तिता
विदूषकः सूत्रधारस्तथा वै पारिपार्श्वकः ।
यत्र कुर्वन्ति सञ्जल्पं तच्चापि त्रिगतं मतम्
उपक्षेपेण काव्यस्य हेतुयुक्तिसमाश्रया ।
सिद्धेनामन्त्रणा या तु विज्ञेया स प्ररोचना
अतः परं प्रवक्ष्यामि ह्याश्रावणविधिक्रियाम् ।
बहिर्गीतविधौ सम्यगुत्पत्तिं कारणं तथा
चित्रदक्षिणवृतौ तु सप्तरूपे प्रवर्तिते ।
सोपोहने सनिर्गीते देवस्तुत्यभिनन्दिते
नारदाद्यैस्तु गन्धर्वैः सभायां देवदानवाः ।
निर्गीतं श्राविताः सम्यग्लयतालसमन्वितम्
तच्छ्रुत्वा तु सुखं गानं देवस्तुत्यभिनन्दितम्
अभवन्क्षुभिताः सर्वे मात्सर्याद्दैत्यराक्षसाः
सम्प्रधार्य च ते ऽन्योन्यमित्यवोचन्नवस्थिताः ।
निर्गीतं तु सवादित्रमिदं गृह्णीमहे वयम्
सप्तरूपेण सन्तुष्टा देवाः कर्मानुकीर्तनात् ।
वयं गृह्णीम निर्गीतं तुष्यामो ऽत्रैव सर्वदा
ते तत्र तुष्टा दैत्यास्तु साधयन्ति पुनः पुनः ।
रुष्टाश्चापि ततो देवाः प्रत्यभाषन्त नारदम्
एते तुष्यन्ति निर्गीते दानवा सह राक्षसैः ।
प्रणश्यतु प्रयोगो ऽयं कथं वा मन्यते भवान्
देवानां वचनं श्रुत्वा नारदो वाक्यमब्रवीत् ।
धातुवाद्याश्रयकृतं निर्गीतं मा प्रणश्यतु
किन्तूपोहनसंयुक्तं धातुवाद्यविभूषितम् ।
भविष्यतीदं निर्गीतं सप्तरूपविधानतः
निर्गीतेनावबद्धाश्च दैत्यदानवराक्षसाः ।
न क्षोभं न विघातं च करिष्यन्तीह तोषिताः
एवं निर्गीतमेतत्तु दैत्यानां स्पर्धया द्विजाः ।
देवानां बहुमानेन बहिर्गीतमिति स्मृतम्
धातुभिश्चित्रवीणायां गुरुलघ्वक्षरान्वितम् ।
वर्णालङ्कारसंयुक्तं प्रयोक्तव्यं बुधैरथ
निर्गीतं गेयते यस्मादपदं वर्णयोजनात् ।
असूयया च देवानां बहिर्गीतमिदं स्मृतम्
निर्गीतं यन्मया प्रोक्तं सप्तरूपसमन्वितम् ।
उत्थापनादिकं यच्च तस्य कारणमुच्यते
आश्रावणायां युक्तायां दैत्यास्तुष्यन्ति नित्यशः ।
वक्त्रपाणौ कृते चैव नित्यं तुष्यन्ति दानवाः
परिघट्टनया तुष्टा युक्तायां राक्षसां गणाः ।
सङ्घोटनक्रियायां च तुष्यन्त्यपि च गुह्यकाः
मार्गासारितमासाद्य तुष्टा यक्षा भवन्ति हि ।
गीतकेषु प्रयुक्तेषु देवास्तुष्यन्ति नित्यशः
वर्धमाने प्रयुक्ते तु रुद्रस्तुष्यति सानुगः ।
तथा चोत्थापने युक्ते ब्रह्मा तुष्टो भवेदिह
तुष्यन्ति लोकपालाश्च प्रयुक्ते परिवर्तने ।
नान्दीप्रयोगे ऽथ कृते प्रीतो भवति चन्द्रमाः
युक्तायामवकृष्टायां प्रीता नागा भवन्ति हि ।
तथा शुष्कावकृष्टायां प्रीतः पितृगणो भवेत्
रङ्गद्वारे प्रयुक्ते तु विष्णुः प्रीतो भवेदिह ।
जर्जरस्य प्रयोगे तु तुष्टा विघ्नविनायकाः
तथा चार्या प्रयुक्तायामुमा तुष्टा भवेदिह ।
महाचार्या प्रयुक्तायां तुष्टो भूतगणो भवेत्
आश्रावणादिचार्यन्तमेतद्दैवतपूजनम् ।
पूर्वरङ्गे मया ख्यातं तथा चाङ्गविकल्पनम्
देवस्तुष्यन्ति यो येन यस्य यन्मनसः प्रियम् ।
तत्तथा पूर्वरङ्गे तु मया प्रोकं द्विजोत्तमाः
सर्वदैवतपूजार्हं सर्वदैवतपूजनम् ।
धन्यं यशस्यमायुष्यं पूर्वरङ्गप्रवर्तनम्
दैत्यदानवतुष्ट्यर्थं सर्वेषां च दिवौकसाम् ।
निर्गीतानि सगीतानि पूर्वरङ्गकृतानि तु
[या विद्या यानि शिल्पानि या गतिर्यश्च चेष्टितम् ।
लोकालोकस्य जगतस्तदस्मिन्नाटकाश्रये] ॥ भ्न्_5.56* ॥
निर्गीतानां सगीतानां वर्धमानस्य चैव हि ।
ध्रुवाविधाने वक्ष्यामि लक्षणं कर्म चैव हि
प्रयुज्य गीतकविधिं वर्धमानमथापि च ।
गीतकान्ते ततश्चापि कार्या ह्युत्थापनी ध्रुवा
अदौ द्वे च चतुर्थं चाप्यष्टमैकादशे तथा ।
गुर्वक्षराणि जानीयत्पादे ह्येकादशे तथा
चतुष्पदा भवेत्सा तु चतुरश्रा तथैव च ।
चतुर्भिस्सन्निपातैश्च त्रिलया त्रियतिस्तथा
परिवर्ताश्च चत्वारः पाणयस्त्रय एव च ।
जात्या चैव हि विश्लोका तां च तालेन योजयेत्
शम्या तु द्विकला कार्या तलो द्विकल एव च ।
पुनश्चैककला शम्या सन्निपातः कलात्रयम्
एवमष्टकलः कार्यः सन्निपातो विअचक्षणैः ।
चत्वारः सन्निपाताश्च परिवर्तः स उच्यते
पूर्वं स्थितलयः कार्यः परिवर्तो विचक्षणैः ।
तृतीये सन्निपाते तु तस्या भाण्डग्रहो भवेत्
एकस्मिन्परिवर्ते तु गते प्राप्ते द्वितीयके ।
कार्यं मध्यलये तज्ज्ञैः सूत्रधारप्रवेशनम्
पुष्पाञ्जलिं समादाय रक्षामङ्गलसंस्कृताः ।
शुद्धवस्त्राः सुमनसस्तथा चाद्भुतदृष्टयः
स्थानन्तु वैष्णवं कृत्वा सौष्ठवाङ्गपुरस्कृतम् ।
दीक्षिताः शुचयश्चैव प्रविशेयुः समं त्रयः
भृङ्गारजर्जरधरौ भवेतां पारिपार्श्विकौ ।
मध्ये तु सूत्रभृत्ताभ्यां वृत्तः पञ्चपदीं व्रजेत्
पदानि पञ्च गच्छेयुर्ब्रह्मणो यजनेच्छया ।
पदानाञ्चापि विक्षेपं व्याख्यास्याम्यनुपूर्वशः
त्रितालान्तरविष्कम्भमुत्क्षिपेच्चरणं शनैः
पार्श्वोत्थानोत्थितं चैव तन्मध्ये पातयेत्पुनः
एवं पञ्चपदीं गत्वा सूत्रधारः सहेतरः ।
सूचीं वामपदे दद्याद्विक्षेपं दक्षिणेन च
पुष्पाञ्जल्यपवर्गश्च कार्यो ब्राह्मे ऽथ मण्डले ।
रङ्गपीठस्य मध्ये तु स्वयं ब्रह्मा प्रतिष्ठितः
ततः सललितैर्हस्तैरभिवन्द्य पितामहम् ।
अभिवादानि कार्याणि त्रीणि हस्तेन भूतले
कालप्रकर्षहेतोश्च पादानां प्रविभागतः ।
सूत्रधारप्रवेशाद्यो वन्दनाभिनयान्तकः
द्वितीयः परिवर्तस्तु कार्यो मध्यलयाश्रितः ।
ततः परं तृतीये तु मण्डलस्य प्रदक्षिणम्
भवेदाचमनं चैव जर्जरग्रहणं तथा ।
उत्थाय मण्डलात्तूर्णं दक्षिणं पादमुद्धरेत्
वेधं तेनैव कुर्वीत विक्षेपं वामकेन च ।
पुनश्च दक्षिणं पादं पार्श्वसंस्थं समुद्धरेत्
ततश्च वामवेधस्तु विक्षेपो दक्षिणस्य च ।
इत्यनेन विधानेन सम्यक्कृत्वा प्रदिक्षणम्
भृङ्गारभृतमाहूय शौचं चापि समाचरेत् ।
यथान्यायं तु कर्तव्या तेन ह्याचमनक्रिया
आत्मप्रोक्षणमेवाद्भिः कर्तव्यं तु यथाक्रमम् ।
प्रयत्नकृतशौचेन सूत्रधारेण यत्नतः
सन्निपातसमं ग्राह्यो जर्जरो विघ्नजर्जरः ।
प्रदक्षिणाद्यो विज्ञेयो जर्जरग्रहणान्तकः
तृतीयः परिवर्तस्तु विज्ञेयो वै द्रुते लये ।
गृहीत्वा जर्जरं त्वष्टौ कला जप्यं प्रयोजयेत्
वामवेधं ततः कुर्याद्विक्षेपं दक्षिणस्य च ।
ततः पञ्चपदीं चैव गच्छेत्तु कुतपोन्मुखः
वामवेधस्तु तत्रापि विक्षेपो दक्षिणस्य तु ।
जर्जरग्रहणाद्यो ऽयं कुतपाभिमुखान्तकः
चतुर्थः परिवर्तस्तु कार्यो द्रुतलये पुनः ।
करपादनिपातास्तु भव्न्त्यत्र तु षोडश
त्र्यश्रे द्वादश पातास्तु भवन्ति करपादयोः ।
वन्दनान्यथ कार्याणि त्रीणि हस्तेन भूतले
आत्मप्रोक्षणमद्भिश्च त्र्यश्रे नैव विधीयते ।
एवमुत्थापनं कार्यं ततस्तु परिवर्तनम्
चतुरश्रं लये मध्ये सन्निपातैरथाष्टभिः ।
यस्या लघूनि सर्वाणि केवलं नैधनं गुरु
भवेदतिजगत्यान्तु सा ध्रुवा परिवर्तनी ।
वार्तिकेन तु मार्गेण वाद्येनानुगतेन च
ललितैः पादविन्यासैर्वन्द्या देवा यथादिशम् ।
द्विकलं पादपतनं पादचार्या गतं भवेत्
वामपादेन वेधस्तु कर्तव्यो नृत्तयोक्तृभिः ।
द्वितालान्तरविष्कम्भो विक्षेपो दक्षिणस्य च
ततः पञ्चपदीं गच्छेदतिक्रान्तैः पदरथ ।
ततो ऽभिवादनं कुर्याद्देवतानां यथादिशम्
वन्देत प्रथमं पूर्वां दिशं शक्राधिदैवताम् ।
द्वितीयां दक्षिणामाशां वन्देत यमदेवताम्
वन्देत पश्चिमामाशां ततो वरुणदैवताम् ।
चतुर्थीमुत्तरामाशां वन्देत धनदाश्रयाम्
दिशां तु वन्दनं कृत्वा वामवेधं प्रयोजयेत् ।
दक्षिणेन च कर्तव्यं विक्षेपपरिवर्तनम्
प्राङ्ग्मुखस्तु ततः कुर्यात्पुरुषस्त्रीनपुंसकैः ।
त्रिपद्या सूत्रभृद्रुद्रब्रह्मोपेन्द्राभिवादनम्
दक्षिणं तु पदं पुंसो वामं स्त्रीणां प्रकीर्तितम् ।
पुनर्दक्षिणमेव स्यान्नात्युत्क्षिप्तं नपुंसकम्
वन्देत पौरुषेणेशं स्त्रीपदेन जनार्दनम् ।
नपुंसक्पदेनापि तथैवाम्बुजसम्भवम्
परिवर्तनमेवं स्यात्तस्यान्ते प्रविशेत्ततः ।
चतुर्थकारः पुष्पाणि प्रगृह्य विधिपूर्वकम्
यथावत्तेन कर्तव्यं पूजनं जर्जरस्य तु ।
कुतपस्य च सर्वस्य सूत्रधारस्य चैव हि
तस्य भाण्डसमः कार्यस्तज्ज्ञैर्गतिपरिक्रमः ।
न तत्र गानं कर्तव्यं तत्र स्तोभक्रिया भवेत्
चतुर्थकारः पूजां तु स कृत्वान्तर्हितो भवेत् ।
ततो गेयावकृष्टा तु चतुरश्रा स्थिता ध्रुवा
गुरुप्राया तु सा कार्या तथा चैवावपाणिका ।
स्थायिवर्णाश्रयोपेता कलाष्टकविनिर्मिता
[चतुर्थं पञ्चमं चैव सप्तमं चाष्टमं तथा ।
लघूनि पादे पङ्क्त्यान्तु सावकृष्टा ध्रुवा स्मृता] ॥ भ्न्_5.103* ॥
सूत्रधारः पठेत्तत्र मध्यमं स्वरमाश्रितः ।
नान्दीं पदैर्द्वादशभिरष्टभिर्वाऽप्यलङ्कृताम्
नमो ऽस्तु सर्वदेवेभ्यो द्विजातिभ्यः शुभं तथा ।
जितं सोमेन वै राज्ञा शिवं गोब्राह्मणाय च
ब्रह्मोत्तरं तथैवास्तु हता ब्रह्मद्विषस्तथा ।
प्रशास्त्विमां महाराजः पृथिवीं च ससागराम्
राष्ट्रं प्रवर्धतां चैव रङ्गस्याशा समृद्ध्यतु ।
प्रेक्षाकर्तुर्महान्धर्मो भवतु ब्रह्मभाषितः
काव्यकर्तुर्यशश्चास्तु धर्मश्चापि प्रवर्धताम् ।
इज्यया चानया नित्यं प्रीयन्तां देवता इति
नान्दीपदान्तरेष्वेषु ह्येवमार्येति नित्यशः ।
वदेतां सम्यगुक्ताभिर्वाग्भिस्तौ पारिपार्श्विकौ
एवं नान्दी विधातव्या यथावल्लक्षणान्विता ।
ततश्शुष्कावकृष्टा स्याज्जर्जरश्लोकदर्शिका
नवं गुर्वाक्षराण्यादौ षड्लघूनि गुरुत्रयम् ।
शुष्कावकृष्टा तु भवेत्कला ह्यष्टौ प्रमाणतः
यथा:
दिग्ले दिग्ले दिग्ले दिग्ले जम्बुकपलितकते तेचाम् ।
कृत्वा शुष्कावकृष्टां तु यथावद्द्विजसत्तमाः
ततः श्लोकं पठेदेकं गम्भीरस्वरसंयुतम् ।
देवस्तोत्रं पुरस्कृत्य यस्य पूजा प्रवर्तते
राज्ञो वा यत्र भक्तिः स्यादथ वा ब्रह्मणस्स्तवम् ।
गदित्वा जर्जरश्लोकं रङ्गद्वारे च यत्स्मृतम्
पठेदन्यं पुनः श्लोकं जर्जरस्य विनाशनम् ।
जर्जरं नमयित्वा तु ततश्चारीं प्रयोजयेत्
पारिपार्श्विकयोश्च स्यात्पश्चिमेनापसर्पणम् ।
अङ्किता चात्र कर्तव्या ध्रुवा मध्यलयान्विता
चतुर्भिः सन्निपातैश्च चतुरश्रा प्रमाणतः ।
आद्यमन्त्यं चतुर्थं च पञ्चमं च तथा गुरु
यस्यां ह्रस्वानि शेषाणि सा ज्ञेया त्वङ्किता बुधैः ।
अस्याः प्रयोगं वक्ष्यामि यथा पूर्वं महेश्वरः
सहोमया क्रीडितवान्नानाभावविचेष्टतैः ।
कृत्वाऽवहित्थं स्थानं तु वामं चाधोमुखं भुजम्
चतुरश्रमुरः कार्यमञ्चितश्चापि मस्तकः ।
नाभिप्रदेशे विन्यस्य जर्जरं च तुलाधृतम्
वामपल्लवहस्तेन पादैस्तालान्तरोत्थितैः ।
गच्छेत्पञ्चपदीं चैव सविलासाङ्गचेष्टितैः
वामवेधस्तु कर्तव्यो विक्षेपो दक्षिणस्य च ।
शृङ्गाररससंयुक्तां पठेदार्यां विचक्षणः
चारीश्लोकं गदित्वा तु कृत्वा च परिवर्तनम् ।
तैरेव च पदः कार्यं पश्चिमेनापसर्पणम्
पारिपार्श्विकहस्ते तु न्यस्य जर्जरमुत्तमम् ।
महाचारीं ततश्चैव प्रयुञ्जीत यथाविधि
चतुरश्रा ध्रुवा तत्र तथा द्रुतलयान्विता ।
चतुर्भिस्सन्निपातैश्च कला ह्यष्टौ प्रमाणतः
आद्यं चतुर्थमन्त्यं च सप्तमं दशमं गुरु ।
लघु शेषं ध्रुवापादे चतुर्विंशतिके भवेत्
(यथा-)
पादतलाहतिपातितशैलं क्षोभितभूतसमग्रसमुद्रम् ।
ताण्डवनृत्यमिदं प्रलयान्ते पातु जगत्सुखदायि हरस्य
भाण्डोन्मुखेन कर्तव्यं पादविक्षेपणं ततः ।
सूचीं कृत्वा पुनः कुर्याद्विक्षेपपरिवर्तनम्
अतिक्रान्तैः सललितैः पादैर्द्रुतलयान्वितैः ।
त्रितालान्तरमुत्क्षेपैर्गच्छेत्पञ्चपदीं ततः
तत्रापि वामवेधस्तु विक्षेपो दक्षिणस्य च ।
तैरेव च पदैः कार्यं प्राङ्मुखेनापसर्पणम्
पुनः पदानि त्रीण्येव गच्छेत्प्राङ्मुख एव तु ।
ततश्च वामवेधः स्याद्विक्षेपो दक्षिणस्य च
ततो रौद्ररसं श्लोकं पादसंहरणं पठेत् ।
तस्यान्ते तु त्रिपद्याथ व्याहरेत्पारिपार्श्विकौ
तयोरागमने कार्यं गानं नर्कुटकं बुधैः ।
तथा च भारतीभेदे त्रिगतं सम्प्रयोजयेत्
विदूषकस्त्वेकपदां सुत्रधारस्मितावहाम् ।
असम्बद्धकथाप्रायां कुर्यात्कथनिका ततः
(वितण्डां गण्डसंयुक्तां तालिकाञ्च प्रयोजयेत् ।
कस्तिष्ठति जितं केनेत्यादिकाव्यप्ररूपिणीम् ॥ भ्न्_5.134*1 ॥
पारिपार्श्वकसञ्जल्पो विदूषकविरूपितः ।
स्थापितः सूत्रधारेण त्रिगतं सम्प्रयुज्यते) ॥ भ्न्_5.134*2 ॥
प्ररोचना च कर्तव्या सिद्धेनोपनिमत्रणम् ।
रङ्गसिद्धौ पुनः कार्यं काव्यवस्तुनिरूपणम्
सर्वमेव विधिं कृत्वा सूचीवेधकृतैरथ ।
पादैरनाविद्धगतैर्निष्क्रामेयुः समं त्रयः
एवमेष प्रयोक्तव्यः पूर्वरङ्गो यथाविधि ।
चतुरश्रो द्विजश्रेष्ठास्त्र्यश्रं चापि निबोधत
अयमेव प्रयोगः स्यादङ्गान्येतानि चैव हि ।
तालप्रमाणं संक्षिप्तं केवलं तु विशेषकृत्
शम्या तु द्विकला कार्या तालो ह्येककलस्तथा ।
पुनश्चैककला शम्या सन्निपातः कलाद्वयम्
अनेन हि प्रमाणेन कलाताललयान्वितः ।
कर्तव्यः पूर्वरङ्गस्तु त्र्यश्रो ऽप्युत्थापनादिकः
आद्यं चतुर्थं दशममष्टमं नैधनं गुरु ।
यस्यास्तु जागते पादे सा त्र्यश्रोत्थापिनी ध्रुवा
वाद्यं गतिप्रचारश्च ध्रुवा तालस्तथैव च ।
संक्षिप्तान्येव कार्याणि त्र्यश्रे नृत्तप्रवेदिभिः
वाद्यगीतप्रमाणेन कुर्यादङ्गविचेष्टितम् ।
विस्तीर्णमथ संक्षिप्तं द्विप्रमाणविनिर्मितम्
हस्तपादप्रचारस्तु द्विकलः परिकीर्तितः ।
चतुरश्रे परिक्रान्ते पाताः स्युः षोडशैव तु
त्र्यश्रे द्वादश पातास्तु भवन्ति करपादयोः ।
एतत्प्रमाणं विज्ञेयमुभयोः पूर्वरङ्गयोः
केवलं परिवर्ते तु गमने त्रिपदी भवेत् ।
दिग्वन्दने पञ्चपदी चतुरश्रे विधीयते
आचार्यबुद्ध्या कर्तव्यस्त्र्यश्रस्तालप्रमाणतः ।
तस्मान्न लक्षणं प्रोक्तं पुनरुक्तं भवेद्यतः
एवमेष प्रयोक्तव्यः पूर्वरङ्गो द्विजोत्तमाः ।
त्र्यश्रश्च चतुरश्रश्च शुद्धो भारत्युपाश्रयः
एवं तावदयं शुद्धः पूर्वरङ्गो मयोदितः ।
चित्रत्वमस्य वक्ष्यामि यथाकार्यं प्रयोक्तृभिः
वृत्ते ह्युत्थापने विप्राः कृते च परिवर्तने ।
चतुर्थकारदत्ताभिः सुमनोभिरलङ्कृते
उदात्तैर्गानैर्गन्धर्वैः परिगीते प्रमाणतः ।
देवदुन्दुभयश्चैव निनदैयुर्भृशं यतः
सिद्धाः कुसुममालाभिर्विकिरेयुः समन्ततः ।
अङ्गहारैश्च देव्यस्ता उपनृत्येयुरग्रतः
यस्ताण्डवविधिः प्रोक्तो नृते पिण्डीसमन्वितः ।
रेचकैरङ्गहारैश्च न्यासोपन्याससंयुतः
नान्दीपदानां मध्ये तु एकैकस्मिन्पृथक्पृथक् ।
प्रयोक्तव्यो बुधैः सम्यक्चित्रभावमभीप्सुभिः
एवं कृत्वा यथान्यायं शुद्धं चित्रं प्रयत्नतः ।
ततःपरं प्रयुञ्जीत नाटकं लक्षणान्वितम्
ततस्त्वन्तर्हिताः सर्वा भवेयुर्दिव्ययोषितः ।
निष्क्रान्तासु च सर्वासु नर्तकीषु ततः परम्
पूर्वरङ्गे प्रयोक्तव्यमङ्गजातमतःपरम् ।
एवं शुद्धो भवेच्चित्रः पूर्वरङ्गो विधानतः
कार्यो नातिप्रसङ्गो ऽत्र नृतागीतविधिं प्रति ।
गीते वाद्ये च नृत्ते च प्रवृत्ते ऽतिप्रसङ्गतः
खेदो भवेत्प्रयोक्तॄणां प्रेक्षकाणां तथैव च ।
खिन्नानां रसभावेषु स्पष्टता नोपजायते
ततः शेषप्रयोगस्तु न रागजनको भवेत् ।
(लक्षनेन विना बाह्यलक्षणाद्विस्तृतं भवेत् ।
लोकशास्त्रानुसारेण तस्मान्नाट्यं प्रवर्तते) ॥ भ्न्_5.160अब्*1 ॥
त्र्यश्रं वा चतुरश्रं वा शुद्धं चित्रमथापि वा
प्रयुज्य रङ्गान्निष्क्रामेत्सूत्रधार्ः सहानुगः ।
(देवपार्थिवरङ्गानामाशीर्वचनसंयुताम् ॥ भ्न्_5.161*1 ॥
कवेर्नामगुणोपेतां वस्तूपक्षेपरूपिकाम् ।
लघुवर्णपदोपेतां वृत्तैश्चित्रैरलङ्कृताम् ॥ भ्न्_5.161*2 ॥
अन्तर्यवनिकासंस्थः कुर्यादाश्रावणां ततः ।
आश्रावनावसाने च नान्दीं कृत्वा स सूत्रधृत् ।
पुनः प्रविश्य रङ्गं तु कुर्यात्प्रस्तावनां ततः) ॥ भ्न्_5.161*3 ॥
प्रयुज्य विधिनैवं तु पूर्वर~गं प्रयोगतः
स्थापकः प्रविशेत्तत्र सूत्रधारगुणाकृतिः ।
स्थानं तु वैष्णवं कृत्वा सौष्ठवाञ्गपुरस्कृतम्
प्रविश्य रङ्गं तैरेव सूत्रधारपदैर्व्रजेत् ।
श्थापक्ष्य प्रवेशे तु कर्तव्यऽर्थानुगा ध्रुवा
त्र्यश्रा वा चतुरश्रा वा तज्ज्ञैर्मध्यलयान्विता ।
कुर्यादनन्तरं चारीं देवरह्मणशंसिनीम्
सुवाक्यमधुरैः श्लोकेर्नानाभसवरसान्वितैः ।
प्रसाद्य रङ्गं विधिवत्कवेर्नाम च कीर्तयेत्
प्रस्तवा. ततः कुर्यात्काव्यप्रख्यापनाश्रयाम् ।
उद्धात्यकादि कर्तव्यं काव्योपक्षेपणाश्र्यम्
दिव्ये दिव्याश्रयो भूत्वा मानुषे मानुषाश्रयः ।
दिव्यमानुषसंयोगे दिव्यो वा मानुषो ऽपि वा
मुखबीजानुसदॄशं नानामार्गसमाश्रयम् ।
आआविधैरुपक्षेपैः काव्योपक्षेपणं भवेत्
प्रस्ताव्यैवं तु निष्क्रामेत्काव्यप्रस्तावकस्ततः ।
एवमेष प्रयोक्तव्यः पूर्वरङ्गो यथाविधि
य इमं पूर्वरङ्गं तु विधिनैव प्रयोजयेत् ।
नाशुभं प्राप्नुयात्किञ्चित्स्वर्गलोकं च गच्छति
यश्चापि विधिमुत्सृज्य यथेष्टं सम्प्रयोजयेत् ।
प्राप्नोत्यपचयं घोरं तिर्यग्ग्योनिं च गच्छति
न तथाऽग्निः प्रदहति प्रभञ्जनसमीरतः ।
यथा ह्यप्रयोगस्तु प्रयुक्तो दहति क्षणात्
इत्येवावन्तिपाञ्चालदाक्षिणात्यौढ्रमागधैः ।
कर्तव्य पूर्वरङ्गस्तु द्विप्रमाणविनिर्मितः
एष वः कथितो विप्राः पूर्वरङ्गाश्रितो विधिः ।
भूयः किं कथ्यतां सम्यङ्नाट्यवेदविधिं प्रति
मूल पाठ: Nāṭyaśāstra 1-16, 18-30, 33, 35-37 · Data entry Padmakar Dadegaonkar Sowmya Krishnapur Haresh Bakshi · GRETIL (Göttingen) · CC BY-NC-SA 4.0