भाषा

ENहिગુ
ग्रंथ पाठ

नाट्यशास्त्र · अध्याय 23

23.1

बाह्यमप्युपचारं तु प्रवक्ष्याम्यथ वैशिके ।
इति भारतीये नाट्यशास्त्रे सामान्याभिनयो नामाध्यायो द्वाविंशः
अथ त्रयोविंशो ऽध्यायः
विशेषयेत्कलाः सर्वा यस्मात्तस्मात्तु वैशिकः ।
वेशोपचारे साधुर्वा वैशिकः परिकीर्तितः

23.2

यो हि सर्वकलोपेतः सर्वशिल्पविचक्षणः ।
स्त्रीचित्तग्रहणाभिज्ञो वैशिकः स भवेत्पुमान्

23.3

गुणस्तस्य तु विज्ञेयाः स्वशरीरसमुत्थिताः ।
आहार्याः सहजाश्चैव त्रयस्त्रिंशत्समासतः

23.4

शास्त्रविच्छिल्पसंपन्नो रूपवान् प्रियदर्शनः
विक्रान्तो धृतिमांश्चैव वयोवेषकुलान्वितः

23.5

सुरभिर्मधुरस्त्यागि सहिष्णुरविकत्थनः
अशङ्कितः प्रियाभाषी चतुरः शुभदः शुचिः

23.6

कामोपचारकुशलो दक्षिणो देशकालवित् ।
अदीनवाक्यः स्मितवान् वाग्मी दक्षः प्रियंवदः

23.7

स्त्रीलुब्धाः संविभागी च श्रद्धधानो दृढस्मृतिः ।
गम्यासु चाप्यविस्रम्भी मानी चेति हि वैशिकः

23.8

अनुयुक्तः शुचिर्दक्षो दक्षिणः प्रतिपत्तिमान् ।
भवेच्चित्राभिधायी च वयस्यस्तस्य तद्गुणः

23.9

विज्ञानगुणसंपना कथिनी लिङ्गिनी तथा ।
प्रातिवेश्या सखी दासी कुमारी कारुशिल्पिनी

23.10

धात्री पाषण्डिनी चैव तथा रङ्गोपजीविनी ।
प्रोत्साहने ऽथकुशला मधुरकथा दक्षिणाथकालज्ञा

23.11

लडहा संवृतमन्त्रा दूती त्वेभिर्गुणैः कार्या ।
तयाप्युत्साहनं कार्यं नानादर्शितकारणम्

23.12

यथोक्तकथनं चैव तथा भावप्रदर्शनम् ।
न जडं रूपसम्पन्नं नार्थवन्तं न चातुरम्

23.13

दूतं वाऽप्यथवा दूतीं बुधः कुर्यात्कदाचन ।
कुलभोगधनाधिक्यैः कृत्वाधिकविकत्थनम्

23.14

दूती निवेदयेत्काममर्थांश्चैवानुवर्णयेत् ।
न चाकामप्रवृत्तायाः कृद्धाया वापि सङ्गमः

23.15

नानुपायः प्रकर्तव्यो दूत्या हि पुरुषाश्रयः ।
उत्सवे रत्रिसञ्चार उद्द्याने मित्रवेश्मनि

23.16

धात्रिगृहेषु सख्या वा तथा चैव निमन्त्रणे ।
व्याधितव्यपदेशेन शुन्यागारनिवेशने

23.17

कार्यः समागमो नॄणां स्त्रीभिः प्रथमसङ्गमे ।
एवं समागमं कृत्वा सोपायं विधिपूर्वकम्

23.18

अनुरक्ता विरक्ता वा लिङ्गाकारैस्तु लक्षयेत् ।
स्वभावभावातिशयैर्नारी या मदनाश्रया

23.19

करोति निभृतां लीलां नित्यं सा मदनातुरा ।
सखीमध्ये गुणान् ब्रूते स्वधनं च प्रयच्छति

23.20

पूजयत्यस्य मित्राणि द्वेष्टि शत्रुजनं सदा ।
गमागमे सखीनां या हृष्टा भवति चाधिकम्

23.21

तुष्यत्यस्य कथाभिस्तु सस्नेहं च निरीक्षते ।
सुप्ते तु पश्चात् स्वपिति चुम्बिता प्रतिचुम्बति

23.22

उत्तिष्ठत्यपि पूर्वं च तथा क्लेशसहापि च ।
उत्सवे मुदिता या च व्यसने या च दुःखिता

23.23

एवंविधैर्गुणैर्युक्ता त्वनुरक्ता तु सा स्मृता ।
विरक्तायास्तु चिन्हानि चुम्बिता नाभिचुम्बति

मूल पाठ: Nāṭyaśāstra 1-16, 18-30, 33, 35-37 · Data entry Padmakar Dadegaonkar Sowmya Krishnapur Haresh Bakshi · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc