भाषा

ENहिગુ
ग्रंथ पाठ

नाटकचन्द्रिका · श्लोक 67-86

67

यथा तत्रैव -
कृष्णः - सखे सत्यम् आशयैव कदर्थ्यमानोऽस्मि । यतः -
नीरे मङ्क्षु-मिमङ्क्षुम् आर्त-मुखराम् उद्दिश्य चण्ड-द्युतेर्
दूरान् मण्डलतः कृपातुरतया यत् प्रादुरासीत् तदा ।
हा धिग् वाग्-अमृतेन तेन जनितस् तस्याः पुनः सङ्गम-
प्रत्याशाङ्कुर उच्चकैर् मम सखे स्वान्तं हठाद् विध्यति ॥10॥
अत्र राधा-तिरोधानान् नष्टस्यानुराग-बीजस्य पुनः सूर्य-वचनेनानुस्मरणात्
परिसर्पः ।
अथ विधुतम् -
विधुतं कथितं दुःखम् अभीष्टार्थान् अवाप्तितः ।
अथवानुनयादीनां विधुतं स्यान् निराकृतिः

68

यथा तत्रैव तृतीयाङ्के -
राधा (साक्रन्दम्) -
निपीता न स्वैरं श्रुति-पुटिकया नर्म-भणितिर्
न दृष्टा निःशङ्कं सुमुखि मुख-पङ्केरुह-रुचः ।
हरेर् वक्षः-पीठं न किल घनम् आलिङ्गितम् अभूद्
इति ध्यायं ध्यायं स्फुटति लुठद् अन्तर् मम मनः ॥ (3.26)
अत्र प्रकटम् एव दुःखं विधुतम् । यथा वा तत्रैव -
पौर्णमासी: समाकर्णय वर-वर्णिनी-वर्णितम् (नेपथ्ये) -
नाश्वासनं विरचय त्वम् इदं हताशो
शुष्यन्-मुखी मम गुणं परिकीर्तयन्ती ।
दूराद् अमार्दव-भृतोऽपि मुहुः क्षमायाः
कुक्षिं विदारयति पश्य रथाङ्ग-नेमिः ॥ (3.17)
अत्र विशाखा-कृतानुनयस्य राधया ग्रहणाद् विधुतम् ।
अथ शमः -
अरतेः शमनं धीरैः शम इत्य् अभिधीयते

69

यथा तत्रैव चतुर्थेऽङ्के -
वृन्दा - नागरेन्द्र! मुञ्च वैमनस्यम् । साम्प्रतं भवद्-अभीष्ट-सिद्धये
शारिकामुखेन ललितां सन्दिश्य विशाखया भवन्तं निवेदयिष्यामि ।
अत्र जटिलया राधायां नीतायां वृन्दया माधवस्यारति-शमनाच् छमः ।
अपठित्वा शमं कश्चित् स पठत्य् अत्र तापनम् ।
तथा हि (साहित्य-दर्पणम् 6.91),
उपायादर्शनं यत् तु तापनं नाम तद् भवेत् ॥ इति ।
यथा तृतीयेऽङ्के -
वृन्दा - हा धिक्, हा हा धिक् । पश्य -
न वक्तुं नावक्तुं पुर-गमन-वार्तां मुरभिदः
क्षमन्ते राधायै कथम् अपि विशाखा-प्रभृतयः ।
समन्ताद् आक्रान्ता निविड-जडिम-श्रेणिभिर् इमाः
परं कर्णाकर्णि-व्यवसितिम् अधीरो विदधति ॥ (3.12)
अत्रोपाय-दर्शनं प्रकटम् एव ।
अथ नर्म -
परिहास-प्रधानं यद् वचनं नर्म तद् विदुः

70

यथा तत्रैव चतुर्थेऽङ्के -
जटिला (नासिकाग्रे तर्जनीं विन्यस्य स्थिता धुन्वन्ती साश्चर्यम्) अरे
बालिआ-भुजङ्ग! कं डंसिदुं एत्थ भम्मसि । [अरे बालिका-भुजङ्ग! कां
डंशितुम् अत्र भ्राम्यसि ।]
माधवः - लम्बोष्ठि! भवतीम् एव गोष्ठ-पिशाचीम् ।
अत्र प्रकटम् एव नर्म ।
अथ नर्म-द्युतिः -
नर्म-जाता रुचिः प्राज्ञैः नर्म-द्युतिर् उदाहृता

71

यथा तत्रैव -
ललिता (स्मित्वा) अपि सरले, तुज्झ हिअए कत्थूरिआपत्तभंगं लिहन्तीए मए
पच्चक्खीकिदा सिविण-संगिणाअर-कुंजर बिब्भमासि । ता फुडं कधेहि,
तैअजणसंगजोग्गे तस्मिं ओसरे दीहसुत्ता नीवी-सहअरी झत्ति णिक्कन्ता ण वेत्ति । [अयि
सरले! तव हृदये कस्तूरिकापत्र-भङ्गं लिखन्त्या मया प्रत्यक्षीकृता
स्वप्न-सङ्गिनागर-कुञ्जर-विभ्रमासि । तत् स्फुटं कथय । तृतीय-जन-संयोग्ये
तस्मिन्न् अवसरे दीर्घ-सूत्रा नीवी-सहचरी झटिति निष्क्रान्ता न वेति ]
राधिका (स्वगतम्) कधं तक्किदं अक्खिधुत्ताए । (प्रकाशम्,
स-भ्रू-भङ्गम्) वामे, कित्ति अलिअं आसंकसि? [कथं तर्कितम् अतिधूर्तया? वामे,
किम् इत्य् अलीकम् आशङ्कसे?] (अच्त् 4, परस्. 92-93)
अत्र ललिता-नर्म-जातया राधाया रुच्या धृत्या वा नर्म-द्युतिः ।
अथ प्रगमणम् -
उत्तरोत्तर-वाक्यं तु भवेत् प्रगमनं पुनः

72

यथा तत्रैव -
राधा -
बअ-णरवई-णन्दणं सबन्धुं,
रह-पबरोबरि पेक्खिअ फ्फुरन्तम् ।
[व्रज-नृपति-नन्दनं सबन्धुं
रथ-प्रवरोपरि प्रेक्ष्य स्फुरन्तम्]
स्खलति मम वपुः कथं धरित्री
भ्रमति कुतः किम् अमी नटन्ति नीपाः ॥ (3.14)
ललिता - सहि राहे, मा विसीद । पब्बद-परिक्कमोबक्कमो एसो । [सखि राधे, मा
विषीद, पर्वत-परिक्रमोपक्रम एषः ।]
राधिका -
सहचरि, परिज्ञातं सद्य समस्तम् इदं मया
पटिम-पञलैस् त्वं निह्नोतुं कियत् प्रभविष्यसि ।
विरम कृपणे भावी नायं हरेर् विरह-क्लमो
मम किम् अभवन् कण्ठे प्राणा मुहुर् निरपत्रपाः ॥ (3.15)
इत्य् अत्र राधा-ललितयोर् उत्तरोत्तरं प्रगमनम् ।
अथ विरोधः -
यत्र व्यसनम् आयाति विरोधः स निगद्यते

73

यथा तत्रैव -
राधिका -
चेतः खिन्न-जने हरेः परिणतं कारुण्य-वीची-भरैर्
इत्य् आभीर-नत-भ्रुवां त्वै भवद् आलोक-सम्भावना ।
मर्म-ग्रन्थ-विकृन्तन-व्यसनिनी तं तादृशं वैरिणी
क्रूरेयं विरह-व्यथा न सहते मद्-भाग-धेयोत्सवम् ॥ (3.27)
अत्र स्पष्ट एव राधागमनेन विरोधः ।
अथ पर्युपासनम्
रुष्टस्यानुनयो धीरैः पर्युपासनम् ईरितम्

74

यथा तत्रैव चतुर्थे -
जटिला - ऐ अहिसारसग्गावेज्झाइणि ललिदे, एण्हिं पुत्तौ मे अहिमण्णु बिदूरे गदोत्थि,
ता सुण्णं घरं मुक्किअ कीस तुए आणीदा बहुडी । [अयि अभिसार-मार्गोपाध्यायिनि
ललिते! इदानीं पुत्रको मेऽभिमन्युर् विदूरे गतोऽस्ति । तत् शून्यं गृहं मुक्त्वा
कस्मात् त्वया नीतात्र वधूटी ?]
ललिता (सशङ्कम् आत्म-गतम्) हद्धी, डाइनीए अडाहिण-पैदीए ड्दहिठम्मि
बुठ्ठिआए । (प्रकाशम्) अय्ये गग्गीए भणिदं अज्ज माहबीपुप्फेहिं पूइदो सूरो
सुरहिकोड्प्पदो होदुत्ति माहबी-मण्डबं लंहिखदा मए राहिआ, ता प्पसीद
प्पसीद । [हा धिक्! डाकिन्या दक्षिण-प्रवृत्त्या दग्धास्मि वृद्धया । आर्ये, गार्ग्या
भणितम्, अद्य माधवी-पुष्पैः पूजितः सूर्यः सुरभि-कोटि-प्रदो भवति । इति
माधवी-मण्डपं लम्भिता मया राधिका । तत् प्रसीद प्रसीद ।
अत्र रुष्टाया जटिलाया ललितयाप्य् अनुनयात् पर्युपासनम् ।
अथ पुष्पम् -
परिशेषो विधानं यत् पुष्पं तद् इति संज्ञितम्

75

यथा तत्रैव तृतीये -
विदूरे कंसारिर् मुकुटित-शिखण्डावलिर् असौ
पुरे गौराङ्गीभिः कलित-परिरम्भो विलसति ।
(इति साभ्यसूयं पुनर् निरूप्य, सखेदम्)
न कान्तोऽयं शङ्के सुरपतिधनुर् धाम-मधुरस्
तडिल्-लेखाहारी गिरिम् अवललम्बे जलधरः ॥ (3.40)
अत्र पुनर् जलधरतया विशेष-ज्ञानात् पुष्पम् ।
अथ वज्रम् --
वज्रं तद् इति विज्ञेयं साक्षान् निष्ठुर-भाषणम्

76

यथा तत्रैव चतुर्थे -
जटिला (पृष्ठतः परिक्रम्य पुत्रस्य हस्तम् आकर्षन्ती साक्षेपम्) रे
गोउल-किसोरी-लंपडओ, अरे परघर-लण्ठनओ । कहं तुमं बि अप्पणो पुत्तं
मण्णिस्सदि जडिला ? [रे गोकुल-किशोरी-लम्पट, अरे परगृह-लुण्ठक । कथं
त्वाम् अप्य् आत्मनः पुत्रं मंस्यति जटिला ।]
अत्र जटिलायाः पुत्रं प्रति निष्ठुर-भाषणं वज्रम् ।
अथोपन्यासः -
युक्तिभिः सहितो योऽर्थः उपन्यासः स उच्यते

77

यथा तत्रैव तृतीये -
(नेपथ्ये)
अद्य प्राण-परार्धतोऽपि दयिते दूरं प्रयाते हरौ
हा धिग् दुःसह-शोक-शङ्कुभिर् अभूद् विद्धान्तरा राधिका ।
तेनास्याः प्रतिषेधम् अर्थ-चरिते त्वं मा कृथा मा कृथाः
क्षीणेयं क्षणम् अत्र सुष्ठु विलुठत्य् आर्त-स्वरं रोदितुम् ॥ (3.29)
अत्र युक्ति-सहितार्थता प्रकटैव । केचित् उपन्यासः प्रसादनम् इति (साह्द् 6.93)
वदन्ति । तत्रोदाहरणं चतुर्थे -
जटिला - कुलपुत्ति, सिरेण मे साबिदासि । [कुलपुत्रि, शिरसा मे शापितासि ।]
अत्र जटिलायाः राधा-प्रसादनम् ।
अथ वर्ण-संहारः -
सवर्णोपगमनं वर्ण-संहार इष्यते

78

यथा तत्रैव, चतुर्थे -
दैत्याचार्यस् तद्-आस्ये विकृतिम् अरुणतां मल्ल-वर्याः सखायो
गण्डौन्नत्यं खलेशाः प्रलयम् ऋषि-गणा ध्यान-मुञ्चास्रम् अम्बा ।
रोमाञ्चं सांयुगीनाः कम् अपि नव-चमत्कारम् अन्तः सुरेन्द्राः
लास्यं दासाः कटाक्षं ययुर् असित-दृशां प्रेक्ष्य रङ्गे मुकुन्दम् ॥ (4.4)
अत्र दैत्याचार्य-नारदादयः ब्राह्मणाः क्षितीश-सांयुगीनादयः क्षत्रियाः,
मल्ला दासादयो वैश्याः शूद्रादयश् च इति वर्ण-संहारः ।
अथ गर्भ-सन्धिः -
दृष्टादृष्टस्य बीजस्य गर्भो हास-गवेषणात् ।
द्वादशाङ्गो भवेद् एष पताकांशानुसारतः

79

राजेन्द्रता प्रसङ्गेन हासो वन्दि-जनोक्तितः ।
पुनर् अन्वेषणं जातं प्रसेनान्वेषणात्

80

ह्रासोद्भूः पुनर् अन्वेष्टिर् ललिता-दर्शनाद् अभूत् ।
हरेः प्रणय-बीजस्य यथा ललित-माधवे

81

अभूताहरणं मार्गो रूपोदाहरणे क्रमः ।
सङ्ग्रहश् चानुमानं च तोटकाधिबले तथा

82

उद्वेगः सम्भ्रमाक्सेपावेषां लक्षणम् उच्यते ।
तत्राभूताहरणम् -
अभूताहरणम् तत् स्याद् वाक्यं यत्-कपटाश्रयम्

83

यथा तत्रैव पञ्चमेऽङ्के -
विरचयन् जनईम् अतिविस्मितां
भुज-चतुस्टयवान् अजनिष्ट यः ।
स भगिनीं तव शूरसुतात्मजो
यदु-वरः परिणेष्यति रुक्मिणीम् ॥ (5.9)
अथ कपट-वाक्यम् इदम् अभूताहरणम् ।
अथ मार्गः -
मार्गस् तत्त्वार्थ-कथनम्...
यथा तत्रैव -
कृष्णः (पत्रिकां वाचयित्वा)
[*व्.ल्. fओर् कृष्णः: नारदः]
निखिला शिखिनि नयन्न् अपि सुखानि जात्यासितापाङ्गी ।
रमयति कृष्णः सुघनो वृन्दावन-गन्धिनीर् एव ॥ (5.10)
अत्र हरिणा हृदयत्व-प्रकटनान् मार्गः ।
अथ रूपम् -
... रूपं वाक्यं वितर्कवत्

84

यथा तत्रैव -
कृष्णः (सानन्दम्) - सखे, कथम् अनुभूत-पूर्वेव कापि शिञ्जित-सरणी प्रसह्य
माम् आद्रीकरोति ।
[*नोते: कृष्णःसाशङ्कम्]
अत्र चन्द्रावली-नूपुरादि-शिङ्जित-श्रवणात् कृष्णस्य वितर्को रूपम् ।
अथोदाहरणम् -
सोत्कर्षं वचनं यत् तु तद् उदाहरणं मतम्

85

यथा तत्रैव -
सुपर्णाः (निर्वर्ण्य सविस्मयम्) -
सौन्दर्याम्बु-निधेर् विधाय मथनं दम्भेन दुग्धाम्बुधेर्
गीर्वाणैर् उदहारि हारि परितो या सार-सम्पन्-मयी ।
सा लक्ष्मीर् अपि चक्षुषां चिर-चमत्कार-क्रिया-चातुरीं
धत्ते हन्त तथा न कान्तिभिर् इयं राज्ञः कुमारी यथा ॥ (5.30)
अत्र चन्द्रावली-रूपोत्कर्ष-कथनम् उदाहरणम् ।
अथ क्रमः -
भाव-ज्ञानं क्रमो यद् वा चिन्त्यमानार्थ-सङ्गतिः

86

यथा षष्ठे -
नववृन्दा (स्वगतम्) -
जनित-कमल-लक्ष्मी-विभ्रमे नेत्रवीथीं
गतवति चिर-कालाद् अंशुके कंस-हन्तुः ।
अलघुभिर् अपि यत्नैर् दुस्तरां संवरीतुं
विकृतिम् अतुल-बाधां हन्त राधा दधाति ॥ (6.25)
अत्र नव-वृन्दाया राधाया भाव-ज्ञानात् चित्न्यमान-हरि-चिह्नस्य राधया
दर्शनाद् वा क्रमः ।
अथ सङ्ग्रहः -
सङ्ग्रहः सामदानार्थ-संयोगः परिकीर्तितः

मूल पाठ: Nāṭakacandrikā · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc