नाट्यशास्त्र · अध्याय 30
इति भरतीये नाट्यशास्त्रे ततातोद्यविधानं नाम एकोनत्रिंशत्तमो ऽध्यायः
त्रिंशो ऽध्यायः
अतोद्यं सुषिरं नाम ज्ञेयं वंशगतं बुधैः ।
वैण एव विधिस्तत्र स्वरग्रामसमाश्रयः
द्विकत्रिकचतुष्कास्तु ज्ञेया वंशगताः स्वराः ।
कम्प्यमानार्थमुक्ताश्च व्यक्तमुक्तास्तथैव च
तत्रोपरि यथा ह्येकः स्वरो वैणस्वरान्तरे ।
प्राप्नोत्यन्यत्वमेवेह तथा वंशगतो ऽपि हि
द्विकस्त्रिकश्चतुष्को वा श्रुतिसङ्ख्यो भवेत् स्वरः ।
अनीरणात्तु शेषाणां स्वराणामपि सम्भवः ।
अङ्गुलीवादनकृतं तच्च मे सन्निबोधत
व्यक्तमुक्{ताङ्गुलिस्तत्र स्वरो ज्ञेयश्चतुःश्रुतिः ।
कम्प्यमानाङ्गुलिश्चैव त्रिश्रुतिः परिकीर्तितः ।
द्विको ऽर्धाङ्गुलिमुक्तः स्यादिति श्रुत्याश्रिताः स्वराः
एते स्युर्मध्यमग्रामे भूयः षड्जाश्रिताः पुनः ।
व्यक्तमुक्{ताङ्गुलिकृताः षड्जमध्यमपञ्चमाः
ऋषभो धैवतश्चापि कम्प्यमानाङ्गुलीकृतौ ।
अर्धमुक्ताङ्गुलिश्चैव गान्धारो ऽथ निषादवान्
स्वरसाधारणश्चापि काकल्यन्तरसंज्ञया ।
निषादगान्धारकृतौ षड्जमध्यमयोरपि
विपर्यया सन्निकर्षे श्रुतिलक्षणसिद्धितः ।
वैणकण्ठप्रवेशेन सिद्धा एकाश्रिताः स्वराः
यं यं गाता स्वरं गच्छेत् तं तं वंशेन वादयेत् ।
शारीरवैणवंश्यानामेकीभावः प्रशस्यते
अविचलितमविच्छिन्नं वर्णालङ्कारसंयुतं विधिवत् ।
ललितं मधुरं स्निग्धं वेणोरेवं स्मृतं वाद्यम्
एवमेतत् स्वरगतं विज्ञेयंगानयोक्तृभिः ।
अतः परं प्रवक्ष्यामि धनातोद्यविकल्पनम्
मूल पाठ: Nāṭyaśāstra 1-16, 18-30, 33, 35-37 · Data entry Padmakar Dadegaonkar Sowmya Krishnapur Haresh Bakshi · GRETIL (Göttingen) · CC BY-NC-SA 4.0