नाट्यशास्त्र · अध्याय 33
इति भरतीये नाट्यशास्त्रे सुषिरातोद्यलक्षणं नामाध्यायस्त्रिंशः
अथ त्रयस्त्रिंशो ऽध्यायः
गुणात् प्रवर्तते गानं दोषं चैव निरस्यते ।
तस्माद्यत्नेन विज्ञेयौ गुणदोषौ समासतः
गाता प्रत्यग्रवयाः स्निग्धो मधुरस्वरोपचितकण्ठः ।
लयतालकलापातप्रमाणयोगेषु तत्त्वज्ञः
रूपगुणकान्तियुक्ता माधुर्योपेतसत्वसम्पन्नाः ।
पेशलमधुरस्निग्धानुनादिसमरक्त गुरुकण्ठाः
(शुभ)
सुविहितगमकविधायिन्यो ऽक्षोभ्यास् ताललयकुशलाः ।
आतोद्यार्पितकरणा विज्ञेया गायिकाः श्यामाः
प्रायेण तु स्वभावात् स्त्रीणां गानं नृणां च पाठ्यविधिः ।
स्त्रीणां स्वभावमधुरः कण्ठो नृणां बलित्वं च
यत्र स्त्रीणां पाठ्यं गुणैर्नराणां च गानमधुरत्वम् ।
ज्ञेयो ऽलङ्कारो ऽसौ न हि स्वभावो ह्ययं तेषाम्
सुनिविष्टपाणिलययतियोगज्ञौसुमधुरलघुहस्तौ ।
गातृगुणैश्चोपेताववहितमनसौ सुसङ्गीतौ
स्फुटरचितचित्रकरणौ गीतश्रवणाचलौप्रवीणौ च ।
चित्रादिवाद्यकुशलौवीणाभ्यां वादकौ भवतः
बलवानवहितबुद्धिर्गीतलयज्ञस्तथासुसङ्गीतः ।
श्रावकमधुरस्निग्धो दृढपाणिर्वंशवादको ज्ञेयः
अविचलितमविच्छन्नं वर्णालङ्कारबोधकंमधुरम् ।
स्निग्धं दोषविहीनं वेणोरेवं स्मृतं वाद्यम्
ज्ञानविज्ञानकरणवचनप्रयोगसिद्धिनिष्पादनानि षडाचार्यगुणा इति ।
तत्र ज्ञानं शास्त्रावबोधः ।
यथा च क्रियासम्पादनं विज्ञानम् ।
कण्ठहस्तगौण्यं करणम् ।
जितग्रन्थता वचनम् ।
देशादिसम्पदाराधनं प्रयोगसिद्धिः ।
शिष्यस्वभावमविशेष्योपात्तय उपदेशाच्छिष्यनिष्पादनमिति
श्रावणो ऽथ घनः स्निग्धो मधुरोह्यवधानवान् ।
त्रिस्थानशोभीत्येवं तु षट् कण्ठस्य गुणा मताः
उदात्तं श्रूयते यस्मात्तस्माच्छ्रावण उच्यते ।
श्रावणः सुस्वरो यस्मादच्छिन्नः स घनो मतः
अरूक्षध्वनिसंयुक्तः स्निग्धस्तज्ज्ञैः प्रकीर्तितः ।
मनःप्रह्लादनकरः स वै मधुर उच्यते
स्वरे ऽधिके च हीने च ह्यविरक्तो विधानवान् ।
शिरःकण्ठेष्वभिहितंत्रिस्थानमधुरस्वरः ।
त्रिस्थानशोभीत्येवं तु स हि तज्ज्ञैरुदाहृतः
कपिलो ह्यवस्थितश्चैव तथा सन्दष्ट एव च ।
काकी च तुम्बकी चैव पञ्च दोषा भवन्ति हि
वैस्वर्यं च भवेद्यत्र तथा स्याद् घर्घरायितम् ।
कपिलः स तु विज्ञेयः श्लेष्मकण्ठस्तथैव च
ऊनताऽधिकता चापि स्वराणां यत्र दृश्यते ।
रूक्षदोषहतश्चैव ज्ञेयः स त्वव्यवस्थितः
दण्डप्रयोगात् सन्दष्टस्त्वाचार्यैः परिकीर्तितः ।
यो न विस्तरति स्थाने स्वरमुच्चारणागतम्
नासाग्रग्रस्तशब्दस्तुतुम्बकी सो ऽभिधीयते
अन्ये तु
समप्रहरणे चैव जविनौ विशदौ तथा ।
जितश्रमौ विकृष्टौ च मधुरौ स्वेदवर्जितौ ।
तथा बृयन्नखौ चैव ज्ञेयौ हस्तस्य वै गुणाः
इति
एते गुणाश्च दोषाश्च तत्त्वतः कथितो मया ।
अत ऊर्ध्वं प्रवक्ष्यामि ह्यवनद्धविधिं पुनः
पूर्वं यदुक्तं प्रपितामहेन कुर्यात् य एवं तु नरः प्रयोगे सम्मानमग्रयं लभते स लोके
मूल पाठ: Nāṭyaśāstra 1-16, 18-30, 33, 35-37 · Data entry Padmakar Dadegaonkar Sowmya Krishnapur Haresh Bakshi · GRETIL (Göttingen) · CC BY-NC-SA 4.0