भाषा

ENहिગુ
ग्रंथ पाठ

नाट्यशास्त्र · अध्याय 35

35.1

इति भरतीये नाट्यशास्त्रे गुणदोषविचारो नामाध्यायस्त्रयस्त्रिंशः
अथ पञ्चत्रिंशो ऽध्यायः
विन्यासं भूमिकानां च सम्प्रवक्ष्यामि नाटके ।
यादृशो यस्य कर्तव्यो विन्यासो भूमिकास्वथ

35.2

गतिवागङ्गचेष्टाभिः सत्त्वशीलस्वभावतः ।
परीक्ष्य पात्रं तज्ज्ञस्तु युञ्ज्याद् भूमिनिवेशने

35.3

तस्मिन्नन्विष्य हि गुणवान् कार्या पात्रसमाश्रया ।
न खेदजननं बुद्धेराचार्यस्य भविष्यति

35.4

आचार्यः पात्रजांश्चैव गुणाञ्ज्ञात्वा स्वभावजान् ।
ततः कुर्याद् यथायोगं नृणां भूमिनिवेशनम्

35.5

अङ्गप्रत्यङ्गसंयुक्तमहीनाङ्गं वयोन्वितम् ।
न स्थूलं न कृशं चैव न दीर्घं न च मन्थरम्

35.6

श्लिष्टाङ्गं द्युतिमन्तं च सुस्वरं प्रियदर्शनम् ।
एतैर्गुणैश्च संयुक्तं देवभूमिषु योजयेत्

35.7

स्थूलं प्रांशुं बृहद्देहं मेघगम्भीरनिस्वनम् ।
रौद्रस्वभावनेत्रं च स्वभावभ्रुकुटीमुखम्

35.8

रक्षोदानवदैत्यानां भूमिकासु प्रयोजयेत् ।
पुरुषाणां प्रयोगस्तु तथाङ्गक्रिययान्वितः

35.9

सुनेत्रसुभ्रुवः स्वङ्गाः सुललाटाः सुनासिकाः ।
स्वोष्ठाः सुगण्डाः सुमुखाः सुकण्ठाः सुशिरोधराः

35.10

स्वङ्गप्रत्यङ्गसंयुक्ता न दीर्घा न च मन्थराः ।
न स्थूला न कृशाश्चैव स्वभावेन व्यवस्थिताः

35.11

सुशीला ज्ञानवन्तश्च तथा च प्रियदर्शनाः ।
कुमारराजभूमौ तु संयोज्याश्च नरोत्तमाः

35.12

अङ्गैरविकलैर्धीरं स्फुटं वसनकर्मणि ।
न दीर्घं नैव च स्थूलमूहापोहविचक्षणम्

35.13

अदीनं च प्रगल्भं च प्रत्युत्पन्नविनिश्चयम् ।
सेनापतेरमात्यानां भूमिकासु प्रयोजयेत्

35.14

पिङ्गाक्षं घोणनासं च नेत्रमुच्चमथापि वा ।
कञ्चुकिश्रोत्रियादीनां भूमिकासु नियोजयेत्

35.15

एवमन्येष्वपि तथा नाट्यधर्मविभागतः ।
देशवेषानुरूपेण पात्रं योज्यं स्वभूमिषु

35.16

मन्थरं वामनं कुब्जं विकृतं विकृताननम् ।
विष्टब्धनेत्रं काणाक्षं स्थूलं चिपिटनासिकम्

35.17

दुर्जनं दुस्वभावं च विकृताचारमेव च ।
दासभूमौ प्रयुञ्जीत बुधो दासाङ्गसम्भवम्

35.18

प्रकृत्याऽतिकृशं क्षामं तपःश्रान्तेषु योजयेत् ।
तथा च पुरुषं स्थूलमुपरोधेषु योजयेत्

35.19

यदि वा नेदृशाः सन्ति प्रकृत्या पुरुषा द्विजाः ।
आचार्यबुद्ध्या योज्यास्तु भावचेष्टास्वभावतः

35.20

या यस्य सदृशी चेष्टा ह्युत्तमाधममध्यमा ।
स तथाऽऽचार्ययोगेन नियम्या भावभाविनी

35.21

अतः परं प्रवक्ष्यामि भरतानां विकल्पनम् ।
भरताश्रयाश्च भरतो विदूषकः सौरिकस्तथा नान्दी ।
नन्दी ससूत्रधारो नाट्यरसो नायकश्चैव

35.22

मुकुटाभरणविकल्पौ विज्ञेयो माल्यवस्तुविविधैश्च ।
कारककुशीलवाद्या विज्ञेया नामतश्चैव

35.23

धुर्यवदेको यस्मादुद्धारो ऽनेकभूमिकायुक्तः ।
भाण्डग्रहोपकरणैनाट्यं भरतो भवेत् तस्मात्

35.24

लोकाहृदाश्रयकृता सर्वप्रकृतिप्रचारसंयुक्ता ।
नानाश्रयां प्रकुरुते तथा च नारी तु सर्वत्र

35.25

प्रत्युत्पन्नप्रतिभो नर्मकृतो नर्मगर्भनिर्भेदः ।
छेदविदूषितवचनो विदूषको नाम विज्ञेयः

35.26

तूर्यतिस्तु नरः सर्वातोद्यप्रवादने कुशलः ।
तूरपरिग्रहयुक्तो विज्ञेयस्तौरिको नाम

35.27

नटनृति धात्वर्थो ऽयं भूतं नाटयति लोकवृत्तान्तम् ।
रसभावसत्वयुक्तं यस्मात् तस्मान्नटो भवति

35.28

स्तुत्यभिवादनकृतैर्मधुरैर्वाक्यैः सुमङ्गलाचारैः ।
सर्व स्तौति हि लोकं यस्मात् तस्माद्भवेद्वादी

35.29

भावेभ्यो बहुधाऽस्मिन् रसा वदति नाट्ययोगेषु ।
प्राकृतसंस्कृतपाठ्यो नन्दी नामेति स ज्ञेयः

35.30

गीतस्य च वाद्यस्य च पाठ्यस्य च नैकभावविहितस्य ।
शिष्टोपदेशयोगात् सूत्रज्ञः सूत्रधारस्तु

35.31

यस्मात् यथोपदिष्टान् रसांश्च भावांश्च सत्वसंयुक्तान् ।
भूमिविकल्पैर्नयति च नाट्यकरः कीर्तितस्तस्मात्

35.32

चतुरातोद्यविधानं सर्वस्य तु शास्त्रखे दविहितस्य ।
नाट्यस्यान्तं गच्छति तस्माद्वै नायको ऽभिहितः

35.33

नानाप्रकृतिसमुत्थं करोति यः शीर्षकं मुकुटयोगे ।
विविधैर्वेषविशेषैः स च कुटकारस्तु विज्ञेयः

35.34

भाण्डकवाद्यज्ञा या लयतालज्ञा रसानुविद्धा च ।
सर्वाङ्गसुन्दरी वै कर्तव्या नाटकीया तु

35.35

यस्त्वाभरणं कुर्याद् बहुविधविहितं स चाभरणः ।
यश्चोपकरणयोगात् स तेन नाम्नाऽभिधातव्यः

35.36

यो वै माल्यं कुरुते पङ्चविधं माल्याकृत् स विज्ञेयः ।
यश्चापि वेषयोगं कुरुते स च वेषकारी तु

35.37

चित्रज्ञश्चित्रकरो वस्त्रस्य रञ्जानात्तथा रजकः ।
जत्वश्मलोहकाष्ठैर्द्रव्यकरैः कारुकश्चैव

35.38

नानातोद्यविधाने प्रयोगयुक्तः प्रवादने कुशलः ।
अतोद्ये ऽप्यतिकुशलो यस्मात् स कुशलवो ज्ञेयः

35.39

यद्यत् समाश्रयन्ते शिल्पं वा कर्म वा प्रयोगं वा ।
तनैवोपगतगुणा विज्ञेया नामतः पुरुषाः

35.40

एवं तु नाटकविधौ जातिर्नटसंश्रया बुधैर्ज्ञेया ।
नाट्योपकरणयुक्ता नानाशिल्पप्रसक्ता च

35.41

उक्तो ऽत्र भूमिकान्यासः प्रयोक्तारश्च योगतः ।
आदिष्टं नाट्यशास्त्रं च मुनयः किमिहोच्यताम्

मूल पाठ: Nāṭyaśāstra 1-16, 18-30, 33, 35-37 · Data entry Padmakar Dadegaonkar Sowmya Krishnapur Haresh Bakshi · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc