नाट्यशास्त्र · अध्याय 25
अत ऊर्ध्वं प्रवक्ष्यामि चित्राभिनयनं पुनः ।
इति भारतीये नाट्यशास्रे पुंस्त्र्युपचारो नामाध्यायश्चतुर्विंशः
पञ्चविंशो ऽध्यायः
अङ्गाभिनयस्यैव यो विशेषः क्वचित् क्वचित् ।
अनुक्त उच्यते चित्रः चित्राभिनयस्स्मृतः
उत्तानौ तु करौ कृत्वा स्वस्तिकौ पार्श्वसंस्थितौ ।
उद्वाहितेन शिरसा तथा चोर्ध्वनिरीक्षणात्
प्रभातं गगनं रात्रिः प्रदोषं दिवसं तथा ।
ऋतून् घनान् वनान्तांश्च विस्तीर्णांश्च जलाशयान्
दिशो ग्रहान् सनक्षत्रान् किञ्चित् स्वस्थं च यद्भवेत् ।
तस्य त्वभिनयः कार्यो नानादृष्टिसमन्वितः
एभिरेव करैर्भूयस्तेनैव शिरसा पुनः ।
अधो निरीक्षणेनाथ भूमिस्थान् संप्रदर्शयेत्
स्पर्शस्य ग्रहणेनैव तथोल्लुकसनेन च ।
चन्द्रज्योस्त्नां सुखं वायुं रसं गन्धं च निर्दिशेत्
वस्त्रावकुण्ठनात्सूर्यं रजोधूमानिलांस्तथा ।
भूमितापमथोष्णं च कुर्याच्छायाभिलाषतः
ऊर्ध्वाकेकरदृष्टिस्तु मध्याह्ने सूर्यमादिशेत् ।
उदयास्तगतं चैव विस्मयार्थैः प्रदर्शयेत्
यानि सौम्यार्थयुक्तानि सुस्वभावकृतानि च ।
गात्रस्पर्शैस्सरोमाञ्चैस्तेषामभिनयो भवेत्
यानि स्युस्तीक्ष्णरूपाणि तानि चाभिनयेत्सुधीः ।
असंस्पर्शैस्तथोद्वेगैस्तथा मुखविकुण्ठनैः
गम्भीरोदातसंयुक्तानर्थानभिनयेद्बुधः ।
साटोपैश्च सगर्वैश्च गात्रैः सौष्ठवसंयुतैः
यज्ञोपवीतदेशस्थमरालं हासमादिशेत् ।
स्वस्तिकौ विच्युतौ हारस्रग्दामार्थान् निदर्शयेत्
भ्रमणेन प्रदर्शिन्या दृष्टेः परिगमेन च ।
अलपद्मकपीडायाः सर्वार्थग्रहणं भवेत्
श्रव्यं श्रवणयोगेन दृश्यं दृष्टिविलोकनैः ।
आत्मस्थं परसंस्थं वा मध्यस्थं वा विनिर्दिशेत्
विद्युदुल्काघनरवाविष्फुलिंगार्चिषस्तथा ।
त्रस्तांगाक्षिनिमेषैश्च ते ऽभिनेयाः प्रयोक्तृभिः
उद्वेष्टितकरावृत्तौ करौ कृत्वा नतं शिरः ।
असंस्पर्शे तथानिष्टे जिह्मदृष्टेन कारयेत्
वायुमुष्णं तमस्तेजो मुखप्रच्छादनेन च ।
रेणुतोयपतंगांश्च भ्रमरांश्च निवारयेत्
कृत्वा स्वस्तिकसंस्थानौ पद्मकोशावधोमुखौ ।
सिअंहर्क्षवानरव्याघ्रश्वापदांश्च निरूपयेत्
स्वस्तिकौ त्रिपताकौ तु गुरूणां पादवन्दने ।
खटकस्वस्थिकौ चापि प्रतोदग्रहणे स्मृतौ
एकं द्वि त्रीणि चत्वारि पञ्च षट् सप्त चाष्टधा ।
नव वा दश वापि स्युर्गणनांगुलिभिर्भवेत्
दशाख्याश्च शताख्याश्च सहस्राख्यास्तथैव च ।
पताकाभ्यां तु हस्ताभ्यां प्रयोज्यास्ताः प्रयोक्तृभिः
दशाख्यगणनायास्तु परतो या भवेदिह ।
वाक्यार्थेनैव साध्यासौ परोक्षाभिनयेन च
छत्रध्वजपताकाश्च निर्देश्या दण्डधारणात् ।
नानाप्रहरणं चाथ निर्देश्यं धारणाश्रयम्
एकचित्तो ह्यधोदृष्टिः किञ्चिन्नतशिरास्तथा ।
सव्यहस्तश्च संदंशः स्मृते ध्याने वितर्किते
उद्वाहितं शिरः कृत्वा हंसपक्षौ प्रदक्षिणौ ।
अपत्यरूपणे कार्यावुछ्रयौ च प्रयोक्तृभिः
उद्वाहितं शिरः कृत्वा हंसवक्त्रं तथोर्ध्वगम् ।
प्रसादयच्च यं मानं दीर्घसत्वं च निर्दिशेत्
अरालं च शिरस्थाने समुद्वाह्य तु वामकम् ।
गते निर्वृत्ते ध्वस्ते च श्रान्तवाक्ये च योजयेत्
सर्वेन्द्रियस्वस्थतया प्रसन्नवदनस्तथा ।
विचित्रभूतलालोकैः शरदन्तु विनिर्दिशेत्
गात्रसंकोचनाच्चापि सूर्याग्निपटुसेवनात् ।
हेमन्तस्त्वभिनेतव्यः पुरुषैर्मध्यमाधमैः
शिरोदन्तोष्ठकम्पेन गात्रसंकोचनेन च ।
कूजितैश्च सशीत्कारैरधमश्शीतमादिशेत्
अवस्थान्तरमासाद्य कदाचित्तूत्तमरैरपि ।
शीताभिनयनं कूर्याद्देवाद्व्यसनसंभवम्
ऋतुजानां तु पुष्पाणां गन्धघ्राणैस्तथैव च ।
रूक्षस्य वायोः स्पर्शाच्च शिशिरं रूपयेद्बुधः
प्रमोदजननारंभैरुपभोगैः पृथग्विधिः ।
वसन्तस्त्वभिनेतव्यो नानापुष्पप्रदर्शनात्
स्वेद प्रमार्जनैश्चैव भूमितापैः सवीजनैः ।
उष्णस्य वायोः स्पर्शेन ग्रीष्मं त्वभिनयेद्बुधः
कदम्बनीपकुटपैः शाद्वलैः सेन्द्रगोपकैः ।
मेघवातैः सुखस्पर्शैः प्रावृट्कालं प्रदर्शयेत्
मेघौघनादैर्गम्भीरैर्धाराप्रपतनैस्तदा ।
विद्युन्निर्घातघोषैश्च वर्षारात्रं समादिशेत्
यद्यस्य चिह्नं वेषो वा कर्म वा रूपमेव वा ।
निर्देश्यः स ऋतुस्तेन इष्टानिष्टार्थदर्शनात्
एतानृतूनर्थवशाद्दर्शयेद्धि रसानुगान् ।
सुखिनस्तु सुखोपेतान् सुःखार्थान् दुःखसंयुतान्
यो येन भावेनाविष्टः सुखदेनेतरेअन वा ।
स तदाहितसंकारः सर्वं पश्यति तन्मयम्
भावाभिनयनं कुर्याद्विभावानां निदर्शनैः ।
तथैव चानुभावानां भावसिद्धिः प्रवर्तिता
विभावेनाहृतं कार्यमनुभावेन नीयते ।
आत्मानुभवनं भावो विभावः परदर्शनम्
गुरुर्मित्रं सखा स्निग्धः संबन्धी बन्धुरेव वा ।
आवेद्यते हि यः प्राप्तः स विभाव इति स्मृतः
यत्त्वस्य संभ्रमोत्थानैरर्घ्यपाद्यासनादिभिः ।
पूजनं क्रियते भक्त्या सो ऽनुभावः प्रकीर्तितः
एवमन्येष्वपि ज्ञेयो नानाकार्यप्रदर्शनात् ।
विभावो वापि भावो वा विज्ञेयो ऽर्थवशाद्बुधैः
यस्त्वपि प्रतिसंदेशो दूतस्येह प्रदीयते ।
सो ऽनुभाव इति ज्ञेयः प्रतिसन्देशदर्शितः
एवं भावो विभावो वाप्यनुभावश्च कीर्तितः ।
पुरुषैरभिनेयः स्यात्प्रमदाभिरथापि वा
स्वभावाभिनये स्थानं पुंसां कार्यं तु वैष्णवम् ।
आयतं वावहित्थं वा स्त्रीणां कार्यं स्वभावतः
प्रयोजनवशाच्चैव शेषाण्यपि भवन्ति हि ।
नानाभवाभिनयनैः प्रयोगैश्च पृथग्विधैः
धैर्यलीलाङ्गसंपन्नं पुरुषाणां विचेष्टितम् ।
मृदुलीलाङ्गहारैश्च स्त्रीणां कार्यं तु चेष्टितम्
करपादाङ्गसञ्चारास्स्त्रीणां तु ललिताः स्मृताः ।
सुधीरश्चोद्धतश्चैव पुरुषाणां प्रयोक्तृभिः
यथा रसं यथा भावं स्त्रीणां भावप्रदर्शनम् ।
नराणां प्रमदानां च भावाभिनयनं पृथक्
भावानुभावनं युक्तं व्याख्यास्याम्यनुपूर्वशः ।
आलिङ्गनेन गात्राणां सस्मितेन च चक्षुषा
तथोल्लुकसानच्चापि हर्षं संदर्शयेन्नरः ।
क्षिप्रस!न्जातरोमाञ्चात् बाष्पेणावृतलोचना
कुर्वीत नर्तकी हर्षं प्रीत्या वाक्यैश्च सस्मितैः ।
उद्वृत्तरक्तनेत्रश्च सन्दष्टाधर एव च
निश्वासकंपितांगश्च क्रोधं चाभिनयेन्नरः ।
नेत्राभ्यां बाष्पपूर्णाभ्यां चिबुकौष्ठप्रकंपनात्
शिरसः कंपनाच्चैव भ्रुकुटीकरणेन च ।
मौनेनाङ्गुलिभङ्गेन माल्याभरणवर्जनात्
आयतकस्थानकक्षाया ईर्ष्या क्रोधे भवेत्स्त्रियाः ।
निश्वासोच्छ्वासबहुलैरधोमुखविचिन्तनैः
आकाशवचनाच्चापि दुःखं पुंसां तु योजयेत् ।
रुदितैः श्वसितैश्चैव शिरोभिहननेन च
भूमिपाताभिघातैश्च दुःखं स्त्रीषु प्रयोजयेत् ।
आनन्दजं चार्तिजं वा ईर्ष्यासंभूतमेव वा
यत्पूर्वमुक्तं रुदितं तत्स्त्रीनीचेषु योजयेत् ।
संभ्रमावेगचेष्टाभिश्शस्त्रसंपातनेन च
पुरुषाणां भयं कार्यं धैर्यावेगबलादिभिः ।
चलतारकनेत्रत्वाद्गात्रैः स्फुरितकम्पितैः
सन्त्रस्तहृदयत्वाच्च पार्श्वाभ्यामवलोकनैः ।
भर्तृरन्वेषणाच्चैवमुच्चैराक्रन्दनादपि
प्रियस्यालिंगनाच्चैव भयं कार्यं भवेत्स्त्रियाः ।
मदा ये ऽभिहिताः पूर्वं ते स्त्रीनीचेषु योजयेत्
मृदुभिः स्खलितैर्नित्यमाकाशस्यावलंबनात् ।
नेत्रावघूर्णनैश्चैव सालस्यैः कथितैस्तथा
गात्राणां कंपनैश्चैव मदः कार्यो भवेत्स्त्रियाः ।
अनेन विधिना कार्यः प्रयोगाः कारणोत्थिताः
पौरुषः स्त्रीकृतो वापि भावा ह्यभिनयं प्रति ।
सर्वे सललिता भावास्स्त्रीभिः कार्याः प्रयत्नतः
धैर्यमाधुर्यसंपन्ना भावाः कार्यास्तु पौरुषाः ।
त्रिपताकाङ्गुलीभ्यां तु वलिताभ्यां प्रयोजयेत्
शुकाश्च सारिकाश्चैव सूक्ष्मा ये चापि पक्षिणः ।
शिखिसारसहंसाद्याः स्थूला ये ऽपि स्वभावतः
रेचकैरङ्गहारैश्च तेषामभिनयो भवेत् ।
खरोष्ट्राश्वतरासिंहव्याघ्रगोमहिषादय
गतिप्रचरैरङ्गैश्च ते ऽभिनेयाः प्रयोक्तृभिः ।
भूताः पिशाचा यक्षाश्च दानवाः सहराक्षसैः
अङ्गहारैरविनिर्देश्या नामसंकीर्तनादपि ।
अङ्गहारैर्विनिर्देश्या अप्रत्यक्षा भवन्ति ये
प्रत्यक्षास्त्वभिनेतव्या भयोद्वेगैः सविस्मयैः ।
देवाश्च चिह्नैश्च प्रणामकरणैर्भावैश्च विचेष्टितैः
अभिनेयो ह्यर्थवशादप्रत्यक्षाः प्रयोगज्ञैः ।
सव्योत्थितेन हस्तेन ह्यरालेन शिरः स्पृशेत्
नरे ऽह्यभिवादनं ह्येतदप्रत्यक्षे विधीयते ।
खटकावर्धमानेन कपोताख्येन वा पुनः
दैवतानि गुरूंश्चैव प्रमदाश्चाभिवादयेत् ।
दिवौकसश्च ये पूज्याः प्रत्यक्षाश्च भवन्ति ये
तान् प्रमाणैः प्रभावैश्च गंभीरार्थैश्च योजयेत् ।
महाजनं सखीवर्गं विटधूर्तजनं तथा
परिमण्डलसंस्थेन हस्तेनाभिनयेनन्नरः ।
पर्वतान् प्रांशुयोगेन वृक्षांश्चैव समुच्छ्रितान्
प्रसारिताभ्यां बाहुभ्यामुत्क्षिप्ताभ्यां प्रयोजयेत् ।
समूहसागरं सेना बहुविस्तीर्णमेव च
पताकाभ्यां तु हस्ताभ्यामुत्क्षिप्ताभ्यां प्रदर्शयेत् ।
शौर्यं धैर्यं च गर्वं च दर्पमौदार्यमुच्छ्रयम्
ललाटदेशस्थानेन त्वरालेनाभिदर्शयेत् ।
वक्षोदेशादपाविद्धौ करौ तु मृगशीर्षकौ
विस्तीर्णप्रद्रुतोत्क्षेपौ योज्यौ यस्यादपावृतम् ।
अधोमुखोत्तानतलौ हस्तौ किञ्चित्प्रसारितौ
कृत्वा त्वभिनयेद्वेलां बिलद्वारं गृहं गुहान् ।
कामं शापग्रहग्रस्तान् ज्वरोपहतचेतसः
एतेषां चेष्टितं कुर्यादङ्गाद्यैः सदृशैर्बुधैः ।
दोलाभिनयनं कुर्याद्दोलायास्तु विलोकनैः
संभोक्षेण च गात्राणां रज्वश्वाग्रहणेन च ।
यदा चाङ्गवती डोला प्रत्यक्षा पुस्तजा भवेत्
आसनेषु प्रविष्टानां कर्तव्यं तत्र डोलनम् ।
आकाशवचनानीह वक्ष्याम्यात्मगतानि च
अपवारितकं चैव जनान्तिकमथापि च ।
दूरस्थाभाषणं यत्स्यादशरीरनिवेदनम्
परोक्षान्तरितं वाक्यमाकाशवचनं तु तत् ।
तत्रोत्तरकृतैर्वाक्यैः संलापं संप्रयोजयेत्
नानाकारणसंयुक्तैः काव्यभावसमुत्थितैः ।
हृदयस्य वचो यत्तू तदात्मगतमीष्यते
सवितर्कं च तद्योज्यं प्रायशो नाटकादिषु ।
निगूढभावसंयुक्तमपवारितकं स्मृतम्
कार्यवशादश्रवणं पार्श्वगतैर्यज्जनान्तिकं तत्स्यात् ।
हृदयस्थं सविकल्पं भावस्थं चात्मगतमेव
इति गूढार्थयुक्तानि वचनानीह नाटके ।
जनान्तिकानि कर्णे तु तानि योज्यानि योक्तृभिः
पूर्ववृत्तं तु यत्कार्यं भूयः कथ्यं तु कारणात् ।
कर्णप्रदेशे तद्वाच्यं मागात्तत्पुनरुक्तताम्
अव्यभिचारेण पठेदाकाशजनान्तिकात्मगतपाठ्यम् ।
प्रत्यक्षपरोक्षकृतानामात्मसमुत्थान् परकृतांश्च
हस्तमन्तरितं कृत्वा त्रिपताकं प्रयोक्तृभिः ।
जनान्तिकं प्रयोक्तव्यमपवारितकं तथा
स्वप्नायितवाक्यार्थैस्त्वभिनेयो न खलु हस्तसंचारैः ।
सुप्ताभिहितैरेव तु वाक्यार्थैः सो ऽभिनेयः स्यात्
मन्दस्वरसञ्चारैर्व्यक्ताव्यक्तं पुनरुक्तवचनार्थम् ।
पूर्वानुस्मरणकृतं कार्यं स्वप्नाञ्चिते पाठ्यम्
प्रशिथिलगुरुकरुणाक्षरघण्टानुस्वरितवाक्यगद्गदजैः ।
हिक्काश्वसोपेतां काकुं कुर्यान्मरणकाले
हिक्काश्वासोपेतां मूर्च्छोपगमे मरणवत्कथयेत् ।
अतिमत्तेष्वपि कार्यं तद्वत्स्वप्नायिते यथा पाठ्यम्
वृद्धानां योजयेत्पाठ्यं गद्गदस्खलिताक्षरम् ।
असमाप्ताक्षरं चैव बालानां तु कलस्वनम्
नानाभावोपगतं मरणाभिनये बहुकीर्तितं तु ।
विक्षिप्तहस्तपादैर्निभृतैः सन्नैस्तथा कार्यम्
व्याधिप्लुते च मरणं निषण्णगात्रैस्तु संप्रयोक्तव्यम् ।
हिक्काश्वासोपेतं तथा पराधीनगात्रसंचारम्
विषपीते ऽपि च मरणं कार्यं विक्षिप्तगात्रकरचरणम् ।
विषवेगसंप्रयुक्तं विस्फुरितांगक्रियोपेतम्
प्रथेमे वेगे कार्श्यं त्वभिनेये वेपथुर्द्वितीये तु ।
दाहस्तथा तृतीये विलल्लिका स्याच्चतुर्थे तु
फेनस्तु पञ्चमस्थे तु ग्रीवा षष्ठे तु भज्यते ।
जडता सप्तमे तु स्यान्मरणं त्वष्टमे भवेत्
तत्र प्रथमवेगे तु क्षामवक्रकपोलता ।
कृशत्वे ऽभिनयः कार्यो वाक्यानामल्पभाषणम्
सर्वाङ्गवेपथुं च कण्डूयनं तथाङ्गानाम् ।
विक्षिप्तहस्तगात्रं दाहं चैवाप्यभिनयेत्तु
उद्वृत्तनिमेषत्वादुद्गारच्छर्दनैस्तथाक्षेपैः ।
अव्यक्ताक्षरकथनैः विलल्लिकामभिनयेदेवम्
उद्गारवमनयोगैः शिरसश्च विलोलनैरनेकविधैः ।
फेनस्त्वभिनेतव्यो निःसंज्ञतया निमेषैश्च
अंसकपोलस्पर्शः शिरसो ऽथ विनामनं शिरो ऽपाङ्गः ।
सर्वेन्द्रिअयसंमोहाज्जडतामेवं त्वभिनयेत्तु
संमीलितनेत्रत्वात् व्याधिविवृद्धौ भुजङ्गदशनाद्वा ।
एवं हि नाट्यधर्मे मरणानि बुधैः प्रयोज्यानि
संभ्रमेष्वथ रोषेषु शोकावेशकृतेषु च ।
यानि वाक्यानि युज्यन्ते पुनरुक्तं न तेष्विह
साध्वहो मां च हेहेति किं त्वं मामावदेति च ।
एवंविधानि कार्याणि द्वित्रिसंख्यानि कारयेत्
प्रत्यङ्गहीनं यत्काव्यं विकृतं च प्रयुज्यते ।
न लक्षणकृतस्तत्र कार्यस्त्वभिनयो बुधैः
भावो यत्रोत्तमानां तु न तं मध्येषु योजयेत् ।
यो भावश्चैव मध्यानां न ते नीचेषु योजयेत्
पृथक् पृथग्भावरसैरात्मचेष्टासमुत्थितैः ।
ज्येष्ठमध्यमनीचेषु नाट्यं रागं हि गच्छति
एते ऽभिनयविशेषाः कर्तव्याः सत्त्वभावसंयुक्ताः ।
अन्ये तु लौकिका ये तु ते सर्वे लोकवत्कार्याः
नानाविधैर्यथा पुष्पैर्मालां ग्रथ्नाति माल्यकृत् ।
अंगोपांगै रसैर्भावैस्तथा नाट्यं प्रयोजयेत्
या यस्य लीला नियता गतिश्च रङ्गप्रविष्टस्य निधानयुक्तः ।
तामेव कुर्यादविमुक्तसत्त्वो यावन्नरङ्गात्प्रतिनिर्वृतः स्यात्
एवमेते मया प्रोक्ता नाट्ये चाभिनयाः क्रमात् ।
अन्ये तु लौकिका ये ते लोकाद्ग्राह्याः सदा बुधैः
लोको वेदस्तथाध्यात्मं प्रमाणं त्रिविधं स्मृतम् ।
वेदाध्यात्मपदार्थेषु प्रायो नाट्यं प्रतिष्ठितम्
वेदाध्यात्मोपपन्नं तु शब्दच्छन्दस्समन्वितम् ।
लोकसिद्धं भवेत्सिद्धं नाट्यं लोकात्मकं तथा
न च शक्यं हि लोकस्य स्थावरस्य चरस्य च ।
शास्त्रेण निर्णयं कर्तुं भावचेष्टाविधिं प्रति
नानाशीलाः प्रकृतयः शीले नाट्यं प्रतिष्ठिअतम् ।
तस्माल्लोकप्रमाणं हि विज्ञेयं नाट्ययोक्तृभिः
एतान् विधींश्चाभिनयस्य सम्यग्विज्ञाय रङ्गे मनुजः प्रयुङ्क्ते ।
स नाट्यतत्त्वाभिनयप्रयोक्ता संमानमग्र्यं लभते हि लोके
एवमेते ह्यभिनया वाङ्नेपथ्याङ्गसंभवाः ।
प्रयोगज्ञेन कर्तव्या नाटके सिद्धिमिच्छता
मूल पाठ: Nāṭyaśāstra 1-16, 18-30, 33, 35-37 · Data entry Padmakar Dadegaonkar Sowmya Krishnapur Haresh Bakshi · GRETIL (Göttingen) · CC BY-NC-SA 4.0