भाषा

ENहिગુ
ग्रंथ पाठ

नाटकचन्द्रिका · श्लोक 108-127

108

अत्राङ्ग-कल्पनाकार्य-फलागम-समागमात् ।
राधादीनां तु सर्वासां कुमारीणाम् अवाप्तितः

109

उद्वाहाद्य्-उत्सवः प्रोक्तो यथा ललित-माधवे ।
सन्धिर् विरोधो ग्रह्तनं निर्णयः परिभाषणम्

110

प्रसादानन्द-समयाः कृतिर् भाषोपगूहने ।
पूर्व-भावोपसंहारौ प्रशस्तिश् च मनीषिभिः

111

इति निर्वहणस्याङ्गान्य् उक्तान्य् अस्य चतुर्दश ।
तत्र सन्धिः -
बीजोपगमनं सन्धिः...
यथा तत्रैव नवमेऽङ्के -
निह्नूतामृत-माधुरी-परिमलः कल्याणि बिम्बाधरौ
वक्त्रं पङ्कज-सौरभं कुहरित-श्लाघाभिदस् ते गिरः ।
अङ्कश् चन्दन-शीतलस् तनुर् इयं सौन्दर्य-सर्वस्व-भाक्
त्वाम् आसाद्य ममेदम् इन्द्रिय-कुलं राधे मुहुर् मोदते ॥ (9.9)
अत्रानुराग-बीजोपगमनात् सन्धिः ।
अथ विरोधः -
... विरोधः कार्य-मार्गणम्

112

यथा तत्रैव नवमाङ्के नव-वृन्दा --
माधवी-विरहितां मधुवीरः
कुण्डिनेश्वर-सुतां निशमय्य ।
नन्दयन् स्फुरद्-अमन्द-विलासैर्
हासकन्दल-लसन्-मुखम् आह ॥ (9.7)
सत्याख्यस्य विलोकाय लोकस्यात्म-भुवार्थितः ।
प्रतिष्ठासुरहं देवि तत्रानुज्ञा विधीयताम् ॥ (9.8)
अत्र राधा-सङ्गम-कार्यस्य मारणाद् विरोधः ।
अथ ग्रथनम् -
ग्रथनं सद्-उपेक्षेपः...
यथा तत्रैव राधिका (कृष्णं पश्यन्ती)
अंजलिम् एत्तं सलिलं सभरीए अहिलसंतीए ।
ओबरि सअं णअजलदा धारावरिसी समुल्लसई ॥ 9.19
[अञ्जलि-मात्रं सलिलं शफर्या अहिलषन्त्या ।
उपरि स्वयं नवजलदो धारावर्षी समुल्लसति ॥]
अत्र पुनः सहसा कृष्ण-दर्शन-रूपस्य सद्-अर्थस्योपक्षेपाद् ग्रथनम् ।
अथ निर्णयः -
निर्णयस् त्व् अनुभूतोक्तिः

113

यथा तत्रैव कृष्णः -
नव-मदन-विनोदैः केलि-कुञ्जेषु राधे
निमिषवद् उपरामं काम आसेदुषीणाम् ।
उपचित-परितोष-प्रोषितापत्रपाणां
स्मरसि किम् इव तासां शारदीनां क्षपाणाम् ॥ (9.47)
अत्र स्पष्ट एव निर्णयः ।
अथ परिभाषणम् -
परिभाषा मिथो जल्पः परिवादोऽथवा भवेत्

114

तत्राद्यं यथा तत्रैव -
मधुमङ्गलः -भोदि किं ति आअदासि? [भवति किम् इत्य् आगतासि?]
सुकण्ठी - इमस्स पण्होत्तरस्स सदिक्खं अण्णं बि महुरं सुणिदुम् । [अस्य
प्रश्नोत्तरस्य सदृक्षम् अन्यद् अपि मधुरं श्रोतुम् ।]
मधुमङ्गलः -भोदि पण्णोत्तरं बि तुए सुणिदम्? [भवति प्रश्नोत्तरम् अपि
त्वया श्रुतम्]
सुकण्ठी - ण केअणं इदं ज्जेब । [न केवलम् इदम् एव ।]
मधुमङ्गलः -अबरं किं? [अपरं किम् ?]
सुकण्ठी - जा किं पि दिठ्ठं तं गदुअ देइए णिवेदिस्सं । [यत् किम् अपि दृष्टं तद्
गत्वा देव्यै निवेदयिष्यामि ।]
अत्र विदूषक-सुकण्ठ्योर् मिथो जल्पः । द्वितीयो यथा तत्रैव -
मधुमङ्गलः -(संस्कृतेन)
असि विषकण्ठी-कठिने किम् इति सुकण्ठीति भण्यते चेटि ।
अथवा का मम शस्ता भद्रेत्य् अभिधीयते विष्टिः ॥ 9.21
अत्र सुकण्ठ्याः दोष-दर्शनात् परीवादः ।
अथ प्रसादः -
शुश्रूषाद्य्-उपसम्पन्ना यत् प्रसादः प्रसन्नता

115

यथा नवमे -
कृष्णः (सहर्षम्) सुकण्ठिके! बाढम् अस्मिन्न् अर्थे दुष्करस् ते मया
निष्क्रयः ।
अत्र श्री-कृष्णस्य प्रसादः स्पष्ट एव ।
अथानन्दः -
आनन्दोऽभीष्ट-सम्प्राप्तिः...
यथा तत्रैव दशमे -
नयनयोः स्तनयोर् अपि युग्मतः
परिपतद्भिर् असौ पयसाञ्झिरैः ।
अहह वल्लव-राज-गृहेश्वरी
स्वतनयं प्रणयाद् अभिषिञ्चति ॥(10.14)॥
अत्र यशोदाया आनन्दः ।
यथा वा तत्रैव -
कृष्णः (सानन्दम्) चिरेणाद्य गोकुल-वासिनाम् इवात्मानम् अभिमन्यमानः
प्रमोद-मुग्धोऽस्मि ।
अत्र कृष्णस्यानन्दः ।
अथ समयः -
समयो दुःख-सङ्क्षयः

116

यथा तत्रैव दशमे -
राधिका (मुखाद् अञ्चलम् अपास्य, सविक्रोशम्) हा हा कधं पिअसही मे ललिदा ।
हा कधं बच्चला भअवदी । हा कधं अज्जिआ मुहरा । [हा हा कथं प्रियसखी
मे ललिता । हा कथं वत्सहा भगवती । हा कथं आर्या मुखरा ।] (इत्य् आनन्देन
घूर्णन्ती भूमौ स्खलति ।)
अत्र सुहृद्-दर्शनाद् राधाया दुःख-सङ्क्षयः ।
अथ कृतिः
लब्धार्थस्य कृतिः स्थैर्यम् ...
यथा तत्रैव चन्द्रावली (जनान्तिकम्) -
भअवदि बहिणीए करं गेण्हिदुं मह बअणेण अब्भत्थीअदु... अज्ज-उत्तो ।
[भगवति भगिन्याः करं ग्रहीतुं मम वचनेन अभ्यर्थ्यताम् आर्यपुत्रः ।]
अत्र यशोदादि-समागमाल् लब्ध्यस्य राधिका-रूपार्थस्य चन्द्रावली-प्रार्थनेन
स्थैर्य-कृतिः ।
अथ भाषणम् -
मानाद्याप्तिश् च भाषणम्

117

यथा तत्रैव -
(भगिन्यौ पौर्णमासीम् अन्तराकृत्य गोपेन्द्रं प्रणमतः)
नन्दः - वत्से, परस्परस्य प्राणाधिक्यं भजन्त्यौ सौभाग्यवत्यौ भूयासम् ।
अत्र नन्द-कृताशीर्वादादिमान-प्राप्त्या भाषणम् ।
अथोपगूहनम् -
अद्भुतार्थ-परिप्राप्तिर् उपगूहनम् उच्यते

118

यथ तत्रैव -
राधा (सर्वासां पादान् अभिवाद्य सोत्कण्ठम्) -- कुसलिणी किं मे बहिणी
चन्दाअली । [कुशलिनी किं मे भगिनी चन्द्रावली ।]
चन्द्रावली (गाढं परिष्वज्य) - बहिणी एसाम्हि दुज्जणी-हत-चन्दाअलिआ । [भगिनी,
एषास्मि दुर्जनी हत-चन्द्रावलिका ।] (इति रोदिति)
राधिका (सानन्दं ससम्भ्रमं पादयोः पतन्ती) हद्धि हद्धि, बिडम्बिदह्मि
हद-देब्बेण । [हा धिक्! हा धिक्!, विडम्बितास्मि हत-दैवेन ।]
अत्रादृष्ट-पूर्व-भगिन्योः परस्परालिङ्गनाद्य्-अद्भुतार्थ-परिप्राप्तिर्
उपगूहनम् ।
अथ पूर्व-भावः -
मुख्य-कार्यस्य संसर्गः पूर्व-भावः प्रकीर्तितः

119

यथा तत्रैव -
पौर्णमासी - यशोदा-मातः, उपस्थितोऽयं सर्वोऽभिषेक-सम्भारः । तद्
अलङ्क्रियतां प्रथमं राधया सह पर्व-वेदी ततः क्रमेण कुमारीभिश् च ।
अत्र मुख्य-कार्यस्य राधा-माधवयोः परिणय-महोत्सवस्य संसर्गात्
पूर्व-भावः । केचित् पूर्व-वाक्यं केचित् पूर्व-भाषाम् इति पठन्तो लक्षयन्ति
(साह्द् 6.113) - पूर्व-वाक्यं तु विज्ञेयं यथोक्तार्थोपदर्शनम् । यथा तत्रैव
(नेपथ्ये) -
विनीते राधायाः परिणय-विधानानुमतिभिः
स्वयं देव्या तस्मिन् पितुर् इह निबन्धे मुदितया ।
कुमारीणां तासाम् अयम् उपनयन् षोडश कृती
सहस्राणि स्मेरः प्रविशति शताढ्यानि गरुडः ॥ (10.31)
अत्र पूर्वं कृष्णेन तृतीयाङ्के यद् उक्तं एतास् तूर्णं नयत कियतीर् इत्य् आदिना
पुनः स्वयं गमनं तस्यैवोपदर्शनम् ।
अथोपसंहारः -
कृतार्थतोपसंहारः सर्वाभीष्टोपलक्सितः

120

यथा तत्रैव दशमे -
कृष्णः (सर्वम् अभिनन्द्य जनान्तिकम्) प्राणेश्वरि राधे प्रार्थयस्व किम् अतः
परं ते प्रियं करवाणि । (इत्य् आरभ्य)
राधिका (सानन्दम् संस्कृतेन) -
सख्यस् ता मिलिता निसर्ग-मधुर-प्रेमाभिरामीकृता
यामी मे समगंस् तु संस्तववती श्वश्रूश् च गोष्ठेश्वरी ।
वृन्दारण्य-निकुञ्ज-धाम्नि भवता सङ्गोऽयं रङ्गवान्
संवृत्तः किम् अतः परं प्रियतरं कर्तव्यम् अत्रास्मि मे ॥ (10.36) ॥
अत्र प्रकटम् एवोपसंहारः ।
अथ प्रशस्तिः -
मङ्गलाशंसनं सम्यक् प्रशस्तिर् अभिधीयते

121

यथा तत्रैव -
तथापीदम् अस्तु -
चिराद् आशा-मात्रं त्वयि विरचयन्तु स्थिर-धियो
विदध्युर् ये वासं मधुरिम-गभीरे मधुपुरे ।
दधानः कैशोरे वयसि सखितां गोकुल-पतेः
प्रपद्येथास् तेषां परिचयम् अवश्यं नयनयोः ॥ 10.37 ॥
अत्र माथुर-मञ्जुल-निबद्ध-वासानां नेत्र-पथे
कृष्णावाप्ति-रूप-मङ्गलाशंसनात् प्रशस्तिः ।
पञ्चानाम् एव सन्धीनां चतुषष्टिः क्रमाद् इह ।
कीर्तिरानि मयाङ्गानि सम्यग् ललित-माधवे

122

रस-भावानुबोधेन प्रयोजनम् अवेक्ष च ।
साफल्यं कार्यम् अङ्गानाम् इत्य् आचार्याः प्रचक्षते

123

केषांचिद् एषाम् अङ्गानां वैफल्यं केचिद् ऊचिरे ।
दशरूपक-काराद्यास् तत् सर्वेषां न सम्मतम्

124

मुखादि-सन्धिष्व् अङ्गानां क्रमोऽयं न विवक्षितः ।
क्रमस्यानादरादाद्यैः लक्ष्येषु व्युत्क्रमाद् अपि

125

अङ्गान् निष्पादयेद् एतान् नायका प्रतिनायका ।
तद्-अभावे पताकाद्यास् तद्-अभावे तथेतरः

126

अथ सन्ध्य्-अन्तराणि -
सुखादि-सन्धिष्व् अङ्गानाम् अशैथिल्याय सर्वदा ।
सन्ध्य्-अन्तराणि योज्यानि तच् च तत्रैकविंशतिः

127

साम-दाने भेद-दण्डौ प्रत्युत्पन्न-मतिर् वधः ।
गोत्र-स्खलितम् ओजश् च धीः क्रोधः साहसं भयम्

मूल पाठ: Nāṭakacandrikā · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc