भाषा

ENहिગુ
ग्रंथ पाठ

नाटकचन्द्रिका · श्लोक 87-107

87

यथा तत्रैव पञ्चमे -
भीष्मः (सानन्दम्) -
[*नोते: भीष्मकः (सादरम्)]
अविदितस् तनयाम् अनयान् नयन्न्
उपकृतिं कृतवान् मम जाम्बवान् ।
मुनि-मनः-प्रणिधेय-पदाम्बुजस्
त्वम् असि येन वरो दुहितुर् वरः ॥ (5.37)
अत्र सामनिमित्तकन्यासम् अर्पणादिना सङ्ग्रहः ।
अथानुमानम् -
लिङ्गाद् ऊहोऽनुमानता...
यथा तत्रैव षष्ठे -
चन्द्रावली (संस्कृतेन) -
साधर्म्यं मधुरिपु-विप्रयोग-भाजां
तन्वङ्गी मुहुर् इयम् अङ्गकैस् तनोति ।
आकृत्या श्रियम् अपि माधवीं किम् एनां
दैन्येऽपि प्रथयितुम् आर्तयः क्षमन्ते ॥ (6.23)
अत्र दैन्येऽपि माधुरी-दर्शनेन लिङ्गेन
कृष्ण-विप्रयोग-भाक्त्वस्याभ्यूहोऽनुमानम् ।
अथ तोटकम् -
... वचः संरम्भि तोटकम्

88

यथा तत्रैव षष्ठे -
नारदः --
मणीन्द्रं पारीन्द्र-प्रवरम् अहरन् निघ्न-तनयं
विनिघ्नन्ते तं च प्रबलम् अथ भल्लूक-नृपतिः ।
पराभूय स्वैरी तम् अपि मुर-वैरी तव धनं
तद्-आहर्ता पाप त्वम् असि पतितस् ताप-जलधौ ॥ (6.15)
अत्र संरम्भेन तोटकं प्रकटम् एव ।
अथाधिबलम् -
बुधैर् अधिबलं प्रोक्तं कपटेनाधिवञ्चनम्

89

यथा तत्रैव पञ्चमे -
श्री-कृष्णः -
पर्यशीलि पशुबाल-घटायां
केलि-रङ्ग-घटनाय मया यः ।
सुष्ठु सोऽयम् अकओर्त् पर-दुर्गे
वैशयन् सचिवतां नट-वेषः ॥ (5.27)
अत्र नट-वेष-कपटेन पर-वञ्चनम् अधिबलम् ।
अथोद्वेगः -
शत्रु-वैरादि-सम्भूतं भयम् उद्वेग उच्यते

90

यथा तत्रैव षष्ठे -
चन्द्रावली (जनान्तिकम्) सहि माहवि ! पेक्ख । एसो अज्ज-उत्तस्स सच्च-संकप्पिदा
सेइबिमद्दणो सच्चभामाए सोन्देर-पूरो धीरं बि मं आन्दोलेदि । [सखि माधवि,
पश्य । एष आर्यपुत्रस्य सत्य-सङ्कल्पिता सेतु-विमर्दनः सत्यभामायाः
सौन्दर्य-पूरो धीराम् अपि माम् आन्दोलयति ।]
अत्राविर्भूत-सपत्नी-दर्शनाच् चन्द्रावल्या उद्वेगः ।
अथ सम्भ्रमः -
शत्रु-व्याघ्रादि-सम्भूता शङ्का स्याद् इह सम्भ्रमः

91

यथा तत्रैव पञ्चमे -
(नेपथ्ये)
सप्तिः सप्ती रथ इह रथः कुञ्जरो मे
तूणस् तूणो धनुर् उत धनुर् भोः कृपाणी कृपाणी ।
का भीः का भीर् अयम् अयम् अहं हा त्वरध्वं त्वरध्वं
राज्ञः पुत्री बत हृत-हृता कामिना वल्लवेन ॥(5.30)
अत्र स्पष्ट एव सम्भ्रमः ।
अथाक्षेपः -
गर्भ-बीज-समुत्क्षेपम् आक्षेपं परिचक्षते

92

यथा तत्रैव षष्ठे -
कृष्णः (सवैक्लव्यम्) -
निखिल-सुहृदाम् अर्थारम्भे विलम्बित-चेतसा
मसृणित-शिखो यः प्राप्तोद्भूद् मनाग् इव मार्दवम् ।
स खलु ललितासान्द्रस्रेहप्रसङ्ग-घनीभवन्
पुनर् अपि बलाद् इन्धे राधा-वियोग-मयः शिखी ॥ (6.43)
अस्य सुहृदर्थ-सम्पादने गर्भितस्य पुनः ललिता-दर्शनेनोत्क्षेपाद् आक्षेपः ।
अथ विमर्श-सन्धिः -
यत्र प्रलोभन-क्रोधय्-व्यसनाद्यैर् विमृश्यते ।
बीजवान् गर्भ-निर्भिन्नः स विमर्श इतीर्यते

93

प्रकरी-नियताप्तानुगुण्याद् अत्राङ्ग-कल्पनम् ।
बकुला-नव-वृन्दादि-प्रलोभन-वशाद् यथा

94

देवी शङ्कादितश् चात्र प्रेम-बीज-विमर्शनम् ।
राधा-माधवयोः प्रोक्तं स्फुटं ललित-माधवे

95

अववादोऽयं सम्फेटो विद्रव-द्रव-शक्तयः ।
द्युति-प्रसङ्गश् छलनं व्यवसायो विरोधनम् ।
प्ररोचना विवलनम् आदानं स्युस् त्रयोदश

96

अथाववादः -
दोष-प्रख्याववादः स्यात्...
यथा तत्रैव सप्तमे -
राधिका - (सव्यथम्)
चिराद् अद्य स्वप्ने मम विविध-यत्नाद् उपगते
प्रपेदे गोविन्दः सखि नयनयोर् अक्षणभुवम् ।
गृहीत्वा हा हन्त त्वरितम् अथ तस्मिन्न् अपि रथं
कथं प्रत्यासन्नः स खलु पुरुषो राज-पुरुषः ॥ (7.22)
अत्रातुरस्य क्रौर्य-कीर्तनाद् अववादः ।
अथ सम्फेटः -
सम्फेटो रोष-भाषणम् ।
यथा तत्रैव -
राधिका (संस्कृतेन)
शास्तु द्वारवती-पतिंस् त्रिजगतीं सौन्दर्य-पर्याचितः
किं नस् तेन विरम्यतां कथम् असौ शोकाग्निर् उज्ज्वाल्यते ।
युष्माभिः स्फुटयुक्ति-कोटि-गरिम-व्याहारिणीभिर् बलाद्
आकर्ष्टुं व्रज-राज-नन्दन-पदाम्भोजान् न शक्या वयम् ॥ 7.2 ॥
अत्र बकुलां प्रति गूढ-दोषोक्त्या सम्फेटः ।
अथ विद्रवः -
विद्रवो वध-बन्धादिः...
यथा तत्रैवाष्टमे -
कृष्णः - प्रिये, युष्माकम् अद्भुतम् आकर्ण्यतां साम्प्रतम् अहं
सूर-सौगन्धिकम् आहरिष्यन् पाण्डवेन सह खाण्डवाडवीं प्राविशम् । तत्र
मृगान् आहण्डिनो गाण्डीविनः श्येनाभ्यां निगृहीतयोः पक्षिणोर् एकः प्राहेत्य् आदि ।
अत्र पक्षि-निग्रहादिना विद्रवः ।
अथ द्रवः -
...द्रवो गुरु-तिरिस्क्रिया

97

यथा तत्रैव -
माधवी - भट्टो-दारिए कासारे पसारिदणि अब्बदं वगीं समरिअ हसामि ।
[भर्तृ-दारिके कासारे प्रसारित-निज-व्रतां बकीं स्मृत्वा हसामि ।]
अत्र स्वामिन्या राधाया उपहासेन द्रवः ।
अथ शक्तिः -
विरोध-शमनं शक्तिः...
यथा तत्रैव
नव-वृन्दा (लतान्तरे स्थित्वा) हन्त कथम् अङ्गीकृत-राधा-प्रसाधना देवीयम्
उपलब्धा । तद् एष माधवो यावद् एनां राधिकां प्रतीत्य न प्रमादम्
आदधाति तावद् अहं पद्यम् एकं हारीतेन हारयामीति ।
अत्र राधात्वेन चन्द्रावली-ज्ञानाद् उत्पन्नस्य विरोधस्य शमनात् शक्तिः ।
अथ द्युतिः -
...तर्जनोद्वेजने द्युतिः

98

यथा तत्रैव -
राधा (सभयम्) हन्त, चंचल चंचरीअ चिट्ठ चिट्ठ । एसा लीला-कमलेण
ताडेमि तुमं धिठ्ठं । [चञ्चल चञ्चरीक तिष्ठ तिष्ठ । एषा लीला-कमलेन
ताडयामि त्वां धृष्टम् ।]
इत्य् अत्र भ्रमराद्य्-उद्वेगेन भ्रमरं प्रति तर्जनेन च द्युतिः ।
अथ प्रसङ्गः -
प्रस्तुतार्थस्य शमनं प्रसङ्गः परिकीर्तितः ।
प्रसङ्गं कथयन्त्य् अन्ये गुरूणां परिकीर्तनम्

99

तत्राद्यं, यथा तत्रैवाष्टमे -
चर्चां सिञ्चति शोषयत्य् अपि मिथो विस्पर्धते वासकृत्
नेत्र-द्वन्द्वम् उरश् च यद्-विरहतो बाष्पायमाणं मम ।
हन्त स्वप्न-शतेऽपि दुर्लभतर-प्रेक्ष्योत्सवा प्रेयसी
प्राप्योत्सङ्गम् अतर्कितं मम कथं सा राधिका वर्तते ॥ 8.3 ॥
अत्र प्रस्तुतस्य विरह-दुःखस्य शमात् प्रसङ्गः ।
द्वितीयं यथा सप्तमे -
राधा (संस्कृतेन) -
खेलन्-मञ्जुल-वेणु-मण्डित-मुखी साचि-भ्रमंल् लोचना
मुग्धे मूर्ध्नि शिखण्डिनी धृत-वपुर् भङ्गी-त्रयाङ्गी-कृतिः ।
कैशोरे कृत-सङ्गतिः सुरमुनेर् आराध्यते शासनाद्
अस्माभिः पितुर् आलये जलधर-श्याम-च्छविर् देवता ॥ 7.24 ॥
अत्रेष्ट-देव-नारदयोः पितुश् च कीर्तनाद् गुरु-कीर्तनम् ।
अथ छलनम् -
अपमानादि-करणं छलनं परिकीर्तितम्

100

यथाष्टमे -
कृष्णः - हन्त कलि-कण्डूल-तुण्ड-मात्र-सर्वस्वे तमोमयि माधविके!
विरम्यताम् । द्वयोः परं जेतुम् अशक्येयं चन्द्रावली ।
अत्र माधवी-भर्त्सनापमानाच् छलनम् ।
अथ व्यवसायः -
व्यवसायस् तु सामर्थ्यस्याख्यापनम् उदीर्यते

101

यथा सप्तमे -
राधिका (सन्निवृत्य सलज्जं संस्कृतेन) -
कंसारेर् अवलोक-मङ्गल-विनाभावाद् अधन्येधुना
बिभ्राणा हत-जीविते प्रणयितां नाहं सखि प्राणिमि ।
क्रूरेयं न विरोधिनी यदि भवेद् आशामयी शृङ्खला
प्राणानां ध्रुवम् अर्बुदान्य् अपि तस्य त्यक्तुं सुखेनोत्सहे ॥ 7.13 ॥
अत्र प्राणार्बुद-त्यागार्थ-सामान्य-कथनाद् व्यवसायः ।
कश्चित् तु, व्यवसायस् तु विज्ञेयः प्रतिज्ञा-हेतु-सम्भवः ॥ इत्य् आह (साह्द् 6.103) ।
यथा तत्रैव सप्तमे -
यस्योत्तंसः स्फुरति चिकुरे केकि-पत्र-प्रणीतो
हारः कण्ठे विलुठति कृतः स्थूल-गुञ्जावलीभिः ।
वेणुर् वक्त्रे रचयति रुचिं हन्त चेतस् ततो मे
रूपं विश्वोत्तरम् अपि हरेर् नान्यद् अङ्गीकरोति ॥ (7.6)
अथ विरोधनम् -
विरोधनं विरोधोक्तिः संरब्धानां परस्परम्

102

यथाष्टमे -
चन्द्रावली (सोल्लुण्ठ-स्मितम्) ऐ लोलुहे आलि, कीस मं अनापेक्खिअ तं
णिअमहाब्बदं तुए सुट्ठु पडिट्ठिदम् । [अयि लोलुपे आलि, कस्मान् माम् अनापृच्छ्य
तन् निज-महा-व्रतं त्वया सुष्ठु प्रतिष्ठितम् ।]
राधिका - देइ, सरण्णस्स जणस्स संरक्खणे अक्खमासि तहबि परिहसेसि । णूणं
ईसरीणां क्खु जुत्तं एदं । [देवि, शरण्यस्य जनस्य संरक्षणे अक्षमासि तथापि
परिहससि । नूनं ईश्वरीणां खलु युक्तम् एतत् ।]
अत्र निगूढ-संरम्भयोश् चन्द्रावलीराधयोः विरोधोक्त्या विरोधनम् ।
अथ प्ररोचना -
सिद्धवद् भाविनोऽर्थस्य सूचनात् स्यात् प्ररोचना

103

यथा तत्रैव सप्तमे -
नव-वृन्दा -
अलं विलापैः समय-क्रमस्य
दुरूह-रूपा गतयो भवनित् ।
शरन्-मुखे पश्य सरस्-तटीषु
खेलन्त्य् अकस्मात् खलु खञ्जरीटाः ॥ 7.5 ॥
इत्य् अत्र कञ्जरीट-दृष्टान्तेन भावि-कृष्ण-सङ्गमस्य सूचनात् प्ररोचना ।
यद् वा तत्रैव -
राधा (संस्कृतेन) -
अजनि सफलः सौख्यं भूयान् कलेवर-धारणे
सहचरि परिक्लेशो योऽभून् मया किल सेवितः ।
अहह यद् इमाः श्याम-श्यामा पुरो मम वल्लवी-
कुल-कुमुदिनी-बन्धोस् तास् ताः स्फुरन्ति मरीचयः ॥ 7.27 ॥
अत्र प्रतिमा-सन्दर्शनानन्देन भावि-कृष्ण-सङ्गमनस्य सिद्धवत् सूचनात्
प्ररोचना ।
अथ विवलनम् -
आत्म-श्लाघा विवलनम् ।
यथा तत्रैवाष्टमे -
कृष्णः (सविस्मयम्) कोऽयं माधुर्येण ममापि मनो हरन् मणि-कुड्यम्
अवष्टम्ब्य पुरो विराजते । (पुनर् निभाल्य) हन्त कथम् अत्राहम् एव
प्रतिबिम्बितोऽस्मि । (इति सौत्सुक्यम्)
अपरिकलित-पूर्वः कश् चमत्कार-कारी
स्फुरति मम गरीयान् एष माधुर्य-पूरः ।
अयम् अहम् अपि हन्त प्रेक्ष्य यं लुब्ध-चेताः
सरभसम् उपभोक्तुं कामये राधिकेव ॥8.34।
अत्र विस्मयेन निज-रूप-श्लाघनं विवलनम् ।
अथादानं -
आदानं कार्य-सङ्ग्रहः

104

यथा तत्रैवाष्टमे -
नववृन्दा (राधाम् अवेक्ष्य) हन्त हन्त!
आलोके कमलेषणस्य सजलासारे दृशौ न क्षमे
नाश्लेषे किल शक्तिभाग् अतिपृथु-स्तम्भा भुजा-वल्लरी ।
वाणी गद्गद-कुण्ठितोत्तर-विधौ नालं चिरोपस्थिते
वृत्तिः कापि बभूव सङ्गमनये विघ्नः कुरङ्गी-दृशः ॥ 8.11 ॥
अत्र कृष्ण-दर्शनादि-रूप-कार्य-सङ्ग्रहाद् आदानम् ।
कश्चित् तु विद्रव-विवलन-छलनाद्य् अत्र न पठित्वा खेद-प्रतिषेध-छादनानि
पठन्ति लक्षयन्ति च ।
तत्र खेदः -
मनश्-चेष्टा-समुत्पन्नः श्रमः खेद इतीर्यते

105

यथा तत्रैव सप्तमे -
राधिका (संस्कृतेन) -
ममायासीद् दूरे दिग् अपि हरि-सङ्ग-प्रणयिनी
प्रपेदे खेदेन त्रुटिर् अपि महा-कल्प-पदवीम् ।
दहत्य् आशा-सर्पिर् विरचित-पद-प्राण-दहनो
बलान् मां दुर्लीलः कम् इव करवै हन्त शरणम् ॥ 7.1 ॥
अथ प्रतिषेधः -
ईप्सितार्थ-प्रतीघातः प्रतिषेध इतीर्यते

107

यथा तत्रैव -
राधा (समीक्ष्य सखेदम् आत्मगतम्) - कहं इंदीअरेण रहंगीए
संगमिट्ठं अहिणंदिदे मच्छरा कलहंसी मिलिदा । [कथं इन्दीवरेण
रहङ्ग्या सङ्गमितुं अभिनन्दिते मत्सरा कलहंसी मिलिता ।
अत्र देव्यागमनात् कृष्ण-सङ्ग-प्रतीघातः ।
अथ छादनम् -
कार्यार्थम् अपमानादेः सहनं छादनं मतम् ।
यथा सप्तमे नव-वृन्दा (प्रविश्य) सखि, मा विषादं कृथाः पश्य -
पादे निपत्य बदरीम् अवलम्बमाना
कान्तं रसालम् अनुविन्दति माधवीयम् ।
प्राणेश-सङ्गम-विधौ विनिविष्ट-चित्ता
नो पारवश्यकदनं मनुते हि साध्वी ॥ (7.3)
स्पष्टम् एव छादनम् ।
अथ निर्वहण-सन्धिः -
मुख-सन्ध्यादयो यत्र विकीर्णा बीज-संयुताः ।
महत्-प्रयोजनं यान्ति तन्-निर्वहणम् उच्यते

मूल पाठ: Nāṭakacandrikā · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc