भाषा

ENहिગુ
ग्रंथ पाठ

नाट्यशास्त्र · अध्याय 3

3.1

इति भारतीये नाट्यशास्त्रे मण्डपविधानो नाम द्वितीयो ऽध्यायः
अथ तृतीयोध्यायः
सर्वलक्षणसंपन्ने कृते नाट्यगृहे शुभे ।
गावो वसेयुः सप्ताहं सह जप्यपरैर्द्विजैः

3.2

ततो ऽधिवासयेद्वेश्म रङ्गपीठं तथैव च ।
मन्त्रपूतेन तोयेन प्रोक्षिताङ्गो निशागमे

3.3

यथास्थानान्तरगतो दीक्षितः प्रयतः शुचिः ।
त्रिरात्रोपोषितो भूत्वा नाट्याचार्यो ऽहताम्बरः

3.4

नमस्कृत्य महादेवं सर्वलोकोद्भवं भवम् ।
जगत्पितामहं चैव विष्णुमिन्द्रं गुहं तथा

3.5

सरस्वतीं च लक्ष्मीं च सिद्धिं मेधां धृतिं स्मृतिम् ।
सोमं सूर्यं च मरुतो लोकपालांस्तथाश्विनौ

3.6

मित्रमग्निं सुरान्वर्णान् रुद्रान्कालं कलिं तथा ।
मृत्युं च नियतिं चैव कालदण्डं तथैव च

3.7

विष्णुप्रहरणं चैव नागराजं च वासुकिम् ।
वज्रं विद्युत्समुद्रांश्च गन्धर्वाप्सरसो मुनीन्

3.8

भूतान् पिशाचान् यक्षांश्च गुह्यकांश्च महेश्वरान् ।
असुरान्नाट्यविघ्नांश्च तथाऽन्यान्दैत्यराक्षसान्

3.9

तथा नाट्यकुमारीश्च महाग्रामण्यमेव च ।
यक्षांश्च गुह्यकांश्चैव भूतसङ्घास्तथैव च

3.10

एतांश्चान्यांश्च देवर्षीन्प्रणम्य रचिताञ्जलिः ।
यथास्थानान्तरगतान्समावाह्य ततो वदेत्

3.11

भवद्भिर्नो निशायां तु कर्तव्यः सम्परिग्रहः ।
साहाय्यं चैव दातव्यमस्मिन्नाट्ये सहानुगैः

3.12

सम्पूज्य सर्वानेकत्र कुतपं सम्प्रयुज्य च ।
जर्जराय प्रयुञ्जीत पूजां नाट्यप्रसिद्धये

3.13

त्वं महेन्द्रप्रहरणं सर्वदानवसूदनम् ।
निर्मितस्सर्वदेवैश्च सर्वविघ्ननिबर्हण

3.14

नृपस्य विजयं शंस रिपूणां च पराजयम् ।
गोब्राह्मणशिवं चैव नाट्यस्य च विवर्धनम्

3.15

एवं कृत्वा यथान्यायमुपास्यं नाट्यमण्डपे ।
निशायां तु प्रभातायां पूजनं प्रक्रमेदिह

3.16

आर्द्रायां वा मघायां वा याम्ये पूर्वेषु वा त्रिषु ।
आश्लेषामूलयोर्वापि कर्तव्यं रङ्गपूजनम्

3.17

आचार्येण तु युक्तेन शुचिना दीक्षितेन च ।
रङ्गस्योद्योतनं कार्यं देवतानां च पूजनम्

3.18

दिनान्ते दारुणे घोरे मुहूर्ते यमदैवते ।
आचम्य तु यथान्यायं देवता वै निवेशयत्

3.19

रक्ताः प्रतिसराः सूत्रं रक्तगन्धाश्च पूजिताः ।
रक्ताः सुमनसश्चैव यच्च रक्तं फलं भवेत्

3.20

यवैस्सिद्धार्थकैर्लाजैरक्षतैः शालितण्डुलैः ।
नागपुष्पस्य चूर्णेन वितुषाभिः प्रियङ्गुभिः

3.21

एतैर्द्रव्यैर्युतं कुर्याद्देवतानां निवेशनम् ।
आलिखेन्मण्डलं पूर्वं यथास्थानं यथाविधिः

3.22

समन्तस्तश्च कर्तव्यं हस्ता षोडश मण्डलम् ।
द्वाराणि चात्र कुर्वीत विधानेन चतुर्दिशम्

3.23

मध्ये चैवात्र कर्तव्ये द्वे रेखे तिर्यगूर्ध्वगे ।
तयोः कक्ष्याविभागेन दैवतानि निवेशयत्

3.24

पद्मोपविष्टं ब्रह्माणं तस्य मध्ये निवेशयेत् ।
आदौ निवेश्यो भगवान्सार्धं भूतगणैः शिवः

3.25

नारायणो महेन्द्रश्च स्कन्दः सूर्यो ऽश्विनौ शशी ।
सरस्वती च लक्ष्मीश्च श्रद्धा मेधा च पूर्वतः

3.26

पूर्वदक्षिणतो वह्निर्निवेश्यः स्वाहया सह ।
विश्वेदेवाः सगन्धर्वा रुद्राः सर्पगणास्तथा

3.27

दक्षिणेन निवेश्यस्तु यमो मित्रश्च सानुगः ।
पितॄन्पिशाचानुरगान् गुह्यकांश्च निवेशयत्

3.28

नैॠत्यां राक्षसांश्चैव भूतानि च निवेशयत् ।
पश्चिमायां समुद्रांश्च वरुणं यादसां पतिम्

3.29

वायव्यायां दिशि तथा सप्त वायून्निवेशयेत् ।
तत्रैव विनिवेश्यस्तु गरुडः पक्षिभिः सह

3.30

उत्तरस्यां दिशि तथा धनदं संनिविएशयेत् ।
नाट्यस्य मातॄश्च तथा यक्षानथ सगुह्यकान्

3.31

तथैवोत्तरपूर्वायां नन्द्याद्यांश्च गणेश्वरान् ।
ब्रह्मर्षिभूतसंघांश्च यथाभागं निवेशयत्

3.32

स्तम्भे सनत्कुमारं तु दक्षिणे दक्षमेव च ।
ग्रामण्यमुत्तरे स्तम्भे पूजार्थं संनिविशयेत्

3.33

अनेनैअव विधानेन यथास्थानं यथाविधि ।
सुप्रसादानि सर्वाणि दैवतानि निवेशयत्

3.34

स्थाने स्थाने यथान्यायं विनिवेश्य तु देवताः ।
तासां प्रकुर्वीत ततः पूजनं तु यथार्हतः

3.35

देवताभ्यस्तु दातव्यं सितमाल्यानुलेपनम् ।
गन्धर्ववह्निसूर्योभ्यो रक्तमाल्यानुलेपनम्

3.36

गन्धं माल्यं च धूपं च यथावदनुपूर्वशः ।
दत्वा ततः प्रकुर्वीत बलिं पूजां यथाविधिः

3.37

ब्रह्माणं मदुकर्पेण पायसेन सरस्वतीम् ।
शिवविष्णुमहेन्द्राद्याः सम्पूज्या मोदकैरथ

3.38

घृतौदनेन हुतभुक्षोमर्कौ तु गुडौदनैः ।
विश्वेदेवाः सगन्धर्वा मुनयो मधुपायसैः

3.39

यममित्रौ च सम्पूज्यावपूपैर्मोदकैस्तथा ।
पितॄन्पिशाचानुरगान् सर्पिःक्षीरेण तर्पयेत्

3.40

पक्वानेन तु मांसेन सुरासीथुफलासवैः ।
अर्चयेद्भूतसंघांश्च चणकैः पललाप्लुतैः

3.41

अनेनैव विधानेन सम्पूज्या मत्तवारणी ।
पक्वामेन तु मांसेन सम्पूज्या रक्षसां गणाः

3.42

सुरामांसप्रदानेअन दानवान्प्रतिपूजयेत् ।
शेषान्देवगणांस्तज्ज्ञः सापूपोत्कारिकौदनैः

3.43

मत्स्यैश्च पिष्टभक्ष्यैश्च सागरान्सरितस्तथा ।
सम्पूज्य वरुणं चापि दातव्यं घृतपायसम्

3.44

नानाफूलफलश्चापि मुनीन्सम्प्रतिपूजयेत् ।
वायूंश्च पक्षिणश्चैव विचित्रैर्भक्ष्यभोजनैः

3.45

मातॄर्नाट्यस्य सर्वास्ता धनदं च सहानुगैः ।
अपूपैर्लाजिकामिश्रैर्भक्ष्यभोज्यैश्च पूजयेत्

3.46

एवमेषां बलिः कार्यो नानाभोजनसंश्रयः ।
पुनर्मन्त्रविधानेन बलिकर्म च वक्ष्यते

3.47

देवदेव महाभाग सर्वलोकपितामह ।
मन्त्रपूतमिमं सर्वं प्रतिगृह्णीष्व मे बलिम्

3.48

देवदेव महाभाग गणेश त्रिपुरान्तक ।
प्रगृह्यतां बलिर्देव मन्त्रपूतो मयोद्यतः

3.49

नारायणामितगते पद्मनाभ सुरोत्तम ।
प्रगृह्यतां बलिर्देव मन्त्रपूतो मयार्पितः

3.50

पुरन्दरामरपते वज्रपाणे शतक्रतो ।
प्रगृह्यतां बलिर्देव विधिमन्त्रपुरस्कृतः

3.51

देवसेनापते स्कन्द भगवन् शङ्करप्रिय ।
बलिः प्रीतेन मनसा षण्मुख प्रतिगृह्यताम्

3.52

महादेव महायोगिन्देवदेव सुरोत्तम ।
संप्रगृह्य बलिं देव रक्ष विघ्नात्सदोत्थितात् ॥ भ्न्_3.51* ॥
देवि देवमहाभागे सरस्वति हरिप्रिये ।
प्रगृह्यतां बलिर्मातर्मया भक्त्या समर्पितः

3.53

नानानिमित्तसम्भूताः पौलस्त्याः सर्व एव तु
राक्षसेन्द्रा महासत्वाः प्रतिगृह्णीत मे बलिम्

3.54

लक्ष्मीः सिद्धिर्मतिर्मेधा सर्वलोकनमस्कृताः ।
मन्त्रपूतमिमं देव्यः प्रतिगृह्णन्तु मे बलिम्

3.55

सर्वभूतानुभावज्ञ लोकजीवन मारुत ।
प्रगृह्यतां बलिर्देव मन्त्रपूतो मयोद्यतः

3.56

देववक्त्र सुरश्रेष्ठ धूमकेतो हुताशन ।
भक्त्या समुद्यतो देव बलिः सम्प्रति गृह्यताम्

3.57

सर्वग्रहाणां प्रवर तेजोराशे दिवाकर ।
भक्त्या मयोद्यतो देव बलिः सम्प्रति गृह्यताम्

3.58

सर्वग्रहपते सोम द्विजराज जगत्प्रिय ।
प्रगृह्यतामेष बलिर्मन्त्रपूतो मयोद्यतः

3.59

महागणेश्वराः सर्वे नन्दीश्वरपुरोगमाः ।
प्रगृतां बलिर्भक्त्या मया सम्प्रति चोदितः

3.60

नमः पितृभ्यः सर्वेभ्यः प्रतिगृह्णन्त्विमं बलिम् ।
(भूतेभ्यश्च नमो नित्यं येषामेष बलिः प्रियः) ।
कामपाल नमो नित्यं यस्यायं ते विधिः कृतः

3.61

नारदस्तुम्बरुश्चैव विश्वावसुपुरोगमाः ।
परिगृह्णन्तु मे सर्वे गन्धर्वा बलिमुद्यतम्

3.62

यमो मित्रश्च भगवानीश्वरौ लोकपूजितौ ।
इमं मे प्रतिगृह्णीतां बलिः मन्त्रपुरस्कृतम्

3.63

रसातलगतेभ्यश्च पन्नगेभ्यो नमो नमः ।
दिशन्तु सिद्धिं नाट्यस्य पूजिताः पापनाशनाः

3.64

सर्वाम्भसां पतिर्देवो वरुणो हंसवाहनः ।
पूजितः प्रीतमानस्तु ससमुद्रनदीनदः

3.65

वैनतेय महासत्व सर्वपक्षिपते विभो ।
प्रगृह्यतां बलिर्देव मन्त्रपूतो मयोद्यतः

3.66

धनाध्यक्षो यक्षपतिर्लोकपालो धनेश्वरः ।
सगुह्यकस्सयक्षश्च प्रतिगृह्णातु मे बलिम्

3.67

नमो ऽस्तु नाट्यमातृभ्यो ब्राह्म्याद्याभ्यो नमोनमः ।
सुमुखीभिः प्रसन्नाभिर्बलिरद्य प्रगृह्यताम्

3.68

रुद्रप्रहरणं सर्वं प्रतिगृह्णातु मे बलिम् ।
विष्णुप्रहरणं चैव विष्णुभक्त्या मयोद्यतम्

3.69

तथा कृतान्तः कालश्च सर्वप्राणिवधेश्वरौ ।
मृत्युश्च नियतिश्चैव प्रतिगृह्णातु मे बलिम्

3.70

याश्चास्यां मत्तवारण्यां संश्रिता वस्तुदेवताः ।
मन्त्रपूतमिमं सम्यक्प्रतिगृह्णन्तु मे बलिम्

3.71

अन्ये ये देवगन्धर्वा दिशो दश समाश्रिताः ।
दिव्यान्तरिक्षाभौमाश्च तेभ्यश्चायं बलिः कृतः

3.72

कुम्भं सलिलसम्पूर्णं पुष्पमालापुरस्कृतम् ।
स्थापयेद्रङ्गमध्ये तु सुवर्णं चात्र दापयेत्

3.73

आतोद्यानि तु सर्वाणि कृत्वा वस्त्रोत्तराणि तु ।
गन्धैर्माल्यैश्च धूपैश्च भक्ष्यैर्भोज्यैश्च पूजयेत् ॥ भ्न्_3.72* ॥
पूजयित्वा तु सर्वाणि दैवतानि यथाक्रमम् ।
जर्जरस्त्वभिसम्पूज्यः स्यात्ततो विघ्नजर्जरः

3.74

श्वेतं शिरसि वस्त्रं स्यान्नीलं रौद्रे च पर्वणि ।
विष्णुपर्वणि वै पीतं रक्तं स्कन्दस्य पर्वणि

3.75

मृडपर्वणि चित्रं तु देयं वस्त्रं हितार्थिना ।
सदृशं च प्रदातव्यं धूपमाल्यानुलेपनम्

3.76

आतोद्यानि तु सर्वाणि वासोभिरवगुण्ठयेत् ।
गन्धैर्माल्यैश्च धूपैश्च भक्ष्यभोजैश्च पूजयेत्

3.77

सर्वमेवं विधिं कृत्वा गन्धमाल्यानुलेपनैः ।
विघ्नजर्जरणार्थं तु जर्जरं त्वभिमन्त्रयेत्

3.78

अत्र विघ्नविनाशार्थं पितामहमुखैस्सुरैः ।
निर्मितस्त्वं महावीर्यो वज्रसारो महातनुः

3.79

शिरस्ते रक्षतु ब्रम्हा सर्वैर्देवगुणैअः तह ।
द्वितीयं च हरः पर्व तृतीयं च जनार्दनः

3.80

चतुर्थं च कुमारस्ते पञ्चमं पन्नगोत्तमः ।
नित्यं सर्वे ऽपि पान्तु त्वां सुरार्थे च शिवो भव

3.81

नक्षत्रे ऽभिजिति त्वं हि प्रसूतो ऽहितसूदन ।
जयं चाभ्युदयं चैव पार्थिवस्य समावह

3.82

जर्जरं पूजयित्वैअवं बलिं सर्वं निविद्य च ।
अग्नौ होमं ततः कुर्यान्मन्त्राहुइतिपुरस्कृतम्

3.83

हुताश एव दीप्ताभिरुल्काभिः परिमार्जनम् ।
नृपतेर्नर्तकीनां च कुर्याद्दीप्त्यभिवर्धनम्

3.84

अभिद्योत्य सहातोद्यैर्नृपतिं नर्तकीस्तथा ।
मन्त्रपूतेन तोयेन पुनरभ्युक्ष्य तान्वदेत्

3.85

महाकुले प्रसूताः स्थ गुणौघैश्चाप्यलङ्कृताः ।
यद्वो जन्मगुणोपेतं तद्वो भवतु नित्यशः

3.86

एवमुक्त्वा ततो वाक्यं नृपतैर्भूतये बुधः ।
नाट्ययोगप्रसिद्ध्यर्थमाशिषस्सम्प्रयोजयेत्

3.87

सरस्वती धृतिर्मेधा ह्रीः श्रीर्लक्ष्मीस्स्मृतिर्मतिः ।
पान्तु वो मातरः सौम्यास्सिद्धिदाश्च भवन्तु वः

3.88

होमं कृत्वा यथान्यायं हविर्मन्त्रपुरस्कृतम् ।
भिन्द्यात्कुम्भं ततश्चैव नाट्याचार्यः प्रयत्नतः

3.89

अभिन्ने तु भवेत्कुम्भे स्वामिनः शत्रुतो भयम् ।
भिन्ने चैव तु विज्ञेयः स्वामिनः शत्रुसंक्षयः

3.90

भिन्ने कुम्भे ततश्चैव नाट्यचार्यः प्रयत्नतः ।
प्रगृह्य दीपिकां दीप्तां सर्वं रङ्गं प्रदीपयेत्

3.91

क्ष्वेडितैः स्फोटितैश्चैव वल्गितैश्च प्रधावितैः ।
रङ्गमध्ये तु तां दीप्तां सशब्दां सम्प्रयोजयेत्

3.92

शङ्खदुन्दुभिनिर्घोषैर्मृदङ्गपणवैस्तथा ।
सर्वातोद्यैः प्रणदितै रङ्गे युद्धानि कारयेत्

3.93

तत्र च्छिन्नं व भिन्नं च दारितं च सशोणितम् ।
क्षतं प्रदीप्तमायस्तं निमित्तं सिद्धिलक्षणम्

3.94

सम्यगिष्टस्तु रङ्गो वै स्वामिनः शुभमावहेत् ।
पुरस्याबालवृद्धस्य तथा जानपदस्य च

3.95

दुरिष्टस्तु तथा रङ्गो दैवतैर्दुरधिष्ठितः ।
नाट्यविध्वसनं कुर्यान्नृपस्य च तथाऽशुभम्

3.96

य एवं विधिमुत्सृज्य यथेष्टं सम्प्रयोजयेत् ।
प्राप्नोत्यपचयं शीघ्रं तिर्यग्योनिं च गच्छति

3.97

यज्ञेन सम्मितं ह्येतद्रङ्गदैवतपूजनम् ।
अपूजयित्वा रङ्गं तु नैव प्रेक्षां प्रयोजयेत्

3.98

पूजिताः पूजयन्त्येते मानिता मानयन्ति च ।
तस्मात्सर्वप्रयत्नेन कर्तव्यं रङ्गपूजनम्

3.99

न तथा प्रदहत्यग्निः प्रभञ्जनसमीरितः ।
यथा ह्यपप्रयोगस्तु प्रयुक्तो दहति क्षणात्

3.100

शास्त्रज्ञेन विनीतेन शुचिना दीक्षितेन च ।
नाट्याचार्येण शान्तेन कर्तव्यं रङ्गपूजनम्

3.101

स्थानभ्रष्टं तु यो दद्याद्बलिमुद्विग्नमानसः ।
मन्त्रहीनो यथा होता प्रायश्चित्ती भवेत्तु सः

3.102

इत्ययं यो विधिर्दृष्टो रङ्गदैवतपूजने ।
नवे नाट्यगृहे कार्यः प्रेक्षायां च प्रयोक्तृभिः

मूल पाठ: Nāṭyaśāstra 1-16, 18-30, 33, 35-37 · Data entry Padmakar Dadegaonkar Sowmya Krishnapur Haresh Bakshi · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc