नाट्यशास्त्र · अध्याय 24
इति भारतीये नाट्यशास्त्रे त्रयोविंशः
चतुर्विंशो ऽध्यायः
समासतस्तु प्रकृतिस्त्रिविधा परिकीर्तिता ।
पुरुषाणामथ स्त्रीणामुत्तमाधममध्यमा
जितेन्द्रिय ज्ञानवती नानाशिल्पविचक्षणा ।
दक्षिणाधमहालक्ष्या भीतानां परिसान्त्वनी
नानाशास्त्रार्थसंपन्ना गाम्भीर्यौदार्यशालिनी ।
स्थैर्यत्यागगुणोपेता ज्ञेया प्रकृतिरुत्तमा
लोकोपचारचतुरा शिल्पशास्त्रविशारदा ।
विज्ञानमाधुर्ययुता मध्यमा प्रकृतिः स्मृता
रूक्षवाचो ऽथ दुःशीलाः कुसत्त्वाः स्थूलबुद्धयः ।
क्रोधनाघातकाश्चैव मित्रघ्नाश्छिद्रमानिनः
पिशुनास्तूद्धतैर्वाक्यैरकृतज्ञास्तथालसाः ।
मान्यामान्या विशेषज्ञा स्त्रीलोलाः कलहप्रियाः
सूचकाः पापकर्माणः परद्रव्यापहारिणः ।
एभिर्दोषैस्तुसंपन्ना भवन्तीहाधमा नराः
एवं तु शीलतो नॄणां प्रकृतिस्त्रिविधा स्मृता ।
स्त्रीणां पुनश्च प्रकृतिं व्याख्यास्याम्यनुपूर्वशः
मृदुभाबा चाचपला स्मितभाषिण्यनिष्ठुरा ।
गुरूणां वचने दक्षा सलज्जा विनयान्विता
रूपाभिजनमाधुर्यैर्गुणैः स्वाभाविकेर्युता ।
गाम्भीर्यधैर्यसम्पन्ना विज्ञेया प्रमदोत्तमा
नात्युत्कृष्टैरनिखिलैरेभिरेवान्विता गुणैः ।
अल्पदोषानुविद्धा च मध्यमा प्रकृतिः स्मृता
अधमा प्रकृतिर्या तु पुरुषाणां प्रकीर्तिता ।
विज्ञेया सैव नारीणामधमानां समासतः
नपुंसकस्तु विज्ञेयः संकीर्णो ऽधम एव च ।
प्रेष्यादिरपि विज्ञेया संकीर्णा प्रकृतिद्विजाः
शकारश्च विटश्चैव ये चान्येप्येवमादयः ।
संकीर्णास्ते ऽपि विज्ञेया ह्यधमा नाटके बुधैः
एता ज्ञेयाः प्रकृतयः पुरुषस्त्रीनपुंसकैः ।
आसां तु संप्रवक्ष्यामि विधानं शीलसंश्रयम्
अत्र चत्वार एव स्युर्नायकाः परिकीर्तिताः ।
मध्यमोत्तमप्रकृतौ नानालक्षणलक्षिताः
धीरोद्धता धीरललिता धीरोदात्तास्तथैव च ।
धीरप्रशान्तकाश्चैव नायकाः परिकीर्तिताः
देवा धीरोद्धता ज्ञेयाः स्युर्धीरललिता नृपाः ।
सेनापतिरमात्यश्च धीरोदात्तौ प्रकीर्तितौ
धीरप्रशान्ता विज्ञेया ब्राह्मणा वाणिजस्तथा ।
एतेषां तु पुनर्ज्ञेयाश्चत्वारस्तु विदूषकः
लिंगी द्विजो राजजीवी शिष्यश्चेति यथाक्रमम् ।
देवक्षितिभृतामात्यब्राह्मणानां प्रयोजयेत्
विप्रलंभसुहृदोमी संकथालापपेशलाः ।
व्यसनी प्राप्य दुःखं वा युज्यते ऽभ्युदयेन यः
तथा पुरुषमाहुस्तं प्रधानं नायकं बुधाः ।
यत्रानेकस्य भवतो व्यसनाभ्युदयौ पुनः
सपुष्टौ यत्र तौ स्यातां न भवेत्तत्र नायकः ।
दिव्या च नृपपत्नी च कुलस्त्री गणिका तथा
एतास्तु नायिका ज्ञेय नानाप्रकृतिलक्षणाः ।
धीरा च ललिता च स्यादुदात्ता निभृता तथा
दिव्या राजाङ्गनाश्चैव गुणैर्युक्ता भवन्ति हि ।
उदात्ता निभृता चैव भवेत्तु कुलजाङ्गना
ललिते चाभ्युदात्ते च गणिकाशिल्पकारिके ।
प्रकृतीनां तु सर्वासामुपचाराद् द्विधा स्मृताः
बाह्यश्चाभ्यन्तरश्चैव तयोर्वक्ष्यामि लक्षणम् ।
तत्र राजोपचारो यो भवेदाभ्यन्तरो हि सः
ततो वाक्योपचारस्तु यस्य बाह्यः स उच्यते ।
अथ राजोपचारे च राज्ञामन्तःपुराश्रितम्
स्त्रीविभागं प्रवक्ष्यामि विभक्तमुपचारतः ।
राजोपचारं वक्ष्यामि ह्यन्तःपुरसमाश्रयम्
महादेवी तथा देव्यः स्वामिन्यः स्थापिता अपि ।
भोगिन्यः शिल्पकारिण्यो नाटकीयाः सनर्तकाः
अनुचारिकाश्च विज्ञेयास्तथा च परिचारिकाः ।
तथा संचारिकाश्चैव तथा प्रेषणकारिकाः
महत्तर्यः प्रतीहार्यः कुमार्यः स्थविरा अपि ।
आयुक्तिकाश्च नृपतेरयमन्तःपुरो जनः
अत्र मूर्धाभिषिक्ता या कुलशीलसमन्विता ।
गुणैर्युक्ता वयस्स्था च मध्यस्था क्रोधना तथा
मुक्तेर्ष्या नृपशीलज्ञा सुखदुःखसहा समा ।
शान्तिस्वस्त्ययनैर्भर्तुस्सततं मङ्गलैषिणी
शान्ता पतिव्रता धीरा अन्तःपुरहिते रता ।
एभिर्गुणैस्तु संयुक्ता महदेवीत्युदाहृता
एभिरेव गुणैर्युक्तास्तत्संस्कारविवर्जिताः ।
गर्विताश्चातिसौभाग्याः पतिसंभोगतत्पराः
शुचिनित्योज्वलाकाराः पतिपक्षाभ्यसूयकाः ।
वयोरूपगुणाढ्या यास्ता देव्य इति भाषिताः
सेनापतेरमात्यानां भृत्यानामथवा पुनः ।
भवेयुस्तनया यास्तु प्रतिसम्मानवर्जिताः
शीलरूपगुणैर्यास्तु संपन्ना नृपतेर्हिताः ।
स्वगुणैर्लब्धसम्माना स्वामिन्य इति ताः स्मृताः
रूपयौवनशालिन्यः कर्कशा विभ्रमान्विताः ।
रतिसंभोगकुशलाः प्रतिपक्षाभ्यसूयकाः
दक्षा भर्तुश्च चित्तज्ञा गन्धमाल्योज्वलास्सदा ।
नृपतेश्छन्दवर्तिन्यो न हीर्ष्यामानगर्विताः
उत्थिताश्च प्रमत्ताश्च त्यक्तालस्या न निष्ठुराः ।
मान्यामान्यविशेषज्ञाः स्थापिता इति ताः स्मृताः
कुलशीललब्धपूजामृदवो नातिचोद्भटाः ।
मध्यस्था निभृताः क्षान्ता भोगिन्य इति ताः स्मृताः
नानाकलाविशेषज्ञा नानाशिल्पविचक्षणाः ।
गन्धपुष्पविभागज्ञा लेख्यालेख्यविकल्पिकाः
शयनासनभागज्ञाश्चतुरा मधुरास्तथा ।
दक्षाः सौम्याः स्फुटाः श्लिष्ठा निभृताः शिल्पकारिकाः
ग्रहमोक्षलयज्ञा या रसभावविकल्पिकाः ।
चतुरानाट्यकुशलाश्चोहापोहविचक्षणाः
रूपयौवनसंपन्ना नाटकीयास्तु ताः स्मृताः ।
हेलाभावविशेषाढ्या सत्वेनाभिनयेन च
माधुर्येन च संपन्ना ह्यातोद्यकुशला तथा ।
अङ्गप्रत्यङ्गसंपन्ना चतुष्षष्ठिकलान्विता
चतुराः प्रश्नयोपेताः स्त्रीदोषैश्च विवर्जिताः ।
सदा प्रगल्भा च तथा त्यक्तालस्या जितश्रमा
नानाशिल्पप्रयोगज्ञा नृत्तगीतविचक्षणा ।
अथ रूपगुणौदार्यधैर्यसौभाग्यशीलसंपन्ना
पेशलमधुरस्निग्धानुनादिकलचित्रकण्ठा च ।
समागतासु नारीषु रूपयौवनकन्तिभिः
न दृश्यते गुणैर्स्तुल्या यस्याः सा नर्तकी स्मृता ।
सर्वावस्थोपचारेषु या न मुञ्चति पर्थिवम्.
विज्ञेया दक्षिणा दक्षा नाट्यज्ञैरनुचारिका ।
शय्यापाली छत्रधारी तथा व्यजनधारिणी
संवाहिका गन्धयोक्त्री तथा चैव प्रसाधिका ।
तथाभरणयोक्त्री च माल्यसंयोजिका तथा
एवं विधा भवेयुर्याः ता ज्ञेयाः परिचारिकाः ।
नानाकक्ष्या विचारिण्यः तथोअपवनसंचराः
देवतायतनक्रीडा प्रासादपरिचारिकाः ।
यामकिन्यस्तथा चैव याश्चैवं लक्षणाः स्त्रियः
संचारिकास्तु विज्ञेया नाट्यज्ञैः समुदाहृताः ।
प्रेषणे ऽकामसंयुक्ते गुह्यागुह्यसमुत्थिते
नृपैर्यास्तु नियुज्यन्ते ताः ज्ञेयाः परिचारिकाः ।
सर्वान्तःपुररक्षासु स्तुतिस्वस्त्ययनेन च
या वृद्धिमभिनन्दन्ति ता विज्ञेया महत्तराः ।
सन्धिविग्रहसंबद्धनानाचारसमुत्थितम्
निवेदयन्ति याः कार्यं प्रतिहार्यस्तु ताः स्मृताः ।
अप्राप्तरससंभोगा न संभ्रान्ता न चोद्भटाः
निभृताश्च सलज्जाश्च कुमार्यो बालिकाः स्मृताः ।
पुर्वराजनयज्ञा याः पुर्वराजाभिपूजिताः
पुर्वराजानुचरितास्ता वृद्धा इति सुज्ञिताः ।
भाण्डागारेष्वधिकृताश्चायुधाधिकृतास्तथा
फलमूलौषधीनां च तथा चैवान्ववेक्षकी ।
गन्धाभरणवस्त्राणां माल्यानां चैव चिन्तिका
बह्वाश्रये तथा युक्ता ज्ञेया ह्यायुक्तिकास्तु ताः ।
इत्यन्तःपुरचारिण्यः स्त्रियः प्रोक्ता समासतः
विशेषणविशेषेण तासां वक्ष्यामि वै द्विजाः ।
अनुरक्ताश्च भक्ताश्च नानापार्श्वसमुत्थिताः
या नियुक्ता नियोगेषु कार्येषु विविधेषु च ।
न चोद्भटा असंभ्रान्ता न लुब्धा नापि निष्ठुराः
दान्ताः क्षान्ताः प्रसन्नाश्च जितक्रोधा जितेन्द्रियाः ।
अकामा लोभडीनाश्च स्त्रीदोषैश्च विवर्जिताः
सा त्वन्तःपुरसंचारे योज्या पार्थिववेश्मनि ।
कारुकाः कञ्चुकीयाश्च तथा वर्षवराः पुनः
औपस्थायिकनिर्मुण्डा स्त्रीणा प्रेषणकर्मणि ।
रक्षणं च कुमारीणां बालिकानां प्रयोजयेत्
अन्तःपुराधिकारेषु राजचर्यानुवर्त्तिनाम् ।
सर्ववृत्तान्तसंवाहाः पत्यागारे नियोजयेत्
विनीताः स्वल्पसत्त्वा ये क्लीबा वै स्त्रीस्वभाविकाः ।
जात्या न दोषिणश्चैव ते वै वर्षवराः स्मृताः
ब्रह्माणाः कुशला वृद्धाः कामदोषविवर्जिताः ।
प्रयोजनेषु देवीनां प्रयोक्तव्या नृपैः सदा
एतदष्टादशविधं प्रोक्तमन्तःपुरं मया ।
अतः परं प्रवक्ष्यामि बाह्यं पुरुषसंभवम्
राजा सेनापतिश्चैव पुरोधा मन्त्रिणस्तथा ।
सचिवाः प्राड्विवाकाश्च कुमाराधिकृतास्तथा
एके चान्ये च बहवो मान्या ज्ञेया नृपस्य तु ।
वेशेषमेषां वक्ष्यामि लक्षणेन निबोधत
बलवान् बुद्धिसंपन्नः सत्यवादी जितेन्द्रियः ।
दक्षः प्रगल्भो धृतिमान् विक्रान्तो मतिमाञ्छुचिः
दीर्घदर्शी महोत्साहः कृतज्ञः प्रियवाङ्मृदुः ।
लोकपालव्रतधरः कर्ममार्गविशारदः
उत्थितश्चाप्रमत्तश्च वृद्धसेव्यर्थशास्त्रवित् ।
परभावेङ्गिताभिज्ञः शूरो रक्षासमन्वितः
ऊहापोहविचारी च नानाशिल्पप्रयोजकः ।
नीतिशास्त्रार्थकुशलस्तथा चैवानुरागवान्
धर्मज्ञो ऽव्यसनी चैव गुणैरेतेर्भवेन्नृपः ।
कुलीना बुद्धिसंपन्ना नानाशास्त्रविपश्चिताः
स्निग्धा परेरहार्यश्च न प्रमत्ताश्च देशजाः ।
अलुब्धाश्च विनीताश्च शुचयो धार्मिकास्तथा
पुरोधो मन्त्रिणस्त्वेभिर्गुणैर्युक्ता भवन्ति हि ।
बुद्धिमान्नीतिसंपन्नस्त्यक्तालस्यः प्रियंवदः
पररन्ध्रविधिज्ञश्च यात्राकालविशेषवित् ।
अर्थशास्त्रार्थकुशलो ह्यनुरक्तः कुलोद्भवः
देशवित्कालविच्चैव कर्तव्यः क्षितिपैः सदा ।
व्यवहारार्थतत्त्वज्ञा बुद्धिमन्तो बहुश्रुताः
मध्यस्था धार्मिका धीराः कार्याकार्यविवेकिनः ।
क्षान्ता दान्ता जितक्रोधा सर्वत्र समदर्शिनः
ईदृशः प्राड्विवाकास्तु स्थाप्या धर्मासने द्विजाः ।
उत्थिताश्च प्रमत्ताश्च त्यक्तालस्या जितश्रमाः
स्निग्धा शान्ता विनीताश्च मध्यस्था निपुणास्तथा ।
नयज्ञा विनयज्ञाश्च ऊहापोहविचक्षणाः
सर्वशात्रार्थसंपन्नाः कुमाराधिकृतास्तथा ।
बृहस्पतिमतादेषां गुणांश्चाभिकांक्षयेत्
विज्ञेयं चोपहार्यं च सभ्यानां च विकल्पनम् ।
इत्येष वो मया प्रोक्तः प्राड्विवाकनिर्णयः
मूल पाठ: Nāṭyaśāstra 1-16, 18-30, 33, 35-37 · Data entry Padmakar Dadegaonkar Sowmya Krishnapur Haresh Bakshi · GRETIL (Göttingen) · CC BY-NC-SA 4.0